श्रीराधाकवचस्तोत्रम्
श्रीपार्वत्युवाच ॥
ॐ देवदेव महादेव परमप्रीतिदायक ।
राधायाः कवचं देव कथय प्राणवल्लभ ॥ १॥
श्रीमहादेवौवाच ॥
साधु साधु महादेवि भद्रं भद्रं सुमङ्गलम् ।
प्रेमभावान्वितायाश्च राधायाः कवचं परम् ॥ २॥
श्यामप्रेमविलासन्या गोपिन्या प्रेमसागरे ।
मग्नायाः कवचं देवि कथयामि शृणुष्व तत् ॥ ३॥
ऋषिर्नारायणः प्रोक्तो गायत्री छन्द इत्यपि ।
देवता राधिकादेवी प्रेमभक्तिप्रदायिका ॥ ४॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
तप्तकाश्चनगौराङ्गी राधा वृन्दावनेश्वरी ॥ ५॥
वृषभानुसुतां देवीं नमामि श्रीहरिप्रियाम् ।
राधा मे हृदयं पातु मस्तकं पातु गोपिका ॥ ६॥
श्रीकृष्णहृदयासक्ता पातु नाभिं सदा मुदा ।
श्रीकृष्णानन्दकलिता पातु पादयुगं मम ॥ ७॥
गोविन्दभावरचिता बाहुयुग्मं सदावतु ।
श्रीराधायै वह्निजाया सर्वाङ्गं पातु सर्वदा ॥ ८॥
श्री क्लीं राधायै तथा स्वाहा पातु नित्यं षडक्षरी ।
श्री रां हीं राधायै वह्निजायान्ते च महामनुः ॥ ९॥
अष्टाक्षरो महामन्त्रः सर्वकार्येषु रक्षतु ।
विष्णुवक्षःस्थलस्था च पुत्रान् रक्षतु मे सदा ॥ १०॥
विष्णोर्भावेन मुदिता गृहं पातु च सर्वदा ।
कृष्णभावरता देवी जिह्वाग्रं मम रक्षतु ॥ ११॥
श्यामप्रेमोद्धता देवी राज्यस्थाने सदावतु ।
कृष्णे निवेदिताङ्गी च भक्तिभावं सदावतु ॥ १२॥
कृष्णार्तिवर्द्धिनी देवी सर्वबन्धून् सदावतु ।
इन्द्राद्याः सकला देवाः पान्तु पूर्वादिदिक्षु च ॥ १३॥
रक्षां कुर्वन्तु मां नित्यं धनधान्यप्रदायिका ।
ॐ श्री राधायै विद्महे वृन्दावनविलासिन्यै धीमहि
तन्नो राधा प्रचोदयात् ॥ १४॥
इति ते कथितं भद्रे गुह्याद्गुह्यतरं परम् ।
यः पठेत् साधकश्रेष्ठो भक्तियुक्तः सद भुवि ॥ १५॥
गृहे निवसते लक्ष्मीर्वाणी वक्त्रे न संशयः ।
राजानो दासतां यान्ति देवतुल्यो भवेन्नरः ॥ १६॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वसिद्धियुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ १७॥
भक्तियुक्ताय शिष्याय साधकाय प्रकाशयेत् ।
भक्तिहीनाय दुष्टाय कदाचिन्न प्रकाशयेत् ॥ १८॥
द्विजाय भक्तिहीनाय कदाचिन्न प्रदर्शयेत् ।
श्वपचाय सदा देयं यदि भक्तीयुतो भवेत् ॥ १९॥
भक्तिश्रद्धाविहीनाय न देयं हि द्विजाय ते ।
अज्ञात्वा कवचं देवि राधाकृष्णो भजेत्तु यः ॥ २०॥
युगायुतकृतक्लेशं प्रेमभक्तिर्नजायते ।
मायया रहिता धीराः सर्वमेतत्परात्परम् ॥ २१॥
यथा राधा तथा लक्ष्मीस्तथात्वं हि न संशयः ॥ २२॥
इति श्रीब्रह्मयामले हरगौरीसंवादे श्रीराधाकवचं समाप्तिमगात् ॥
॥ शुभम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com
From shrI sarasa stotrasangrahaH (Lucknow, 1909).