भगवती पुरातनपुरेश्वरीस्तवः

भगवती पुरातनपुरेश्वरीस्तवः

ॐ अन्नपूर्णेश्वर्यै नमः । पुराणपुरनायिके सुरवरेन्दुचूडप्रिये सुरासुरनमस्कृते कुरु कृपामनाथे मयि । जरामरणनाशिनीमधिगतास्सुरां वै सुराः चराचरसवित्रि ते चरणसेवयैवामराः ॥ १॥ पुरातनपुरालयप्रियविहारलोले, शिवे, पुरान्तकमनःप्रिये, पुरुषसोदरि, श्रीपुरे । सुरारिकुलमर्दिनि त्रिदिववीरसंरक्षिणि, स्फुरद्गुरुकृपानिधे कुरु कृपामनाथे मयि ॥ २॥ पुराणनिगमागमप्रकरबोधितप्राभवे, पुराणपुरुषार्चिते, शरणमम्ब तेऽङ्घ्रिद्वयम् । पुराणसुकृतव्रजप्रकटलब्धसन्दर्शने, पुराणपुरनायिके कुरु कृपामनाथे मयि ॥ ३॥ पुरा किल सुरेश्वरि, त्रिदशदुःखसम्भेदने पुरारिमुखदेवतानिचयलब्धरूपाऽभवः । पुरापि भवती सती दितिजगर्वनिर्वापिणी, पुरातनपुरेश्वरि, प्रियमयीं कृपां सन्तनु ॥ ४॥ पुरा हि भवतस्सुता किल विशुद्धधाम्ना भृता सुरेशि भवगेहिनी सुरशरण्यपादाम्बुजा । गिरां पथि न गोचरा तरुणचन्द्रचूडाम्बिका पुराणपुरनायिका जयतु चान्नपूर्णेश्वरी ॥ ५॥ कराकलितपायसा परकरोल्लसद्दर्विका सुवर्णमणिभूषणा सरसभक्तपूरप्रदा । सुचारुमुखचन्द्रधिक्कृतकलङ्किबिम्बाऽम्बिका सुरासुरनमस्कृता विजयतां पुराणेश्वरी ॥ ६॥ चिरन्तनपुरेशि ते चिरतरं विचिन्त्याद्भुतं चिरं किल मुनीश्वराश्चरितसिन्धुमग्नाः परम् । चिरादपि सुरास्पदं न खलु वाञ्छितं मन्वते चिरार्जिततपःफले जय जयान्नपूर्णेश्वरि ॥ ७॥ कलानिधिकलाधरे कलविलासवाणीगुणे कलाधरकुलार्चिते कलकलारणन्नूपुरे । कलापजिततारकावलिलसन्नितम्बोज्ज्वले कलापितपुरापुरे जय जयान्नपूर्णेश्वरि ॥ ८॥ क्षुधान्धजनजीवने जननि साधुसञ्जीवने मुधाकृतसुधारसे बुधजनैस्सदा सेविते । बुधावलिनुतेऽम्बिके, विविधवैभवानर्गले, विधातृमुखपूजिते, जय जयान्नपूर्णेश्वरि ॥ ९॥ महीसुरकुलायने, कृतमहीसुराराधने, महीकृतयुगार्णवे, महितभक्तदानव्रते । महीपतिसमर्चिते हिममहीध्रपुण्याङ्कुरे महीमुखरवैभवे जय जयान्नपूर्णेश्वरि ॥ १०॥ सुचारुरदनोज्ज्वलत्स्मितलसच्छरच्छर्वरी करायुतसदृङ्मुखी त्वमसि जीवनं प्राणिनाम् । निजोरुचरितामृतादृतजनार्पितेष्टव्रजे, पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ ११॥ कृपां कुरु कृपार्णवे विकलमाशु कल्यं कुरु कले कलुषसन्ततिं कलुषयाम्ब कल्याणिनि । कुलाचलनिकेतने कलितकुक्कुटालिप्रिये, पुराणपुरनायिके, जय जयान्नपूर्णेश्वरि ॥ १२॥ विभञ्जय विपत्ततिं विदारयान्तरायावलिं विभीषय भयव्रजं गदगणं विनिर्घातय । विनिर्दह विमूढतां विकलभावमुच्चाटय विपोथय दरिद्रतां जय जयान्नपूर्णेश्वरि ॥ १३॥ सावित्रि सदुपासिते सकलनिष्कलाऽऽकारिणि, त्वमत्रिनयनोद्भवद्युतिविहासिवक्त्रोज्ज्वले । भवित्रि भवमोचिनि, प्रमदकुक्कुटामोदिनि, धरित्रि, परदेवते, कुरु कृपां पुराणेश्वरि ॥ १४॥ त्वमन्नममितं ददास्यखिलदुर्गतेभ्यः प्रिया त्वमम्ब जगतामतस्त्वमसि जीवनं देहिनाम् । त्वदन्तिकमुपेत्य ये त्वयि वितन्वते मानसं त्वमाशु वितनोषि तानखिलदुर्लभप्राभवान् ॥ १५॥ रमे परमहं रमे तवपदाब्जयो रम्ययोः रमेत कतमोऽपि वा भवसुखे विरामार्तिदे । रमारमणपूजिते रमितरामनाथान्तरे, रमाऽऽदृतगुणाकरे जय जयान्नपूर्णेश्वरि ॥ १६॥ उदञ्चितकृपाभरे सुकृतसञ्चितालोकने, कराञ्चितविपञ्चिकाललितगानलोलेऽम्बिके । पराञ्चितसुकाञ्चनज्वलितकाञ्चिकारञ्जिते पुराञ्चितपुरीप्रिये जय जयान्नपूर्णेश्वरि ॥ १७॥ चराचरविधायिनि त्वदखिलं जगज्जायते, त्वदन्नपरिवर्धितास्त्वयि वसन्ति हि प्राणिनः । त्वमेव विलयास्पदं निखिलदेहिनां चण्डिके, पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १८॥ त्वदम्बुरुहडम्बरप्रमथनाङ्घ्रियुग्मं विना जनस्य जगदम्बिके शरणदं किमन्यद्भुवि । अतस्तव पदाब्जयोः प्रदिश मे च भक्तिं परां पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १९॥ त्वमम्ब भवभीषणप्रबलभोगिवक्त्रादिमं विमोचय कृपाकरि प्रतिपदं तवाङ्घ्रिश्रितम् । कुमारि कुलपालिनि प्रमथयाशु पीडाभरं पराणुद परं भयं जय जयान्नपूर्णेश्वरि ॥ २०॥ शिरःकलितचन्द्रया कलितदिव्यभूषाढ्यया समस्तमुनिवन्द्यया युधि निरस्तदैत्यौघया । अनस्तमितबोधया करवरात्तदिव्यान्नया कयापि करुणार्द्रया सशरणा वयं सन्ततम् ॥ २१॥ अमन्दमयि सम्पदं परिददासि पद्मालये सुमन्दमपि वाक्पतिं वितनुषे गिरां नायिके । मुकुन्दसहजे मुहुः कलितकालिकारूपिणि विहंसि दितिजावलिं जय जयान्नपूर्णेश्वरि ॥ २२॥ प्रसीद जगदम्बिके श‍ृणु मदीयदीनं वचः विपत्सु शरणं भव प्रणुद दुर्गमां दुर्गतिम् । पुरो मम दृशोश्शिवे कनकभूषणाभूषिता भवानि भव भासुरा जय जयान्नपूर्णेश्वरि ॥ २३॥ कदा तव पदार्चकं हिममहीध्रपुण्याङ्कुरे किमर्भक तवेप्सितं कथय साधयाम्याशु ते । इति प्रियवचो मधुप्रकरवर्षमातन्वती पुराणपुरनायिके मम पुरस्समायास्यसि ॥ २४॥ कलक्वणितनूपुरा कटिनिबद्धकाञ्चीगुणा रणन्मणिविभूषणा चरणकिङ्किणीराविणी । शरच्छशिमुखोद्गलन्मधुरवादमोदप्रदा पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ २५॥ अनन्तदुरितक्रियाऽऽचरणचुञ्चुमप्यम्बिके न मुञ्च तव किङ्करं परमदीनदीनं शिवे विपत्सु हृदि संस्मृता सकलपातकध्वंसिनी प्रसीद परिपालय प्रणतमन्नपूर्णेश्वरि ॥ २६॥ मुनीन्द्रगणसेविते मनुजपालसम्पूजिते मतङ्गकुलनायिके मधुमदोज्ज्वले मोहिनि । मरालगमनाञ्चिते मरकतप्रभाश्यामले मनोहरि मनो मम प्रमदयान्नपूर्णेश्वरि ॥ २७॥ इदं किल कृतं मया प्रणतकामदे मोददे समर्पितमहर्पतेरणुकदीपिकादानवत् । पुराणपुरनायिके तव पदाब्जयोर्दीप्रयो- रपाङ्गय च मां सदा जय जयान्नपूर्णेश्वरि ॥ २८॥ इमां नक्षत्रमालां - भारद्वाजकुलोत्पन्नः सुब्बरामाभिधो द्विजः । पराशक्तेः पादमूले भूषणं कल्पयाम्यहम् ॥ इति श्रीसुब्बरामशर्मणाविरचितं पुरातनपुरेश्वरी भगवतीस्तवं सम्पूर्णम् ॥ Prayer for purAtanapureshvarI bhagavatI, the name of the main deity of village Pazhayannur (literally meaning `old village'). Composed by Shri P. A. Subbarama Sharma of Puthucode Encoded and proofread by PSA Easwaran
% Text title            : Bhagavati Puratanapureshvari Stava
% File name             : purAtanapureshvaristava.itx
% itxtitle              : bhagavatI purAtanapureshvarI stavaH (subbarAmavirachitaH)
% engtitle              : BhagavatI Puratanapureshvari Stava
% Category              : devii, devI, annapUrNA, stava
% Location              : doc_devii
% Sublocation           : devii
% Author                : Subbarama of Pazhayannur
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : Prayer to Bhagavati, deity of Pazhayannur, Kerala
% Latest update         : January 3, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org