॥ शारदात्रिशती ॥

गङ्गाधरमखिविरचिता । परमाभरणं धातुर्वदनाम्भोजस्य शारदा देवी । या राजति जननी सा लसतु सदा सुप्रसन्ना नः ॥ १॥ सा शारदा प्रसन्ना राजति मम मानसे नित्यम् । या शारदाब्जवदना जननी कीर्त्या हि सर्वलोकानाम् ॥ २॥ संपद् दिव्या धातुः ख्याता सा शारदा देवी । यद्भजनं देवानामपि तत्त्वज्ञानदं विदुर्विबुधाः ॥ ३॥ सरसकविताविभूत्यै यत्पदमाराध्यते विशेषज्ञैः । सा शारदा श्रियै नः काले सर्वप्रसन्नात्मा ॥ ४॥ नीलारविन्दलोचनयुगला सा शारदा देवी । करकमलकलितवीणा सदा प्रसन्ना श्रियैः वः स्यात् ॥५॥ कलये तामहमनिशं फुल्लाब्जविलोचनां वाणीम् । या सृष्ट्यादौ साह्यं कलयति धातुर्जगन्माता ॥ ६॥ यस्या लीलालोलः पद्मासनगोऽपि वेदपाठरतः । तामहमतुलानन्दप्राप्त्यै कलये मनःपद्मे ॥ ७॥ ब्रह्माणं तां वाणीमेकासनभासुरां श्रियः प्राप्त्यै । आराद्विलोक्य मानसमानन्दरसं परं भजते ॥ ८॥ मुक्तामये विमाने पद्मासनयन्त्रिकामध्ये । दृश्यां वाणीं देवीं सेवे संततसुखप्राप्त्यै ॥ ९॥ भाग्यान्मम च कवीनां सा देवी दृश्यतामेति । वीणापुस्तकहस्ता या कमलासनपुरन्ध्री हि ॥ १०॥ मामकमानसकीरं बध्नीयाश्चरणपञ्जरे मातः । तेन मम जन्मलाभः स्तोत्रं च तव प्रकामकलितार्थम् ॥ ११॥ संवित्प्ररोहकलिकाप्राप्त्यै तां नौमि शारदां देवीम् । या किल कवीश्चराणामधिनेत्री काव्यकलनादौ ॥ १२॥ भक्तानां जिह्वाग्रं सिंहासनमादराद् वाणी । कलयन्ति नृत्यति किल ततस्तु तन्नूपुरनिनादः ॥ १३॥ मञ्जुलफणितिझरीति प्रगीयते दिक्तटे रसिकैः । प्रातःफुल्लपयोरुहमरन्दरसकेलिधूर्वहा काले ॥ १४॥ दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः । मातस्तव पादयोरुहसेवाधन्यतां प्राप्ताः ॥ १५॥ नीचा मम तु मनीषा तथापि तव नुतिकलाप्रवृत्तोऽस्मि । अम्ब तव तत्र हेतुः कृपां परं बुद्धिदा जयति ॥ १६॥ विधिदयिते तव मातः स्तुतौ न शक्ता अपि त्रिदशाः । क्षन्तव्यमत्र दयया मम चापल्यं तव स्तोत्रे ॥ १७॥ शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् । सदसि शृणोषि दयया तत् तव चोत्तमपदव्यक्त्यै ॥ १८॥ परदेवते प्रसीद प्राणेश्वरि धातुरम्ब मम वाणीम् । कृपया तव नुतियोग्यां त्वन्नूपुरनिनदरम्यरसगुम्फाम् ॥ १९॥ सर्वज्ञत्वं संपदमथवान्यां प्राप्तुमत्र तव मातः । तव चरणकमलमेतच्छरणं नान्या गतिर्दृष्टा ॥ २०॥ मन्दधिया स्वल्पापि स्तुतिरम्ब निरर्थकापि रसहीना । कलिता चेत् तव कृपया तदेव सदसीडितं भाति ॥ २१॥ कुण्ठीकरोतु विपदं चाज्ञानं दुर्गतिं वाणि । तव चरणकमलसेवादरो जनानां कलौ काले ॥ २२॥ वीरश्रीर्विद्वच्छ्रीर्जयश्रियो वामरैर्मान्ये । तव पादाम्बुजसेवादरेण सिध्यन्ति नान्यथा लोके ॥ २३॥ करुणारसवर्षिणि ते चरणसरोजद्वयं निधेहि मम । मस्तकतले विदारितजरादिकं सपदि जन्म सार्थं मे ॥ २४॥ श्रद्धां मेधां संपदमन्याममरेन्द्रमाननीयां हि । दयया विधेहि काले भक्तानां नस्त्वदेकशरणानाम् ॥ २५॥ प्रेयसि धातुर्जगतां परमेश्वरि वाणि मातरम्ब ननु । तव नामानि फणन्तस्त्रिदशैः सह यान्ति यानेन ॥ २६॥ तव नाम यस्य जिह्वाङ्गणे विशुद्धं क्षणं स्फुरति । स हि वन्द्यस्त्रिदशैरपि विगलितपापः परे लोके ॥ २७॥ नतनाकीश्वरवनितामौलिस्रग्गलितमकरन्दैः । स्निग्धपदाम्बुजयुगला वाणी देवी श्रियो हि लसति परा ॥ २८॥ विदुषामपि तुष्टिकरं नवनवरसगुम्फनं कवित्वं तु । यत्करुणावीक्षणतो सिध्यति तां शारदां वन्दे ॥ २९॥ अम्ब प्रसीद परमं मायामेतां निरस्य नतिभाजः । मम संविधेहि मधुरां वाचं तव नुतिकलार्हां च ॥ ३०॥ वाणी माता जगतां वाणीपुस्तककराम्भोजा । हंसाश्रिता हि नमतां श्रेयःसिध्यै प्रसन्ना नः ॥ ३१॥ श्लाघ्या संपत्काले वैदुष्यं वा यदीयवीक्षणतः । सिध्यन्त्यपि देवानां तां वन्दे शारदां देवीम् ॥ ३२॥ विद्यादानकरीयं कमलासनपुण्यपरिपाकः । मम मनसि संनिधत्तां दिव्यज्ञानादिसिध्यै हि ॥ ३३॥ दिव्यज्ञानं दयया विधेहि मातर्महासारम् । तेनैव ते तु कीर्तिर्दानफलं नश्च जन्मसाफल्यम् ॥ ३४॥ द्वादशबीजाक्षरगां मन्त्रोद्धारक्रियाशक्तिम् । वाणीं विधेस्तु पत्नीं मध्ये पश्यामि बिम्बमध्यस्थाम् ॥ ३५॥ रविकोटितेजसं तां सरस्वतीं त्र्यक्षरक्रियाशक्तिम् । अणिमादिदां प्रसन्नामम्बां पश्यामि पद्ममध्यगताम् ॥ ३६॥ जगदीश्वरि भारति मे प्रसीद वाणि प्रपन्नाय । अहमपि कुतुकात् तव नुतिकलनेऽशक्तश्च मन्दधिषणश्च ॥ ३७॥ मुनिजनमानसपेटीरत्नं धातुर्गृहे रत्नम् । वाणीति दिव्यरत्नं जयति सदा कामधुक् काले ॥ ३८॥ अज्ञानव्याधिहरं तदौषधं शारदारूपम् । यः पश्यति स हि लोके परात्मने रोचते काले ॥ ३९॥ कमलासननयनफलं सृष्ट्यादिकलासमासक्तम् । वाणीरूपं तेजः स्फुरति जगच्छ्रेयसे नित्यम् ॥ ४०॥ हंसगतिं तामम्बामम्भोरुहलोचनां वन्दे । तिलकयति या गुरूणां जिह्वासिंहासनं वाणी ॥ ४१॥ वाणि तरङ्गय लोचनवीक्षणशैलीं क्षणं मयि भोः । मम जन्म लब्धविभवं तेन भवेन्नैव ते हानिः ॥ ४२॥ पद्मासनेन साकं काले वाणी समासना जयति । कुचकलशनमितदेहा कुर्वन्ती भद्रसंततिं नमताम् ॥ ४३॥ व्यातन्वाना वाणी कवीश्वराणां मनोज्ञवचनझरीम् । जयति विधिसुकृतसंततिपरिणमितमाला बुधैर्वन्द्या ॥ ४४॥ कमलसुषमाङ्गयष्टिः सा देवी जयति पद्ममध्यतले । शतबीजाक्षरलसितं दिक्पतिकृतरक्षकं च मेरुमुखम् ॥ ४५॥ वाणीयन्त्रं विबुधैर्मान्यं योगासनाब्धीन्दुम् । ह्रीमक्षरमुखमाद्यं प्राक्तटकलितं च पद्ममध्यतले ॥ ४६॥ तन्मेरुचक्ररूपं समाधिदृश्यं च लोकवेद्यं च । सैषाश्रित्य तदेतद् राजति राजीवलोचना वाणी ॥ ४७॥ हंसाश्रितगतिविभवा मन्दस्मेरा तमोनिहन्त्री च । मधुरतरवाङ्निगुम्फा वीणापुस्तककराम्भोजा ॥ ४८॥ वीणावादनरसिका नमतामिष्टार्थदायिनी वाणी । धातुर्नयनमहोत्सवकलिका कुर्याच्छुभं जगताम् ॥ ४९॥ तापिञ्छरम्यदेहश्रीरेषा कविसमाजनुता । अष्टैश्वर्यादिकलादाने दत्तेक्षणा जयति ॥ ५०॥ सृष्ट्यादौ विधिलिखितं वाणी सैषा हि चान्यथाकर्तुम् । नाकौकसामपीह प्रभवति कलितप्रणामानाम् ॥ ५१॥ यः पश्यति तामेतां वाणीं पुरुषो हि धन्यतामेति । यं पश्यति सैषायं नितरां धन्यो नृपेडितः काले ॥ ५२॥ कबलिततमःसमूहा वाणी सैषा हि विजयते जगति । अपुनर्भवसुखदात्री विरिञ्चिमुखलालिता काले ॥ ५३॥ कमलासनमुखकमलस्थिरासनां शारदां वन्दे । यन्नामोच्चरणकलाविभवात् सर्वज्ञता नियतम् ॥ ५४॥ भवपरमौषधमेतद्वाणीरूपं सदाराध्यम् । कमलासनलोचनगणसरसक्रीडास्पदं जयति ॥ ५५॥ नारीवंशशिखामणिरेषा चिन्तामणिर्नतानां हि । धातृगृहभागधेयं ध्येयं सद्भिः श्रियः समृद्ध्यै नः ॥ ५६॥ जननि भुवनेश्वरि त्वां वाणीं वन्दे कवित्वरससिद्ध्यै । त्वं तु ददासि हि दयया मम मन्दस्यापि वाग्झरीर्मधुराः ॥ ५७॥ एतेन तव तु कीर्तेर्महिमा संगीयते दिशां वलये । किंनरवर्गैरमरीकन्याभिः कल्पवृक्षमूलतले ॥ ५८॥ कविमल्लसूक्तिलहरीस्तन्वाना शारदा जयति । विधिकेलिसदनहंसी कल्याणैकस्थली नमताम् ॥ ५९॥ स्फुरतु मम वचसि वाणि त्वदीयवैभवसुधाधारा । नित्यं व्यक्तिं प्राप्ता धुतनतजनखेदजालका महती ॥ ६०॥ वाणि तव स्तुतिविषये बुद्धिर्जाता हि मे सहसा । तेन मम भागदेयं परिणतिमित्येव नित्यसंतुष्टः ॥ ६१॥ सृष्टिकलामण्डनभूरेषा वाणी जगज्जननी । आलोकमात्रवशतस्तमसो हन्त्री च संपदां जननी ॥ ६२॥ पौरुषलोपविधात्री धातुरियं कमलकोमलाङ्गलता । वसतु सदा जिह्वाग्रे दिव्यज्ञानप्रदा देवी ॥ ६३॥ प्रतिदिनदुरितनिहन्त्री पद्मासननयनपुण्यपरिपाकः । कवितासंतानकलाबीजङ्कुरवर्धिनी जयति ॥ ६४॥ क्षणवीक्षणेन माता लक्ष्मीं पक्ष्मलयति प्रणते । वेधसि सुरतमहोत्सवसंकेततलप्रदर्शिनी काले ॥ ६५॥ शृङ्गारविभ्रमवता नीलोत्पलकान्तिचातुरीसुपुषा । वाणीनेत्रेण विधिर्जितोऽभवत् सोऽपि सततकृतवेदः ॥ ६६॥ श्यामा कटाक्षलहरी मातुर्जयतीह संपदां जननी । यामस्तौषीत् काले मघवा नाकाधिपा मुनयः ॥ ६७॥ मणिकटकनादपूरितमम्बापादाम्बुजं महामन्त्रैः । जप्यं ध्येयं काले दिशि दिशि कलितस्वरक्षं च ॥ ६८॥ स्मरणेन दुरितहन्त्री नमनेन कवित्वसिद्धिदा वाणी । कुसुमसमर्पणकलया काले मोक्षप्रदात्री च ॥ ६९॥ विसृमरतमोनिहन्त्रि त्वां सेवे शारदादेवि । शिशिरीकुरु मां काले करुणारसवीक्षितेन वरदेन ॥ ७०॥ मातर्नमोऽस्तु तावककटाक्षमधुपाय शारदे जयति । यो वेधसोऽपि काले सृष्ट्यादौ चातुरीं दित्सन् ॥ ७१॥ सुमनोवाञ्छादाने कृतावधानं धनं धातुः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ ७२॥ ललितगमनं त्वदीयं कलनूपुरनादपूरितं वाणि । नौमि पदाम्बुजयुगलं कवितासिद्ध्यै विधेः कान्ते ॥ ७३॥ कमलकृतवैजयन्ती विधेर्मुखेष्वादराद्वाण्याः । जयति कटाक्षलहरी तोरणलक्ष्मीस्तु सत्यलोके हि ॥ ७४॥ निश्रेणिका च मुक्तेः सज्ज्ञाननदीमहालहरी । नानारसचातुर्यप्रसारिका दुरितशङ्कुला काले ॥ ७५॥ परतन्त्रितविधिविभवा देवी सा शारदा जयति । कैवल्यादिकलानां दात्री भक्तालिकामधेनुर्या ॥ ७६॥ कविकामधेनुरेषा मञ्जुस्मेराननाम्भोजा । वाणी जयति विधातुर्मननागमसंप्रदायफलदा हि ॥ ७७॥ घनतरकृपारसार्द्रैर्नानाविभवप्रदानकृतदीक्षैः । वाणी जयति कटाक्षैर्नः काश्मल्यं हठान्निरस्यन्ती ॥ ७८॥ दासाशादानकलाप्रक्लृप्तदीक्षाकटाक्षलहरी मे । कबलयतु पापराशिं वाण्या नित्यं महौदार्या ॥ ७९॥ आदिमजननी सैषा वाणी जयतीह भक्तरक्षायै । सर्वत्र कलितदेहा नानाशास्त्रादिरूपतो जगति ॥ ८०॥ बहुविधलीलासदनं संभृतफुल्लाब्जशिल्पवैचित्र्यम् । वाणीमुखारविन्दं चुम्बति मानसमिदं हठात् कृत्यम् ॥ ८१॥ सौभाग्यकान्तिसारं वदनाम्भोजं श्रियै वाण्याः । आश्रित्य सकलवेदा अपि नित्यं मान्यतां प्राप्ताः ॥ ८२॥ ज्ञानमयी सलिलमयी तत्त्वमयी भाति सर्वलोकानाम् । अक्षरमयी च वाणी श्रेयोदाने निबद्धचित्तगतिः ॥ ८३॥ नमौक्तिरस्तु मात्रे वाण्यैः नः सिद्धिदा भक्त्या । आनन्दिन्यै ज्ञानस्वरूपभाजे प्रबन्धरूपायै ॥ ८४॥ आराध्यायै ध्येयायै चात्तकलाचित्रनादरूपायै । सच्चित्तवासभाजे वाण्यै भूयो नमोऽस्तु भक्तिकृतम् ॥ ८५॥ कमलासनपुण्यकला नमतां चिन्तामणिर्वाणी । जीवाक्षरबोधकलारूपा जयतीह सत्त्वरूपवती ॥ ८६॥ ब्रह्माण्डमण्डलमिदं व्याप्तं मात्रा क्षराक्षरादिजुषा । यत्पदकमलं नित्यं श्रुतिततिसुदतीविभूषणं च विदुः ॥ ८७॥ मनसिजसाम्राज्यकलालक्ष्मीरेषा विरिञ्चिमुखहर्षम् । व्यातन्वाना नित्यं राजति षडरस्वरूपचक्रतले ॥ ८८॥ मञ्जुलवीणानिनदप्रयोगनिर्धूतमोहसंचारा । हंसीयाना वाणी हंसगतिः सुकृतिनेत्रपुण्यकला ॥ ८९॥ कुचकलशसविधविनिहितवीणानिक्काणसावधानकला । अधिनेत्री हि कलानां सकलानां शारदा जयति ॥ ९०॥ त्रिदशपरिषन्निषेव्या प्रातः सायं प्रफुल्लमुखकमला । कमलास्नुषा हि वाणी वाणीं दिशतु प्रबन्धरसभरिताम् ॥ ९१॥ अधिकचपलैः कटाक्षैरञ्चितलीलारसैरुदारैर्नः । मङ्गलमातन्वाना विधातृगृहिणी सुरादिनुतपादा ॥ ९२॥ कान्तं लक्ष्मीभवनं मुखकमलं शारदादेव्याः । सौभाग्यकान्तिसारं स्पृहयति मे मानसं सरसम् ॥ ९३॥ कारुण्यपूर्णनयनं पुस्तकहस्तं महः किमपि । धातुः पुण्यकलानां परिपाको मर्त्यरक्षणं कुरुते ॥ ९४॥ संसारवारिराशिं तर्तुं सा सेतुरेषा नः । धातुर्गृहिणी दुःखं शिथिलयतु परं जनिप्राप्तम् ॥ ९५॥ सरसकविकल्पवल्लीमम्बां वाणीमहमुपासे । अन्तस्तमोनिहन्त्रीं यामाहुर्ज्ञानदां मुनयः ॥ ९६॥ मम लोचनयोर्भूयात् विद्या कापि प्रधूतजनिभीतिः । निगमेषु संचरन्ती कृपानिधिः शारदा देवी ॥ ९७॥ शमितनतदुरितसंघा धात्रे निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ ९८॥ पद्मासनस्थितां तां वाणीं चतुराननां वन्दे । कल्याणानां सरणिं कविपरिषत्कल्पवल्लरीं मान्याम् ॥ ९९॥ कुचभारसंनताङ्गीं कुन्दस्मेराननाम्भोजाम् । कुन्दलकुसुमपरिमलसंपादितभृङ्गझंकृतितरङ्गाम् ॥ १००॥ चिद्रूपां विधिमहिषीं हंसगतिं हंससंनुतचरित्राम् । विद्याकलादिनिलयामाराध्यां सकलजडिमदोषहरीम् ॥ १०१॥ जननि यदि भजति लोके तव लोचनवीक्षणं क्षणं मर्त्यः । कुपुरुषनुतिविमुखस्ते रूपं ज्ञानप्रदं पश्यन् ॥ १०२॥ कुक्षिंभरित्वमुखदुर्गुणादिकं दूरतस्त्यक्त्वा । त्वद्भावनेन धन्यो नयति च कालं प्रमोदेन ॥ १०३॥ मयि तापभारशान्त्यै तरङ्गय त्वदिलोचने मातः । यच्छारदाब्जसुषमामान्ये देवादिभिः प्रार्थ्ये ॥ १०४॥ सर्वार्थदा हि भजतां कटाक्षधाटी शिवंकरी वाणि । चिन्तामणिमिव कलयति यां हि विधिर्विदितमन्त्रोऽपि ॥ १०५॥ सुकृतपरिपाकमानसा धन्यास्त्वामर्चयन्ति ननु वाणि । अहमपि तद्वत्कलये फलप्रदा त्वं समानकल्पासि ॥ १०६॥ निगमवचसां निदानं तव पादाब्जं वतंसयतु काले । देवोऽपि देवदेवो विजितजगत्त्रयतले मातः ॥ १०७॥ अन्तस्तमसो हन्त्री पटीयसी ते कटाक्षझरमाला । या तोरणमाल्यश्रियमातनुते वेधसः सौधे ॥ १०८॥ शृङ्गारविभ्रमवतीं त्वां प्राप्यैव क्रियाकाले । कलयति सृष्ट्यादिमसौ विधिः श्रुतिव्यक्तमाहात्म्यः ॥ १०९॥ वेधोवदनं केलीवनमासाद्याम्ब परमया हि मुदा । क्रीडसि शुकीव काले द्विजसंघसमर्चितात्मवृत्तिश्च ॥ ११०॥ धातुर्मुखमञ्जूषारत्नं निगमान्तकेलिवनहंसीम् । परमां कलामुपासे तामम्बां चिद्विलासघनवृत्तिम् ॥ १११॥ वागीशदेवरूपिणि गीष्पतिमुखदेवसंघनुतचरणे । तव रूपं सूर्यायुतदृश्यं दर्शय मम ज्ञाने ॥ ११२॥ दिव्यज्ञानप्रदमिदमम्ब त्वद्रूपमादराद्वाणि । काले दर्शय कृपया तेन वयं प्राप्तकार्यसाफल्याः ॥ ११३॥ अम्बा त्रिसंध्यपठनप्रवृत्तिभाजां क्रमेण नाम्नां तु । द्वादशकलाविभेदव्यूहादिज्ञानदा प्रसन्ना हि ॥ ११४॥ मूकोऽपि सत्कविः स्याद् दुरक्षराण्यपि विधातृलिखितानि । सत्फलदानि सरस्वति कटाक्षपूरे यदि कापि ॥ ११५॥ अवलम्बे तामम्बां पञ्चाशद्वर्णकल्पितजगत्काम् । सृष्टिस्थितिसंहारस्थिरोदयां विविधशास्त्ररूपाढ्याम् ॥ ११६॥ वाणीं दिशतु मनोज्ञां वाणी गतिहसितकादम्बा । या दम्भादिविमुक्ता नादं भाव्यं वदन्ति यद्रूपम् ॥ ११७॥ राकेन्दुवदनबिम्बा साम्बा वाणी पुनातु कृतिमेनाम् । परिकलितभावबन्धां रसोज्ज्वलां मङ्गलोत्तुङ्गाम् ॥ ११८॥ लावण्यकान्तिसिन्धुः पादाब्जनतप्रभावसंधात्री । प्रसृमरतमोनिहन्त्री मद्वाचां देवता चाद्या ॥ ११९॥ जनतानेत्रानन्दं रूपं यस्याः स्फुटं भाति । स्मरणं त्वज्ञानहरं विश्वज्ञानप्रदं च सा जयति ॥ १२०॥ सहधर्मिणी विधातुर्दारिद्र्यध्वंसिनी निजकटाक्षैः । सांनिध्यं जनयतु मे सुरमुनिनरसंनुतस्वमहिमेयम् ॥ १२१॥ मुखरितवीणा वाणी वाणीं मे दिशतु नैजनुतियोग्याम् । आस्वादितशास्त्रामृतलहरीं सद्यस्तमोनिहन्त्रीं च ॥ १२२॥ मणिनूपुरनादनिभा वाणी भाति त्वदीयभक्तमुखे । कीर्तिर्दिशासु शुद्धिर्वपुषि बहुमुखी परं काले ॥ १२३॥ तव पादस्मरणवशात् ताम्यति तिमिरावलिश्चान्तः । आनन्दलहरिवीची प्रसर्पति क्षमातले हि भक्तानाम् ॥ १२४॥ संपन्नलिनीभानुं ज्ञानाब्धिसुधाकरं हि तव रूपम् । भक्त्या मनसि गृणन्तो गच्छन्ति व्योमयानमारूढाः ॥ १२५॥ हृत्तमसां दीपरुचिर्विधातृदयिता ममास्तु परदैवम् । भवतापमेघमाला कविशुकवासन्तिकश्रीर्हि ॥ १२६॥ मम मानसमणिहर्म्ये विहरतु वाण्याः स्वरूपं तु । निगमवचसां निगुम्फैर्वेद्यं तद्वेधसा लाल्यम् ॥ १२७॥ सततमभिगम्यरूपा विबुधवरेड्या सरस्वती माता । मनसि मम संनिधत्तां भूत्यै नः सर्वतः काले ॥ १२८॥ मम शिरसि नीचपुण्ये पुण्यघना वेदमौलिहर्म्या च । कृतपदविन्यासभरा वाणी जयतीह शतमखादिनुता ॥ १२९॥ मायानिरसनदक्षा मातेयं सुप्रसन्ना मे । लभते परमं ज्ञानं यद्भक्त्या पामरोऽपि च धरित्र्याम् ॥ १३०॥ वाणीश्वरि तव रूपं नामस्मरणं च पूजनं भक्त्या । सिध्यति सकलविभूत्यै तत्र हि भवतीदयाप्रसारस्तु ॥ १३१॥ सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी । कमलजमान्यचरित्रा सुमनोवाञ्छाप्रदानकृतदीक्षा ॥ १३२॥ पङ्कजमृणालतन्तुप्रतिभटरूपं क्वचिद्दृश्यम् । कविकुलवाणीकैरवशारदचन्द्रप्रभाकबलितं च ॥ १३३॥ नलिनभवगृहिणि वाणि प्रह्वानां सपदि भक्तानाम् । लुम्पसि मोहं भवतीस्मरणाद्वरिवस्यया स्तुत्या ॥ १३४॥ कविकुलकल्पकवल्लीमपाङ्गलीलाकृतार्तिशमनां ताम् । वाणीमन्वहमार्याराध्यां मोक्षाय निभृतमहमीडे ॥ १३५॥ संवित्सुखस्वरूपामम्बां वाणीमहर्निशं मनसि । कलये कलिताप्रभरप्रशान्तिकामः प्रभावतीं जयदाम् ॥ १३६॥ नतपरिपालिनि वाणि त्रिजगदघध्वंसिनि श्रितानां नः । तव पादयुगं निगलं भवतु तमोराशिदुष्टहस्तिगणे ॥ १३७॥ कामादिदुर्ग्रहकृतानर्थनिरासाय तावकापाङ्गाः । वाणि जनयन्ति नतानां कैवल्य खप्रदानाय ॥ १३८॥ तव दर्शनं हि मातः परमं संस्कारमात्तपापानाम् । कल्याणसूक्तिकन्दलरसप्रदं मान्यते विबुधैः ॥ १३९॥ धातुर्वदनसरोजे श्रुतिसीमनि हृदि च भक्तानाम् । एकपदा द्विपदा वा राजति वाणी जगन्माता ॥ १४०॥ मणिमयकाञ्चीलसिता वीणापुस्तककरारविन्दा च । नमतां जाड्यविधूननधृतदीक्षा राजते वाणी ॥ १४१॥ कबलयतु तापमस्याः स्मरणं पादाब्जवन्दनं वाण्याः । धातुर्जिह्वाग्रतले नृत्यन्त्याः सारसूक्तिरसयन्त्याः ॥ १४२॥ पद्मजवदनविभूषा निगमशिखोत्तंसपीठिका वाणी । सकलविधशास्त्ररूपा भक्तानां सत्कवित्वदानप्रा ॥ १४३ ॥। गतिजितमरालगमना मरालवाहा च वेधसो दाराः । शिशिरदयासारा सा नमतां संतापहारिणी सहसा ॥ १४४॥ स्तनभारसंनताङ्गी दरदलिताम्भोजलोचनान्तश्रीः । सविधतले विबुधवधूपरिचरणाद्यैश्च तुष्टचित्ता सा ॥ १४५॥ हरिणाङ्कवदनबिम्बा पृथुलनितम्बा कचात्तलोलम्बा । निजगतिजितकादम्बा साम्बा पदपद्मनम्रभक्तकदम्बा ॥ १४६॥ परिहसितनीलनीरजदेहश्रीः शारदा प्रथमा । स्फटिकमणिभरकान्तिः सरस्वती कीर्त्यते च विबुधगणैः ॥ १४७॥ नाथे दृढभक्तिमती सृष्ट्यादौ चित्स्वरूपा च । धात्रा समानभावा चैकासनपूण्डरीकमध्यस्था ॥ १४८॥ प्रीत्या सरसपुमर्थान् ददाति काले चिदादिसंधात्री । सा मे दैवतमेषा सततनिषेव्या च कामदा भूयात् ॥ १४९॥ हरिचरणनलिनयुगले सदैकताना हि शारदा जननी । पद्मानीलादिसखी श्रुत्युद्याने विहाररसभरिता ॥ १५०॥ धातुः कुटुम्बिनीयं तन्यात् कल्याणसंततिं सततम् । या तारुण्यविभुषा समक्रमा त्रिपुरसुन्दर्या ॥ १५१॥ नानाक्षरादिमातृकगणेडिता शब्दरूपा च । नादब्रह्मविलासा वाणी सा मङ्गलानि नस्तन्यात् ॥ १५२॥ दृक्कोणवीक्षणकलानिगमप्राभवविधानदा नमताम् । विबुधानां हृदयाब्जं यस्या वासस्थली च निर्दिष्टम् ॥ १५३॥ मोहादिवनकुठारा या नित्यं सेव्यते त्रिदशसंधैः । नित्यप्रसन्नरूपां शान्तां यामेव सेवते वेधाः ॥ १५४॥ नमतां ययैव खण्डीक्रियते सुवर्णदृष्टिपुषा । यद्वीक्षणेन पुरुषः ख्यातो नृपसदसि मान्यते प्रथमम् ॥ १५५॥ यस्यै श्रोत्रियवर्यैस्त्रिसंध्यमधार्दिकं क्रियते । सा मञ्जुनीतिरूपा वाणीरूपा च भण्यते निपुणैः ॥ १५६॥ सा मयि तन्यादीक्षां वीक्षावनदां सरस्वती देवी । संतानकुसुमजैत्रीं यामैच्छत् प्राप्तुमञ्जसा वेधाः ॥ १५७॥ मन्दस्मितमधुरास्यं कृपावलोकं निरस्तजाद्यतति । भूयाद् वाण्या रूपं पुरः कराम्भोजकलितवीणादि ॥ १५८॥ वाण्याः परं न जाने दैवतमन्यद् वने गिरौ च पथि । गगने वा संरक्षितनतजनतायाः कृपारसार्द्रायाः ॥ १५९॥ आस्येन्दोरवलोकनमम्बायाः पादपद्मसेवा च । सर्वश्रेयःप्राप्त्यै शास्त्रज्ञैः सुष्ठु निर्दिष्टा ॥ १६०॥ वाणी हि तापहन्त्री जगतां कारुण्यपूर्णनयनश्रीः । मन्दान् करोति विबुधान् द्रावयति शिलास्ततस्तु किं चित्रम् ॥ १६१॥ यस्मिन् कटाक्षपूरो न भवति स हि दीनवदनः सन् । प्रस्खलितवाग्भार्तो भिक्षामटतीह निन्दितो बहुशः ॥ १६२॥ वाण्याः कटाक्षपूरस्रजा त्वलंकृतनिगालो यः । स हि भवति राजमान्यः कान्ताधरमधुरवाग्विलासश्च ॥ १६३॥ कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा । मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ १६४॥ परचिद्विधानरूपा वाणी श्रुतिसीम्नि राजते परमा । मुनिजनमानसहंसी या विहरति सा शुभाय स्यात् ॥ १६५॥ जपमालिकया वाणीकरधृतया वीणया च कोशेन । अहमस्मि नाथवानिह किं वाशास्यं परं लोके ॥ १६६॥ कैवल्यानन्दसुखप्राप्त्यै तेजस्तु मन्महे किमपि । यद् वाञ्छितचिन्तामणिरिति वाणीति च भुवि ख्यातम् ॥ १६७॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ १६८॥ यस्या दृष्टिविदूराः कुमताः श्रुत्यर्थवञ्चकाः शप्ताः । क्रन्दन्ति दिगन्ततटे मोहाद्यैर्लुप्तनयनाश्च ॥ १६९॥ सत्परिषत्संमान्या श्रुतिजीवनदायिनी जगन्माता । चतुराननभाग्यकला कृतसांनिध्या हि राजते हृदये ॥ १७०॥ कृतसुकृतैः संदृश्या मन्दस्मितमधुरवदनपद्मश्रीः । मुनिनारदादिपरिषत्तत्त्वोपक्रमविचक्षणा वाणी ॥ १७१॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीर्विधातृदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ १७२॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ १७३॥ यस्याः प्रसादभूम्ना नाकिगणाः सत्त्वसंपन्नाः । ऐन्द्रीं श्रियमपि मान्यां पश्यन्ति क्षपितशत्रुभयपीडाम् ॥ १७४॥ मान्यं विधातृलोके तत्तेजो भाति सर्वसुरवन्द्यम् । ब्रह्माण्डमण्डलमिदं यद्रूपं यत्र चाक्षरगतिश्च ॥ १७५॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ १७६॥ वाणि विधातुः कान्ते स्तोतुं त्वामादरेण किं वाच्यम् । भासि त्वमेव परमं दैवतमित्येव जानामि ॥ १७७॥ कबलिततमोविलासं तेजस्तन्मन्महे महोदारम् । फलितसुमनोऽभिलाषं वाणीरूपं विपञ्चिकोल्लसितम् ॥ १७८॥ पद्मसनसुकृतकलापरिपाकोदयमपास्तनतदोषम् । सरसज्ञानकवित्वाद्यनन्तसुकृतं विराजते तेजः ॥ १७९॥ निजनाथवदनसिंहासनमारूढामुपास्महे वाणीम् । या कृत्रिमवाग्गुम्फैर्विरचितकेलिर्धिनोति विधिमाद्यम् ॥ १८०॥ सुजनानन्दकरी सा जनयन्ती सर्वसंपदं धातुः । भक्तेषु तां नयन्तीमन्वहमहमाद्रिये गिरां देवीम् ॥ १८१॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । वाण्या विधातृमान्या सत्सुखदाने दिशि ख्याता ॥ १८२॥ विसरो महोत्सवानां विरिञ्चिनयनावलेरियं माता । प्रियकार्यसिद्धिदात्री जगतीरक्षाधुरंधरा जयति ॥ १८३॥ विबुधाभिगम्यरूपा हंसावलिसेविता गिरां देवी । गङ्गेव कनति काले परिकम्पितशिवजटाकोटिः ॥ १८४॥ नौकां भवाम्बुराशेरज्ञानध्वान्तचन्द्रिकां वाणीम् । कलये मनसि सदाहं श्रुतिपञ्जरशारिकां देवीम् ॥ १८५॥ भवतापारण्यतले जह्नुसुता शारदा देवी । ज्ञानानन्दमयी नः संपत्सिद्ध्यै प्रतिक्षणं जयतु ॥ १८६॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा वाणी मम हृदयसारसे लसतु ॥ १८७॥ रक्षणचणौ च वाण्याः पादौ वन्दे मनोज्ञमणिनादौ । यत्सेवनेन धन्याः पुरुहूताद्या दिशां नाथाः ॥ १८८॥ धातुर्धैर्यकृपाणी वाणी सुरवृक्षकुसुममृदुवेणी । शुकवाणी नुतवाणी कविकुलमोदाय जयति मृदुवाणी ॥ १८९॥ कल्याणैकनिकेतनमस्या रूपं सदा स्फुरतु चित्ते । मानसकालुष्यहरं मधुमथनशिवादिबहुमतोत्कर्षम् ॥ १९०॥ मुनिजनमानसरत्नं चिरत्नमेतद्विधातृसुकृतकला । विनतजनलोचनश्रीकर्पूरकला परा जयति ॥ १९१॥ धृतसुममधुपक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ १९२॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजानाम् । नयनयुगासेव्यं तद्भातीह धरातले तेजः ॥ १९३॥ कुशलविधये तदस्तु श्रुतिपाठरतादृतात्मबहुकेलिः । कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ १९४॥ बालमरालीगत्यै सुरगिरिकन्यादिमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ १९५॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ १९६॥ कमलजपरतन्त्रं तद्गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ १९७॥ ज्ञानामृतसंधात्री भवाब्धिसंतरणपोत्रनामादिः । वाणी वाचां लहरीमवन्ध्ययन्ती सुरादिनुतचरिता ॥ १९८॥ कारुण्यपूर्णमेतद् वाणीरूपं सदा कलये । यद्भजनाद् देवानामपि संविद् भाति कार्यकालेषु ॥ १९९॥ धीपद्मपीठमास्ते सा वाणी काङ्क्षितानि कलयन्ती । या घनकृपास्वरूपा संकीर्त्या सर्वदेवनुता ॥ २००॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरमान्यः ॥ २०१॥ कुचयुगलनम्रगात्रं पवित्रमेतद् भजे तेजः । धातुरपि सर्वदेवैर्यन्निर्दिष्टं हु भद्राय ॥ २०२॥ कृतनतपदवाग्धाटी चेटीभूतामरेशमहिषी नः । कटिकृतमनोज्ञशाटी पाटीररसार्द्रनैजतनुकोटी ॥ २०३॥ पद्मभवपुण्यकोटी हर्षितकविबृन्दसूक्तिरसधाटी । मुखलसितसरसवाटी विलसतु मम मानसे कृपाकोटी ॥ २०४॥ ज्ञानपराक्रमकलिका दिशि दिशि किन्नरसुगीतनिजयशसः । धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ २०५॥ सुरजनपालनदक्षा प्रशान्तवीक्षा निरस्तरिपुपक्षा । मोक्षार्थिभिः श्रिता सा लाक्षारसलसितपादभाग् भाति ॥ २०६॥ कुङ्कुमभररुचिराङ्गी भाति कृशाङ्गी गिरां देवी । धातुरपि ज्ञानप्रदमस्या रूपं वदन्ति विबुधेशाः ॥ २०७॥ वाणि नतिमम्ब नित्यं करवाणि हि चित्सुखावाप्त्यै । तादृक्त्वदीयकरुणावीक्षणतो गीष्पतिश्च सुरमान्यः ॥ २०८॥ कल्यामि नतिमनन्तां काले काले शुभप्राप्त्यै । धातुः सुकृतोल्लासं करधृतवीणादिकं च यद्रूपम् ॥ २०९॥ कमलासनदयिता सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो भवति ॥ २१०॥ परसंविदात्मिका सा महिषी धातुः कलावती वाणी । शिशिरीकरोति तप्तान् करुणारसदिग्धनेत्रपाल्या नः ॥ २११॥ धातृमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् । आश्रितकमलजगोत्रं रक्षितनतबाहुच्छात्रम् ॥ २१२॥ कविकुलजिह्वालोलं पितामहादृतमनोज्ञनिजलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ २१३॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ २१४॥ निस्तुलपदसंप्राप्त्यै भूयो भूयो नमांसि ते वाणि । दीपकलामयि चान्तःस्मरणं धातुः कुटुम्बिन्यै ॥ २१५॥ मायानिरासकामो वन्दे वाण्याः पदाम्भोजम् । सिद्धमनोरथशतका यद्भजनेनार्थिनः काले ॥ २१६॥ सततं बद्धाञ्जलिपुटुमुपास्महे तच्छुभप्रदं तेजः । यत्कमलजनयनानां प्रमोदपीयूषलहरिकामोदम् ॥ २१७॥ दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतो वाणि । जन्तूनां किल रक्षा त्वधीना कीर्त्यते विबुधैः ॥ २१८॥ भारति भवतापार्तान् पाहि कटाक्षाङ्कुरैः शीतैः । परमनन्दविधातृन् यानेव स्तौति पद्मवासोऽपि ॥ २१९॥ कुलदैवतमस्माकं तत्तेजः कुटिलकुन्तलं किमपि । करधृतपुस्तकवीणं कलये कामागमोदयं धातुः ॥ २२०॥ परमानन्दधनं तद्धातुरपि ब्रह्मतत्त्वरसदायि । आब्रह्मकीटनृत्यत्स्ववैभवं जयति शारदारूपम् ॥ २२१॥ विबुधजनमोदजननी जननी नः सा विधेः पत्नी । मृदुसंचारविलासैः शुभंकरी भवतु संततं काले ॥ २२२॥ सरसमनोज्ञविलासैः स्ववशे कृत्वा मनो विधेर्वाणी । सृष्ट्यादौ शुभलेखाकरी नृणां मस्तके माता ॥ २२३॥ प्रकृतिमृदुलं पदाब्जं वाणीदेव्या मदीयचित्ततटे । कामादिसूचिनिचिते कथं स्थितिं प्राप्नुयात् काले ॥ २२४॥ निखिलचराचररक्षां वितन्वती पद्मजप्रिया देवी । मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ २२५॥ कुशलसमृद्ध्यै भूयादम्बा सा शारदा देवी । जनिरक्षणादिलीलाविहारभाङ्निगमसौधदीपकला ॥ २२६॥ वाचालयति कटाक्षैर्जडं शिलामल्पजन्तुं वा । या वाणी सा शरणं भवे भवे प्रार्थ्ये श्रियःप्राप्त्यै ॥ २२७॥ यदि हि प्रसादभूमा वाण्यास्तत्रैव सा हरेः कान्ता । परिलसित ( ... incomplete ... ) नित्यवासरता ॥ २२८॥ सनकसनन्दनवन्द्ये कान्ते परमेष्टिनः श्रियःप्राप्त्यै । वाणि त्वां नौमि सदा भव प्रसन्ना विप`न्चिलसितकरे ॥ २२९॥ वाणि विपञ्चीकलरवरसिके गन्धर्वयोषिदभिवन्द्ये । तव चरणं मम शरणं भववारिधिसुतेमम्ब कलयामि ॥ २३०॥ वाणि कदाहं लप्स्ये चरणाम्भोजं त्वदीयमिदमारात् । निजमणिनूपुरनादस्पृहणीयवचःपदं कलितभक्तेः ॥ २३१॥ श्रुतिपूतमुखमनोहरलावण्यकुसुममृदुशरीरेयम् । निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ २३२॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ २३३॥ प्रेमवती विधिभवने हंसगतिर्हंसयानकृतचारा । वाचामकृत्रिमानां स्थैर्यविधात्री महेशानी ॥ २३४॥ आनन्दरूपकोटीमम्बां तां संततं कलये । संविद्रूपा या किल विधातृगेहे श्रुतिश्रियं धत्ते ॥ २३५॥ कमलजनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ २३६॥ कारुण्यपूर्णनयना कलिकल्मषनाशिनी च सा वाणी । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ २३७॥ कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ २३८॥ कमलजतपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत्तेजो भातु मम मुखाम्भोजे ॥ २३९॥ भाग्यं विधिनयनानां संसृतितापज्वरादितप्तानाम् । भेषजमेतद्रूपं कलाग्रहं मन्यते देव्याः ॥ २४०॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ २४१॥ मञ्जुलकवितासंततिबीजाङ्कुरदायिसारसालोका । जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ २४२॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । धातुर्हृदये जयति व्रीडामदमोदकामसारकरी ॥ २४३॥ सर्वजगन्नुतविभवे संततमपि वाञ्छितप्रदे मातः । अधुना त्वमेव शरणं तेनाहं प्राप्तजन्मसाफल्यः ॥ २४४॥ शान्तिरससर्वशेवधिमम्बां सेवे मनोरथावाप्त्यै । यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तद्रक्षम् ॥ २४५॥ कुलजा भार्या कीर्तिर्दानं पुत्रादयो ये च । सिध्यन्ति ते हि सर्वे यस्मै वाणी प्रसन्ना सा ॥ २४६॥ का क्षतिरम्ब कटाक्षे न्यस्ते सति मयि विरिञ्चिवरपत्नि । गङ्गाशुनकन्यायान्महती मम वृद्धिरीरिता निपुणैः ॥ २४७॥ अविरलदयार्द्रलोचनसेवनया धूततापा हि । प्रतिकल्पं सुरसंघास्त्वामभजन् नुतिनतिप्रमुखैः ॥ २४८॥ दीनानां च कवीनां वाणि त्वं कामधेनुरसि मातः । सिद्धिस्तेषामतुला सुरमान्या तेन संकलिता ॥ २४९॥ सकलजगतां हि जननीं वाणि त्वां संततमुपासे । श्रुतिसुदतीभूषामणिमखिलार्थप्राप्त्यै लोके ॥ २५०॥ धातुः कुटुम्बिनी त्वं सन्मङ्गलदायिनी स्वमाहात्म्यात् । श्वश्रूश्वशुरमुखादिप्रीणनचतुरा च भासि निगमकला ॥ २५१॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वराणां च ॥ २५२॥ यस्मै प्रसन्नवदना सा वाणी लोकमाता हि । तस्य सहसा सहस्रं लाभः स्याद् बान्धवाः सुखिनः ॥ २५३॥ तापहररसविवर्षणधृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तादास्तां नः संततं जननी ॥ २५४॥ पद्माक्षनाभिपद्मजदयिते लोकाम्ब शारदेति सदा । तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ २५५॥ अम्बाप्रसादभूम्ना नरो हि भुङ्क्ते सुखानि विविधानि । स्मरे विजयः कविताधनलक्ष्म्यादेर्विलासलीलादिः ॥ २५६॥ तीरं संसृतिजलधेः पूरं कमलजविलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ २५७॥ अपि दासकुले जातः कटाक्षभूम्ना विधातृमुखपत्न्याः । ज्ञानी भववाराशिं तरति च राज्यश्रियं भुङ्क्ते ॥ २५८॥ सत्कृतदेशिकपादाम्बुजयुगलोऽहं नमामि वाणि त्वाम् । त्वं तु गुरुमूर्तिरुक्ता काले काले च काङ्क्षितविधात्री ॥ २५९॥ ज्ञानानन्दमुखादीनपवर्गं वा ददासि भक्तेभ्यः । अत एवानन्यगतिस्त्वां विधिपत्नीं प्रपद्येऽहम् ॥ २६०॥ त्वयि विन्यस्तभराणां न हि चिन्ता जायते नृणां कापि । परमानन्दादिकलास्फूर्तिर्दिविषद्गणेन संमान्या ॥ २६१॥ सुमशरसाम्राज्यकलामङ्गलविधिरेखिका वाणी । धातुरपि चित्तवृत्तिस्थैर्यं त्वन्यादृशं कुरुते ॥ २६२॥ सा धेनुश्चिन्तामणिरपि वृक्षः संपदां प्रदायिन्यः । अम्ब त्वमेव काले भसि ज्ञानप्रदा व्यपोह्य तमः ॥ २६३॥ मनसो नैर्मल्यप्रदमस्याः सेवे कटाक्षमहमारात् । यः कुरुते जनतां तां हतमायां मधुरामयोध्यां च ॥ २६४॥ शरदिव हंसकुलेड्या ज्योत्स्नेव जनार्तिहारिणी वाण्याः । जयति हि कटाक्षरेखा दीपकलेव प्रकामहततिमिरा ॥ २६५॥ पङ्कजभववदनमणिं परविद्यादेवतां वाणीम् । नित्यं यजतां जपतां न हि तुल्योऽस्मिन् क्षमातले कश्चित् ॥ २६६॥ वाणी निजवाणीभी रचयति नुतिमात्तवीणया काले । धातुः प्रसादहेतोः पतिव्रतालक्षणैरन्यैः ॥ २६७॥ आनन्दयति विलसैरम्बा पद्मासनं निजं देवम् । तेनैव तुष्टहृदयः शुभाक्षराण्यादराल्लिखति मौलौ ॥ २६८॥ मम मानसदुर्मदगजमपारतापाटवीषु धावन्तम् । विरचय्य मुदितचित्तं कुरु वाणि त्वत्पदाब्जकृतहस्तम् ॥ २६९॥ कमलासनधैर्यमहीधरकुलिशस्ते कटाक्ष एवायम् । कविकुलमयूरकादम्बिनीविलासो मुदेऽस्तु सततं नः ॥ २७०॥ गुरुवरदनाम्भोजे नृत्यन्ती शारदा देवी । मधुरतरश्लोकनिभा मणिनूपुरनिनदसंततिर्भ्ति ॥ २७१॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां वाणीम् । यां पङ्कजाक्षनाभिजसधर्मिणीमर्चयन्ति सुरनाथाः ॥ २७२॥ मुषितपयोजमृदिम्ना चरणतलेनात्र मानसे वाणी । परिहरतु पापराशिं सुरौघसंमानितेन काले मे ॥ २७३॥ याथार्थ्यज्ञानकलाप्राप्त्यै त्वां शारदां वन्दे । सेवाफलं प्रयच्छ प्रसीद परमेशि वल्लभे धातुः ॥ २७४॥ निगमान्तसारमर्थं बोधयसि त्वं गुरून् प्रकल्प्य भुवि । सैषा मे ज्ञानघना वाणी नित्यं प्रसन्नासि ॥ २७५॥ मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा । हृद्यतमनित्ययौवनमण्डितगात्री विराजते वाणी ॥ २७६॥ सौभाग्यसूचकाभी रेखाभिर्भूषितं सौरैर्वन्द्यम् । अम्बाचरणपयोजं वतंसयन् प्राप्तसंमोदः ॥ २७७॥ द्विजगणपूज्यं नित्यं निरस्तजाड्यं त्वदीयपादयुगम् । क्षणमपि वा सांनिध्यं भजतु मदीये हृदि स्वैरम् ॥ २७८॥ नतदेवराजमकुटीमणिघृणिपरिचुम्बिताङ्घ्रिकमला नः । कमलासनस्य दयिता तन्यादन्यादृशी श्रियं भजताम् ॥ २७९॥ वाणी श्रितकादम्बा दम्भादिरिपून् निरस्य नः काले । क्षेममवन्यां तन्यात् पदे परे देवसंघपरिसेव्ये ॥ २८०॥ पङ्कजभवसाम्राज्यस्थिरलक्ष्मीश्चपाण्डरतनुश्रीः । नतमानवसुकृतकलापरिपाटी भाति सकलगुणपेटी ॥ २८१॥ मुखविजितचन्द्रबिम्बा साम्बा कादम्बसेव्यपदकमला । कमलासनगृहलक्ष्मीर्लक्ष्मीं पुष्णातु शारदा देवी ॥ २८२॥ मुरमथनस्येव रमा शंभोरिव सकलभूधरेन्द्रसुता । वाणि विधातुः सदनेऽनुरूपदाम्पत्यसंपदा भासि ॥ २८३॥ वाणि तव देहकान्त्या कटाक्षलहरी तु संयुता काले । धत्ते कामपि शोभां सुरस्रवन्त्येव संगता यमुना ॥ २८४॥ मधुरासेचनदृष्ट्या मां पायादापदो मुहुर्वाणी । आश्रिततापविभेत्रीत्येवं यामामनन्ति सूरिवराः ॥ २८५॥ अज्ञातकोपपूरा यस्या दृष्टिः कृतादरा भजताम् । सैषा विहसितपौरंदरलक्ष्मीं संपदं दद्यात् ॥ २८६॥ बालकुरङ्गविलोचनमीषत्स्मितमधुरमाननं वाण्याः । मणिमयताटङ्कमणीविलासि भूयान्मुदेऽस्माकम् ॥ २८७॥ मुनिजनमानसहंसीं श्रुतिततिपञ्जरशुकीं महादेवीम् । नौमि स्नुषां रमायाः माहेश्वरमहितसत्पदप्राप्त्यै ॥ २८८॥ धातुः सौधाङ्गणकृतचङ्क्रमणां शारदां नौमि । मत्तमतङ्गजगमनां परिपन्थिजयाय सुकृतिसंदृश्याम् ॥ २८९॥ वागीशमुखा देवा यस्याः प्रसदनबलद्धि विजयन्ते । परिपालितभक्तगणा यद्ध्यानोल्लसदपारपुलकान्ताः ॥ २९०॥ नैसर्गिकवाक्ष्रेणीकेलिवनममलभूषणं धातुः । वदनानामियमम्बा जयतु चिरं कामवर्षिणी भजताम् ॥ २९१॥ कलयामि हृदयमेतत् पादाब्जे शारदादेव्याः । प्राप्तारिषट्कविजयं तत्त्वधनं कलितशारदाध्यानम् ॥ २९२॥ पादारविन्दनमनप्रभावपरिकलितदेवसारूप्याः । परमानन्दनिमग्नाः सुधियो भान्ति क्षमावलये ॥ २९३॥ ललितविधातृरूपं पालितलोकत्रयं च तत् तेजः । सकलागमशिखरकलापरतत्त्वं शारदारूपम् ॥ २९४॥ ध्यानैर्योगैश्च जपैर्यत् सेव्यं परममादिष्टम् । तन्नश्चकास्तु हृदये विश्वजनीनं हि भक्तानाम् ॥ २९५॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ २९६॥ संततमधुरालापैर्लालितविधिवैभवैरमेयकलैः । श्रेयःप्रदानदीक्षितकटाक्षपातैर्महातत्त्वैः ॥ २९७॥ खेलल्लोलम्बकचैः कुचभरनम्रैः पुरंध्रिगुणपूर्णैः । आश्रितसंवित्पीठैरमरेशवधूकरादृतच्छत्रैः ॥ २९८॥ वीणापुस्तकहस्तैर्विधिभाग्यैरस्तु मम तु सारूप्यम् । संविद्धनैश्च वाणीरूपैरेतैर्दयासारैः ॥ २९९॥ मातः कथं नु वर्ण्यस्तव महिमा वाणि निगमचयवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३००॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१॥ इति श्रीशारदात्रिशती समाप्ता
Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Text title            : shAradA trishati
% File name             : shAradA300.itx
% itxtitle              : shAradAtrishatI
% engtitle              : shAradAtrishatI
% Category              : shatI, devii, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Gangadharamakhin
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Latest update         : July 14, 2003
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP