श्रीरेणुका खड्गमाला मन्त्रः

श्रीरेणुका खड्गमाला मन्त्रः

॥ श्री गणेशाय नमः ॥ ॥ श्री रेणुकायै नमः ॥ ॐ रेणुका कुण्डली वक्रा कुण्डल्यपि महाकुला । लीयमाना प्रकर्तव्या वर्णोच्चारेण शङ्कर ॥ लीयमाना विजानीहि निरालम्बा महापदा । अप्रमेया विरूपाक्षीं हुङ्कारं कुण्डली शुभा ॥ आदिक्षान्तं समुच्चार्य प्रणवं चान्तरे न्यसेत् । देहे विन्यस्य बीजानि रक्ष रक्षेति रेणुके ॥ रक्ष मां भार्गवि देवि रक्ष रामप्रसूर्मम । जमदग्नि प्रिये रक्षास्मदीयमिदंवपुः ॥ ॐ श्रीं ह्रीं क्रों ऐं वज्रवैरोचनीये समयिनी छिन्नमस्तके सकलसुरासुरवन्दिते महाभूपालमौलिमालार्चितचरणकमले विकटदन्तच्छटाटोपनिवारिणि मदीयं शरीरं रक्ष रक्ष परमेश्वरि हुं फट् स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । कमलमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाऋषिप्रिये वरदायिनि महाभोगप्रदे अस्मदीयं शरीरं वज्रमयं कुरु कुरु दुर्जनान् हन हन महीपालान् क्षोभय क्षोभय परचक्रं भञ्जय भञ्जय जयङ्करि स्मरणमात्रगामिनी त्रैलोक्यस्वामिनि समलवरयूं रमलवरयूं भमलवरयूं क्षमलवरयूं श्री भार्गवि प्रसीद प्रसीद स्वाहा । इति सर्वाङ्गे व्यापकं न्यसेत् । एषा विद्या महाविद्या समया बलवत्तरा । अतिवीर्यतरा तीव्रा सूर्यकोटिसमप्रभा ॥ कुलाङ्गना कुलं सर्वं मदीयं परमेश्वरि । देवि रक्षतु सर्वाङ्गं दिव्याङ्गी भोगदायिनी ॥ रक्ष रक्ष महादेवि शरीरं परमेश्वरि । मदीयं परमानन्दे आपादतलमस्तकम् ॥ हुङ्कारं च ततः कुर्यात् पूजयेत् भुविमण्डले । पूजान्ते वामहस्तेन ह्रीङ्कारं च त्रिधा जपेत् ॥ पश्चात् रेणुका मन्त्रेण मूलमन्त्रेण शाङ्करि । चक्रावरण देवीनां रेणुकाया महौजसः ॥ एकत्र गणनारूप मन्त्रो मन्त्रार्थ गोचरः । मालामन्त्रविधानेन क्रमणोच्चारणे भवेत् ॥ तस्मात् खड्गवरं मन्त्रं स्वतनौ रक्षणं महत् । ध्यानम् सिद्धैरर्चितसुन्दरा श्रुतिमती रामप्रसूर्भार्गवी । ज्ञापर्णाऽदिति रेणुका ऋषिप्रिया श्रीमूलपीठे स्थिता ॥ पञ्चार्णैरभिपूजिता श्रुतिधरा खड्गाभिधा मालया । सा मे रक्षतु तत्परार्चनविधौ आवर्तने भाविता ॥ पूर्णानन्दमयी देवी मूलपीठनिवासिनी । परशुराम प्रसूर्माता खड्गाभिदाऽभिरक्षतु ॥ ॐ अस्य श्री रेणुका शुद्ध खड्गमाला महामन्त्रस्य वर्णादित्य ऋषिः गायत्री छन्दः श्री रेणुका देवता ऐं बीजं ह्रीं शक्तिः क्रौं कीलकं ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः । ध्यायेन्नित्यमितिध्यानम् ॥ तादृशं खड्गमाप्नोति येन हस्तस्थितेन वै । अष्टादश महाद्वीप सम्राड्भोक्ता भविष्यति ॥ ॐ श्रीं ह्रीं क्रों ऐं ॐ नमः श्री सुन्दरि भार्गवि हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेव्यस्त्रदेवि पञ्चदशतिथि नित्ये परमेश्वर परमेश्वरि मित्रशमयि षष्ठीशमयि उड्डीशमयि चर्यानाथमयि श्री रेणुकामयि जमदग्निमयि कालतापनमयि धर्माचारमयि मुक्तकेशीश्वरमयि दीपकलानाथमयि शिवकलाकश्यपमयि इन्द्रसुराधिप सपरिवार वज्रायुधमयि अग्नितेजोऽधिप सपरिवार शक्त्यायुधमयि यमनियमाधिप सपरिवार दण्डायुधमयि नैरृत्यरक्षाधिप सपरिवार खड्गायुधमयि वरुण जलाधिप सपरिवार पाशायुधमयि वायुप्राणाधिप सपरिवार कुशायुधमयि कुबेरयक्षाधिप सपरिवार गदायुधमयि शङ्करभूताधिप सपरिवार शूलायुधमयि विरञ्चिजीवाधिप सपरिवार दर्भायुधमयि विष्णुविश्वाधिप सपरिवार चक्रायुधमयि भूपुरप्रथमरेखे ऐं उत्पत्तिसत्त्वगुणकारणमयि मध्यरेखे श्रीं स्थिति रजोगुण कारणमयि अन्त्यरेखे ह्रीं लय तमोगुण कारणमयि त्रैलोक्यमोहनचक्र स्वामिनि प्रकटयोगिनि स्तम्भनमुद्रे । ब्रह्माणि कौमारि वाराहि शाङ्करि इन्द्राणि कङ्कालि करालि कालि महाकालि चामुण्डे ज्वालामुखि कामाख्ये कपालिनि भद्रकालि दुर्गे अम्बिके ललिते गौरि सुमङ्गले रोहिणि कपिले शूलकरे कुण्डलिनि त्रिपुरे कुरुकुल्ले भैरवि भद्रे चन्द्रावति नारसिंहि निरञ्जने हेमकान्ते प्रेतासने ईशानि वैश्वानरि वैष्णवि विनायकि यमघण्टे हरसिद्धे सरस्वति तोतुले वन्दिनि शङ्खिनि पद्मिनि चित्रिणि वारुणि चण्डि वनदेवि यमभगिनि सूर्यपुत्रि सुशीलते कृष्ण वाराहि रक्ताक्षि कालरात्रे आकाशि श्रेष्ठिनि जये विजये धूमावति वागीश्वरि कात्यायिनि अग्निहोत्रि चक्रेश्वरि महाविद्ये ईश्वरि सर्वाशापरिपूरक चक्रस्वामिनि गुप्तयोगिनि विद्ये ह्रीं पुष्टे प्रज्ञे सिनीवालि कुहु रुद्रे वीर्ये प्रभे नन्दे पोषिणि ऋद्धिदे कालरात्रे महारात्रे भद्रकालि कपर्दिनि विवृते दण्डिनि मुण्डिनि सेन्दुखण्डे शिखण्डिनि निशुम्भशुम्भमथिनि महिषासुरमर्दिनि इन्द्राणि रुद्राणि शङ्करार्द्धशरीरिणि नारि नारायणि त्रिशूलिनि पालिनि अम्बिके ह्लादिनि सर्व सङ्क्षोभिणचक्रस्वामिनि गुप्ततरयोगिनि । गौरि पद्मे शचि मेधे सावित्रि विजये जये देवसेनेस्वधे स्वाहे मातः लोकमातः धृते पुष्टे तुष्टे कुलदैवते सर्वसौभाग्यदायिके चक्रस्वामिनि सम्प्रदाययोगिनि । असिताङ्ग भैरवमयि रुरुभैरवमयि चण्डभैरवमयि क्रोधभैरवमयि उन्मत्तभैरवमयि भीषणभैरवमयि संहारभैरवमयि ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महालक्ष्मि सर्वरक्षाकरचक्रस्वामिनि निगर्भयोगिनि चतुरस्त्रमुद्रे । जये विजये दुर्गे भद्रकालि क्षेमकरि नित्ये सर्वार्थसाधिके चक्रस्वामिनि कुलोत्तीर्णयोगिनि मत्स्यमुद्रे शङ्खनिध्यम्बे पद्मनिध्यम्बे क्लां मातृपुरनिवासिनि हृदयशक्तिः । क्लीं मूलपीठाश्रिते