श्रीरेणुकासहस्रनामस्तोत्रम्

श्रीरेणुकासहस्रनामस्तोत्रम्

अथ श्रीरेणुकातन्त्रान्तर्गतं श्रीरेणुकासहस्रनामस्तोत्रम् । श्री गणेशाय नमः । श्री रेणुकायै नमः । गिरिपृष्ठे समासीनं शङ्करं लोकशङ्करम् । प्रणतः परिपप्रच्छ संशयस्थः षडाननः ॥ १॥ स्कन्द उवाच -- तात सर्वेश्वरस्त्वं हि सर्वज्ञः सर्वभावनः । कथयस्व प्रसादेन रहस्यं सकलार्थदम् ॥ २॥ विजयः सङ्कटे घोरे निर्विघ्नं बलमुत्कटम् । अन्येऽपि वाञ्छितार्थाश्च सिद्ध्यन्त्याशु विना श्रमम् ॥ ३॥ शङ्कर उवाच -- साधु पृष्टं महाबाहो संशयो मास्तु मास्तु ते । यदनुष्ठानमात्रेण सर्वान्कामानवाप्स्यसि ॥ ४॥ कस्यचिन्नयदाख्यातं तद्रहस्यं वदाम्यहम् । स्तोत्रं सहस्रनामाख्यं रेणुकायास्तु सिद्धिदम् ॥ ५॥ सद्यः प्रत्ययकामस्त्वं श‍ृणु षण्मुख भक्तितः । सर्वदेवाश्च वेदाश्चक्षीणवीर्या युगे युगे ॥ ६॥ अक्षीणफलदात्रीयं त्रिसत्यं मम भाषितम् । सर्वदेवमयी देवी रेणुका कामदार्चिता ॥ ७॥ पुरदाहे मया ध्याता तथैव गरलाशने । विष्णुना सागरोन्माथे ब्रह्मणा सृष्टिकर्मणि ॥ ८॥ गोत्रभेदे मघवता जगती धारणेऽहिना । कामेन शम्बरवधे रत्या तत्प्राप्तये पुनः ॥ ९॥ गणाधीशेन सततं विघ्नवारणकर्मणि । किं वत्स बहुनोक्तेन हैमवत्या मदाख्यया ॥ १०॥ ध्यात्वा सर्वार्थदा सा हि सर्वलोकैकसंश्रया । महत्कार्योद्यतैरन्यैर्बहुभिश्चिन्तिता शिवा ॥ ११॥ धर्मार्थकाममोक्षार्थमवाङ्मनसगोचरा । तस्या एव प्रसादात्तां स्तौमि नामावलिच्छलात् ॥ १२॥ ऋष्यादिकं च सङ्क्षेपात्कथयामि षडानन । त्र्यम्बकश्च ऋषिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥ १३॥ एकवीरा महामाया रेणुका दैवतं स्मृतम् । सर्वपापक्षयद्वारा प्रीत्यै देव्या मुहुर्मुहुः ॥ १४॥ सर्वाभीष्टफलप्राप्तौ विनियोग उदाहृतः । रेणुका राममातेति महापुरनिवासिनी ॥ १५॥ एकवीरा कालरात्रिरेकला नामभिः क्रमात् अङ्गुष्ठादि करन्यासो हृदयादि षडङ्गकम् । चतुर्थ्यन्तैर्नमोन्तैश्च प्रणवादिभिराचरेत् ॥ १६॥ अस्य श्री रेणुका सहस्रनामस्तोत्रमन्त्रस्य त्र्यम्बक ऋषिः श्रीरेणुका देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा श्री जगदम्बा रेणुका प्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं च जपे विनियोगः । अथ न्यासः - श्रीरेणुकायै नमः अङ्गुष्ठाभ्यां नमः । ॐ राममात्रे नमः तर्जनीभ्यां नमः । ॐ महापुरवासिन्यै नमः मध्यमाभ्यां नमः । ॐ एकवीरायै नमः अनामिकाभ्यां नमः । ॐ कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः । ॐ एकलायै नमः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि- ॐ रेणुकायै नमः हृदयाय नमः । ॐ राममात्रे नमः शिरसे स्वाहा । ॐ महापुरवासिन्यै नमः शिखायै वषट् । ॐ एकवीरायै नमः कवचाय हुं । ॐ कालरात्र्यै नमः नेत्रत्रयाय वौषट् । ॐ एकलायै नमः अस्त्राय फट् । ध्यानम् -- ध्यायेन्नित्यमपूर्ववेषललितां कन्दर्पलावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् । लीलाविग्रहिणीं विराजितभुजां सच्चन्द्रहासादिभि- र्भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ १७॥ अथ श्रीरेणुकासहस्रनामस्तोत्रम् । ॐ रेणुका रामजननी जमदग्निप्रिया सती । एकवीरा महामाया कालरात्रिः शिवात्मिका ॥ १८॥ महामोहा महादीप्तिः सिद्धविद्या सरस्वती । योगिनी चन्द्रिकासिद्धा सिद्धलक्ष्मीः शिवप्रिया ॥ १९॥ कामदा कामजननी मातृका मन्त्रसिद्धिदा । मन्त्रसिद्धिर्महालक्ष्मी मातृमण्डलवल्लभा ॥ २०॥ चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिः शुचिस्मिता । योगेश्वरी योगनिद्रा योगदात्री प्रभावती ॥ २१॥ अनाद्यन्तस्वरूपा श्रीः क्रोधरूपा महागतिः । मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसना रसा ॥ २२॥ मातृका पतिरुत्क्रोशा चण्डहासा महावरा । महावीरा महाशूरा महाचापा रथस्थिता ॥ २३॥ बर्हिपत्रप्रिया तन्वी बर्हिपत्रा चतुर्भुजा । नादप्रिया नादलुब्धा त्र्यक्षरा मृतजीवनी ॥ २४॥ अमृतामृतपानेष्टा सिन्धुपा पात्रशालिनी । चण्डहासधरा शूरा वीरा डमरुमालिनी ॥ २५॥ शिरोधरा पात्रकरा वरदा वरवर्णिनी । त्रिमूर्तिर्वेदजननी वेदविद्या तपोनिधिः ॥ २६॥ तपोयुक्ता तपोलक्ष्मीस्तपसः सिद्धिदापरा । ललिता सात्विकी शान्ता राजसी रक्तदन्तिका ॥ २७॥ एकला रेणुतनया कामाक्षी सत्परायणा । ऐन्द्री माहेश्वरी ब्राह्मी वैष्णवी वडवानला ॥ २८॥ कौबेरी धनदा याम्या याम्याग्नेयी तनुर्निशा । (धनदा याम्याग्नेयी वायुतनुर्निशा) ईशानी नैरृतिः सौम्या माहेन्द्री वारुणी समा ॥ २९॥ सर्वर्षिध्येयचरणा वारणा नरवल्लभा । भिल्लीवेषधरा भिल्ली बर्बरालकमण्डिता ॥ ३०॥ श‍ृङ्गीवादनसुरसा गुञ्जाहारविभूषणा । मयूरपिच्छाभरणा श्यामा नीलाम्बरा शिवा ॥ ३१॥ कालिका रेणुदुहिता शिवपूज्या प्रियंवदा । सृष्टिकृत् स्थितिकृत्क्रुद्धा पृथ्वी नारदसेविता ॥ ३२॥ संहारकारिणीन्द्राक्षी रक्षोघ्नी चन्द्रशेखरा । हुं फट् वौषट् वषड्रूपा स्वधा स्वाहा नमो मनुः ॥ ३३॥ सुषुप्तिर्जाग्रतिर्निद्रा स्वप्ना तुर्या च चक्रिणी । तारा मन्दोदरी सीताऽहल्याऽरुन्धतिकादितिः ॥ ३४॥ भगीरथी च कावेरी गौतमी नर्मदा मही । सरयूर्गौतमी भीमा त्रिवेणी गण्डकी सरी ॥ ३५॥ मानसं चन्द्रभागा च रेवा गङ्गा च वेदिका । हरिद्वारं मातृपुरं दत्तात्रेयनिवासभूः ॥ ३६॥ मातृस्थादिसंस्थाना मातृमण्डलमण्डिता । मातृमण्डलसम्पूज्या मातृमण्डलमध्यगा ॥ ३७॥ नानास्थानावताराद्या नानास्थानचरित्रकृत् । कमला तुलजाऽऽत्रेयी कोह्लापुरनिवासिनी ॥ ३८॥ मन्दाकिनी भोगवती दत्तात्रेयानुसूयका । षट्चक्रदेवता पिङ्गा जमदग्नीश्वरार्द्धहृत् ॥ ३९॥ इडाख्या च सुषुम्नाख्या चन्द्रसूर्यगतिर्वियत् । चन्द्रसूर्यसमाख्याता सर्वस्त्रीनिलयाध्वनिः ॥ ४०॥ समस्तविद्यातत्त्वज्ञा सर्वरूपा सुखाश्रया । पुण्यपापेश्वरी कीर्तिर्भोक्त्री भोगप्रवर्तिनी ॥ ४१॥ जमदग्न्यस्य जननी कविशक्तिः कवित्वदा । ह्रीङ्काराम्बा तमोरूपा क्लीङ्कारा कामदायिनी ॥ ४२॥ वाक्प्रदैङ्काररूपा च मुक्तिदौङ्काररूपिणी । श्रीङ्काराखिलदानोत्का सर्वबीजाऽऽत्मिकात्मभूः ॥ ४३॥ जमदग्नि शिवाङ्कस्था धर्मार्थकाममोक्षदा । जमदग्निक्रोधहरा जमदग्निवचःकरी ॥ ४४॥ जमदग्नितमोहन्त्री जमदग्निसुखैकभूः । जितवीरा वीरमता वीरभूर्वीरसेविता ॥ ४५॥ वीरदीक्षाकरी शौर्यदीक्षिता सर्वमङ्गला । कात्यायनी परीवारा कालकाला कलानिधिः ॥ ४६॥ अष्टसिद्धिप्रदा क्रूरा क्रूरग्रहविनाशिनी । साकारा च निराकाराहङ्काराकारणा कृतिः ॥ ४७॥ सम्मता विषमघ्नी च विषहन्त्री विषाशना । व्यालाभरणसंहृष्टा व्यालमण्डनमण्डिता ॥ ४८॥ अणुरूपा पराणुश्च सद्रूपा च कहापरा । ह्रस्वा ह्रस्वपरा दीर्घा परदीर्घा परात्परा ॥ ४९॥ अद्वयाद्वयरूपा च प्रपञ्चरहिता पृथुः । स्थूलसूक्ष्मा निरीहा च स्नेहाञ्जनविवर्जिता ॥ ५०॥ ब्रह्मसूता महानिद्रा योगनिद्रा हरिस्तुता । हिरण्यगर्भरूपा च परब्रह्मस्वरूपिणी ॥ ५१॥ ब्रह्मशक्तिर्ब्रह्मविद्या विश्वबीजा निरञ्जना । अतुला कर्मरूपा च श्यामला परिघायुधा ॥ ५२॥ नारायणी विष्णुशक्तिः अवाङ्मनसगोचरा । घृतमारी पुण्यकरी पुण्यशक्तिरमाम्बिका ॥ ५३॥ रक्तबीजवधोद्रिक्ता रक्तचन्दनचर्चिता । सुरक्तपुष्पाभरणा रक्तदंष्ट्राभयप्रदा ॥ ५४॥ तीक्ष्णरक्तनखारक्ता निशुम्भप्राणकृन्तिनी । शुम्भप्राणनिहन्त्री च महामृत्युविनाशिनी ॥ ५५॥ सर्वदेवमहाशक्तिर्महालक्ष्मी सुरस्तुता । अष्टादशभुजा ज्यांशा दशदोर्दण्डमण्डिता ॥ ५६॥ निष्कलाष्टभुजा धात्री कल्पातीता मनोहरा । कल्पनारहितार्च्याद्या दारिद्र्यवनदाहिनी ॥ ५७॥ कौस्तुभा पारिजाता च हाहादिरूपधारिणी । तिलोत्तमाप्सरोरूपा नवनागस्वरूपिणी ॥ ५८॥ निधिरूपा समाधिस्था खड्गरूपा शवस्थिता । महिषासुरदत्तांघ्रिः सिंहगा सिंहगामिनी ॥ ५९॥ त्रिशूलधारिणी प्रौढा बाला मुग्धा सुधर्मिणी । शङ्खभृच्चक्रभृत्पाशा गदाभृत्पाशमण्डिता ॥ ६०॥ कालशक्तिः कृपासिन्धुर्मृगारिवरवाहना । गणराजमहाशक्तिः शिवशक्तिः शिवस्तुता ॥ ६१॥ हरिप्रिया श्राद्धदेवी प्रधाना गुहरूपिणी । गुहप्रीता गणेट्प्रीता कामप्रीता गुहस्थिता ॥ ६२॥ सर्वार्थदायिनी रौद्री नीलागतिरलोलुपा । चामुण्डा चित्रघण्टा च विश्वयोनिर्निरन्तरा ॥ ६३॥ श्रावणी श्रमहन्त्री च संसारभ्रमनाशिनी । संसारफलसम्पन्ना संसारमतिरुच्चगा ॥ ६४॥ उच्चासनसमारूढा विमानवरगामिनी । विमानस्था विमानघ्नी पाशघ्नी कालनाशिनी ॥ ६५॥ कालचक्रभ्रमभ्रान्ता कालचक्रप्रवर्तिनी । चेतना चापिनी भव्या भव्याभव्यविनाशिनी ॥ ६६॥ सिंहासनसुखाविष्टा क्षीरसागरकन्यका । वणिक्कन्या क्षेमकरी मुकुटेशावनिस्थिता ॥ ६७॥ श्रुतिज्ञा च पुराणज्ञा स्मृतिज्ञा वेदवादिनी । वेदवेदार्थतत्त्वज्ञा हिङ्गुला कालशालिनी ॥ ६८॥ इतिहासार्थविद्धर्म्या ध्येया हन्त्री शिशुप्रिया । स्तन्यदा स्तन्यधारा च वनस्था पार्वतीशिवा ॥ ६९॥ मेना मैनाकभगिनी सुरभिर्जलमुक्तडित् । सर्वबीजान्तरस्थात्री सकलागमदेवता ॥ ७०॥ स्थलस्थला जलस्था च वनस्था वनदेवता । क्षयहन्त्री निहन्त्री च निरातङ्कामरप्रिया ॥ ७१॥ (निरातङ्का हरप्रिया) त्रिकालज्ञा त्रिरूपा च लीलाविग्रहधारिणी । (त्रिकालत्रा) समाधिः पुण्यधिः पुण्या पापाज्ञानविनाशिनी ॥ ७२॥ दृश्या दृग्विषया दृष्टिः पापहन्त्री शमस्थिता । विरथा रथनिष्ठा च वरूथरथसंस्थिता ॥ ७३॥ मधुकैटभहन्त्री च सर्वदेवशरीरभृत् । त्रिपुरा पुण्यकीर्तिश्च नृपवश्यप्रदायिनी ॥ ७४॥ (नृपवंश्यप्रदायिनी) सांख्यविद्या त्रयीविद्या योगविद्या रविस्थिता । स्थावरा जङ्गमा क्षान्तिर्बलिशक्तिर्बलिप्रिया ॥ ७५॥ महिषासुरनिर्णाशी दैत्यहन्त्र्यपरान्तकृत् । डमड्डमरुडाङ्कारा वीरश्रीर्जनदेवता ॥ ७६॥ उद्गीथोद्गीथमर्यादा क्षीरसागरशायिनी । वीरलक्ष्मीर्वीरकान्ता शिवदूती सनातनी ॥ ७७॥ शक्रादिसंस्तुता हृष्टा चण्डमुण्डविनाशिनी । पञ्चवक्त्रैकरूपा च त्रिनेत्रा बलिमोहिनी ॥ ७८॥ धूम्रलोचननिर्नाशाहङ्कारोद्गारभाषिणी । एकमूर्तिस्त्रिधामूर्तिः त्रिलोकानन्ददायिनी ॥ ७९॥ भवानी दशमूर्तिश्च पञ्चमूर्तिर्जयन्तिका । दक्षिणा दक्षिणामूर्तिः अनेकैकादशाकृतिः ॥ ८०॥ एकचक्षुरनन्ताक्षी विश्वाक्षी विश्वपालिनी । चतुर्विंशतितत्त्वाद्या चतुर्विंशतितत्त्ववित् ॥ ८१॥ सोऽहं हंसाविशेषज्ञा निर्विशेषा निराकृतिः । यमघण्टामृतकला जयघण्टा जयध्वनिः ॥ ८२॥ पाञ्चजन्यस्फुरच्छक्तिर्हनुमच्छक्तिरास्तिका । शीलातरणशक्तिश्च रामशक्तिर्विराट्तनुः ॥ ८३॥ लङ्काप्रज्वलना वेला सागरक्रमणक्रमात् । नरनारायणप्रीतिर्लोकनीतिरघौघकृत् ॥ ८४॥ विपाशा पाशहस्ता च विश्वबाहुस्त्रिलिङ्गिका । प्राची प्रतीची विदिशा दक्षिणा दक्षकन्यका ॥ ८५॥ शिवलिङ्गप्रतिष्ठात्री शिवलिङ्गप्रतिष्ठिता । अज्ञाननाशिनी बुद्धिस्तत्त्वविद्या सुचेतना ॥ ८६॥ प्रकाशा स्वप्रकाशा च द्वयाद्वयवर्जिता । असद्रूपा च सद्रूपा सदसद्रूपशालिनी ॥ ८७॥ कैलासनिलया गौरी वृषगा वृषवाहना । सोमसूर्याग्निनयना सोमसूर्याग्निविग्रहा ॥ ८८॥ विषमेक्षणदुर्धर्षा लङ्कादाहकरी दितिः । वैकुण्ठविलसन्मूर्तिः वैकुण्ठनिलयानिला ॥ ८९॥ नमोमूर्तिस्तमोमूर्तिस्तेजोमूर्तिरमेयधीः । सूर्यमूर्तिश्चन्द्रमूर्तिः यजमानशरीरिणी ॥ ९०॥ आप्यमूर्तिरिलामूर्तिः नरनारायणाकृतिः । विषयाज्ञानभिन्ना च विषयाज्ञाननिर्वृतिः ॥ ९१॥ सुखवित्सुखिनी सौख्या वेदवेदाङ्गपारगा । स्रुक् स्रुवा च वसोर्धारा यागशक्तिरशक्तिहृत् ॥ ९२॥ यज्ञकृत् प्राकृतिर्यज्ञा यज्ञरागविवर्धिनी । यज्ञभोक्त्री यज्ञभागा सौभाग्यवरदायिनी ॥ ९३॥ व्यापिनी दशदिग्बाहुर्दिगन्ता बलिदायिनी । (लाकिनी दशदिग्बाहुर्दिगन्ता) कृपा विश्वेश्वरी स्वङ्गा शताक्षी कामदेवता ॥ ९४॥ कामचारप्रिया कामा कामाचारपरायणा । चिकित्सा वेदविद्या च वैद्यमातामहौषधिः ॥ ९५॥ महौषधिरसप्रीता विकराला कलातिगा । मेघशक्तिर्महावृष्टिः सुवृष्टिः शिवशर्मदा ॥ ९६॥ रुद्राणी रुद्रवदना रुद्रपूज्यान्नपूर्णिका । अन्नदानरसाऽन्नाद्या तृप्तिदा भोजनप्रिया ॥ ९७॥ कर्मपाशप्रदा पङ्क्तिः पाकशक्तिः पचिक्रिया । सुपक्वफलदा वाञ्छा वाञ्छाधिकफलप्रदा ॥ ९८॥ सर्वयन्त्रमयी पूर्णा सर्वभूताश्रयाम्बिका । ब्राह्मणी ब्रह्मशक्तिश्च चराचरविभाविनी ॥ ९९॥ चराचरगतिर्जैत्री लक्षालक्षेश्वरार्द्धहृत् । गुहशक्तिर्गणेट् शक्तिर्नारसिंही सहस्रदृक् ॥ १००॥ सर्पमालोत्तरीया च सर्प सर्वाङ्गभूषणा । वाराही च सहस्राक्षी कूर्मशक्तिः शुभालया ॥ १०१॥ शेषरूपा शेषशक्तिः शेषपर्यङ्कशायिनी । वराहदंष्ट्रा वलिधिः कामधीः काममोहिनी ॥ १०२॥ मायिनी चित्तसदना कामिकामप्रवर्धिनी । सर्वलक्षणसम्पूर्णा सर्वलक्षणनाशिनी ॥ १०३॥ नादरूपा बिन्दुरूपा कृतकर्मफलप्रदा । ध्रुवशक्तिः ध्रुवारोहा ध्रुवाटोपा ध्रुवार्थदा ॥ १०४॥ ध्रुवाकाराग्निहोत्राढ्या ध्रुवाचारा ध्रुवस्थितिः । ध्रुवाध्रुवमयी ध्रौव्या चिद्रूपाऽऽनन्दरूपिणी ॥ १०५॥ हृद्रूपा बगला कृष्णा नीलग्रीवा कुधीहरा । पवित्रदृष्टिः पावित्र्यकारिणी ऋषिवत्सला ॥ १०६॥ शिशूत्सङ्गधरासङ्गा सङ्गरागप्रवर्धिनी । (सङ्गरोगप्रवर्धिनी) निःसङ्गा सङ्गबहुला चतुराश्रमवासिनी ॥ १०७॥ चतुर्वर्णपरिष्वङ्गा चतुर्वर्णबहिस्थिता । निराश्रया रागवती रागिमानससंश्रया ॥ १०८॥ ब्राह्मणी राजदुहिता वैश्या शूद्रा परासुरा । गृहाश्रमसमासीना गृहधर्मनिरूपिणी ॥ १०९॥ गृहधर्मा विषादघ्नी ब्रह्मचर्यनिषेविणी । वानप्रस्थाश्रमस्था च यतिधर्मा स्फुरत्तनुः ॥ ११०॥ संस्थितिः प्रलया सृष्टिः सर्गस्थित्यन्तखेलकृत् । ज्ञानशक्तिः क्रियाशक्तिः छायाशक्तिरपूर्वकृत् ॥ १११॥ नानावादविशेषज्ञा नानावादनिरङ्गता । शून्यवादनिराकारा धर्मवादनिरूपिणी ॥ ११२॥ नवचण्डी क्रियाहेतुः सङ्कल्पाकल्पनातिगा । निर्विकल्पा विकल्पाढ्या सङ्कल्पाकल्पभूरुहा ॥ ११३॥ सृष्टिघ्नी च स्थितिघ्नी च विनाशघ्नी त्रिरूपभृत् । अयोध्या द्वारका काशी मथुरा काञ्च्यवन्तिका ॥ ११४॥ विशोका शोकमार्तण्डी पाञ्चाली शोकनाशिनी । शमनियमशक्तिश्च धर्मशक्तिर्जयध्वजा ॥ ११५॥ मुक्तिः कुण्डलिनी भुक्तिर्विषदृष्टिः समेक्षणा । कृपेक्षणा कृपार्द्राङ्गी कृपार्चिता कृपाश्रुतिः ॥ ११६॥ (कृपाचिन्ता) महापुराद्रिनिलया महापुरकृतस्थितिः । अज्ञानकल्पनानन्ता प्रपञ्जकलनातिगा ॥ ११७॥ साम्यदृष्टिः देहपुष्टिः कृतसृष्टिर्हताखिला । वेणुपुण्यपरीपाकाऽयोनिजा वह्निसम्भवा ॥ ११८॥ महापुरसुखासीना डमड्डमरुदर्पिता । महापुरमहादेवी डमरुप्रीतिवल्गिता ॥ ११९॥ भद्रकाली पितृशक्तिर्ह्यालसा भुवनेश्वरी । गायत्री च चतुर्वक्त्रा त्रिपुरा वीरवन्दिता ॥ १२०॥ यमाम्बा त्रिगुणाऽऽनन्दा कैवल्यपददायिनी । वडवा सदया भूस्था शाक्तसर्गप्रवर्तिनी ॥ १२१॥ इन्द्रादि देवजननी एलाम्बा कोलरूपिणी । कुम्भदर्पहरा दोला दोलाक्रीडनलालसा ॥ १२२॥ शीतला विष्णुमाया च चतुर्वक्त्रनमस्कृता । मातङ्गी विष्णुजननी प्रेतासननिवासिनी ॥ १२३॥ गरुत्मत्गमनानीला ब्रह्मास्त्रा ब्रह्मभूषिता । सिद्धिः पाशुपतास्त्रा च नीलेन्दीवरलोचना ॥ १२४॥ रुक्मा शङ्करजननी कर्मनाशा च शाम्भवी । त्रिगा वामनशक्तिश्च हिरण्यगर्भभूसुरा ॥ १२५॥ वाग्वादिनी च वर्णा च शङ्करार्धशरीरिणी । दारुणा मोहरात्रिश्च भ्रमादिगणरूपिणी ॥ १२६॥ दीपिका क्रोडवरदा मोहिनी गरलाशना । कपर्दार्चितसर्वाङ्गी कपर्दाभरणप्रिया ॥ १२७॥ सावित्री भैरवीविघ्ना पीतापीताम्बरप्रभुः । Added दशवक्त्रानवद्याङ्गी त्रिंशल्लोचनभूषिता ॥ १२८॥ दशांघ्रिर्दशदोर्दण्डा स्फुरद्दंष्ट्रातिभीषणा । कर्पूरकान्तिवदना नीलबाहुरनुत्तमा ॥ १२९॥ ब्रह्मगेया मुनिध्येया ह्रीङ्कारा कामविग्रहा । षड्बीजा नवबीजा च नवाक्षरतनुः खगा ॥ १३०॥ दशार्णा द्वादशार्णाढ्या षोडशार्णाविबीजगा । मालामन्त्रमयी जय्या सर्वबीजैकदेवता ॥ १३१॥ जपमाला च जयदा जपविघ्नविनाशिनी । जपकर्त्री जपस्तोत्रा मन्त्रयन्त्रफलप्रदा ॥ १३२॥ मन्त्रावरणरूपैका यन्त्रावरणदेवता । पद्मिनी पद्मपत्राक्षी शमी यज्ञाङ्गदेवता ॥ १३३॥ यज्ञसिद्धिः सहस्राक्षी सहस्राक्षपदप्रदा । रेणुवंशावताराढ्या महिषान्तकरी समित् ॥ १३४॥ ऋग्वेदा च यजुर्वेदा सामवेदा त्रयीपरा । अभिचारप्रियाथर्वा पञ्चतन्त्राधिदेवता ॥ १३५॥ अभिचारक्रिया शान्तिः शान्तिमन्त्राधिदेवता । अभिचारोपशमनी सर्वानन्दविधायिनी ॥ १३६॥ अथर्वपाठसम्पन्ना लेखनी लेखकस्थिता । भूमलेख्या वर्णशक्तिः सर्वशक्तिः प्रसिद्धिदा ॥ १३७॥ कीर्तिकामा कलाकामा कामाक्षी सर्वमङ्गला । शूलेश्वरी कुशूलघ्नी चिन्ताशोकविनाशिनी ॥ १३८॥ चिन्तादिदेवता भूतनायका नलकूबरी । करालीत्यूर्ध्वकेशी च श्रीधरी च विनायकी ॥ १३९॥ कामेश्वरी च कौबेरी पद्मावत्यभिधागतिः । ज्वालामुखी च कौमारी विजया मेघवाहना ॥ १४०॥ महाबला महोत्साहा महाभयनिवारिणी । कामिनी शाङ्करी काष्ठा सहस्रभुजनिग्रहा ॥ १४१॥ प्रभा प्रभाकरी भाषा सप्ताश्वरथसंस्थिता । अलकापुरसंस्थाना मृडानी विन्ध्यनिश्चला ॥ १४२॥ हिमाचलकृतक्रीडा पीडापापनिवारिणी । अर्धमात्राक्षरा सन्ध्या त्रिमात्रा भारती धृतिः ॥ १४३॥ वेदमाता वेदगर्भा कौशिकी त्र्यम्बका स्वरा । अम्बालिका क्षुधा तृष्णा धूम्रा रौद्रा दुरत्यया ॥ १४४॥ पानपात्रकरा जातिः श्रद्धावार्ता चितास्थिता । दुर्गाणी रक्तचामुण्डाऽऽवृतिः सोमावतंसिनी ॥ १४५॥ शरण्याऽऽर्या दुर्गपरा सारा ज्योत्स्ना महास्मृतिः । जगत्प्रतिष्ठा कल्याणी छाया तुष्टिश्च तामसी ॥ १४६॥ तृष्णा वाग्धीश्च नद्धा च गदिनी चक्रधारिणी । लज्जा सहस्रनयना महिषासुरमर्दिनी ॥ १४७॥ भीमा भद्रा भगवती नवदुर्गाऽपराजिता । मेधाष्टादशदोर्दण्डा दुर्गा कात्यायनी रतिः ॥ १४८॥ सर्वतः पाणिपादोरुर्भ्रामरी चन्द्ररूपिणी । इन्द्राणी च महामारी सर्वतोऽक्षिशिरोमुखा ॥ १४९॥ क्षोभिणी मोहिनी चैवे स्तम्भिनी जृम्भिणी तथा । रथिनी ध्वजिनी सेना सर्वमन्त्रमयी मही ॥ १५०॥ ज्ञानमुद्रा महमुद्रा जपमुद्रा महोत्सवा । जटाजूटधरा मुक्ता सूक्ष्मशान्तिर्विभीषणा ॥ १५१ सप्ताब्धिसंश्रया सत्ता सप्तद्वीपाब्धिमेखला । सूर्यदीप्तिर्वज्रपंक्तिः पानोन्मत्ता च पिङ्गला ॥ १५२॥ सर्वज्ञा विश्वमाता च भक्तानुग्रहकारिणी । विश्वप्रिया प्राणशक्तिरनन्तगुणनामधीः ॥ १५३॥ सर्वकल्याणनिलया शारदा त्र्यम्बिका सुधा ॥ १५४॥ फलश्रुतिः । श्री शङ्कर उवाच -- दिव्यं नामसहस्रं ते रेणुकाया मयेरितम् । सर्वकामसमृद्ध्यर्थमनेन भज षण्मुख ॥ १५५॥ समृद्धि अर्थं अनेन भुक्तिदो मुक्तिश्चापि भजतां कल्पपादपः । जयप्रदो विशेषेण नानेन सदृशो मनुः ॥ १५६॥ पुरश्चरणमुद्दिष्टं सहस्रं नवकं शुभम् । विजयार्थं विशेषेण प्रयोगं साधयेत्ततः ॥ १५७॥ हस्तयोर्भाजनं कृत्वा प्रसादं याचयेन्मुहुः । लब्धप्रसादो भक्तेभ्यश्चिन्तयेधृदि रेणुकाम् ॥ १५८॥ चिन्तयेत् हृदि भक्तितो योगिनीवृन्दं पूजयेत्तोषयेन्मुदा । तत्पात्रं पूरयेदन्नैः पूजयित्वोपचारकैः ॥ १५९॥ श‍ृङ्गिनादं समाकर्ण्य प्रार्थयेदुदयाशिषम् । सर्वेभ्यश्चाशिषो लब्ध्वा भुञ्जीत सहबान्धवैः ॥ १६०॥ नानाजातिभवान्भक्तान् प्रीयतां रेणुकेति च । उत्सर्गादिप्रसादेन तोषयेच्च मुहुर्मुहुः ॥ १६१॥ दीपकाडमरुध्वानैरुदयोद्दामकीर्तनैः । गोदोहसमये कुर्याद्गोदोहजमहोत्सवम् ॥ १६२॥ जगदम्बामयं पश्यन् सकलं दृष्टिगोचरम् । दीपिकाडमरूत्साहं भक्तैः सह निशां नयेत् ॥ १६३॥ अवर्षणे धराकम्पे संक्षोभे सागरस्य च । आवर्तनसहस्रेण निश्चिते जायते शुभम् ॥ १६४॥ दुष्टोत्पाते महाघोरे सङ्कटे दुरतिक्रमे । अयुतावर्तनान्नूनमसाध्यमपि साधयेत् ॥ १६५॥ निशीथे वा प्रदोषे वा जगदम्बालये शुचिः । नवरात्रं जपेद्यस्तु प्रत्यहं नववारकम् ॥ १६६॥ नामभिः पूजनं होमं प्रत्ययं कुरुते व्रती । प्रसन्नास्मै महामाया प्रत्यक्षं भवति ध्रुवम् ॥ १६७॥ त्रिवारं नियतं जप्त्वा षण्मासं व्रतवान् शुचिः । दारिद्र्यार्णवमुत्तीर्य विपुलां श्रियमाप्नुयात् ॥ १६८॥ विशेषसाधनं कुर्यात्पुरश्चर्यां पुनः सुधीः । साधयेत्सकलान्कामान् सत्वरं नात्र संशयः ॥ १६९॥ पुष्पाज्यपायसतिलैर्हरिद्रामधुचन्दनैः । नानापरिमलद्रव्यैर्भक्तियुक्तो यजेन्मुदा ॥ १७०॥ इदं पठति यो भक्त्या श‍ृणुयाद्वापि नित्यशः । निर्विघ्नं लभतेऽभीष्टं जीवेच्च शरदां शतम् ॥ १७१॥ शुक्लपक्षेऽथवा कृष्णे भूताधः षष्ठिकादिनात् । साधकः साङ्गविधिना साधयेत्स्तोत्रमन्त्रवित् ॥ १७२॥ इषे शुक्लनवम्यन्तमारभ्य प्रतिपत्तिथिम् । नवरात्रोक्तविधिना कलशं पूजयेन्मुदा ॥ १७३॥ सङ्कटे सत्वरे कृत्ये विधिनावर्तयेत् स्थितिम् । प्राप्नोति वाञ्छितं सद्यः सर्वविघ्नविनाशकृत् ॥ १७४॥ घृतद्वीपद्वयं कृत्वा दक्षिणोत्तरभागयोः । नानाभोगोपचारैश्च तोषयेज्जगदम्बिकाम् ॥ १७५॥ कुङ्कुमागरुकस्तूरीचन्दनाभिरर्चयेत् । कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनीम् ॥ १७६॥ षड्रसैः स्वादु पक्वान्नैर्भोजयेच्च चतुर्विधैः । शक्तितो दक्षिणां दद्याद्वासोधान्यं गवादिकम् ॥ १७७॥ वित्तशाठ्यं न कुर्वीत सर्वकार्यसमृद्धये । प्रणमेत् प्रणमेद्भक्त्या प्रोच्यतामुदयोस्त्वतिः ॥ १७८॥ भूषितो मङ्गलस्नानैः स्वालेप्याम्बरमाल्यवान् । विभूष्याङ्गं कपर्दैश्च प्रज्वाल्य घृतदीपिकाम् ॥ १७९॥ यद्यदारभ्यते कार्यं तदादौ च समापने । सम्पूज्याम्बां कुमारींश्च पूजयेज्जपपूर्वकम् ॥ १८०॥ भूताष्टम्यां नवम्यां च भौमे च नियतः पठेत् । सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥ १८१॥ भूता रक्षः पिशाचाद्या वैरिणो दस्यवोऽपि च । पठ्यतेऽनुदिनं यत्र तद्गृहं न विशन्ति च ॥ १८२॥ अब्धिसञ्चरणे पोते लङ्घने गिरिरोहणे । चित्तक्षोभे प्रसादे च विषादे वा पठेदिदम् ॥ १८३॥ दुःस्वप्नदर्शने मार्गे विड्वरे कलहागमे । यात्राकाले पठेदेतत् सर्वमाङ्गलिकागमे ॥ १८४॥ निष्कामो वा सकामो वा पुरुषार्थप्रदं यतः । त्रैवर्णिकः पठेदेतदितरः पाठयेत् सदा ॥ १८५॥ सौभाग्यं लभते नारी कन्या सर्वोत्तमं वरम् । मृतवत्सा लभेत्पुण्यमायुष्मत्सन्ततिं शुभाम् ॥ १८६॥ असूतिर्लभते सूतिं सुसूतिं कष्टसूतिका । उदासीना लभेत्प्रीतिं पतिबालप्रियङ्करी ॥ १८७॥ न वैधव्यमवाप्नोति न सपत्नीं लभेत्क्वचित् । सुरूपा सुभगा धन्या विरहं नाप्नुयात्क्वचित् ॥ १८८॥ च्यवद्गर्भवती या च दृढगर्भवती भवेत् । वित्तापत्यपरीवारा पतिमण्डितविग्रहा ॥ १८९॥ सहस्रनामकं स्तोत्रं पठ्यते यत्र वेश्मनि । ग्रहाः कालग्रहाः पीडां नैव कुर्वन्ति कर्हिचित् ॥ १९०॥ यद्गृहे पूजितं ह्येतत् पुस्तकं वा सुभक्तितः । शक्तितो हवनं कुर्याद् विघ्नस्तत्र विनश्यति ॥ १९१॥ गर्भिणी स्रावयेन्नित्यं गर्भदोषान्निवर्तते । सूतिकायतने प्रोक्तं सूतिकाबालसौख्यदम् ॥ १९२॥ सर्वं मन्त्राधिकमिदं भक्त्या यः सर्वदा पठेत् । श्रावयेत् पाठयेद्वापि सर्वत्र लभते जयम् ॥ १९३॥ पुस्तकानि प्रदेयानि विप्रेभ्यो नवभक्तितः । सोपचाराणि विधिना रेणुका तुष्टिहेतवे ॥ १९४॥ पुत्रकामी शुभान् पुत्रान् धनार्थी विपुलं धनम् । कन्यार्थी लभते कन्यां कुलशीलादिमण्डिताम् ॥ १९५॥ विद्याकामो लभेद्विद्यां कवित्वं कविताप्रियः । प्रज्ञातिशयमासाद्य समर्थो ग्रन्थधारणे ॥ १९६॥ मुच्यते निगडाबद्धः स्खलद्गीः स्पष्टवाग्भवेत् । कामुकः काममाप्नोति भूपालं वशमानयेत् ॥ १९७॥ कुष्ठापस्माररहितो ज्वररोगविवर्जितः । रोगी रोगविनिर्मुक्तः शत्रुसङ्घाज्जयो भवेत् ॥ १९८॥ शीतलो जायते वह्निर्विषं स्यादमृतोपमम् । शस्त्राण्युत्पलतां यान्ति पठनादस्य भक्तितः ॥ १९९॥ अन्धो दृष्टिमवाप्नोति बधिरः श्रुतिमान् भवेत् । मूको वाचालतामेति रेणुकायाः प्रसादतः ॥ २००॥ रेणुकेत्येकनामेदं धर्मार्थकाममोक्षदम् । फलं नामसहस्रस्य समर्थो वक्तुमस्ति कः ॥ २०१॥ रेणुकास्मरणान्नूनं विषं नाक्रमेत् तनौ । सर्वपीडोपशान्तिश्च सकलार्थसुखोदयः ॥ २०२॥ नारायणः श्रिया युक्तः सावित्रीसहितो विधिः । अहं भवानीसहितो रेणुकार्चनतोऽर्चिता ॥ २०३॥ सर्वं यज्ञफलं तस्य पारायणफलं तथा । साङ्गयोगफलं तस्य रेणुका येन पूजिता ॥ २०४॥ उच्यते बाहुमुद्धृत्य बहुनोक्तेन षण्मुख । सेव्यते रेणुका यैस्ते सेव्यन्ते त्रिदशैरपि ॥ २०५॥ इति श्री पद्मपुराणे मायोपाख्याने रेणुकाप्रस्तावे रेणुकाप्रकृतिभावे शङ्करषण्मुखसंवादे शङ्करप्रोक्तं रेणुकासहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : reNukAsahasranAmastotra padmapurANe reNukAtantre cha
% File name             : reNukAsahasranAmastotra.itx
% itxtitle              : reNukAsahasranAmastotram (padmapurANAntargatam, reNukAtantrAntargatam)
% engtitle              : reNukAsahasranAmastotram
% Category              : sahasranAma, devii, reNukA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Singanallur Ganesan
% Proofread by          : Singanallur Ganesan
% Description-comments  : from shrIreNukAtantram, Pitambarapeeth, Datia.  See Corresponding Namavali.
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : May 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org