शक्तिसूत्राणि

शक्तिसूत्राणि

अथ शक्तिसूत्राणि भगवदगस्त्यविरचितानि । अथातः शक्तिजिज्ञासा ॥ १॥ यत्कर्त्री ॥ २॥ यदजा ॥ ३॥ नान्तरयोऽत्र ॥ ४॥ तत्सान्निध्यात् ॥ ५॥ तत्कल्पकत्वमौपाधिकम् ॥ ६॥ समानधर्मत्वात् ॥ ७॥ तच्च प्रातिभासिकम् ॥ ८॥ यद्बन्धः ॥ ९॥ यदारोपाध्यासादैक्यम् ॥ १०॥ शब्दाधिष्टानलिङ्गम् ॥ ११॥ नानावान् ॥ १२॥ तच्च कालिकम् ॥ १३॥ अखण्डोपाधे ॥ १४॥ यामेव भूतानि विशन्ति ॥ १५॥ यदोतं यत्प्रोतम् ॥ १६॥ तद्विष्णुत्वात् ॥ १७॥ ततो जगन्ति कियन्ति ॥ १८॥ नानात्वेऽप्येकत्वम्विरुद्धम् ॥ १९॥ विचारात् ॥ २०॥ यस्माददृश्यं दृश्यञ्च ॥ २१॥ दृष्टित्वव्यपदेशाद्वा ॥ २२॥ अविनाभावित्वात् ॥ २३॥ भिन्नत्वे नानियाम्यत्वे ॥ २४॥ अतथाविधा ॥ २५॥ यत्कृतिः ॥ २६॥ इच्छाज्ञानक्रियास्वरूपत्वात् ॥ २७॥ न सन्नासत् ॥ २८॥ सदसत्त्वात् ॥ २९॥ तद्भ्रान्तिः ॥ ३०॥ यत्सत् ॥ ३१॥ इदानीमुपाधिविचारः क्रियते ॥ ३२॥ लीयत तत्रैकदेशप्रवादः ॥ ३३॥ यस्मात्तारतभ्यम् जन्तूनाम् ॥३४॥ सौम्यं जननमरणयोः ॥ ३५॥ पौनःपुन्यात् ॥ ३६॥ यदेव संसारः ॥ ३७॥ ऊर्णनाभिः ॥ ३८॥ सादृश्यानन्त्यम् ॥ ३९॥ तत्सिद्धिरेव सिद्धिः ॥ ४०॥ तद्वत्त्वात् ॥ ४१॥ यच्चैतन्यभेद (भदे) प्रमाणम् ॥ ४२॥ तद्बुद्धेः ॥ ४३॥ तन्नाशे तन्नाशः ॥ ४४॥ भूतभौतिकौ ॥ ४५॥ अन्यथाज्ञेयत्वं भावात् ॥ ४६॥ तन्निर्लेपः पुष्करपर्णतत्त्ववत् ॥ ४७॥ सतः ॥ ४८॥ पुष्पगन्धवत् ॥ ४९॥ मूक्तः सर्वो बद्धः सर्वः ॥ ५०॥ यद्विलासात् ॥ ५१॥ तत् स्रष्टु (?) त्वानुमितेः ॥ ५२॥ अङ्गान्तरं व्यभिचरितम् ॥ ५३॥ नो दोषः ॥ ५४॥ यद्देयद्यत्पुराणः (sic)॥ ५५॥ भ्राम्यते जन्तुः ॥ ५६॥ भ्रश्यते स्वर्गात् ॥ ५७॥ आरोग्यस्य ॥ ५८॥ निर्विकारे क्रियाभावात् ॥ ५९॥ बन्धमोक्षयोश्च ॥ ६०॥ सर्वत्र चिन्त्यम् ॥ ६१॥ शून्यत्वो वा निगलवत् (sic)॥ ६२॥ पीतविषवद्विरोधोपलब्धेः ॥ ६३॥ तद्योगातू तद्योगः ॥ ६४॥ तद्भोगे तद्भोग इति ॥ ६५॥ तत्त्यागस्तद्व्यप्यत्वत् ॥ ६६॥ बन्धनैयत्त्यापत्तेः ॥ ६७॥ नास्तीति भ्रमः ॥ ६८॥ अस्तीत्यतिरिक्तमपि ॥ ६९॥ पक्षान्तरासिद्धेः ॥ ७०॥ तदभावाभावात् ॥ ७१॥ लिङ्गमलिङ्ग्यं तल्लिङ्गम् ॥ ७२॥ प्राबल्यात् ॥ ७३॥ वशीकृतेशित्वात्कामिनीत्वान्मोहकत्वाद्वा ॥ ७४॥ यन्मातापितरौ ॥ ७५॥ बीजोत्पत्तेरैन्द्रजालिकम् ॥ ७६॥ न तज्जातेः ॥ ७७॥ निर्गुणत्वात् ॥ ७८॥ तत्कामित्वाद्व्यासः ॥ ७९॥ तत्परो जैमिनिः ॥ ८०॥ तत्स्वाभिन्नो हयाननश्च ॥ ८१॥ उक्तवानगस्त्यः ॥ ८२॥ तद्वेदी वैष्कलायनः ॥ ८३॥ कण्ठः कर्त्तृत्वम् ॥ ८४॥ पराशरः प्राबल्यम् ॥ ८५॥ वशिष्ठो मोहनम् ॥८६॥ शुकस्त्वात्मनम् ॥ ८७॥ मातरं नारदः ॥ ८८॥ मन्वानास्तरन्ति संसारम् ॥ ८९॥ उक्तलिङ्गैः सद्भिः प्रमाणैः ॥ ९०॥ तत्तु तित्तिरिः ॥ ९१॥ छन्दोकाश्च (?) गाश्च ॥ ९२॥ मारीचस्तद्वादी ॥ ९३॥ यच्छिवः ॥ ९४॥ हरिरन्तर्गुरुर्बहिः ॥ ९५॥ कालो भेदे दुरुद्बोध्यः ॥ ९६॥ तल्लेशाः ॥ ९७॥ दहरव्यापित्वात् ॥ ९८॥ तत्परात्तद्बहिः ॥ ९९॥ एवं ब्रह्मविदः ॥ १००॥ अधर्मात्तद्बन्धः ॥ १०१॥ धर्मो हि वृत्तौ ॥ १०२॥ न मोहे हिंसा च यस्याः ॥ १०३॥ अतश्चित्तप्रमादः ॥ १०४॥ गौर्भरिणीमाठरायणोः (sic)॥ १०५॥ न हि वेदो न हि वेद तद्विदः ॥ १०६॥ विन्दति वेदान्प्रकृतिम् ॥ १०७॥ तरति तां तस्मात् ॥ १०८॥ ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पत इति ॥ १०९॥ विदित्वैवं तरति ॥ ११०॥ यत्कृत्वा ॥ १११॥ जैमिनिरनात्मेति ॥ ११२॥ गौणीति प्राचुर्यात् ॥ ११३॥ ॥ इति शक्तिसूत्राणि ॥ Based on the commentary available in the manuscript, शाक्तेयसूत्राणि रचयितुकामो भगवानगस्त्यः प्रथमं तावत् ``अथातः शक्तिजिज्ञासा'' इति सूत्रमारब्धवान् । the Sutras are ascribed to Agastya. The commentary runs only upto the 19th Sutra. The Sutras are important as setting forth the philosophy of the Shakti cult. अथ शक्तिसूत्रव्याख्या । इह खलु अल्पायुरल्पवीर्यमन्दबुद्धिमतः अविद्यासागरादात्मानमुद्धर्त्तुं सामर्थ्याभावेनाशक्नुवतो लोकानालोक्य कृपयाज्ञानगाढान्धकारप्रदीपानि (?) शाक्तेयसूत्राणि रचयितुकामो भगवान् अगस्त्यः प्रथमं तावत् ``अथातः शक्तिजिज्ञासा'' इति सूत्रमारब्धवान् । अत्र श्रुतिसमानार्थत्वात् कर्त्तव्येति । अथशब्द उच्चारणमात्रेण मङ्गलार्थः, अर्थस्त्वानन्तर्यम् । तथा च-साधनचतुष्टयसंपत्त्यनन्तरम् । अतः धर्मादीनां क्रमशश्चैव आधिक्यात् (?), यागादीनां चिरकालप्रयाससाध्यत्वेऽपि फलं प्रति संशयरूपत्वात्, वेदान्ते तावत् ``आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' इत्यत्र प्रथमं तावत् दर्शनमनूद्या (?) श्रोतव्यादीनां बहुविधतर्कसाध्यत्वेन बालानामबोधकत्वादिति हेतोः शक्तिजिज्ञासा कर्त्तव्येति ॥ शक्तेर्जिज्ञासा शक्तिजिज्ञासा । का नाम शक्तिः । शल्कृ शक्तावित्यस्माद् धातोः क्तिन्प्रत्यये शक्तिरिति । सर्वभूतानामन्तर्यामितया प्रकाशयितुं शक्नोति इत्यर्थः । तथा च सूत्रम् ``यां विना न गतिर्गम्यते'' । ज्ञातुमिच्छा जिज्ञासा । अथ सुखसाध्यतया अनायासेन ज्ञानमुत्पाद्यत इत्यर्थः । तथा च श्रुतिः ``अन्धं तमः प्रविशन्ति येऽविद्यामुपासते'' इति । एवमनुबन्धचतुष्टयं निरूपितम् ॥ १॥ ननु वेदान्ताद्यनन्तसूत्राणां विद्यमानत्वात् किमर्थमपूर्वशक्तिरित्याक्षिप्य प्रति(वि)धत्ते ``यत्कर्त्री'' इति । ननु वेदान्ते ब्रह्मेति, साङ्ख्यादिषु चित्तमिति, सगुणेष्वीश्वर इति यदुच्यते तदेव शक्तिरित्यस्मिन् प्रतिपाद्यते । यत्पुंस्त्वेन (?) जगजन्मादिकारणत्वमिति शास्त्रादिषु निरूपितं सैव कर्त्रीं । जगतः इति शेषः । इत्थम् - एकैव सत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्ण्वादिरूपतां भजते । तथा च सूत्रम् - ``यश्चै(च्चै) तन्यभेदे प्रमाणम्'' इति । श्रुतिश्च ``परास्य शक्तिर्विविधैव श्रूयते'' इत्यादि ॥ २॥ नन्वेतादृशस्वल्पाया (?) मनोयोनित्वात् मनसः कृतकत्वेनानित्यत्वात् काष्ठाग्निवन्नाशिनः असत्वे सर्वज्ञत्वं न भवतीत्याशङ्क्याह भगवान् अगस्त्यः ``यदजा'' । यत्कारणमजा उत्पत्तिमन्न, यद्विलासात् सृष्टयादिरिति । तस्मात् सर्वज्ञरूप्येव कारणम् । ननु तादृकरूपाप्रसिद्धा न जिज्ञासितव्या, यद्यप्रसिद्धा नैव शक्त्या (? शक्या) जिज्ञासितुम् । इत्याक्षिप्य प्रसिद्धैव । कुतः । अहमस्मीत्यात्मप्रत्यक्षविषयत्वात् । आत्मैव तादृशस्वरूपाप्रसिद्धापि (?) देहमात्रमात्मेति, मनोमात्रं नात्मेति (?) संशयादिवारणाय तादृशरूपजिज्ञासा अवश्यं कर्त्तव्या । ननु तादृशस्य किं प्रमाणमित्याकाङ्क्षायां ``मनोयोनित्वात्᳚ मनः योनिः कारणम् प्रमाणं तस्य भावः तत्त्वात् । श्रुतिः - ``मनस्येवेदमाप्तव्यं नेह नानास्ति किञ्चन'' । ``यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह'' इति श्रुतिस्तु अपक्व(?)मुपलक्षणम् । मनसीति निश्चित्याप्तव्यम् - इत्यभिप्रायः ॥ ३॥ ननु मनसा निश्चितत्वविषये औपनिषत्साङ्ख्ययोगादीनां वैयर्थ्यापत्तिरिति निश्चित्याह । ``नान्तरायोऽत्र'' । अन्तरे मध्ये ईयते प्राप्यते इति । अत्र मनोनिश्चयविषये मध्ये प्राप्य शास्त्रं न किञ्चिदपि । इतरेषां बहुप्रयासत्वेन एतेनैवालमित्यभिप्रायः ॥ ४॥ नन्वीद्गशमाहात्म्यं कुतः स्यादत आह- ``तत् सान्निध्यात्'' । तस्मिन् सान्निध्यं तत्स्थत्वं तस्मात् । विकलन (?) मात्रेणानितरापेक्षं ज्ञानमुत्पद्यत इति यावत् ॥ ५॥ ननु तत्-स्थत्वात् अणुत्वापत्तिरित्याशङ्क्य ``तत्कल्पकत्वमौपाधिकम्'' इति । तत्कल्पकत्वमणुत्वादिनिर्द्देशकत्वमौपाधिकम् उपाधिवशान्नेतव्यम् । कुतः । सर्वव्यापित्वात् ॥ ६॥ अत्र शङ्कते । सर्वव्यापित्वेन प्रकाशकत्वमुपपद्यते । कुतः । ``समानधर्मत्वात्'' । समाना धर्माः चैतन्यव्याप्यत्वादयः । तेषां भावः तस्मात् तत्स्थत्वं नोपपद्यते ॥ ७॥ तस्याहोभिर्वाधिकरणवति स्वप्रकाशकत्वमुपपद्यते वा । भास्यते अनेनेति भासः । प्रतिभासे भवं प्रातिभासिकम् । स्वप्रकाशयोग्यं तच्चैतन्यमप्यादर्शमुखवत् बुद्धौ बोधयितव्यम् । तर्हि ``यदोतं यत् प्रोतम्'' इति सूत्रस्य वैयर्थ्यापत्तेः । वस्तुतः आदर्शने असत्ता (? असत्त्वा) दिति चेत् । न । साभ्रनक्षत्रस्य अपरिच्छिन्नस्य जलादौ विद्यमानत्वात् । अत्राह ॥ ८॥ यद्येवमतोऽस्य अज्ञानमेव बन्धः जीवस्योपजीव्यते, बन्धस्य मिथ्यात्वात् । ततश्चोत्तरत्र सूत्रकार एव वक्ष्यति । तथा च मनोमात्रकलन (?) एव सर्वं न तु किञ्चिदत्रास्ति । कुतः । ``नेह नाना'' इति श्रुतेः ॥ ९॥ यदारोपस्य यत्प्रतीतेः । तथा च सूत्रम्- ``यां विना न गतिर्गम्यते'' । यद् रूपादीनामध्यासादिना प्रतीयमानमेव । तथा च स्मरन्ति ``अस्ति भाति प्रियं रूपं नाम चैक्यं विभेदतः । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततोऽद्वयम्'' ॥ इत्यादिवाक्याञ्च ॥ १०॥ तच्छक्तिमयेन प्रतिभाव्यमानं जगदधिष्ठानस्य कारणस्य लिङ्गं गमकम् । ननु एताद्गशमोहनमात्रेण जगद्रूपेण किमर्थं परिणमिता, परिणामिन्याः यतत्वात् (१) परिणामस्यापि तत्त्वात् । अनेकेषां सत्यत्वे कथं ज्ञानेन व्यावर्त्तेत । बाढम् । व्यावहारिकपारमार्थिकभेदेनाङ्गी कृतत्वात् ॥ ११॥ ननु कथं ज्ञेयः नानादीनां विद्यमानत्वात् । किञ्च नानादिष्वाध्यारोपितत्वात । तथा च सूत्राणि - ``तत् कामित्वात्'' (इत्य्) आरभ्य ``मन्वानास्तरन्ति संसारम्'' इत्यन्तानि गमकानि । साङ्ख्यकृद्भिश्च ``नानोपाधिषु यन्नानारूपं भात्यनलार्कवत् । तत् समं सर्वभूतेषु'' इत्यादि ॥ १२॥ ननु सर्वेषां तद्व्याप्यत्वेन ``सर्वं प्रकृतिमयम्'' इति सूत्रेण सकलजनानां व्यावहारिकत्वेनैव सिद्धे सर्वेषां मोक्षापत्तिः । अत आह । तच व्यापकत्वञ्च । कालिकं कालसम्बन्धान्नेतव्यम् । ननु (?) सदा विद्यते सर्वेषां सततयथानेन (?) । तथा च सर्वं तद्रूपेण निश्चेतव्यं, न तु स्वरूपेण ॥ १३॥ अखण्डेषु समस्तेषु उपाधिः सम्बन्धः यस्याः । समत्वात् । श्रुत्या च गम्यते ॥ १४॥ नु पापपुण्यतारतम्येन स्वर्गनरकाद्युच्चावचेषु प्रविशमानाः तत्रस्थानामपेक्षयानुभवन्ति । तस्मान्न सर्वनियन्तृत्वम् इति चेन्न । यामेव भूतानि विशन्ति प्रविशन्ति तद्रूपेण अधिकारादित्यर्थः । तद्विषयमुत्तरत्र वक्ष्यति ॥ १५॥ ननु तद्रूपत्वं कथं सम्भवति, एकस्य सर्वत्रान्वयासम्भवादित्यत आह ``यदोतं यत्प्रोतम्'' इति । येन कारणेन ओतं व्याप्तं येन जगता प्रोतं तन्तुपटवत् । इत्थं कारणं विहाय न कदापि वर्त्तते । कार्यं नाम कारणानन्यत्वम् । कारणसत्ताव्यतिरिक्तसत्ताशून्यत्वमिति यावत् । तथा च सर्वे तद्रूपा इति नोक्तदोषः ॥ १६॥ नन्वाकाशवत् तद्व्यापकत्वं कथमत आह- ``तद्विष्णुत्वात्'' । तस्य कारणस्य विष्णुत्वात् व्यापकत्वात् । विप्लू व्याप्ताविति । उणादिना ``णु'' प्रत्ययः । तथा च आकाशवत् सर्वगतस्य नित्यः । तथा च सूत्रमपि ॥ १७॥ ननु जलस्थलनभओकसामनेकेषामपि एकयाधिष्ठातृत्वं न भाव्यते । अत आह- ``ततो जगन्ति कियन्ति'' । तत एव कियन्ति, परमाणूनारभ्य भूतपर्यन्तानि जगन्ति उत्पद्यन्ते । तथा चैकशास्त्रकर्त्ता (१) तत्सर्वज्ञानं यथा भवति तीर्थतरः प्रभूतः तद्वदत्रापि योजनीयम् । कुतः । तस्या एव मूलत्वात् कारणत्वात् । श्रुतिश्च ``सु (?) मृत्युरासीत्'' इत्यादि । तत् प्रथमत आकाशादिरूपेण परिणमितेत्यर्थः ॥ १८॥ ननु एकस्यानेकरूपत्वं कथमुपपद्यते । परिणामोपलव्धेः । परिणामस्य अनेक परिणमितस्योपलब्धेर्दृष्टत्वात् । लोके च मृदादिषु । श्रुतिश्च ``तत् स्रष्टा'' इत्यादिः । ब्रह्मसूत्रेऽपि ``अंशो । नानाव्यपदेशाद्'' इत्यादि । ननु परिणामित्वव्यपदेशात् सर्वाकारं कारणमासीत् । सर्वज्ञानेन विषयादिज्ञानानां प्रयोजनत्वमेव । तथा च परिणामस्य अनित्यत्वस्य दृष्टत्वात् ``एष जनो अमृतः'' इत्यादिश्रुतिकोपोपलब्धिप्रसङ्ग इति चेन्न । नानास्वरूपेण स्थितत्वेऽपि एकत्वं कूटस्थत्वम् अविरुद्धम् । न दोषः । दृष्टत्वात् । घटादिषु मृत्त्वेनैवैकत्वम् । अत्र परिणामत्वञ्च विवृत्तत्वं (?) विषमसत्ताककार्यत्वम् । वाचारम्भणश्रुतिश्च कारणस्यैव सत्यत्वं ब्रवीति ॥ १९॥ The commentary (on 19 sUtras) is as it is found in the transcript. The possible errors are marked with (?). Even with doubts, it is yet important as showing the traditional way of interpreting the Sutras. Encoded and proofread by Mike Magee Proofread by Mike Magee, Ruma Dewan
% Text title            : Shakti Sutras by Sage Agastya
% File name             : shaktisuutra.itx
% itxtitle              : shaktisUtrANi agastyamunivirachitA
% engtitle              : shaktisUtrANi by Agastyamuni
% Category              : sUtra, devii, otherforms, agastya, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : Agastya RiShi
% Language              : Sanskrit
% Subject               : taantrik
% Transliterated by     : Michael Magee 
% Proofread by          : Mike Magee, Ruma Dewan
% Description-comments  : Shakti Sutras attributed to Agastya
% Indexextra            : (Scans 1, 2)
% Latest update         : August 12, 2023
% Send corrections to   : Mike Magee 
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org