श्रीपीताम्बरीसहस्रनामस्तोत्रम्

श्रीपीताम्बरीसहस्रनामस्तोत्रम्

अथवा श्रीबगलामुखीसहस्रनामस्तोत्रम् अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् । सुरालयप्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १॥ श्रीदेव्युवाच परमेष्ठिन्परन्धाम प्रधान परमेश्वर । नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २॥ ईश्वर उवाच श‍ृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३॥ गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् । अतिगुप्ततरविद्या सर्वतन्त्रेषु गोपिता ॥ ४॥ विशेषतः कलियुगे महासिद्ध्यौघदायिनी । गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५॥ अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते । रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६॥ स्तम्भिनी राजसैन्यानावादिनी परवादिनाम् । पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७॥ सुन्दरीसहितो देवः केशवः क्लेशनाशनः । उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८॥ निद्राकाले च ते काले मया प्रोक्तः सनातनः । महास्तम्भकरन्देवि स्तोत्रवा शतनामकम् ॥ ९॥ सहस्रनाम परमवद देवस्य कस्यचित् । श्रीभगवानुवाच श‍ृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १०॥ अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः । गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११॥ ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥ अथ ध्यानम् पीताम्बरपरीधानां पीनोन्नतपयोधराम् । जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२॥ शत्रोर्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् । सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३॥ सृष्टिस्थितिविनाशानामादि भूतामहेश्वरीम् । गोप्या सर्वप्रयत्नेन श‍ृणु ताङ्कथयामि ते ॥ १४॥ जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् । तान्नमामि महामायामहदैश्चर्यदायिनीम् ॥ १५॥ प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् । बगलामुखी सर्वेति दुष्टानावाचमेव च ॥ १६॥ मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् । विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७॥ वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः । ब्रह्मास्त्रम्ब्रह्मविद्या च ब्रह्ममाता सनातनी ॥ १८॥ ब्रह्मेशी ब्रह्मकैवल्यबगला ब्रह्मचारिणी । नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥ १९॥ सन्धारिणी महामाया कटाक्षक्षेमकारिणी । कमला विमला नीला रत्नकान्तिगुणाश्रिता ॥ २०॥ कामप्रिया कामरता कामकामस्वरूपिणी । मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥ २१॥ कामिनी कामिनीकाम्या कामुका कामचारिणी । कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२॥ कामाख्या कामबीजस्था कामपीठनिवासिनी । कामदा कामहा काली कपाली च करालिका ॥ २३॥ कंसारिः कमला कामा कैलासेश्वरवल्लभा । कात्यायनी केशवा च करुणा कामकेलिभुक् ॥ २४॥ क्रियाकीर्त्तिः कृत्तिका च काशिका मथुरा शिवा । कालाक्षी कालिका काली धवलाननसुन्दरी ॥ २५॥ खेचरी च खमूर्त्तिश्च क्षुद्रा क्षुद्रक्षुधावरा । खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ॥ २६॥ गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी । गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ॥ २७॥ गन्धर्वा गन्धर्वकला गोपनी गरुडासना । गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥ २८॥ गौराङ्गी गोपिकामूर्त्तिर्गोपीगोष्ठनिवासिनी । गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ॥ २९॥ घोरघोरा घोररूपा घनश्रोणी घनप्रभा । दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्स्वना ॥ ३०॥ डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना । उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥ ३१॥ चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च । उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥ ३२॥ चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी । चतुर्भुजा प्रचण्डा च चराचरनिवासिनी ॥ ३३॥ क्षत्रप्रायश्शिरोवाहा छला छलतरा छली । क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥ ३४॥ जया च जयदुर्गा च जयन्ती जयदा परा । जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥ ३५॥ जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी । जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥ ३६॥ झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी । झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥ ३७॥ झञ्झरा झमुरी झारा झराझरतरा परा । झञ्झा झमेता झङ्कारी झणाकल्याणदायिनी ॥ ३८॥ ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया । टङ्कारी टिटिका टीका टङ्किनी च टवर्गगा ॥ ३९॥ टापा टोपा टटपतिष्टमनी टमनप्रिया । ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥ ४०॥ ठेकठासा ठकरती ठामिनी ठमनप्रिया । डारहा डाकिनी डारा डामरा डमरप्रिया ॥ ४१॥ डखिनी डडयुक्ता च डमरूकरवल्लभा । ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥ ४२॥ ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी । अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥ ४३॥ अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता । तारा तन्त्रावती तन्त्रतत्त्वरूपा तपस्विनी ॥ ४४॥ तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा । तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥ ४५॥ तन्त्रा यन्त्रार्च्चनपरा तलातलनिवासिनी । तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः ॥ ४६॥ स्थाणुप्रिया स्थपरा स्थिता स्थानप्रदायिनी । दिगम्बरा दयारूपा दावाग्नि दमनीदमा ॥ ४७॥ दुर्गा दुर्गापरा देवी दुष्टदैत्यविनाशिनी । दमनप्रमदा दैत्यदयादानपरायणा ॥ ४८॥ दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता । दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥ ४९॥ दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी । दया धरा च दमनी दर्भपत्रविलासिनी ॥ ५०॥ धरिणी धारिणी धात्री धराधरधरप्रिया । धराधरसुता देवी सुधर्मा धर्मचारिणी ॥ ५१॥ धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी । धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥ ५२॥ धन्वन्तरिधराधीरा ध्येया ध्यानस्वरूपिणी । नारायणी नारसिंही नित्यानन्दनरोत्तमा ॥ ५३॥ नक्ता नक्तावती नित्या नीलजीमूतसन्निभा । नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥ ५४॥ सुनीलपुष्पखचिता नीलजम्बुसमप्रभा । नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा ॥ ५५॥ नर्मदा नन्दनानन्दा नन्दानन्दविवर्द्धिनी । यशोदानन्दतनया नन्दनोद्यानवासिनी ॥ ५६॥ नागान्तका नागवृद्धा नागपत्नी च नागिनी । नमिताशेषजनता नमस्कारवती नमः ॥ ५७॥ पीताम्बरा पार्वती च पीताम्बरविभूषिता । पीतमील्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ॥ ५८॥ पीतपुष्पार्च्चनरता पीतपुष्पसमर्च्चिता । परप्रभा पितृपतिः परसैन्यविनाशिनी ॥ ५९॥ परमा परतन्त्रा च परमन्त्रा परात्परा । पराविद्या परासिद्धिः परास्थानप्रदायिनी ॥ ६०॥ पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता । पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥ ६१॥ पीतानितम्बिनी पीता पीनोन्नतपयस्तनी । प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी ॥ ६२॥ पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा । पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥ ६३॥ पावनी पालिका पात्री परदा वरदा शिवा । प्रेतसंस्था परानन्दा परब्रह्मस्वरूपुणी ॥ ६४॥ जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया । पशुमांसप्रिया पर्णा परामृतपरायणा ॥ ६५॥ पाशीनी पाशिका चापि पशुघ्नी पशुभाषिणी । फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥ ६६॥ परानन्दप्रदा वीणापशुपाशविनाशिनी । फूत्कारा फुत्परा फेणी फुल्लेन्दीवरलोचना ॥ ६७॥ फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी । स्फाटिका घुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥ ६८॥ वराङ्गना वरधरा वाराही वासुकी वरा । बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥ ६९॥ विद्याधरी विशालाक्षी काशीवासिजनप्रिया । वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी ॥ ७०॥ ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया । वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥ ७१॥ ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी । भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥ ७२॥ भवपारा भवधारा भाग्यवत्प्रियकारिणी । भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥ ७३॥ भवानी भैरवी भीमा भद्रकाली सुभद्रिका । भगिनी भगरूपा च भगमाना भगोत्तमा ॥ ७४॥ भगप्रिया भगवती भगवासा भगाकरा । भगसृष्टा भाग्यवती भगरूपा भगासिनी ॥ ७५॥ भगलिङ्गप्रिया देवी भगलिङ्गपरायणा । भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥ ७६॥ भगलिङ्गरता देवी भगलिङ्गनिवासिनी । भगमाला भगकला भगाधारा भगाम्बरा ॥ ७७॥ भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी । भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ॥ ७८॥ भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता । भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ॥ ७९॥ भगलिङ्गविरक्ता च भगलिङ्गसमावृता । माधवी माधवीमान्या मधुरा मधुमानिनी ॥ ८०॥ मन्दहासा महामाया मोहिनी महदुत्तमा । महामोहा महाविद्या महाघोरा महास्मृतिः ॥ ८१॥ मनस्विनी मानवती मोदिनी मधुरानना । मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥ ८२॥ मल्लिका मौलिका माला मालाधरमदोत्तमा । मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया ॥ ८३॥ मत्तहंसासमोन्नासा मत्तसिंहमहासनी । महेन्द्रवल्लभा भीमा मौल्यञ्च मिथुनात्मजा ॥ ८४॥ महाकाल्या महाकाली महाबुद्धिर्महोत्कटा । माहेश्वरी महामाया महिषासुरघातिनी ॥ ८५॥ मधुराकीर्त्तिमत्ता च मत्तमातङ्गगामिनी । मदप्रिया मांसरता मत्तयुक्कामकारिणी ॥ ८६॥ मैथुन्यवल्लभा देवी महानन्दा मह्वोत्सवा । मरीचिर्मारतिर्माया मनोबुद्धिप्रदायिनी ॥ ८७॥ मोहा मोक्षा महालक्ष्मीर्महत्पदप्रदायिनी । यमरूपा च यमुना जयन्ती च जयप्रदा ॥ ८८॥ याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी । रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥ ८९॥ रत्नसिंहासनस्था च रत्नाभरणमण्डिता । रमणी रमणीया च रत्यारसपरायणा ॥ ९०॥ रतानन्दा रतवती रधूणाङ्कुलवर्द्धिनी । रमणारिपरिभ्राज्या रैधाराधिकरत्नजा ॥ ९१॥ रावी रसस्वरूपा च रात्रिराजसुखावहा । ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥ ९२॥ रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका । लक्ष्मीर्ल्लज्जा लतिका च लीलालग्नानिताक्षिणी ॥ ९३॥ लीला लीलावती लोमाहर्षाह्लादनपट्टिका । ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ॥ ९४॥ ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी । वेदाङ्गना वेदरूपा वनिता विनता वसा ॥ ९५॥ बाला च युवती वृद्धा ब्रह्मकर्मपरायणा । विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा ॥ ९६॥ विद्यावती वेदधारी व्यापिका बर्हिणी कला । वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९७॥ वामाचाररता देवी वामदेवप्रियोत्तमा । बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥ ९८॥ बन्धमोचनकर्त्री च वारुणा वरुणालया । शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥ ९९॥ शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा । शुक्लस्था शुक्लिनी शुक्लरूपशुक्लपशुप्रिया ॥ १००॥ शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका । षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥ १०१॥ षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका । षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥ १०२॥ षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया । षङ्गवादा षोडशी च षोढान्यासस्वरूपिणी ॥ १०३॥ षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी । षोडशस्वररूपा च षण्मुखी षड्रदान्विता ॥ १०४॥ सनकादिस्वरूपा च शिवधर्मषरायणा । सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥ १०५॥ सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी । हरा हरिप्रिया हारा हरिणी हारयुक् तथा ॥ १०६॥ हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया । हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ॥ १०७॥ क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा । क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८॥ अजानन्ता अपर्णा च अहल्याशेषशायिनी । स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥ १०९॥ अरूपा अमला चार्द्धा अनन्तगुणशालिनी । स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥ ११०॥ अपराजिता जातवेदा अजपा अमरावती । अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११॥ अष्टसिद्धिप्रदा देवी रूपलक्षणसंयुता । अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२॥ आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी । सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३॥ इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी । इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४॥ ईला कामनिवासा च ईश्वरीश्वरवल्लभा । जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् ॥ ११५॥ उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी । उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६॥ उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा । उद्यानवासिनी माला प्रशस्तमणिभूषणा ॥ ११७॥ उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी । उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८॥ ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी । उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९॥ एला एकारविद्या च एणीविद्याधरा तथा । ओङ्कारवलयोपेता ओङ्कारपरमा कला ॥ १२०॥ ओंवदवदवाणी च ओङ्काराक्षरमण्डिता । ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१॥ ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी । प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२॥ ओङ्कारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता । अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३॥ प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः । ह्रीङ्काररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४॥ हृल्लेखा सिद्धि योगा च हृत्पद्मासनसंस्थिता । बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी ॥ १२५॥ क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा । क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६॥ कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता । श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७॥ ओं ऐं क्लींह्रींश्रीम्परा च क्लीङ्कारी परमा कला । ह्रीङ्क्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८॥ सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा । सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९॥ सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी । गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३०॥ सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी । सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१॥ सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी । सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२॥ मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता । अकारादिक्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी ॥ १३३॥ पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी । स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४॥ अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा । तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५॥ नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च । वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६॥ मातङ्गी मधुमत्ता च अणिमा लघिमा तथा । सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७॥ रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता । स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८॥ सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता । प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका ॥ १३९॥ पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा । अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४०॥ द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा । आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१॥ खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा । भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२॥ कुलेश्वरी कुलवती कुलाचारपरायणा । कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी ॥ १४३॥ कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः । क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४॥ उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी । साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५॥ काली कराली काल्या च कलादैत्यविनाशिनी । कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका ॥ १४६॥ जयिनी जययुक्ता च जयदा जृम्भिनी तथा । स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥ १४७॥ ज्योतिर्भूता च जयदा ज्वालामालासमाकुला । भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८॥ अश्विनी भरणी चैव नक्षत्रसम्भवानिला । काश्यपी विनता ख्याता दितिजादितिरेव च ॥ १४९॥ कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी । सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५०॥ दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च । अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१॥ ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका । चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२॥ चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा । चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३॥ धात्री विधात्री मिथुना नारी नायकवासिनी । सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४॥ ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा । नील्या सरस्वती सात्वम्बगला छिन्नमस्तका ॥ १५५॥ सर्वेश्वरी सिद्धविद्या परा परमदेवता । हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६॥ हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा । जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७॥ जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा । जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८॥ ज्ञानदानकरी यज्ञा जानकी जनकप्रिया । जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९॥ विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी । विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६०॥ मन्त्ररूपा परा देवी तथैव गुरुरूपिणी । गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥ १६१॥ विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी । बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२॥ शूलिनी शूलहस्ता च वज्रा वज्रहरापि च । दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३॥ सर्वलोकप्रणेत्री च सर्वरोगहरापि च । मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४॥ विश्वेश्वरी विश्वमाता ललिता वसितानना । सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५॥ सर्वदेवमयी देवी सर्वागमभयापहा । ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६॥ योगिनी योगमाता च योगीन्द्रहृदयस्थिता । योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७॥ इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया । विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८॥ भववेषा कामिनी च भरुण्डा भयकारिणी । बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९॥ पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी । सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७०॥ मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी । सावित्री च महादेवी परप्रियनिनायिका ॥ १७१॥ यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा । चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२॥ चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी । सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३॥ महाभोगवती देवी महामोक्षप्रदायिनी । विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४॥ धात्री च सर्वलोकानां हितकारणकामिनी । कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५॥ सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च । परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६॥ इति ते कथितन्देवि पीतानाम सहस्रकम् । पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये ॥ १७७॥ इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् । प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८॥ एकचित्तः पठेदेतत्सर्वसिद्धिर्भविष्यति । एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९॥ द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् । त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८०॥ स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते । मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् ॥ १८१॥ विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् । महित्ववत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२॥ क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् । यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥ गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः । गोपनीयम्प्रयत्नेन जननीजारवत्सदा ॥ १८४॥ हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् । य इदम्पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५॥ जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्भवेत् । सत्यं सत्यं महादेवि सत्यं सत्यन्न संशयः ॥ १८६॥ स्तवस्यास्य प्रभावेण देवेन सह मोदते । सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् ॥ १८७॥ पीताम्बरपरीधाना पीतगन्धानुलेपना । परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि ॥ १८८॥ इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ॥
The original text is from Muktabodha Indological Research Institute www.muktabodha.org Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949 Reproofread by DPD pItAmbarI is also known as bagalAmukhI
% Text title            : pItAmbarIsahasranAmastotra
% File name             : pItAmbarIsahasranAmastotra.itx
% itxtitle              : pItAmbarIsahasranAmastotram athavA bagalAmukhIsahasranAmastotram
% engtitle              : Shripitambarisahasranamastotram
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  kumAryAdipaMchAyatanadevatAnAM tantraishcha samalaMkRitaH  From Muktabodha Indological Research Institute www.muktabodha.org  Data-entered by the staff of Muktabodha under the direction of Mark S. G.  Dyczkowski.  Reprint of edition published in 1892.  Revision 0 february 9, 2009
% Transliterated by     : Muktabodha.org
% Proofread by          : Muktabodha.org, DPD
% Description-comments  : From Shaktapramoda kAlyAdidashamahAvidyAtantrAtmakaH
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : May 2, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org