नवदुर्गा स्तुतिः

नवदुर्गा स्तुतिः

१. शैलपुत्री (मूलाधारचक्र) ध्यानं - वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥ पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् । पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् । कमनीयां लावण्यस्नेहमुखीं क्षीणमध्यां नितम्बनीम् ॥ स्तोत्रम् - प्रथमदुर्गा त्वं हि भवसागरतारिणी । धन ऐश्वर्यदायिनी शैलपुत्री प्रणमाम्यहम् ॥ त्रिलोकजननी त्वं हि परमानन्दप्रदायिनी । सौभाग्यारोग्यदायनी शैलपुत्री प्रणमाम्यहम् ॥ चराचरेश्वरी त्वं हि महामोहविनाशिनी । भुक्तिमुक्तिदायनी शैलपुत्री प्रणमाम्यहम् ॥ कवचम् - ओङ्कारः मे शिरः पातु मूलाधारनिवासिनी । ह्रीङ्कारः पातु ललाटे बीजरूपा महेश्वरी ॥ श्रीकारः पातु वदने लज्जारूपा महेश्वरी । हूङ्कारः पातु हृदये तारिणी शक्तिः स्वधृता ॥ फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा । २. ब्रह्मचारिणी (स्वाधिष्ठानचक्र) दधाना करपद्माभ्यामक्षमालाकमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ ध्यानं - वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । जपमालाकमण्डलुधरां ब्रह्मचारिणीं शुभाम् । गौरवर्णां स्वाधिष्ठानस्थितां द्वितीयदुर्गां त्रिनेत्राम् । धवलवर्णां ब्रह्मरूपां पुष्पालङ्कारभूषिताम् । पद्मवदनां पल्लवाधरां कान्तङ्कपोलां पीनपयोधराम् । कमनीयां लावण्यां स्मेरमुखीं निम्ननाभिं नितम्बनीम् ॥ स्तोत्रं - तपश्चारिणी त्वं हि तापत्रयनिवारिणी । ब्रह्मरूपधरां ब्रह्मचारिणीं प्रणमाम्यहम् ॥ नवचक्रभेदिनी त्वं हि नव ऐश्वर्यप्रदायिनी । धनदां सुखदां ब्रह्मचारिणीं प्रणमाम्यहम् ॥ शङ्करप्रिया त्वं हि भुक्ति-मुक्तिदायिनी । शान्तिदां मानदां ब्रह्मचारिणीं प्रणमाम्यहम् । कवचम् - त्रिपुरा मे हृदयं पातु ललाटं पातु शङ्करभामिनी अर्पणा सदा पातु नेत्रौ अधरौ च कपोलौ ॥ पञ्चदशी कण्ठं पातु मध्यदेशं पातु माहेश्वरी षोडशी सदा पातु नभो गृहो च पादयो । अङ्गप्रत्यङ्गं सततं पातु ब्रह्मचारिणी ॥ ३. चन्द्रघण्टा -(मणिपुरचक्र) पिण्डजप्रवरारूढा चन्द्रकोपास्त्रकैर्युता । प्रसादं तनुतां मह्यं चन्द्रघण्टेति विश्रुता ॥ ध्यानं - वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । सिंहारूढां दशभुजाञ्चन्द्रघण्टां यशस्वनीम् ॥ कञ्जनाभां मणिपुरस्थितां तृतीयदुर्गां त्रिनेत्राम् । खड्गगदात्रिशूलचापधरां पद्मकमण्डलुमालावराभयकराम् । पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् । मञ्जीर-हार-केयूर-किङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवन्दनां बिम्बाधारां कान्तङ्कपोलां तुङ्गकुचाम् । कमनीयां लावण्यां क्षीणकटिं नितम्बनीम् ॥ स्त्रोत्रः- आपदुद्धारिणी त्वं हि आद्याशक्तिः शुभा परा । अणिमादिसिद्धिदात्रि चन्द्रघण्टे प्रणमाम्यहम् ॥ चन्द्रमुखी इष्टदात्री इष्टमन्त्रस्वरूपणी । धनदात्र्यानन्ददात्री चन्द्रघण्टे प्रणमाम्यहम् ॥ नानारूपधारिणी इच्छामयी ऐश्वर्यदायनी । सौभाग्यारोग्यदायनी चन्द्रघण्टे प्रणमाम्यहम् ॥ कवचः- रहस्यं श‍ृणु वक्ष्यामि शैवेशि कमलानने । श्रीचन्द्रघण्टाकवचं सर्वसिद्धिप्रदायकम् ॥ विना न्यासं विना विनियोगं विना शापोद्धारं विना होमम् । स्नानं शौचादिकं नास्ति श्रद्धामात्रेण सिद्धिदम् ॥ कुशिष्याय कुटिलाय वञ्चकाय निन्दाकाय च । न दातव्यं न दातव्यं न दातव्यङ्कदाचन ॥ ४. कूष्माण्डा (अनाहतचक्र) सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे ॥ ध्यानं - वन्दे वाञ्छितकामर्थं चन्द्रार्धकृतशेखराम् । सिंहारूढामष्टभुजां कुष्माण्डां च यशस्विनीम् ॥ भास्वरां भानुनिभामनाहतस्थितां चतुर्थदुर्गां त्रिनेत्राम् । कमण्डलुचापबाणपद्मसुधाकलशचक्रगदाजपवटीधराम् ॥ पटाम्बरपरिधानां कमनीयां मृदुहास्या नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् । प्रफुल्लवदनां चारुचिबुकां कान्तकपोलां तुङ्गकुचाम् । कोलाङ्गीं स्मेरमुखीं क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥ स्त्रोत्रः- दुर्गतिनाशिनी त्वं हि दारिद्र्यादिविनाशिनी । जयदा धनदा कूष्माण्डे प्रणमाम्यहम् ॥ जगन्माता जगत्कर्त्रि जगदाधाररूपिणी । चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम् ॥ त्रैलोक्यसुन्दरी त्वं हि दुःखशोकनिवारिणी । परमानन्दमयी कूष्माण्डे प्रणमाम्यहम् ॥ कवचं - हसरै मे शिरः पातु कूष्माण्डा भवनाशिनी । हसलकरी नेत्रऽथ, हसरौश्च ललाटकम् ॥ कौमारी पातु सर्वगात्रे वाराही उत्तरे तथा । पूर्वे पातु वैष्णवी इन्द्राणी दक्षिणे मम । दिग्दिक्षु सर्वत्रैव कूम्बीजं सर्वदाऽवतु ॥ ५. स्कन्दमाता (विशुद्धचक्र) सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ ध्यानम् - वन्दे वाञ्छितकामार्थे चन्द्रार्धकृतशेखराम् । सिंहारूढा चतुर्भुजा स्कन्धमाता यशस्वनी ॥ धवलवर्णा विशुद्धचक्रस्थिता पञ्चमदुर्गा त्रिनेत्रा । अभयपद्मयुग्मकरां दक्षिण ऊरुपुत्रधरां भजेऽम् ॥ पटाम्बरपरिधाना मृदुहास्या नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलधारिणीम् ॥ प्रभुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् । कमनीयां लावण्यां चारूत्रिवलीं नितम्बनीम् ॥ स्तोत्रम् - नमामि स्कन्दमातरं स्कन्धधारिणीम् । समग्रतत्त्वसागरामपारपारगहराम् ॥ शशिप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् । ललाटरत्नभास्करां जगत्प्रदीप्तभास्कराम् ॥ महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् । सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥ अतर्क्यरोचिरूविजां विकार दोषवर्जिताम् । मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वमूचिताम् ॥ नानालङ्कारभूषितां मृगेन्द्रवाहनाग्रताम् । सुशुद्धतत्त्वतोषणां त्रिवेदमारभाषणाम् ॥ ??मार सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् । शुभां सुपुष्पमालिनीं सुवर्णकल्पशाखिनीम् ॥ तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् । सहस्रसूर्यराजिकां धनञ्जयोग्रकारिकाम् ॥ सुशुद्धकालकन्दलां सुभृङ्गकृन्दमञ्जुलाम् । प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ॥ स्वकर्मधारणे गतिं हरिं प्रयच्छ पार्वतीम् । ??प्रयच्छ अनन्तशक्तिकान्तिदां यशोऽथ भुक्तिमुक्तिदाम् ॥ पुनःपुनर्जगद्धितां नमाम्यहं सुरार्चिताम् । जयेश्वरि त्रिलाचने प्रसीद देवि पाहि माम् ॥ कवचम् - ऐं बीजालिका देवी पदयुग्मधरा परा । हृदयं पातु सा देवी कार्तिकेययुता सती ॥ श्रीं ह्रीं हुं ऐं देवी पूर्वस्यां पातु सर्वदा । सर्वाङ्ग में सदा पातु स्कन्दमाता पुत्रप्रदा ॥ वाणवाणामृते हुं फट् बीजससमन्विता । उत्तरस्यां तथाग्ने च वारूणे नैरृतेऽवतु ॥ इन्द्राणी भैरवी चैवासिताङ्गी च संहारिणी । सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥ ६. कात्यायनी (आज्ञाचक्र) चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी च शुभदा देवी दानवघातिनी ॥ ध्यानम् - वन्दे वाञ्छितमनोरथार्थाय चन्द्रार्धकृतशेखराम् । सिंहारूढां चतुर्भुजां कात्यायनीं यशस्वनीम् ॥ स्वर्णवर्णामाज्ञाचक्रस्थितां षष्ठदुर्गां त्रिनेत्राम् । वराभीतकरां सगपदधरां कात्यायनसुतां भजामि ॥ पटाम्बरपरिधानां स्मेरमुखीं नानालङ्कारभूषिताम् । मञ्जीरहारकेयुरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रसन्नवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् । कमनीयां लावण्यां त्रिवलीविभूषितनिम्ननाभिम् ॥ स्तोत्रम् - काञ्चनाभां वराभयपद्मधरां मुकुटोज्ज्वलाम् । स्मेरमुखीं शिवपत्नीं कात्यायनसुते नमोऽस्तुते ॥ पटाम्बरपरिधानां नानालङ्कारभूषिताम् । सिंहास्थितां पद्महस्तां कात्यायनसुते नमोऽस्तुते ॥ परमानन्दमयी देवि परब्रह्म परमात्मा । परमशक्ति,परमभक्ति, कात्यायनसुते नमोऽस्तुते ॥ विश्वकर्त्रीं,विश्वभर्त्रीं,विश्वहर्त्रीं,विश्वप्रीताम् । विश्वचित्तां,विश्वातीतां कात्यायनसुते नमोऽस्तुते ॥ कां बीजा, कां जपानन्दा कां बीजजपतोषिता । कां कां बीजजपासक्तां कां कां सन्तुता ॥ ?? कां बीजजपसंस्तुताम् काङ्कारहर्षिणीं कां कां धनदां धनमानसाम् । कां बीजजपकारिणीं कां बीजतपमानसाम् ॥ कां कारिणीं कां सूत्रपूजितां कां बीजधारिणीम् । कां कीं कूं कैं कौं कः ठः छः स्वाहारूपणी ॥ कवचम् - कात्यायनी मुखं पातु कां कां स्वाहास्वरूपणी । ललाटं विजया पातु मालिनी नित्यसुन्दरी ॥ कल्याणी हृदयं पातु जया च भगमालिनी ॥ ७. कालरात्रि (भानु चक्र) एकवेणीजपाकर्णपुरानग्ना खरास्थिता । लम्बोष्ठीकर्णिकाकर्णीतैलाभ्यङ्गशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा । वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥ ध्यानम् - करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालरात्रिं करालीं च विद्युन्मालाविभूषिताम् ॥ दिव्यलौहवज्रखड्गवामाधोर्ध्वकराम्बुजाम् । अभयं वरदां चैव दक्षिणोर्ध्वाधः पाणिकाम् ॥ महामेघप्रभां श्यामां तथा च गर्दभारूढाम् । घोरदंष्ट्राकारालास्यां पीनोन्नतपयोधराम् ॥ सुखप्रसन्नवदनां स्मेराननसरोरुहाम् । एवं सञ्चियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम् ॥ स्तोत्रम् - ह्रीं कालरात्रिः श्रीं कराली च क्लीं कल्याणी कलावती । कालमाता कलिदर्पघ्नी कपदींशकृपन्विता ॥ कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनाऽऽर्तिनशिनी कुलकामिनी ॥ क्लीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी । कृपामयी कृपाधारा कृपापारा कृपागमा ॥ कवचम् - ॐ क्लीं मे हृदयं पातु पादौ श्रीं कालरात्रिः । ललाटं सततं पातु दुष्टग्रहनिवारिणी ॥ रसनां पातु कौमारी भैरवी चक्षुषी मम । कटौ पृष्ठे महेशानी कर्णौ शङ्करभामिनी । वर्जितानि तु स्थानानि यानि च कवचेन हि । तानि सर्वाणि मे देवी सततं पातु स्तम्भिनी ॥ ८. महागौरी (सोमचक्र) श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः । महागौरी शुभं दद्यान्महादेवप्रमोददा ॥ ॐ नमो भगवति महागौरि वृषारूढे श्रीं ह्रीं क्लीं हुं फट् स्वाहा । (भगवती महागौरी वृषभ के पीठ पर विराजमान हैं, जिनके मस्तक पर चन्द्र का मुकुट है । मणिकान्तिमणि के समान कान्ति वाली अपनी चार भुजाओं में शङ्ख, चक्र, धनुष और बाण धारण किए हुए हैं, जिनके कानों में रत्नजडित कुण्डल झिलमिलाते हैं, ऐसी भगवती महागौरी हैं।) ध्यान- वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम् । सिंहारूढां चतुर्भुजां महागौरीं यशस्वीनीम् ॥ पुर्णेन्दुनिभां गौरीं सोमवक्रस्थिआतां अष्टमदुर्गां त्रिनेत्राम् । वराभीतिकरां त्रिशूलडमरूधरां महागौरीं भजेऽहम् ॥ पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां त्रैलोक्यमोहनीम् । कमनीयां लावण्यां मृणालां चन्दनगन्धलिप्ताम् ॥ स्तोत्रम् - सर्वसङ्कटहन्त्री त्वं धनैश्वर्यप्रदायनी । ज्ञानदा चतुर्वेदमयी महागौरीं प्रणमाम्यहम् ॥ सुखशान्तिदात्रीं, धनधान्यप्रदायनीम् । डमरूवादनप्रियां महागौरीं प्रणमाम्यहम् ॥ त्रैलोक्यमङ्गला त्वं हि तापत्रयविनाशिनीं प्रणमाम्यहम् । वरदा चैतन्यमयी महागौरीं प्रणमाम्यहम् ॥ कवचम् - ओङ्कारः पातु शीर्षे मां, ह्रीं बीजं मां हृदये । क्लीं बीजं सदा पातु नभो गृहो च पादयोः ॥ ललाटकर्णौ हूं बीजं पातु महागौरी मां नेत्रघ्राणौ । कपोलचिबुकौ फट् पातु स्वाहा मां सर्ववदनौ ॥ ९. सिद्धिदात्री (निर्वाणचक्र) सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥ ध्यानम् - वन्दे वाञ्छितमनोरथार्थं चन्द्रार्धकृतशेखराम् । कमलस्थितां चतुर्भुजां सिद्धिदां यशस्वनीम् ॥ स्वर्णवर्णनिर्वाणचक्रस्थितां नवमदुर्गां त्रिनेत्राम् । शङ्खचक्रगदा पद्मधरां सिद्धिदात्रीं भजेऽहम् ॥ पटाम्बरपरिधानां सुहास्यां नानालङ्कारभूषिताम् । मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् । कमनीयां लावण्यां क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥ स्तोत्रम् - कञ्जनाभां शङ्खचक्रगदाधरां मुकुटोज्ज्वलाम् । स्मेरमुखि शिवपत्नि सिद्धिदात्रि नमोऽस्तु ते ॥ पटाम्बरपरिधानां नानालङ्कारभूषिताम् । नलिनस्थिता नलिनाक्षी सिद्धिदात्री नमोऽस्तु ते ॥ परमानन्दमयी देवी परब्रह्म परमात्मा । परमशक्ति परमभक्ति सिद्धिदात्री नमोऽस्तु ते ॥ विश्वकर्त्री विश्वभर्त्री विश्वहर्त्री विश्वप्रीता । विश्वार्चिता विश्वातीता सिद्धिदात्री नमोऽस्तु ते ॥ भुक्तिमुक्तिकारणी भक्तकष्टनिवारिणी । भवसागरतारिणी सिद्धिदात्री नमोऽस्तु ते ॥ धर्मार्थकामप्रदायिनी महामोहविनाशिनी । मोक्षदायिनी सिद्धिदात्री ऋद्धिदात्री नमोऽस्तु ते ॥ कवचम् - ओङ्कारः पातु शीर्षे मां, ऐं बीजं मां हृदये । ह्रीं बीजं सदा पातु नभो गृहो च पादयोः ॥ ललाटकर्णौ श्रीं बीजं पातु क्लीं बीजं मां नेत्रघ्राणौ । कपोलचिबुकौ हसौः पातु जगत्प्रसूत्यै मां सर्ववदने ॥ Proofread by PSA Easwaran
% Text title            : navadurgAstutikuNDalinI
% File name             : navadurgAstutikuNDalinI.itx
% itxtitle              : navadurgAstutiH (kuNDalinIchakrasthitA)
% engtitle              : navadurgAstutiH based on Kundalini chakra
% Category              : devii, durgA, devI, nava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (images, Information)
% Latest update         : September 29, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org