श्रीवासरसरस्वतीसुप्रभातम्

श्रीवासरसरस्वतीसुप्रभातम्

उत्तिष्ठोत्तिष्ठ! हे वाणि! उत्तिष्ठ! हंसिनीध्वजे । उत्तिष्ठ! ब्रह्मणो राज्ञि! त्रैलोक्यं मङ्गलं कुरु ॥ १॥ जागृहि त्वं महादेवि! जागृहि त्वं सरस्वति! । जागृहि त्वं चतुर्वेदि! लोकरक्षाविधिं कुरु! ॥ २॥ लोकाः सर्वे शुचाम्भोधौ निमग्नास्तान् समुद्धर! त्वमेवैका स्वयंव्यक्ता समर्था सिकताभवा! ॥ ३ श्रीवाणि! सर्वजगतां जननि! प्रमोदे! जिह्वाग्रवासिनि मनोहरि वेधसस्त्वम् । वाञ्छाप्रदायिनि! समाश्रितभक्तकोटेः श्रीपद्मजातदयिते! तव सुप्रभातम्! ॥ ४॥ तव सुप्रभातमखिलार्थदायिनि! कमनीयगात्रि! करुणातरङ्गिणि! कमलायताक्षि! वदनेन्दुमण्डले ! परमेष्ठिदेवि! सुरसुन्दरीसुते! ॥ ॥ ५॥ श्रीव्यासपूजितपदाम्बुजकोमलाङ्गि! कार्तस्वराञ्चितविशेषविभूषिताङ्गि! । प्रालेयमौक्तिकशशाङ्कसुशोभिताङ्गि! श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ ६॥ श्रीगौतमीतटसमीकृतसैकतेन व्यासेन सेचनसमाहित श्रीकरैश्च । श्रीषोडशी मनुजसेन निरूपिता त्वं श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ७॥ वल्लीत्रयान्तरसुचक्रसमर्चनेन var सुचित्र श्रीमन्त्रवाग्भवसमुच्चय कूटदेशे! । व्यक्तासि रक्षितुमितः स्वयमेव देवि । श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ८॥ श्रीमन्त्रराजतनुबीजविराजमानां ओङ्कारतत्त्वविशदाय गृहीतमूर्तिम्! । त्वां पण्डिता भुवि भजन्ति सरस्वतीति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ९॥ ओङ्कारपञ्जरशुकीं निगमान्त वेद्यां! ह्रीं मातृकावरण श्रींयुत ब्लूञ्च सौरैम् । क्लीं सौश्च सैङ्गतदशाक्षरदेवि वन्दे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १०॥ संसारतारकमहामनुबीजवर्णां मायामयीं गुणमयीं सगुणोद्भवां त्वाम् । शक्तित्रयात्मकचितीति जपन्ति बुद्धाः श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ११॥ सौन्दर्यवारधितरङ्ग परम्परायां वेलानिरूपकमनोहरदेहदीपे । सर्वोपमाननिचयस्य समोपमेये श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १२॥ सङ्गीतवाङ्मयकलाप्तसुहासनेत्रि! रागैश्च षोडशसहस्रविधैश्च गीते । आनन्ददायकरसैर्खनिभिश्च पूर्णे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १३॥ सौभाग्यदे! त्वमिह विद्रुमवर्णलक्ष्मीः विद्याप्रदे! त्वमिह धौतसुधांशुवाणि । शत्रुञ्जये! त्वमिह नीलतमालकाळी श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १४॥ श्रीचक्रमन्दिरविहारिणि! राज्यलक्ष्मि! राकासुधाकरशिरोमणि! नीलवेणि! । राजीवलोचनशिरीषसुमाग्रनासे । श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १५॥ कौमारशैलशिखरे सुखवासयोग्ये सूर्येन्द्रविष्णुशिवपुत्रगणेशमुख्यैः । वासिष्ठवारुणिवरैश्च सुपूततीर्थे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १६॥ अष्टाब्जपुञ्जितविशेषवयोविलासे! बिम्बाधराञ्चितसुहासविलासरेखे/नेत्रे! । कारुण्यपूरितदृगञ्चलरम्यमूर्ते श्रीवाणि! वासरपुरे! तवसुप्रभातम्! ॥ १७॥ औदुम्बराख्यतरुमूलपवित्रदेशे दत्तावधूतयतिरत्र गृहीतदीक्षः । जप्त्वा त्वदीयशुभनाम बभूव सिद्धः श्रीवाणि ! वासरपुरे! तव सुप्रभातम्! ॥ १८॥ प्रत्यूषरञ्जितनवार्कमरीचिपुञ्जाः प्रान्तप्रशान्तप्रकृतिं रमणीयदृश्याम् । सम्भावयन्ति च विरच्य सरस्वतीह श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १९॥ नित्यं तवार्चकसुधीश्च मुखारविन्दं श्रीखण्डचूर्णहरितालसुगन्धतीर्थैः । ब्राह्मे मुहूर्तसमये रचनां करोति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ! २०॥ सप्तस्वराञ्चितमनोहरनादयुक्तैः प्राभातकालिकसुनादविनोदरागैः । गायन्ति कोकिलमयूरमरालचक्राः श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २१॥ दीक्षाविधाननियमानुसरेण भक्ताः गत्वा पुरे भवति! देहि घृणाक्षभिक्षम् । याचन्ति तानिति गृहस्थतदात्मरूपान् श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २२॥ योगीशमानससरोवरराजहंसि! भक्तालिमानससरोजविहारभृङ्गि! । श्रीचक्रषोडशमहामनुबीजवासे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २३॥ ज्ञानात्मिके! विविधवस्तुविवेकरूपे! इच्छात्मिके! भगवदात्मसमानरूपे! । यत्नात्मिके! परमधाम समात्तरूपे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २४॥ शिञ्जानकङ्कणनिनादविनोदपाणे! वीणाविवादनविजृम्भितपूर्णरागे! । विन्यस्तहस्तभ्रुकुटीचुबुकाक्षिवत्से श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २५॥ कूजन्ति देवि! चरणायुधपक्षिसङ्घाः! गायन्ति देवि! तव मागधवन्दिवृन्दाः । अर्चन्ति देवि! भुवि वैदिककाव्यशिष्याः श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २६॥ दिव्यापगाविकसिताच्छसुवर्णपुष्पाः हस्ताश्च मन्त्रपठनानुरणेन देवाः । तिष्ठन्ति देवि! तव मन्दिरमुख्यमार्गे । श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ २७॥ दिक्पालकाश्च तव पीठककोणदेशे श्रीचक्रमन्दिरनवावरणेषु देवाः । स्थित्वा च मङ्गलपुरश्चरणं पठन्ति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २८॥ इत्थं सरस्वति! कृतं चिनवेङ्कनेन वेदान्तमन्त्रजपपाठविधानपूर्वम् । पारायणेन च पवित्रचरित्रगानं पुण्यावहं सकलमङ्गलसुप्रभातम्! ॥ २९॥ इति श्रीवासरसरस्वतीसुप्रभातं समाप्त्म् ॥ NA, PSA Easwaran, Malleswara Rao
% Text title            : sarasvatIsuprabhAtam
% File name             : sarasvatIsuprabhAtam.itx
% itxtitle              : sarasvatIsuprabhAtam (vAsarasarasvatI)
% engtitle              : sarasvatIsuprabhAtam
% Category              : suprabhAta, devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran, Malleswara Rao
% Indexextra            : (audio)
% Latest update         : June 11, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org