स्वाहा । शिरो शक्तिः । क्लूं रेणागिरिप्रिये वषट् शिखा शक्तिः । क्लैं एकवीरे हुं कवच शक्तिः । क्लौं भार्गवि वीरे वौषट् नेत्र शक्तिः । क्लः रेणुके फट् अस्त्रशक्तिः । सर्वं रक्षाकर चक्रस्वामिनि निगर्भ योगिनि । डां डाकिनि त्वग्रक्षिणि चतुःषष्ठिलक्षकोटियोगिनी स्वामिनीनायिके । शां शाकिनि असृग्रक्षिणि द्वात्रिंशल्लक्षकोटियोगिनी स्वामिनीनायिके । लां लाकिनि मांसरक्षिणिषोडशलक्षकोटियोगिनी स्वामिनीनायके । कां काकिनि मेदोरक्षिण्यष्टलक्षकोटियोगिनि स्वामिनीनायिके । सां साकिनि अस्थिरक्षिणि चतुर्लक्षकोटियोगिनि स्वमिनीनायिके । हां हाकिनि मज्जारक्षिणि द्विलक्षकोटियोगिनि स्वामिन्नीआयिके । शां शाकिनि शुक्ररक्षिणि एकलक्षकोटियोगिनि स्वामिनीनायिके । सर्वरोगहरचक्रस्वामिनि सर्वरहस्ययोगिनि गोमुखमुद्रे । क्लीं टङ्कहस्ते परशुरामजननि । उड्यानपीठे इच्छाशक्तिः जालन्धरपीठे ज्ञानशक्तिः कामरूपपीठे क्रियाशक्तिः सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि योनिमुद्रे । श्री रेणुके बिन्दुचक्रनिवासिनि परापरातिरहस्ययोगिनि श्रीमूलपीठे श्रीमूलपीठेशि श्रीमूलपीठसुन्दरि श्रीमूलपीठनिवासिनि श्रीमूलपीठश्रि श्रीमूलपीठमालिनि श्रीमूलपीठसिद्धे श्रीमूलपीठाम्बे श्रीमहामूलपीठसुन्दरि श्रीमहामाहेश्वरि महामहाराज्ञि महामहाशक्ते महामहागुप्ते महामहाज्ञप्ते महामहानन्दे महामहास्पन्दे महामहाशये महामहाश्रीमूलपीठचक्रनगरस्वामिनि साम्राज्ञि नमस्ते नमस्ते नमस्ते स्वाहा ऐं क्रों ह्रीं श्रीं ॐ । ॐ श्रीं ह्रीं क्रों ऐं समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलिनि गर्भरहस्यातिरहस्य परापररहस्ययोगिनि श्रीराजराजेश्वरि श्रीरेणुकापरमेश्वरि श्रीमूलपीठेश्वरि श्रीपादुकां पूजयामि नमः । पुष्पाञ्जलिं निवेद्य मूलेन न्यासं विधाय मानसोपचारैः पूजयेत् । ॥ इति ॥ Eन्चोदेद् ब्य् ख़ौशल् ष्। ख़लू कौशल्स्कलू अत् ग्मैल्ॅओम् Pरूफ़्रेअद् ब्य् ख़ौशल् ष्। ख़लू, Pरीति Bहन्दरे
% Text title            : Renuka KhadgamalamantraH
% File name             : reNukAkhaDgamAlAmantra.itx
% itxtitle              : reNukA khaDgamAlA mantraH
% engtitle              : Shri Renuka khadgamala mantra
% Category              : mAlAmantra, devii, reNukA, devI, mantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo, NA, Preeti Bhandare
% Description-comments  : from shrIreNukAtantram, Pitambarapeeth, Datia
% Indexextra            : (Scan)
% Latest update         : April 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org