श्रीराधिकासहस्रनामस्तोत्रम्

श्रीराधिकासहस्रनामस्तोत्रम्

नारदपञ्चरात्रे ज्ञानामृतसारतः श्रीपार्वत्युवाच - देवदेव जगन्नाथ भक्तानुग्रहकारक । यद्यस्ति मयि कारुण्यं मयि यद्यस्ति ते दया ॥ १॥ यद्यत् त्वया निगदितं तत्सर्वं मे श्रुतं प्रभो । गुह्याद् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ २॥ त्वया न गदितं यत्तु यस्मै कस्मै कदचन । तस्मात् कथय देवेश सहस्रं नाम चोत्तमम् ॥ ३॥ श्रीराधाया महदेव्या गोप्या भक्तिप्रसाधनम् । ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ ४॥ श्रीमहादेव उवाच - श‍ृणु देवि विचित्रार्थां कथां पापहरां शुभाम् । नास्ति जन्मानि कर्माणि तस्या नूनं महेश्वरि ॥ ५॥ यदा हरिश्चरित्राणि कुरुते कार्यगोरवात् । तदा विधते रूपाणि हरिसान्निध्यसाधिनी ॥ ६॥ तस्या गोपीत्वभावस्यकारणं गदितं पुरा । इदानीं श‍ृणु देवेशि नाम्नां चैव सहस्रकम् ॥ ७॥ यन्मया कथितं नैव तन्त्रेष्वपि कदाचन । तव स्नेहात्प्रवक्ष्यामि भक्त्या धार्यं मुमुक्षुभिः ॥ ८॥ मम प्राणसमा विद्या भव्यते मे त्वहर्निशम् । श‍ृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ ९॥ यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परः प्रभुः । अस्या नामसहस्रस्य ऋषिर्नारद एव च । देवी राधा परा प्रोक्ता चतुर्वर्गप्रसाधिनी ॥ १०॥ ॥अथ सहस्रनामस्तोत्रम् ॥ श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता । वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥ श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी । यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२॥ दामोदरप्रिया गोपी गोपानन्दकरी तथा । कृष्णाङ्गवासिनी हृद्या हरिकान्ता हरिप्रिया ॥ १३॥ प्रधानगोपिका गोपकन्या त्रैलोक्यसुन्दरी । वृन्दावनविहारिणी विकशितमुखाम्बुजा ॥ १४॥ गोकुलानन्दकर्त्री च गोकुलानन्ददायिनी । गतिप्रदा गीतगम्या गमनागमनप्रिया ॥ १५॥ विष्णुप्रिया विष्णुकान्ता विष्णोरङ्गनिवासिनी । यशोदानन्दपत्नी च यशोदानन्दगेहिनी ॥ १६॥ कामारिकान्ता कामेशी कामलालसविग्रहा । जयप्रदा जया जीवा जीवानन्दप्रदायिनी ॥ १७॥ नन्दनन्दनपत्नी च वृषभानुसुता शिवा । गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा ॥ १८॥ काञ्चनाभा हेमगात्रा काञ्चनाङ्गदधारिणी । अशोका शोकरहिता विशोका शोकनाशिनी ॥ १९॥ गायत्री वेदमाता च वेदातीत विदुत्तमा । नीतिशास्त्रप्रिया नीतिगतिर्मतिरभीष्टदा ॥ २०॥ वेदप्रिया वेदगर्भा वेदमार्गप्रवर्धिनी । वेदगम्या वेदपरा विचित्रकनकोज्ज्वला ॥ २१॥ तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका । नन्दप्रिया नन्दसुतारध्याऽऽनन्दप्रदा शुभा ॥ २२॥ शुभाङ्गी विमलाङ्गी च विलसिन्यपराजिता । जननी जन्मशून्या च जन्ममृत्युजरापहा ॥ २३॥ गतिर्गतिमतां धात्री धात्र्यानन्दप्रदायिनी । जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी ॥ २४॥ किशोरी कमला पद्मा पद्महस्ता पयोददा । पयस्विनी पयोदात्री पवित्री सर्वमङ्गला ॥ २५॥ महाजीवप्रदा कृष्णकान्ता कमलसुन्दरी । विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ २६॥ निर्गुणा सुकुलीना च निष्कुलीना निराकुला । गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ २७॥ वेणुवाद्या वेणुरतिः वेणुवाद्यपरायणा । गोपालस्यप्रिया सौम्यरूपा सौम्यकुलोद्वहा ॥ २८॥ मोहामोहा विमोहा च गतिनिष्ठा गतिप्रदा । गीर्वाणवन्द्या गिर्वाणा गिर्वाणगणसेविता ॥ २९॥ ललिता च विशोका च विशाखा चित्रमालिनी । जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ ३०॥ दीपप्रिया दीपदात्री विमला विमलोदका । कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ ३१॥ अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्वहा । मतिर्लक्ष्मीर्धृतिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ ३२॥ क्षीरोदशायिनी देवी देवारिकुलमर्दिनी । वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ ३३॥ संहर्त्री सर्वदैत्यानां सावित्री वेदगामिनी । वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ ३४॥ निरालम्बजनैः पूज्या निरालोका निराश्रया । एकाङ्गी सर्वगा सेव्या ब्रह्मपत्नी सरस्वती ॥ ३५॥ रासप्रिया रासगम्या रासाधिष्ठातृदेवता । रसिका रसिकानन्दा स्वयम् रासेश्वरी परा ॥ ३६॥ रासमण्डलमध्यस्था रासमण्डलशोभिता । रासमण्डलसेव्या च रासक्रीडा मनोहरा ॥ ३७॥ पुण्डरीकाक्षनिलया पुण्डरीकाक्षगेहिनी । पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥ ३८॥ सर्वजीवेश्वरी सर्वजीववन्द्या परात्परा । प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ ३९॥ क्षुत्पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमाकुला । वधूरूपा गोपपत्नी भारती सिद्धयोगीनी ॥ ४०॥ सत्यरूपा नित्यरूपा नित्याङ्गी नित्यगेहिनी । स्थानदात्री तथा धात्री महालक्ष्मीः स्वयम्प्रभा ॥ ४१॥ सिन्धुकन्याऽऽस्थानदात्री द्वारकावासिनी तथा । बुद्धिः स्थितिः स्थानरूपा सर्वकारणकारणा ॥ ४२॥ भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी । भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ ४३॥ मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा । निरामया सौम्यदात्री तथा मदनमोहिनी ॥ ४४॥ एकानंशा शिवा क्षेमा दुर्गा दुर्गतिनाशिनी । ईश्वरी सर्ववन्द्या च गोपनीया शुभङ्करी ॥ ४५॥ पालिनीसर्वभूतानां तथा कामाङ्गहारिणी । सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ ४६॥ हिमालयसुता सर्वा पार्वती गिरिजा सती । दक्षकन्या देवमाता मन्दलज्जा हरेस्तनुः ॥ ४७॥ वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी । विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ ४८॥ रुक्मिणी रेवती सत्यभामा जाम्बवती तथा । सुलक्ष्मणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ ४९॥ परिपूर्णा पूर्णतरा तथा हैमवती गतिः । अपूर्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ५०॥ ब्रह्माण्डभाण्डमद्यस्था ब्रह्माण्डभाण्डरूपिणी । अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ ५१॥ अण्डबाह्याण्डसंहर्त्री शिवब्रह्महरिप्रिया । महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ ५२॥ सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा । श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ ५३॥ मालती माल्यभूषाढ्या मालतीमाल्यधारिणी । कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ ५४॥ तुलस्यधिष्ठातृदेवी संसारार्णवपारदा । सारदाऽऽहारदाम्भोदा यशोदा गोपनन्दिनी ॥ ५५॥ अतीतगमना गौरी परानुग्रहकारिणी । करुणार्णवसम्पूर्णा करुणार्णवधारिणी ॥ ५६॥ माधवी माधवमनोहारिणी श्यामवल्लभा । अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ ५७॥ श्रीगर्भा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रिया । श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ ५८॥ श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा । श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ ५९॥ श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनान्विता । श्रीराधा श्रीमती श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ ६०॥ योगेशी योगमाता च योगातिता युगप्रिया । योगप्रिया योगगम्या योगिनीगणवन्दिता ॥ ६१॥ जवाकुसुमसङ्कासा दाडिमीकुसुमोपमा । नीलाम्बरधरा धीरा धैर्यरूपधरा धृतिः ॥ ६२॥ रत्नसिंहासनस्था च रत्नकुण्डलभूषिता । रत्नालङ्कारसम्युक्ता रत्नमालाधरा परा ॥ ६३॥ रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता । इन्द्रनीलमणिन्यस्तपादपद्मशुभा शुचिः ॥ ६४॥ कार्त्तिकी पौर्णमासी च अमावस्या भयापहा । गोविन्दराजगृहिनी गोविन्दगणपूजिता ॥ ६५॥ वैकुण्ठनाथगृहिणी वैकुण्ठपरमालया । वैकुण्ठदेवदेवाढ्या तथा वैकुण्ठसुन्दरी ॥ ६६॥ महालसा वेदवती सीता साध्वी पतिव्रता । अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी ॥ ६७॥ कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा । गोपीनाथेश्वरी चण्डी नायिकानयनान्विता ॥ ६८॥ नायिका नायकप्रीता नायकानन्दरूपिणी । शेषा शेषवती शेषरूपिणी जगदम्बिका ॥ ६९॥ गोपालपालिका माया जायाऽऽनन्दप्रदा तथा । कुमारी यौवनानन्दा युवती गोपसुन्दरी ॥ ७०॥ गोपमाता जानकी च जनकानन्दकारिणी । कैलासवासिनी रम्भा वैराग्याकुलदीपिका ॥ ७१॥ कमलाकान्तगृहिनी कमला कमलालया । त्रैलोक्यमाता जगतामधिष्ठात्री प्रियाम्बिका ॥ ७२॥ हरकान्ता हररता हरानन्दप्रदायिनी । हरपत्नी हरप्रीता हरतोषणतत्परा ॥ ७३॥ हरेश्वरी रामरता रामा रामेश्वरी रमा । श्यामला चित्रलेखा च तथा भुवनमोहिनी ॥ ७४॥ सुगोपी गोपवनिता गोपराज्यप्रदा शुभा । अङ्गावपूर्णा माहेयी मत्स्यराजसुता सती ॥ ७५॥ कौमारी नारसिंही च वाराही नवदुर्गिका । चञ्चला चञ्चलामोदा नारी भुवनसुन्दरी ॥ ७६॥ दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना । रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा ॥ ७७॥ रतिर्लक्ष्मणगेहस्था विरजा भुवनेश्वरी । शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता ॥ ७८॥ बकुला बकुलामोदधारिणी यमुना जया । विजया जयपत्नी च यमलार्जुनभञ्जिनी ॥ ७९॥ वक्रेश्वरी वक्ररूपा वक्रवीक्षणवीक्षिता । अपराजिता जगन्नाथा जगन्नाथेश्वरी यतिः ॥ ८०॥ खेचरी खेचरसुता खेचरत्वप्रदायिनी । विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा ॥ ८१॥ चन्द्रकोटिसुगात्री च चन्द्राननमनोहरी । सेवासेव्या शिवा क्षेमा तथा क्षेमकारी वधूः ॥ ८२॥ यादवेन्द्रवधूः सेव्या शिवभक्ता शिवान्विता । केवला निष्फला सूक्ष्मा महाभीमाऽभयप्रदा ॥ ८३॥ जीमूतरूपा जैमूती जितामित्रप्रमोदिनी । गोपालवनिता नन्दा कुलजेन्द्रनिवासिनी ॥ ८४॥ जयन्ती यमुनाङ्गी च यमुनातोषकारिणी । कलिकल्मषभङ्गा च कलिकल्मषनाशिनी ॥ ८५॥ कलिकल्मषरूपा च नित्यानन्दकरी कृपा । कृपावती कुलवती कैलासाचलवासिनी ॥ ८६॥ वामदेवी वामभागा गोविन्दप्रियकारिणी । नरेन्द्रकन्या योगेशी योगिनी योगरूपिणी ॥ ८७॥ योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी । क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा ॥ ८८॥ केशवानन्ददात्री च केशवानन्ददायिनी । केशवा केशवप्रीता केशवी केशवप्रिया ॥ ८९॥ रासक्रीडाकरी रासवासिनी राससुन्दरी । गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी ॥ ९०॥ लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डना । एलालवङ्गकर्पूरमुखवासमुखान्विता ॥ ९१॥ मुख्या मुख्यप्रदा मुख्यरूपा मुख्यनिवासिनी । नारायणी कृपातीता करुणामयकारिणी ॥ ९२॥ कारुण्या करुणा कर्णा गोकर्णा नागकर्णिका । सर्पिणी कौलिनी क्षेत्रवासिनी जगदन्वया ॥ ९३॥ जटिला कुटिला नीला नीलाम्बरधरा शुभा । नीलाम्बरविधात्री च नीलकण्ठप्रिया तथा ॥ ९४॥ भगिनी भागिनी भोग्या कृष्णभोग्या भगेश्वरी । बलेश्वरी बलाराध्या कान्ता कान्तनितम्बिनी ॥ ९५॥ नितम्बिनी रूपवती युवती कृष्णपीवरी । विभावरी वेत्रवती सङ्कटा कुटिलालका ॥ ९६॥ नारायणप्रिया शैला सृक्कणीपरिमोहिता । दृक्पातमोहिता प्रातराशिनी नवनीतिका ॥ ९७॥ नवीना नवनारी च नारङ्गफलशोभिता । हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ ९८॥ अर्धचन्द्रधरा चन्द्रवल्लभा रोहिणी तमिः । तिमिङ्ग्लकुलामोदमत्स्यरूपाङ्गहारिणी ॥ ९९॥ कारिणी सर्वभूतानां कार्यातीता किशोरिणी । किशोरवल्लभा केशकारिका कामकारिका ॥ १००॥ कामेश्वरी कामकला कालिन्दीकूलदीपिका । कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ १०१॥ कादम्बरीपानपरा कुसुमामोदधारिणी । कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ १०२॥ तर्काली वैजयन्ती च निम्बदाडिमरूपिणी । बिल्ववृक्षप्रिया कृष्णाम्बरा बिल्वोपमस्तनी ॥ १०३॥ बिल्वात्मिका बिल्ववपुर्बिल्ववृक्षनिवासिनी । तुलसीतोषिका तैतिलानन्दपरितोषिका ॥ १०४॥ गजमुक्ता महामुक्ता महामुक्तिफलप्रदा । अनङ्गमोहिनी शक्तिरूपा शक्तिस्वरूपिणी ॥ १०५॥ पञ्चशक्तिस्वरूपा च शैशवानन्दकारिणी । गजेन्द्रगामिनी श्यामलताऽनङ्गलता तथा ॥ १०६॥ योषिच्छ्क्तिस्वरूपा च योषिदानन्दकारिणी । प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी ॥ १०७॥ प्रेमहारा प्रेमदात्री प्रेमशक्तिमयी तथा । कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी ॥ १०८॥ प्रेमभक्तिप्रदा प्रेमा प्रेमानन्दतरङ्गिणी । प्रेमक्रीडापरीताङ्गी प्रेमभक्तितरङ्गिणी ॥ १०९॥ प्रेमार्थदायिनी सर्वश्वेता नित्यतरङ्गिणी । हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी ॥ ११०॥ कपिला श‍ृङ्खला केशपाशसम्बन्धिनी घटी । कुटीरवासिनी धूम्रा धूम्रकेशा जलोदरी ॥ १११॥ ब्रह्माण्डगोचरा ब्रह्मरूपिणी भवभाविनी । संसारनाशिनी शैवा शैवलानन्ददायिनी ॥ ११२॥ शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी । मनोरमा वेगवती वेगाढ्या वेदवादिनी ॥ ११३॥ दयान्विता दयाधारा दयारूपा सुसेविनी । किशोरसङ्गसंसर्गा गौरचन्द्रानना कला ॥ ११४॥ कलाधिनाथवदना कलानाथाधिरोहिणी । विरागकुशला हेमपिङ्गला हेममण्डना ॥ ११५॥ भाण्डीरतालवनगा कैवर्ती पीवरी शुकी । शुकदेवगुणातीता शुकदेवप्रिया सखी ॥ ११६॥ विकलोत्कर्षिणी कोषा कौषेयाम्बरधारिणी । कोषावरी कोषरूपा जगदुत्पत्तिकारिका ॥ ११७॥ सृष्टिस्थितिकरी संहारिणी संहारकारिणी । केशशैवलधात्री च चन्द्रगात्री सुकोमला ॥ ११८॥ पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिणी । विन्ध्यालया श्यामसखी सखी संसाररागिणी ॥ ११९॥ भूता भविष्या भव्या च भव्यगात्रा भवातिगा । भवनाशान्तकारिण्याकाशरूपा सुवेशिनी ॥ १२०॥ रतिरङ्गपरित्यागा रतिवेगा रतिप्रदा । तेजस्विनी तेजोरूप कैवल्यपथदा शुभा ॥ १२१॥ भक्तिहेतुर्मुक्तिहेतुलङ्घिनी लङ्घनक्षमा । विशालनेत्रा वैसाली विशालकुलसम्भवा ॥ १२२॥ विशालगृहवासा च विशालबदरीरतिः । भक्त्त्यतीता भक्तगतिर्भक्तिका शिवभक्तिदा ॥ १२३॥ शिवशक्तिस्वरूपा च शिवार्धाङ्गविहारिणी । शिरीषकुसुमामोदा शिरीषकुसुमोज्ज्वला ॥ १२४॥ शिरीषमृद्धी शैरीषी शिरीषकुसुमाकृतिः । वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ १२५॥ विजिता विजितामोदा गणगा गणतोषिता । हयास्या हेरम्बसुता गणमाता सुखेश्वरी ॥ १२६॥ दुःखहन्त्री दुःखहरा सेवितेप्सितसर्वदा । सर्वज्ञत्वविधात्री च कुलक्षेत्रनिवासिनी ॥ १२७॥ लवङ्गा पाण्डवसखी सखीमध्यनिवासिनी । ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ १२८॥ सर्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा । गङ्गेरिता पूतगात्रा पवित्रकुलदीपिका ॥ १२९॥ पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी । पवित्रगुणशीलाढ्या पवित्रकुलदीपिनी ॥ १३०॥ कल्पमाना कंसहरा विन्ध्याचलनिवासिनी । गोवर्धनेश्वरी गोवर्धनहास्या हयाकृतिः ॥ १३१॥ मीनावतारा मिनेशी गगनेशी हया गजी । हरिणी हरिणी हारधारिणी कनकाकृतिः ॥ १३२॥ विद्युत्प्रभा विप्रमाता गोपमाता गयेश्वरी । गवेश्वरी गवेशी च गवीशी गविवासिनी ॥ १३३॥ गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी । निर्वाणदात्री नैर्वाणी हेतुयुक्ता गयोत्तरा ॥ १३४॥ पर्वताधिनिवासा च निवासकुशला तथा । संन्यासधर्मकुशला संन्यासेशी शरन्मुखी ॥ १३५॥ शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी । वसन्तरागसंरागा वसन्तवसनाकृतिः ॥ १३६॥ चतुर्भुजा षड्भुजा द्विभुजा गौरविग्रहा । सहस्रास्या विहास्या च मुद्रास्या मददायिनी ॥ १३७॥ प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता । कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ १३८॥ कृष्णप्रेमरता कृष्णभक्ता भक्तफलप्रदा । कृष्णप्रेमा प्रेमभक्ता हरिभक्तिप्रदायिनी ॥ १३९॥ चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी । उग्ररूपा शिवक्रोडा कृष्णक्रोडा जलोदरी ॥ १४०॥ महोदरी महादुर्गकान्तारसुस्थवासिनी । चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ १४१॥ समुद्रमथनोद्भूता समुद्रजलवासिनी । समुद्रामृतरुपा च समुद्रजलवासिका ॥ १४२॥ केशपाशरता निद्रा क्षुधा प्रेमतरङ्गिका । दूर्वादलश्यामतनुर्दूर्वादलतनुच्छविः ॥ १४३॥ नागरा नागरिरागा नागरानन्दकारिणी । नागरालिङ्गनपरा नागराङ्गनमङ्गला ॥ १४४॥ उच्चनीचा हैमवती प्रिया कृष्णतरङ्गदा । प्रेमालिङ्गनसिद्धाङ्गी सिद्धा साध्यविलासिका ॥ १४५॥ मङ्गलामोदजननी मेखलामोदधारिणी । रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ १४६॥ जम्बालमालिका कृष्णप्राणा प्राणविमोचना । सत्यप्रदा सत्यवती सेवकानन्ददायिका ॥ १४७॥ जगद्योनिर्जगद्बीजा विचित्रमणिभूषणा । राधारमणकान्ता च राध्या राधनरूपिणी ॥ १४८॥ कैलासवासिनी कृष्णप्राणसर्वस्वदायिनी । कृष्णावतारनिरता कृष्णभक्तफलार्थिनी ॥ १४९॥ याचकायाचकानन्दकारिणी याचकोज्ज्वला । हरिभूषणभुषाढ्याऽऽनन्दयुक्ताऽऽर्द्रपदगा ॥ १५०॥ हैहैतालधरा थैथैशब्दशक्तिप्रकाशिनी । हेहेशब्दस्वरुपा च हिहिवाक्यविशारदा ॥ १५१॥ जगदानन्दकर्त्री च सान्द्रानन्दविशारदा । पण्डिता पण्डितगुणा पण्डितानन्दकारिणी ॥ १५२॥ परिपालनकर्त्री च तथा स्थितिविनोदिनी । तथा सम्हारशब्दाढ्या विद्वज्जनमनोहरा ॥ १५३॥ विदुषां प्रीतिजननी विद्वत्प्रेमविवर्धिनी । नादेशी नादरूपा च नादबिन्दुविधारिणी ॥ १५४॥ शून्यस्थानस्थिता शून्यरूपपादपवासिनी । कार्त्तिकव्रतकर्त्री च वसनाहारिणी तथा ॥ १५५॥ जलशाया जलतला शिलातलनिवासिनी । क्षुद्रकीटाङ्गसंसर्गा सङ्गदोशविनाशिनी ॥ १५६॥ कोटिकन्दर्पलावण्या कन्दर्पकोटिसुन्दरी । कन्दर्पकोटिजननी कामबीजप्रदायिनी ॥ १५७॥ कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी । कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा ॥ १५८॥ यामिनी यामिनीनाथवदना यामिनीश्वरी । यागयोगहरा भुक्तिमुक्तिदात्री हिरण्यदा ॥ १५९॥ कपालमालिनी देवी धामरूपिण्यपूर्वदा । कृपान्विता गुणा गौण्या गुणातीतफलप्रदा ॥ १६०॥ कुष्माण्डभूतवेतालनाशिनी शरदान्विता । शीतला शवला हेला लीला लावण्यमङ्गला ॥ १६१॥ विद्यार्थिनी विद्यमाना विद्या विद्यास्वरूपिणी । आन्वीक्षिकी शास्त्ररूपा शास्त्रसिद्धान्तकारिणी ॥ १६२॥ नागेन्द्रा नागमाता च क्रीडाकौतुकरूपिणी । हरिभावनशीला च हरितोषणतत्परा ॥ १६३॥ हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता । नरकार्णवसंहन्त्री नरकार्णवनाशिनी ॥ १६४॥ नरेश्वरी नरातीता नरसेव्या नराङ्गना । यशोदानन्दनप्राणवल्लभा हरिवल्लभा ॥ १६५॥ यशोदानन्दनारम्या यशोदानन्दनेश्वरी । यशोदानन्दनाक्रिडा यशोदाक्रोडवासिनी ॥ १६६॥ यशोदानन्दनप्राणा यशोदानन्दनार्थदा । वत्सला कौशला काला करुणार्णवरूपिणी ॥ १६७॥ स्वर्गलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया । तथार्जुनसखी भौमी भैमी भीमकुलोद्भवा ॥ १६८॥ भुवना मोहना क्षीणा पानासक्ततरा तथा । पानार्थिनी पानपात्रा पानपानन्ददायिनी ॥ १६९॥ दुग्धमन्थनकर्माढ्या दुग्धमन्थनतत्परा । दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना ॥ १७०॥ घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका । विचित्रकथका कृष्णहास्यभाषणतत्परा ॥ १७१॥ गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा । रासासक्ता रासरतिरासवासक्तवासना ॥ १७२॥ हरिद्रा हरिता हारिण्यानन्दार्पितचेतना । निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका ॥ १७३॥ सुबलस्य स्वसा कृष्णभार्या भाषातिवेगिनी । श्रीदामस्य शखी दामदामिनी दामधारिणी ॥ १७४॥ कैलासिनी केशिनी च हरिदम्बरधारिणी । हरिसान्निध्यदात्री च हरिकौतुकमङ्गला ॥ १७५॥ हरिप्रदा हरिद्वारा यमुनाजलवासिनी । जैत्रप्रदा जितार्थी च चतुरा चातुरी तमी ॥ १७६॥ तमिस्राऽऽतापरूपा च रौद्ररूपा यशोऽर्थिनी । कृष्णार्थिनी कृष्णकला कृष्णानन्दविधायिनी ॥ १७७॥ कृष्णार्थवासना कृष्णरागिनी भवभाविनी । कृष्णार्थरहिता भक्ता भक्तभक्तिशुभप्रदा ॥ १७८॥ श्रीकृष्णरहिता दीना तथा विरहिणी हरेः । मथुरा मथुराराजगेहभावनभावना ॥ १७९॥ श्रीकृष्णभावनामोदा तथोऽन्मादविधायिनी । कृष्णार्थव्याकुला कृष्णसारचर्मधरा शुभा ॥ १८०॥ अलकेश्वरपूज्या च कुवेरेश्वरवल्लभा । धनधान्यविधात्री च जाया काया हया हयी ॥ १८१॥ प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी । ब्रह्मविष्णुशिवार्धाङ्गहारिणी शैवशिंशपा ॥ १८२॥ राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी । सकलेप्सितदात्री च शची साध्वी अरुन्धती ॥ १८३॥ पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी । अशेषसाधनी कल्पवासिनी कल्परूपिणी ॥ १८४॥ ॥ फलश्रुती ॥ श्रीमहादेव उवाच - इत्येतत् कथितं देवि राधानामसहस्रकम् । यः पठेत् पाठयद्वापि तस्य तुष्यति माधवः ॥ १८५॥ किं तस्य यमुनाभिर्वा नदीभिः सर्वतः प्रिये । कुरुक्षेत्रादितीर्थैश्च यस्य तुष्टो जनार्दनः ॥ १८६॥ स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले । ब्राह्मणो ब्रह्मवर्चाः स्यात् क्षत्रियो जगतिपतिः ॥ १८७॥ वैश्यो निधिपतिर्भूयात् शूद्रो मुच्येत जन्मतः । ब्रह्महत्यासुरापानस्तेयादेरतिपातकात् ॥ १८८॥ सद्यो मुच्येत देवेशि सत्यं सत्यं न संशयः । राधानामसहस्रस्य समानं नास्ति भूतले ॥ १८९॥ स्वर्गे वाप्यथ पाताले गिरौ व जलतोऽपि वा । नातः परं शुभं स्तोत्रम् तीर्थं नातः परं परम् ॥ १९०॥ एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः । तस्य सर्वार्थसिद्धिः स्याच्छृणुयाद् वा सुशोभने ॥ १९१॥ द्वादश्यां पौर्णमास्यां वा तुलसीसन्निधौ शिवे । यः पठेत् श‍ृणुयाद्वापि तस्य तत्तत् फलं श‍ृणु ॥ १९२॥ अश्वमेधं राजसूयं बार्हस्पत्यं तथाऽऽत्रिकम् । अतिरात्रं वाजपेयमग्निष्टोमं तथा शुभम् ॥ १९३॥ कृत्वा यत् फलमाप्नोति श्रुत्वा तत् फलमाप्नुयात् । कार्त्तिके चाष्टमीं प्राप्य पठेद्वा श‍ृणुयादपि ॥ १९४॥ सहस्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् । ततश्च ब्रह्मभवने शिवस्य भवने पुनः ॥ १९५॥ सुराधिनाथभवने पुनर्याति सलोकताम् । गङ्गातीरं समासाद्य यः पठेत् श‍ृणुयादपि ॥ १९६॥ विष्णोः सारूप्यमायाति सत्यं सत्यं सुरेश्वरि । मम वक्त्रगिरेर्जाता पार्वतीवदनाश्रिता ॥ १९७॥ राधानाथसहस्राख्या नदी त्रैलोक्यपावनी । पठ्यते हि मया नित्यं भक्त्या शक्त्या यथोचितम् ॥ १९८॥ मम प्राणसमं ह्यन्यत्त् तव प्रीत्या प्रकाशितम् । नाभक्ताय प्रदातव्यं पाखण्डाय कदाचन ॥ १९९॥ नास्तिकायाविरागाय रागयुक्ताय सुन्दरि । तथा देयं महास्तोत्रं हरिभक्ताय शङ्करि ॥ २००॥ वैष्णवेषु यथाशक्ति दात्रे पुण्यार्थशालिने । राधानामसुधावारि मम वक्त्रसुधाम्बुधेः ॥ २०१॥ उद्धृतासौ त्वया यत्नात् यतस्त्वं वैष्णवाग्रणीः ॥ २०२॥ विशुद्धसत्त्वाय यथार्थवादिने द्विजस्य सेवानिरताय मन्त्रिणे । दात्रे यथाशक्ति सुभक्तिमानसे राधापदध्यानपराय शोभने ॥ २०३॥ हरिपादाङ्कमधुपमनोभूताय मानसे । राधापादसुधास्वादशालिने वैष्णवाय च ॥ २०४॥ दद्यात् स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् । जन्मान्तरं न तस्यास्ति राधाकृष्णपदार्थिनः ॥ २०५॥ मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि । शूलं मया धर्यते हि नान्यथा मेऽत्र कारणम् ॥ २०६॥ हरिभक्तिद्विषामर्थे शूलं सन्धर्यते मया । श‍ृणु देवि यथार्थं मे गदितं त्वयि सुव्रते ॥ २०७॥ भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् । कदापि नोच्यते देवि मया नामसहस्रकम् ॥ २०८॥ इति नारदपञ्चरात्रे ज्ञानामृतसारतः श्रीराधिकासहस्रनामस्तोत्र सम्पूर्णम् । Proofread by DPD From different sources including Vishnustutimanjari, Mahaperiaval Publication
% Text title            : rAdhikAsahasranAmastotram
% File name             : rAdhikAsahasranAmastotra.itx
% itxtitle              : rAdhikAsahasranAmastotram (nAradapancharAtrAntargatam))
% engtitle              : rAdhikAsahasranAmastotram
% Category              : sahasranAma, devii, rAdhA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Description-comments  : From Vishnustutimanjari, Mahaperiaval Publication
% Source                : nAradapancharAtre jnAnAmRitasArataH
% Indexextra            : (translation)
% Latest update         : October 18, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org