प्राधानिकरहस्यम्

प्राधानिकरहस्यम्

श्रीगणेशाय नमः ॥ अस्य श्रीसप्तशतीरहस्पत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः , महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः , अनुष्टुप् छन्दः , नवदुर्गामहालक्ष्मीर्बीजं , श्रीं शक्तिः , ममाभीष्टफलसिद्धये जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १॥ आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज । विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २॥ ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते । भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ ४॥ मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती । नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५॥ तप्तकाञ्चनवर्णाभा तप्तक्ञ्चनभूषणा । शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६॥ शून्यं तदखिलं लोकं विलोक्य परमेश्वरी । बभार रूपमपरं तमसा केवलेन हि ॥ ७॥ सा भिन्नाञ्जनसङ्काशा दंष्ट्राचितवरानना । विशाललोचना नारी बभूव तनुमध्यमा ॥ ८॥ खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ॥ कबन्धहारं शिरसा बिभ्राणाहिशिरःस्रजम् ॥ ९॥ तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥ १०॥ महामाया महाकाली महामारी क्षुधा तृषा । निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ ११॥ इमानि तव नामानि प्रतिपाद्यानि कर्मभिः । एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ १२॥ तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप । सत्त्वाख्येनातिशुद्धेन गुणेनेदुप्रभ्रं दधौ ॥ १३॥ अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी । सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १४॥ महाविद्या महावाणी भारती वाक् सरस्वती । आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥ १५॥ अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ १६॥ इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् । हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १७॥ ब्रह्मन्विधे विरञ्चेति धातरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥ १८॥ महाकाली भारती च मिथुने सृजतः सह । एतयोरपि रूपाणि नामानि च वदामि ते ॥ १९॥ नीलकण्ठं रक्तबाहु श्वेताङ्गं चद्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २०॥ स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः । त्रयीविद्याकामधेनुः सा स्त्री भाषास्वराक्षरा ॥ २१॥ सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप । जनयामास नामानि तयोरपि वदामि ते ॥ २२॥ विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः । उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ॥ २३॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे । चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः ॥ २४॥ ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् । रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २५॥ स्वरया सह सम्भूय विरञ्चोऽण्डमजीजनत् । बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ २६॥ अण्डमध्ये प्रधानादि कार्यजातमभून्नृप । महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ २७॥ पुपोष पालयामास तल्लक्ष्म्या सह केशवः । महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥ २८॥ निराकारा च साकारा सैव नानाभिधानभृत् । नामातरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ २९॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये प्राधानिकरहस्यं सम्पूर्णम् ॥ अध्याय १४ See also vaikRitikararahasyam and mUrtirahasyam Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : prAdhAnikarahasyam
% File name             : prAdhAnikarahasyam.itx
% itxtitle              : prAdhAnikarahasyam (mArkaNDeyapurANAntargatam)
% engtitle              : prAdhAnikarahasyam
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Source                : mArkaNDeyapurANa
% Latest update         : February 20, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org