श्रीरुद्राणीस्तोत्रम् अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्
आनन्दभैरवी उवाच
शृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम् ।
श्रुत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके ॥ १॥
महासिद्धो भवेदेव महाकालवशो भवेत् ।
त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा ॥ २॥
रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत् ।
तच्छ्रुत्त्वा मुनयः सर्वे योगिनो योगदर्शकाः ॥ ३॥
सर्वे देवाः सर्वलोकाधिपाः स्युः प्राणरक्षकाः ।
एतत्स्तवनमात्रेण ब्रह्मा ब्रह्मत्वमाप्नुयात् ॥ ४॥
विष्णुर्विष्णुत्वमाप्नोति देवत्वं सर्वदेवताः ।
इदानीं शृणु तत्स्तोत्रमष्टाङ्गयोगसाधनम् ॥ ५॥
एतत्स्तवनपाठेन चाष्टाङ्गकुलदेवताः ।
वशीभूताः प्रभवन्ति सप्तस्वर्गस्थदेवताः ॥ ६॥
अस्य महारुद्रशक्तिस्तोत्रस्य महाकालभैरवऋषिरनुष्टुप्छन्दः ।
श्रीमछ्रीरूपिणी देवता । वां बीजं द्रां शक्तिः समौं स्फें कीलकम् ।
महोग्रादि देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
महारौद्री रुद्रारुणारवरवक्रोधनिकरा
विकारा धर्माणां हरतु विषयं देहि परमम् ।
विवेकं सत्पुत्रं त्वमपि जगतामादिपुरुषं
विभाकोटिग्रामस्खलननिचला लोचनचला ॥ ७॥
त्वमेका त्रैलोक्यं व्यवसि सततं मे शुभभवा
अनन्ता सा चातीन्द्रियगणकला नागवसना ।
श्रियं दातुं नित्यं समुदयति रश्मिस्तव शिवे
शिवाह्लादानन्दा जडितमनमन्दा कुरु मुदा ॥ ८॥
महालोभं पापं हर हर हरे हीरकनिभे
विषानन्दोद्घाता मम तनु विषं वेशवशिनि ।
सुधानन्दं देहि क्षयमपि हर क्रोधमतुलं
मदं कामं मोहं कुलजननि दिव्यं वितर तत् ॥ ९॥
तपस्यासद्भावं त्वमपि च ददासीह यदि वा
प्रदीप्ता सद्व्याप्ता भवति तव दाने मम मनः ।
प्रफुल्लातिश्रीदे जय मम न भक्तिं निजशुभां
समीडे त्वामेकां भुवनजनरक्षां कुरु सदा ॥ १०॥
विचार्य स्वे तन्त्रे रचयसि सुखं नित्यमिलितं
महाखड्गप्रख्या त्रिभुवनकरा रुद्रदयिता ।
सुराणां संरक्षां यदि कुरु मुदा पीठनिकरे
मणिद्वीपे तेजोमयि हि मणिपूरेऽमलपदम् ॥ ११॥
महाक्षेत्रे युद्धोत्सवभयहरा त्वं कुलकला
किराती सर्वाणी मम कुलगतं पालय लये ।
लयज्ञानानन्दं रचय हृदये योगजननि
यतीनां रक्षायै कुलयुवति विद्ये उदयति ॥ १२॥
प्रतिष्ठा कीर्तिस्ते त्वमवतरसि त्रासि तिमिरा-
न्न जाने त्वत्तत्त्वं तरुणि महिमानं सुखमयम् ।
महापारावारांनिधिभवजलेशं कुरु जयं
हिरण्याह्लादस्था त्वमपि करुणासागरमयी ॥ १३॥
विधातारं विष्णुं सुरवरणवन्दीन् परजनान्
प्रपासि त्वं सिद्धा सुखभुवनभङ्गक्षयकरा ।
किरन्ती सानन्दा किरणशतकोटिं त्रिभुवने
त्वमेका कल्याणि गिरिशरमणिं पाहि सततम् ॥ १४॥
त्वदीयं सुखान्तं समीच्छामि सत्यं
विसर्गेन्दुवर्णात्मकं कामनाऽऽख्यम् ।
कृपादृष्टिपाता मनः पाहि शुद्धा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १५॥
जगत्तारिणी त्वं जगद्व्यापिनी त्वं
जगज्ज्वालरूपा जगद्धर्मरूपा ।
अनैकान्तिकत्त्वात्त्वमानन्दरूपा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥
विधानं जनानां कुरु त्वं त्वमीशा
क्षपाक्षामचित्ता प्रियानन्ददात्री ।
त्वमाज्ञाम्बुजस्था त्वमार्या गुरूणां
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥
प्रभामण्डलस्था स्थितित्यागसंस्था
स्थलाम्भोजमाला त्वमालग्नकण्ठा ।
शिवश्यामवर्णा महापिङ्गलार्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १८॥
चतुर्थश्रुतिस्था चलच्चन्द्रसंस्था
महावेदभाषा त्वमेका जगत्याम् ।
महाभक्तिभावाश्रितं मां प्रसिद्धे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १९॥
जगद्धामचेष्टे जगद्बुद्धिनिष्ठे
जगद्यौवनस्था जगद्भावसंस्था ।
समावर्त्तमध्ये महाघूर्णितं मां
