श्रीपीताम्बरारत्नावलीस्तोत्रम्

श्रीपीताम्बरारत्नावलीस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीपीताम्बरायै नमः । ओङ्कारद्वयसम्पुटान्तरपुटं मायास्थिराद्वन्द्वितं तन्मध्ये बगलामुखीति विमलं सम्बोधनं सर्वं च । दुष्टानामथ वाचमाशु च मुखं सस्तम्भयेत्यक्षरं जिह्वां कीलय कीलयेति च लिखेद्बुद्धि तथा नाशय ॥ १॥ ब्रह्मास्त्रं सकलार्थसिद्धिजनकं षट्त्रिंशदर्णात्मक- म्प्रोक्तं पद्मभुवां हिताय जगतां यन्नारदाग्रे पुरा । जीवन्मुक्तपदे विभान्ति सुधियो येषां मुखे भासते निर्द्वन्द्वामृतसागरेन्दुकिरणाहाराश्चकोरास्तु ते ॥ २॥ ओमित्यादिस्वरूपं जपति तव शिवे शब्दतन्मात्रगर्भा- वाचो यस्मात् परार्थप्रकटितपटवो वर्णरूपा निरीयुः । ब्रह्माद्यैः पञ्चतत्वैः परिवृतमनधं चित्प्रबोधाधिगम्यं दुर्ज्ञेयं योगयुक्तैः कथमपि मनसा योगिभिर्गृह्यमाणम् ॥ ३॥ ह्लीं बीज हृदियस्य भाति विमलं लक्ष्मीः स्थिरा तद्गृहे धैर्यं तस्य कलेवरेऽपि विशते दीर्घायुषो भूतले । कल्पान्तेष्वपि वृद्धिमेति विमला तद्वंशवल्ली परा शौर्यं स्थैर्यमुपैति तस्य पुरतस्त्रस्यन्ति वादीश्वरा ॥ ४॥ बद्धुं वारिधिमुद्यतो जनकजानाथोऽपि पीताम्बरे ! त्वां ध्यात्वाऽर्णवशोषणे कृतमतिः सेतु प्रचक्रे द्रुतम् । जित्वा रावणमुग्रशत्रुमबलान् बन्दीन् विमुच्याऽमरान् कीर्त्तिं लोकसुखोदयां व्यरचयत् कल्पस्थिरामम्बिके ॥ ५॥ गर्वी खर्वति रङ्कति क्षितिपतिर्मूकायते वाक्पति- र्वह्निः शीतति दुर्जनः सुजनते पुष्पायते वासुकिः । श्रीनित्ये बगले तवाक्षरपदैर्यन्त्रीकृता यन्त्रिताः के के नो निपतन्ति स्रस्तमुकुटाश्चन्द्रार्कतुल्या अपि ॥ ६॥ लावण्यामृतपूरिते तव कृपापाङ्गे निमग्ना नरा बह्मेशादिदिगीशवृन्दमपि ते जानन्ति गुञ्जोपमम् । येषां चेतसि संस्थिताऽसि बगले ! ते विश्वरक्षाक्षमाः प्रारब्धं द्रढयन्ति सत्वरतरं विघ्नैरविघ्नीकृताः ॥ ७॥ मुख्यत्वं समुपैति संसदि तवाऽपाङ्गावलोके नरः किं तच्चित्रमहो स्वयं प्रभवते सृष्टिस्थितिध्वंसने । यश्चित्ते तव ``भातिमामक इति'' त्वद्दर्शनं यस्य वा तं सर्वा ह्यणिमादयोऽप्यतितरामाराधयन्ते ध्रुवम् ॥ ८॥ क्षीणानां बलदायिनीं जलनिधौ पोतस्थिता नाविकां तत्त्राणं घनकुञ्जगह्वरगिरिव्याघ्रादिभीतेष्वपि । त्वां पीताम्बरधारिणीं परशिवा चन्द्रार्द्धचूडां गदा- हस्तां वामकरे प्रतीपरसनामुन्मीलयन्तीं भजे ॥ ९॥ स्वेच्छं ये प्रणमन्ति पादयुगलं पीताम्बरे ! तावकं ते वाञ्छाधिकमर्थमाप्य सकलां सिद्धिं भजन्ते पुनः । यद्यत्कर्त्तुमुरीकरोति बगले ! त्वत्साधकोऽत्राधुनाः तत्सञ्जातमिवेक्षते तव कृपाऽपाङ्गावलोके क्षणात् ॥ १ ०॥ वाणी सूक्तिसुधारसद्रवमयी सालङ्कृतिस्तन्मुखे शापानुग्रहकारिणी कविजनानन्दैकसम्वर्द्धिनी । व्याकर्तुं क्षमते विशालमतिमांस्त्वत्सेवको वाङ्मयं किं चित्रं यदि सृष्टिमाशु रचते ब्रह्माण्डकोट्यायते ॥ ११॥ देवि ! त्वद्भक्तदृष्ट्या तुहिनगिरिमुखाः पर्वताः पांसुतुल्या ज्वालामालाश्च चन्द्रामृतकरसदृशा पुष्पतां यान्ति नागाः । मूकत्वं वाक्यतीन्द्राः सरसि समतुलामाश्रयन्ते समुद्रा राजानो रङ्कभावं रणभुवि रिपवो विद्रवन्ते विशस्त्राः ॥ १२॥ लेख्यं तावकमन्त्रबीजममलं दुष्टौघसंस्तम्भन वश्याकर्षणमारणप्रमथनप्रक्षोभणोच्चाटने । व्यक्तं वज्रमिवापरं यदि मुखे जागर्ति तस्याग्रतः पादान्तः परिसञ्चरन्ति रिपवो ये सप्तद्वीपेश्वरा ॥ १३॥ नानारत्नविमूषितामलमणिद्वीपे सुधासागरे कल्पानोकहकाननान्तरगता या रत्नवेदी परा । तत्राकारितपञ्चप्रेतकमये सिंहासने संस्थितां ध्यायेऽहं करुणाकरां हरिहराराध्यामशेषार्थदाम् ॥ १४॥ वाग्देवी वदने वसत्यविरत्तं नेत्रे च लक्ष्मीः करे दानं दीनकृपालुता च हृदये वीरत्वमाजौ सदा । त्वद्भक्तस्य भवाब्धिपारतरणे तत्त्वोदयो जायते तेनेदं नलिनीदलोपरि जलाकारं जगद् भासते ॥ १५॥ चञ्चत्काञ्चनतुल्यपीतवसनां चन्द्रवतंसोज्ज्वलां केयूराङ्गदहारकुण्डलधरां भक्तोदयायोद्यताम् । त्वां ध्यायामि चतुर्भुजां त्रिनयनामुग्रारिजिह्वां करे कर्षन्तीमहमम्ब पाहि बगले ! त्राणं त्वमेवासि मे ॥ १६॥ मातस्ते महिमानमुग्रमधिकं प्रोक्तं स्वयं मानवै - र्वाक्यं सन्द्रियते श्रमेण यदि वा शक्त्या गुणाम्भोनिधेः । नो निश्शेषतया सुरैरविदितप्रान्तस्य पद्मालये तस्मात् सर्वगता त्वमेव सदसद्रूपा सदा गीयते ॥ १७॥ खञ्जं तार्क्ष्यसमोद्यमं प्रकुरुते तार्क्ष्यं च खञ्जाधिकं वान्तं स्तम्भयते जलाग्निशमने याऽव्यक्तशक्ति शिवे । तद्बीजं बगलेति मेऽस्तु रसनालग्नं सदैवामलं यद्ब्रह्मादिसूदुर्लभं भुवि नरैः सत्प्राक्तनैर्लभ्यते ॥ १८॥ स्तम्भत्वं पवनोऽपि याति भवतीह भक्तस्य पीताम्बरे । कि चित्रं यदि वारिधिः स्थलपदं मेरुस्तु माषोपमाम् । कल्पानोकहकामधेनुप्रमुखै रत्नैरलिन्दस्थितै- र्वाञ्छार्थाधिकदानमाशु कुरुते दीनेष्वदीनेष्वपि ॥ १९॥ भाग्याद्यस्य मुखे विभाति विमला विद्या विशेषाधिका षट्र्त्रिंशद्भिरथोदिता बहुगुणैर्बीजैस्तु सर्वार्थदा । तं सर्वे प्रणमन्ति मानवममी सेन्द्राः सुरा भूसुराः क्रान्ताशेपमहोदयं स्वकलनाक्रान्तत्रिलोकालयम् ॥ २०॥ यत्किञ्चिद्भुवने विभाति विमलं रत्नं महानन्दनं यां यां वृत्तिरुदारतां जनयते यद्यत्परं सुन्दरम् । यत्किञ्चित्भुवनेऽथवा नु महता शब्देन वा कीर्त्यते- तत्सर्वं तव रूपमेव बगले ! संसारपारप्रदे ॥ २१॥ जाग्रत्पूर्णकृपामृतौधभरिते श्रीमत्कटाक्षेक्षणे सर्वार्थप्रतिपादकव्रतधरे ये ये निमग्ना नराः । तेषां भावयमतीन्द्रिय निगदितुं ब्रह्मादयो न क्षमा ये सङ्कल्पविकल्पमात्ररचनाः प्राणात्यये हेतवः ॥ २२॥ हस्ते सङ्गृह्य चापं शरधरनिकरैर्यत्किरातं महाजौ पार्थो ब्रह्मास्त्रविद्याभ्यसनपटुमतिर्द्वन्द्वयुद्धे तुतोष । तत्सर्वं देववृन्दैरथ रिपुनिवहैर्वीक्षितं सिद्धलोकै - धैर्यं शौर्यं च सर्वं तव वरजनितं भाति पीताम्बरेऽत्र ॥ २३॥ पीतां पीतजटाघरां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् । हस्तैर्मुद्गरवज्रवैरिरसनां सम्बिभ्रतीमादरात् दीप्ताङ्गी बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ २४॥ कर्णालम्बितलोलकुण्डलयुगां श्वेतेन्दुमौलिं करैः केयूराङ्गदपाशमुद्गरगदावज्रादिकान् बिभ्रतीम् । देवीं पीतविभूषणामरिकुलध्वंसोद्यतां ये नरा ध्यायन्त्याशु लभन्ति सिद्धिमतुलां ते बालिशाः स्युः कथम् ॥ २५॥ लब्ध्वा मातरशेषकान्तिभरितानन्दं कृपावीक्षणं वर्षीयानपि मोहितुं प्रभवति स्त्रीवृन्दमुन्मीलितुम् । किं तञ्चित्रमनेकथा भ्रमयते दृष्ट्या त्रिलोकीमिमां सूर्येन्दुस्तनधारिणीमपि बलात् कन्दर्पदपार्धिकः ॥ २६॥ यन्त्रं जैत्रमनेकदुःखशमनं पीताम्बरे ! तावक- मोङ्कारद्वयसम्पुटेन पुटित शिष्टैस्तथावेष्टितम् । तद्बाह्ये स्थिरमाययाष्टपुटितं पाशाङ्कुशाद्यावृतं येषां चेतसि भाग्यतो निवसते ते विश्वसर्गक्षमाः ॥ २७॥ कर्पूरागुरुचन्दनैर्मृगमदैर्गोरोचनाकेशरै- स्त्वत्पादाम्बुजमर्चयन्ति बगले ! ये प्रत्यह मानवा । ते लब्ध्वा श्रियमद्भुतामपि चिरं भोगांश्च भुक्त्वाऽवनौ सायुज्यालयमाविशन्ति परमानन्दोऽस्ति यत्राधिकः ॥ २८॥ लव्ध्वा पादयुगे रतिं तव शिवे क्षुद्रोऽपि देवेन्द्रता- मासाद्यामरसुन्दरीभिरमलैर्भोगैर्दिवि क्रीडति । ये हित्वा तव भक्तिमन्यभजनानन्दाश्चिरं ते नरा भ्रष्टा घर्मपराङ्मुखा भ्रमधियो भारं वहन्ते भुवि ॥ २९॥ वामाराध्य हरो हरत्वमभजद् विष्णुस्तु विश्वात्मतां चक्रे सृष्टिमजोऽप्यवोचदखिलं वेदादिसद्वाङ्मयम् । ध्यात्वा ध्वान्तमशेषमाशु हरते सूर्योऽपि पीताम्बरे । तीव्रं तापमपाकरोति रजनीनाथोऽपि चूडाश्रितः ॥ ३०॥ बुद्धिं नाशय कीलयाशु रसनामङ्घ्र्योर्गतिं स्तम्भय दुष्टान् द्रावय मारयारिनिवहान् दासांश्चिरं पालय । इत्थं ये बगलामुखीं पदगतिं लब्ध्वा पठिष्यन्ति ते यन्त्रारूढमिवारिवृन्दमीखलं कर्त्तुं समर्थांः सदा ॥ ३१॥ ध्यात्वा त्वां बगले ! पुरा गिरिसुता चक्रे शिवं स्वं वरं प्रोक्तं नार्पयितुं शिवेन गदिता सङ्कल्पनाग्नौ तदा । त्यक्ताग्निर्गलितावलि गिरिसुतात् त्यक्त्वा गलस्तन्मुखात् तस्मात् त्वं बगलामुखी निगदिता नित्या परा योगिनी ॥ ३२॥ नागेन्द्रैर्देवसिद्धैर्मुनिवरनिवहैर्दानवै राक्षसेन्द्रै- र्दिक्पालैर्दिक्करीन्द्रैर्दिनकरप्रमुखैः सद्ग्रहैस्तारकाद्यैः । ब्रह्माद्यैः स्थूलसूक्ष्मैरविदितमुदिता त्वं परा चोन्मनी त्वं नित्या पीताम्बरा त्वं रिपुभयशमनी भक्तिचित्तासनस्था ॥ ३३॥ शम्भुर्यद्गुरगगानत्तोद्यतमतिर्नाट्योत्सवैस्ताण्डवे चक्रे चन्द्रमयूखकम्पनकरां नीराजनां पादयोः । हेमाम्भोजदलैर्जटाजलभरैरानन्दितैर्मौलिभिः पूजां प्रत्यहमातनोति नटयन् स्वैर्हस्ततालादिभिः ॥ ३४॥ यां दध्रे चतुराननोऽपि वदने चित्तारविन्दस्थितां यां वक्षःस्थलसंस्थितां हरिरजामालिङ्ग्य पीताम्बराम् । यद्देहार्धमुरीचकार पुरजित् सौन्दर्यसाराधिकां षट्चकाक्षररूपिणीं भज सखे ! देवी जगत्पालिकाम् ॥ ३५॥ हस्ते भाति गदा सदार्त्तिशमनी रत्नावली त्वद्भुजे पादे नूपुरमीशमौलिमणिभिर्नीराजितं राजते । ताटङ्कं श्रवणे कुचोपरि सदा कस्तुरिकालेपनं काश्मीरद्रवमङ्गरागमधिकां पीतच्छविं तन्वते ॥ ३६॥ ॐकारद्वयसम्पुटेन पुटिता विद्यागमे संस्थिता षट्चक्राक्षरबीजसाररचितां षट्त्रिंशदर्णात्मिकाम् । ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति गायन्ति वा ते वन्द्या विबुधैश्चरन्ति भुवने सिद्धार्चिताः सिद्धये ॥ ३७॥ स्वाहाशक्तिरुपासने तव ऋषिः श्रीनारदो देवता नित्या श्रीबगलामुखी निगदिता छन्दो भवेत् त्रिष्टुभम् । बीजं तु स्थिरमायया विरचितं नानाविधस्तम्भने प्रोक्तं पद्मभुवाऽखिलाप्तिविनियोगोऽप्यच्युताकारता ॥ ३८॥ हृद्यं सर्वसुरेश्वरैश्च ऋषिभिर्दुष्प्राप्यमेवाद्भुतं स्तोत्रं गोप्यतमं स्वभाग्यवशतः प्राप्तं पठिष्यन्ति ये । सूक्त्या देवगुरुं धनेन घनदं जित्वा चिरञ्जीवितां षण्मासात् सुखसागरे शिवसमाक्रीडां करिष्यन्ति ते ॥ ३९॥ देवी स्वप्नगता स्वयैव लिखितं मह्यं ददावद्भुतं दिव्यास्त्रं पुरतः पठस्व विमलं सिन्दूरवर्णैः करैः । रोमाञ्चाङ्कितहर्षमाप्य लुलितैरङ्गैः पठन्तं नर- प्राप्तोऽहं परमोदयप्रदमिदं ज्ञानं कवीन्द्रादिदम् ॥ ४०॥ प्राप्ता श्रीबगलामुखीवदनतः स्वप्ने सुविद्या मया षट्त्रिंशद्भिरिमैः सुवर्णनिचयैः सद्बीजरत्नावली । येषां कण्ठगता विभाति जगतीपीठे प्रयोगक्षमा वश्याकर्षणमोहमारणविधौ स्तम्भे तथोच्चाटने ॥ ४१॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिविराजिचन्द्राननाम् । गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां स्मरामि बगलामुखीं विमुखवाङ्मुखस्तम्भिनीम् ॥ ४२॥ ॥ श्रीपीताम्बरारत्नावलीस्तोत्रं सम्पूर्णम् ॥ ॥ इति श्रीनारदोक्तं पीताम्बरादेवीस्तवराजस्स्तोत्रम् ॥ ॥ संवत् १७९० शाके १७५५ आषाढमासे शुक्लपक्षे ५ मन्दवासरे लिखितं ब्रह्मचारिकाशिनाथेन ॥ ॥ श्रीगङ्गाविश्वेश्वराभ्यां नमः ॥ Encoded and proofread by DPD
% Text title            : pItAmbararatnAvalIstotram
% File name             : pItAmbararatnAvalIstotram.itx
% itxtitle              : pItAmbararatnAvalIstotram
% engtitle              : pItAmbararatnAvalIstotram
% Category              : devii, sarasvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Indexextra            : (Scan)
% Latest update         : August 6, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org