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २०॥
महा सृष्टिसंहारकालक्रमस्था
महामांसभक्षा सदानन्दरूपा ।
महाशाक्यमौनीन्द्रपूज्ये सुरेज्ये
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २१॥
चतुःषष्टितन्त्रार्णवाह्लादकत्वा-
न्महाभौतिकत्वान्महासिद्धिविद्या ।
छलच्छिन्नदेहा छलानन्नसंज्ञा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २२॥
शिवत्वं महत्त्वं समत्वामलत्वा-
दनैकान्तिकत्वं ददासि त्वमाद्या ।
सुधासागरस्था महामोहनस्था ।
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २३॥
महासिंहपृष्ठे पदाम्भोजलक्ष्मी-
र्मम श्रीशिरोमण्डलस्थं प्रपातु ।
भवानन्दसन्तानकल्पेऽव देहं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥
स्थिरा सा महाविद्युदाकारहारा
महाचञ्चला चाचला ज्ञानजन्या ।
सदा भावनत्वात्सदा ज्ञापनस्था
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २५॥
कुलानन्दमोहा महाकौलकन्या
कुलक्षेत्ररक्षा कुलच्छत्रकारा ।
महाचञ्चलत्वान्महावायुघूर्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २६॥
चिरञ्जीविनी भामिनी भूमिबीजा
भयाभावहन्त्री शरत्कोटिचन्द्रा ।
विभूतिर्भयाहारकर्त्री प्रकृष्टा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २७॥
महावीरभावाश्रया भावरूपा
विशेषाविशेषे महाशैववीरा ।
विसर्गापवर्गाश्रयार्णोज्ज्वलत्त्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २८॥
महापञ्चमत्वान्महामोदकत्वात्
महाकौलिकात्वादसञ्चारणत्वात् ।
कुलप्रेमभावक्रियानिश्चलत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २९॥
वसोः सिद्धिदात्री शिवानन्दकर्त्री
महामैथुनानन्दसम्भेदनत्वात् ।
सुखाश्वासतत्त्वात्तपः प्राणरक्षा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३०॥
गलत्प्रेमभावा कुलज्ञानतत्त्वात्
प्रिया श्रीकृपात्वं भवाधारमूर्तिः ।
महैश्वर्यहेतोर्महाराजकन्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३१॥
महामोक्षविद्या महानिर्मलत्वात्
प्रभापञ्चचूडस्य सिद्धिप्रिया च ।
महानादबिन्दुप्रयासाभिरामा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३२॥
महाविद्रुमाकारवर्णाभिरामा
कुलाह्लादसूत्रादिसंसाधनत्वात् ।
महद्राज्यविद्याधना सङ्घटत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३३॥
तवाङ्घ्रिद्वयाम्भोजपूजासुखत्वा-
न्महाकालरूपा स्वयं सर्वविद्या ।
विकारादि सम्बन्धविशेषणत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३४॥
शिवत्वं शुभत्वं महाशैलकन्ये
प्रियत्वं परत्वं महापावनत्वम् ।
समाधेहि तत्त्वादनैकान्तिकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३५॥
महाचेतनादेवनादोन नत्वाद-
सङ्ख्यामतीनां मनोयोगमुख्या ।
विरोधापहन्त्री रिपुप्राणहन्त्री
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३६॥
चतुर्विंशतिक्रोधतत्त्वानुकूले
वियत्खण्डचन्द्रोज्ज्वले कीलकस्थे ।
सदा मां प्रपातु प्रचण्डार्कवर्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३७॥
शुभं कामधेनुस्वरूपं स्वदेहं
सदा दर्शने श्रद्धया चारुवर्णा ।
हिमांशुप्रभाकोटिवर्णेऽत्वपूर्णे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३८॥
महाकामबीजान्विता खण्डयन्ती
महादोषजालं शनैरावहन्ती ।
शिवा भद्रकाली स्थिरानन्दमाला
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३९॥
महाकालकूटाशिनं तीक्ष्णनेत्रं
सदा पाहि शम्भुं भयार्द्रातिवेलम् ।
भवापालनत्वादसङ्ख्यानिवासा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४०॥
हरन्ती विषाढ्यं वहन्ती कलाद्यम्
रटन्ती नटन्ती विशाला भ्रमन्ती ।
श्रियः पालनी पालिका बालिकात्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४१॥
भवानन्दहेतोः सदा श्रद्धया वा
पदाम्भोजमध्ये मनोयोगकाले ।
परासङ्ख्यते कामसङ्क्षालनत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४२॥
क्षितिक्षोभनाशाय सिद्धादिविद्या
कुलाढ्याखिलाढ्यानना सूक्ष्ममध्या ।
प्रयत्नं करोषि क्षयानन्ददाना
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४३॥
महाधैर्यमाहृत्यजं जप्यते यै-
स्तवाद्याभिधानानि कालिप्रभाते ।
तदैवापि काले ददासीह सिद्धिं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४४॥
चिरं स्थापयन्ती चिरं भासयन्ती
त्वमाख्या गुरूणां कुलानन्दविद्ये ।
स्वधाकारतुष्टा कलावह्निजाया
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४५॥
सुरानन्दकाले फलोद्भूतचिन्हा
चितामध्यदेशे महासिद्धिदात्री ।
त्रिभिन्ना विभिन्ना महारुद्रविद्ये
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४६॥
महापूर्वि कात्यायनि क्रोधमूले
विवेकादिकं धर्ममादौ ददासि ।
त्रयाणां सुराणां मुदा रक्षणाय
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४७॥
विशुद्धस्फुटत्त्वान्महाकौतुकत्वा-
त्तनुध्यानमोहादनन्ते कृतत्त्वात् ।
कुलारक्षणात्मा महालक्षणात्मा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४८॥
दहन्ती रिपूणां कुलञ्चात्मदेशं
क्षणादेव सूक्ष्मासुसूक्ष्मा सती सा ।
ममानन्ददेशं सदा पालय श्री
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४९॥
चतुर्थाश्रमस्थाश्रमं पाहि रुद्रे
महोग्रप्रतापे महारौद्रि भद्रे ।
महापातकादिक्षयत्वामृतत्त्वा-
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५०॥
महावायुरम्ये महाज्ञानगम्ये
महामन्त्रजाप्यादिसिद्धिप्रसिद्धे ।
लयं देहि बाह्यानिलाघातनत्वा-
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५१॥
न जानामि किं वामरो वापि विष्णु-
र्महाकौलिको वा न जानाति पूजाम् ।
कुलाद्यासनन्ते सुरेन्द्रादिपाठे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५२॥
मदीयं प्रलोभ्यं महाभद्रकालि
प्रकाशेन कर्त्तुं समर्था भव त्वम् ।
पदाब्जे च हन्तुं महापापसर्गे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५३॥
वहन्ती कपालं स्खलन्तीमपार्थं
महाहेममाला महाकाशयन्ती ।
शिवो मङ्गलं मे तु वैश्वानरीशे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५४॥
प्रचण्डा प्रसन्ना भवक्षोभहेतो-
र्विवादादिघाताय शान्तिः प्रतुष्टिः ।
कियत्कालसंस्था प्रसन्नान्तरात्मा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५५॥
महावायुपाना क्रियामोक्षकाले
कुलज्ञानदाना दिवारूपिणी त्वम् ।
प्रभुत्वं विधेहि क्षमे कामकर्त्री
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५६॥
यदि श्रीवराद्ये ममाख्या ससिद्धिं
विदेहीति चित्ते समाधाय भक्तः ।
समाप्नोति शीघ्रं सदा प्रार्थ्यते यैः
सदा पठ्यते वा मुदा वारमेकम् ॥ ५७॥
महाकालशम्भो महाज्ञानसिद्धः
सदा कालवश्ये पठेदेकचित्तः ।
महाभक्तिभावं लभेद् वेद मुक्तिं
महादेवभक्तिं त्रिकालेन योगम् ॥ ५८॥
मणेः पीठमध्ये महारुद्रकान्तां
महालाकिनीं कुण्डलीं भावयन्ती ।
महापुण्यलाभं स्तवं ब्रह्मसारं
महाकान्तलाभाय पुण्याय सिद्ध्यै ॥ ५९॥
महाकालि रुद्राणि भद्राणि कृष्णे
भवानन्दमूर्तिप्रकाशाय कुर्यात् ।
किलानन्दमाकृत्य सम्पूज्यते यै-
र्महादेवि चण्डे तव ध्याननिष्ठा ॥ ६०॥
महामोक्षभावं समाप्नोति शीघ्रं
महाशुद्धता कामहा कालरूपी ॥ ६१॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे
षट्चक्रप्रकाशे मणिपूरभेदनक्रमे भैरवीभैरवसंवादे
रुद्रशक्तिलाकिनीस्तोत्रं नाम षट्चत्त्वारिंशः पटलः ॥ ४६॥
Muktabodha Library
Proofread by PSA Easwaran