श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्

॥ पूर्वपीठिका ॥ समाहूय परं कान्तं एकदा विजने मुदा । परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥ पार्वती उवाच श्रीमन्नाथ महानन्दकारणं ब्रूहि शङ्कर । योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ॥ २॥ कृपास्ति मयि चेत् शम्भो सुगोप्यमपि कथ्यताम् । शिवकामेश्वरीनामसाहस्रं वद मे प्रभो ॥ ३॥ श्रीशङ्कर उवाच निर्भरानन्दसन्दोहः शक्तिभावेन जायते । लावण्यसिन्धुस्तन्नापि सुन्दरी रसकन्धरा ॥ ४॥ तामेवानुक्षणं देवि चिन्तयामि ततः शिवे । तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ५॥ सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् । तामेव स्तुवता देवीं ध्यायतोऽनुक्षणं मम । सुखसन्दोहसम्भारभावनानन्दकारणम् ॥ ६॥ अस्य श्रीशिवकामसुन्दरीसहस्रनाम स्तोत्रमहामन्त्रस्य । सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीमच्छिवकामसुन्दरी देवता । वाग्भवस्वरूपं ऐं बीजम् । चिदानन्दात्मकं ह्रीं शक्तिः । कामराजात्मकं क्लीं कीलकम् । श्रीमच्छिवकामसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ षोडशार्णमूलेन न्यासः ॥ षोडशार्णध्यानमेव अत्रापि ध्यानम् । सिद्धसिद्धनवरत्नभूमिके कल्पवृक्षनववाटिसंवृते । रत्नसालवनसम्भृतेऽनिशं तत्र वापिशतकेन संवृते ॥ ७॥ रत्नवाटिमणिमण्डपेऽरुणे चपडभानुशतकोटिभासुरे । आदिशैवमणिमञ्चके परे शङ्कराङ्कमणिपीठकोपरि ॥ कादिहान्तमनुरूपिणीं शिवां संस्मरेच्च शिवकामसुन्दरीम् ॥ ८॥ लमित्यादि पञ्चपूजा ॥ शिवकामेश्वरीनामसाहस्रस्तोत्रमुत्तमम् । प्रोच्यते श्रद्धया देवि श‍ृणुष्वावहिता प्रिये ॥ ९॥ कामेशीनामसाहस्रे सदाशिव ऋषिः स्मृतः । छन्दोऽनुष्टुप् देवता च शिवकामेश्वरी स्मृता ॥ १०॥ ऐं बीजं कीलकं क्लीं च ह्रीं शक्तिः कथिता प्रिये । न्यासध्यानादिकं सर्वं षोडशार्णवदीरितम् ॥ ११॥ अनेन स्तोत्रराजेन सर्वाभीष्टं लभेत ना । ॥ अथ सहस्रनामस्तोत्रम् ॥ श्रीशिवा शिवकामी च सुन्दरी भुवनेश्वरी । आनन्दसिन्धुरानन्दानन्दमूर्तिर्विनोदिनी ॥ १॥ त्रैपुरी सुन्दरी प्रेमपाथोनिधिरनुत्तमा । रामोल्लासा परा भूतिः विभूतिश्शङ्करप्रिया ॥ २॥ श‍ृङ्गारमूर्तिर्विरता रसानुभवरोचना । परमानन्दलहरी रतिरङ्गवती सती ॥ ३॥ रङ्गमालानङ्गकलाकेलिः कैवल्यदा कला । रसकल्पा कल्पलता कुतूहलवती गतिः ॥ ४॥ विनोददुग्धा सुस्निग्धा मुग्धमूर्तिनोहरा । बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला ॥ ५॥ स्रवत्पीयूषदिग्धाङ्गी सङ्गीत नटिका शिवा । कुरङ्गनयना कान्ता सुखसन्ततिरिन्दिरा ॥ ६॥ मङ्गला मधुरापाङ्गा रञ्जनी रमणी रतिः । राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ७॥ प्रपञ्चगतिरीशानी सामरस्यपरायणा । हंसोल्लासा हंसगतिः शिञ्जत्कनकनूपुरा ॥ ८॥ मेरुमन्दरवक्षोजा सृणिपाशवरायुधा । शङ्खकोदण्डसस्ताब्जपाणिद्वयविराजिता ॥ ९॥ चन्द्रबिम्बानना चारुमकुटोत्तंसचन्द्रिका । सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ १०॥ मन्दारदाममुदिता रक्तपुष्पविभूषिता । सुवर्णाभरणप्रीता मुक्तादाममनोहरा ॥ ११॥ ताम्बूलपूरवदना मदनानन्दमानसा । सुखाराध्या तपस्सारा कृपावारिधिरीश्वरी ॥ १२॥ वक्षःस्थललसन्मग्ना प्रभा मधुरसोन्मुखा । बिन्दुनादात्मिका चारुरसिता तुर्यरूपिणी ॥ १३॥ कमनीयाकृतिः धन्या शङ्करप्रीतिमञ्जरी । कन्या कलावती माता गजेन्द्रगमना शुभा ॥ १४॥ कुमारी करभोरु श्रीः रूपलक्ष्मीः सुराजिता । सन्तोषसीमा सम्पत्तिः शातकुम्भप्रिया द्युतिः ॥ १५॥ परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी । सार्वभौमनृपश्रीश्च साम्राज्यगतिरासिका ॥ १६॥ सरोजाक्षी दीर्घदृष्टिः सौचक्षणविचक्षणा । रङ्गस्रवन्ती रसिका प्रधानरसरूपिणी ॥ १७॥ रससिन्धुः सुगात्री च युवतिः मैथुनोन्मुखी । निरन्तरा रसासक्ता शक्तिस्त्रिभुवनात्मिका ॥ कामाक्षी कामनिष्ठा च कामेशी भगमङ्गला । सुभगा भगिनी भोग्या भाग्यदा भयदा भगा । भगलिङ्गानन्दकला भगमध्यनिवासिनी ॥ १९॥ भगरूपा भगमयी भगयन्त्रा भगोत्तमा । योनिर्जया कामकला कुलामृतपरायणा ॥ २०॥ कुलकुण्डालया सूक्ष्मजीवस्फुलिङ्गरूपिणी । मूलस्थिता केलिरता वलयाकृतिरीडिता ॥ २१॥ सुषुम्ना कमलानन्दा चित्रा कूर्मगतिर्गिरिः । सितारुणा सिन्धुरूपा प्रवेगा निर्धनी क्षमा ॥ २२॥ धण्टाकोटिरसारावा रविबिम्बोत्थिताद्भूता । नादान्तलीना सम्पूर्णा प्रणवा बहुरूपिणी ॥ २३॥ भृङ्गारावा वशगतिः वागीशी मधुरध्वनिः । वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी ॥ २४॥ मणिपूरस्थिता स्निग्धा कूर्मचक्रपरायणा । मूलकेलिरता साध्वी स्वाधिष्ठाननिवासिनी ॥ २५॥ अनाहतगतिर्दीपा शिवानन्दमयद्युतिः । विरुद्धरुधा सम्बुद्धा जीवभोक्त्री स्थलीरता ॥ २६॥ आज्ञाचक्रोज्ज्वलस्फारस्फुरन्ती निर्गतद्विषा । चन्द्रिका चन्द्रकोटीशी सूर्यकोटिप्रभामयी ॥ २७॥ पद्मरागारुणच्छाया नित्याह्लादमयीप्रभा । महाशून्यालया चन्द्रमण्डलामृतनन्दिता ॥ २८॥ कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता । महाचन्द्रस्मितालिसा मृत्पात्रस्था सुधाद्युतिः ॥ २९॥ स्रवत्पीमूषसंसक्ता शश्वत्कुण्डालया भवा । श्रेयो द्युतिः प्रत्यगर्था सेवा फलवती मही ॥ ३०॥ शिवा शिवप्रिया शैवा शङ्करी शाम्भवी विभुः । स्वयम्भू स्वप्रिया स्वीया स्वकीया जनमातृका ॥ सुरामा स्वप्रिया श्रेयः स्वाधिकाराधिनायिका । मण्डला जननी मान्या सर्वमङ्गलसन्ततिः ॥ ३२॥ भद्रा भगवती भाव्या कलितार्धेन्दुभासुरा । कल्याणललिता काम्या कुकर्मकुमतिप्रदा ॥ ३३॥ कुरङ्गाक्षी क्षीरनेत्रा क्षीरा मधुरसोन्मदा । वारुणीपानमुदिता मदिरामुदिता स्थिरा ॥ ३४॥ कादम्बरीपानरुचिः विपाशा पशुभावना । मुदिता ललितापाङ्गा दरान्दोलितदीर्घदृक् ॥ ३५॥ दैत्याकुलानलशिखा मनोरथसुधाद्युतिः । सुवासिनी पीतगात्री पीनश्रोणिपयोधरा ॥ ३६॥ सुचारुकबरी दध्युदध्युत्थिमौक्तिका । बिम्बाधरद्युतिः मुग्धा प्रवालोत्तमदीधितिः ॥ ३७॥ तिलप्रसूननासाग्रा हेममौक्तिककोरका । निष्कलङ्केन्दुवदना बालेन्दुवदनोज्वला ॥ ३८॥ नृत्यन्त्यञ्जननेत्रान्ता प्रस्फुरत्कर्णशष्कुली । भालचन्द्रातपोन्नद्धा मणिसूर्यकिरीटिनी ॥ ३९॥ कचौघचम्पकश्रेणी मालिनीदाममण्डिता । हेममाणिक्य ताटङ्का मणिकाञ्चन कुण्डला ॥ ४०॥ सुचारुचुबुका कम्बुकण्ठी कुण्डावली रमा । गङ्गातरङ्गहारोर्मिः मत्तकोकिलनिस्वना ॥ ४१॥ मृणालविलसद्बाहुपाशाकुशधनुर्धरा । केयूरकङ्कणश्रेणी नानामणिमनोरमा ॥ ४२॥ ताम्रपङ्कजपाणिश्रीः नवरत्नप्रभावती । अङ्गुलीयमणिश्रेणी कान्तिमङ्गलसन्ततिः ॥ ४३॥ मन्दरद्वन्द्वसुकुचा रोमराजिभुजङ्गिका । गम्भीरनाभिस्त्रिवलीभङ्गुरा क्षणिमध्यमा ॥ ४४॥ रणत्काञ्चीगुणानद्धा पट्टांशुकनितम्बिका । मेरुसन्धिनितम्बाढ्या गजशुण्डोरुयुग्मयुक् ॥ ४५॥ सुजानुर्मदनानन्दमयजङ्घाद्वयान्विता । गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता ॥ ४६॥ पदद्वन्द्वजिताम्भोजा नखचन्द्रावलीप्रभा । सुसीमप्रपदा राजंहसमत्तेभमन्दगा ॥ ४७॥ योगिध्येयपदद्वद्वा सौन्दर्यामृतसारिणी । लावपयसिन्धुः सिन्दूरतिलका कुटिलालका ॥ ४८॥ साधुसीमन्तिनी सिद्धबुद्धवृन्दारकोदया । बालार्ककिरणश्रेणिशोणश्रीः प्रेमकामधुक् ॥ ४९॥ रसगम्भीरसरसी पद्मिनी रससारसा । प्रसन्नासन्नवरदा शारदा भुवि भाग्यदा ॥ ५०॥ नटराजप्रिया विश्वानाद्या नर्तकनर्तकी । चित्रयन्त्रा चित्रतन्त्रा चित्रविद्यावलीयतिः ॥ ५१॥ चित्रकूटा त्रिकूटा च पन्धकूटा च पञ्चमी । चतुष्ट्कूटा शम्भुविद्या षट्कूटा विष्णुपूजिता ॥ ५२॥ कूटषोडशसम्पन्ना तुरीया परमा कला । षोडशी मन्त्रयन्त्राणां ईश्वरी मेरुमण्डला ॥ ५३॥ षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी । वर्णातीता वर्णमता शब्दब्रह्ममयी सुखा ॥ ५४॥ सुखज्योत्स्नानन्दविद्युदन्तराकाशदेवता । चैतन्या विधिकूटात्मा कामेशी स्वप्नदर्शना ॥ ५५॥ स्वप्नरूपा बोधकरी जाग्रती जागराश्रया । स्वप्नाश्रया सुषुप्तिस्था तन्त्रमूर्तिश्च माधवी ॥ ५६॥ लोपामुद्रा कामराज्ञी माधवी मित्ररूपिणी । शाङ्करी नन्दिविद्या च भास्वन्मण्डलमध्यगा ॥ ५७॥ माहेन्द्रस्वर्गसम्पत्तिः दूर्वासस्सेविता श्रुतिः । साधकेन्द्रगतिस्साध्वी सुलिप्ता सिद्धिकन्धरा ॥ ५८॥ पुरत्रयेशी पुरकृत् षष्ठी च परदेवता । विघ्नदूरी भूरिगुणा पुष्टिः पूजितकामधुक् ॥ ५९॥ हेरम्बमाता गणपा गुहाम्बाऽऽर्या नितम्बिनी । एषा सीमन्तिनी मोक्षदक्षा दीक्षितमातृका ॥ ६०॥ साधकाम्बा सिद्धमाता साधकेन्द्रमनोरमा । यौवनोन्मादिनी तुङ्गस्तनी सुश्रोणिमण्डिता ॥ ६१॥ पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना । रक्तमाल्यरुचिर्दक्षा शिखण्डिन्यतिसुन्दरी ॥ ६२॥ शिखण्डिनृत्यसन्तुष्टा शिखण्डिकुलपालिनी । वसुन्धरा च सुरभिः कमनीयतनुश्शुभा ॥ ६३॥ नन्दिनी त्रीक्षणवती वसिष्ठालयदेवता । गोलकेशी च लोकेन्द्रा नृलोकपरिपालिका ॥ ६४॥ हविर्धात्री देवमाता वृन्दारकपरात्मयुक् । रुद्रमाता रुद्रपत्नी मदोद्गारभरा क्षितिः ॥ ६५॥ दक्षिणा यज्ञसम्पत्तिः स्वबला धीरनन्दिता । क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६६॥ रमा तुङ्गा सदासेव्या सुरसङ्घदया उमा । सुचरित्रा चित्रवरा सुस्तनी वत्सवत्सला ॥ ६७॥ रजस्वला रजोयुक्ता रञ्जिता रङ्गमालिका । रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६८॥ रजश्शुक्लाक्षिका निष्ठा ऋतुस्नाता रतिप्रिया । भाव्यभाव्या कामकेलिः स्मरभूः स्मरजीविका ॥ ६९॥ समाधिकुसुमानन्दा स्वयम्भुकुसुमप्रिया । स्वयम्भुप्रेमसन्तुष्टा स्वयम्भूनिन्दकान्तका ॥ ७०॥ स्वयम्भुस्था शक्तिपुटा रविः सर्वस्वपेटिका । अत्यन्तरसिका दूतिः विदग्धा प्रीतिपूजिता ॥ ७१॥ तूलिकायन्त्रनिलया योगपीठनिवासिनी । सुलक्षणा दृश्यरूपा सर्व लक्षणलक्षिता ॥ ७२॥ नानालङ्कारसुभगा पञ्चकामशरार्चिता । ऊर्ध्वत्रिकोणयन्त्रस्था बाला कामेश्वरी तथा ॥ ७३॥ गुणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती । वसन्तमदनोत्तुङ्ग स्तनी कुचभरोन्नता ॥ ७४॥ कलाधरमुखी मूर्धपाथोधिश्च कलावती । दक्षपादादिशीर्षान्तषोडशस्वरसंयुता ॥ ७५॥ श्रद्धा पूर्तिः रतिश्चैव भूतिः कान्तिर्मनोरमा । विमला योगिनी घोरा मदनोन्मादिनी मदा ॥ ७६॥ मोदिनी दीपिनी चैव शोषिणी च वशङ्करी । रजन्यन्ता कामकला लसत्कमलधारिणी ॥ ७७॥ वाममूर्धादिपादान्तषोडशस्वरसंयुता । पूषरूपा सुमनसां सेव्या प्रीतिः द्युतिस्तथा ॥ ७८॥ ऋद्धिः सौदामिनी चिच्च हंसमालावृता तथा । शशिनी चैव च स्वस्था सम्पूर्णमण्डलोदया ॥ ७९॥ पुष्टिश्चामृतपूर्णा च भगमालास्वरूपिणी । भगयन्त्राश्रया शम्भुरूपा संयोगयोगिनी ॥ ८०॥ द्राविणी बीजरूपा च ह्यक्षुब्धा साधकप्रिया । रजः पीठमयी नाद्या सुखदा वाञ्छितप्रदा ॥ ८१॥ रजस्सवित् रजश्शक्तिः शुक्लबिन्दुस्वरूपिणी । सर्वसाक्षी सामरस्या शिवशक्तिमयी प्रभा ॥ ८२॥ संयोगानन्दनिलया संयोगप्रीतिमातृका । संयोगकुसुमानन्दा संयोगयोगपद्धतिः ॥ ८३॥ संयोगसुखदावस्था चिदानन्दार्ध्यसेविता । अर्घ्यपूज्या च सम्पत्तिः अर्ध्यदाभिन्नरूपिणी ॥ ८४॥ सामरस्यपरा प्रीता प्रियसङ्गमरङ्गिणी । ज्ञानदूती ज्ञानगम्या ज्ञानयोनिश्शिवालया ॥ ८५॥ चित्कला सत्कला ज्ञानकला संवित्कलात्मिका । कलाचतुष्टयी पद्मवासिनी सूक्ष्मरूपिणी ॥ ८६॥ हंसकेलिस्थलस्वस्था हंसद्वयविकासिनी । विरागिता मोक्षकला परमात्मकलावती ॥ ८७॥ विद्याकलान्तरात्मस्था चतुष्टयकलावती । विद्यासन्तोषणा तृप्ति परब्रह्मप्रकाशिनी ॥ ८८॥ परमात्मपरा वस्तुलीना शक्तिचतुष्टयी । शान्तिर्बोधकला व्याप्तिः परज्ञानात्मिका कला ॥ ८९॥ पश्यन्ती परमात्मस्था चान्तरात्मकला शिवा । मध्यमा वैखरी चात्म कलाऽऽनन्दकलावती ॥ ९०॥ तरुणी तारका तारा शिवलिङ्गालयात्मवित् । परस्परस्वभावा च ब्रह्मज्ञानविनोदिनी ॥ ९१॥ रामोल्लासा च दुर्धर्षा परमार्घ्यप्रिया रमा । जात्यादिरहिता योगिन्यानन्दमात्रपद्धतिः ॥ ९२॥ कान्ता शान्ता दान्तयातिः कलिता होमपद्धतिः । दिव्यभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ९३॥ पशुदेहा वीरगतिः वीरहंसमनोदया । मूर्धाभिषिक्ता राजश्रीः क्षत्रियोत्तममातृका ॥ ९४॥ शस्त्रास्त्रकुशला शोभा रथस्था युद्धजीविका । अश्वारूढा गजारूढा भूतोक्तिः सुरसुश्रया ॥ ९५॥ राजनीतिश्शान्तिकर्त्री चतुरङ्गबलाश्रया । पोषिणी शरणा पद्मपालिका जयपालिका ॥ ९६॥ विजया योगिनी यात्रा परसैन्यविमर्दिनी । पूर्णवित्ता वित्तगम्या वित्तसञ्चय शालिनी ॥ ९७॥ महेशी राज्यभोगा च गणिकागणभोगभृत् । उकारिणी रमा योग्या मन्दसेव्या पदात्मिका ॥ सैन्यश्रेणी शौर्यरता पताकाध्वजमालिनी । सुच्छत्र चामरश्रेणिः युवराजविवर्धिनी ॥ ९९॥ पूजा सर्वस्वसम्भारा पूजापालनलालसा । पूजाभिपूजनीया च राजकार्यपरायणा ॥ १००॥ ब्रह्मक्षत्रमयी सोमसूर्यवह्निस्वरूपिणी । पौरोहित्यप्रिया साध्वी ब्रह्माणी यन्त्रसन्ततिः ॥ सोमपानजनाप्रीता योजनाध्वगतिक्षमा । प्रीतिग्रहा परा दात्री श्रेष्ठजातिः सताङ्गतिः ॥ १०२॥ गायत्री वेदविद्ध्येया दीक्षा सन्तोषतर्पणा । रत्नदीधितिविद्युत्सहसना वैश्यजीविका ॥ १०३॥ कृषिर्वाणिज्यभूतिश्च वृद्धिदा वृद्धसेविता । तुलाधारा स्वप्नकामा मानोन्मानपरायणा ॥ १०४॥ श्रद्धा विप्रगतिः कर्मकरी कौतुकपूजिता । नानाभिचारचतुरा वारस्त्रीश्रीः कलामयी ॥ सुकर्णधारा नौपारा सर्वाशा रतिमोहिनी । दुर्गा विन्ध्यवनस्था च कालदर्पनिषूदिनी ॥ भूमारशमनी कृष्णा रक्षोराक्षससाहसा । विविधोत्पातशमनी समया सुरसेविता ॥ १०७॥ पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका । सिद्धिसन्दोहसंसिद्धयोगिनीवृन्दसेविता ॥ १०८॥ नित्या षोडशिकारूपा कामेशी भगमालिनी । नित्यक्लिन्ना निराधारा वह्निमण्डलवासिनी ॥ १०९॥ महावज्रेश्वरी नित्यशिवदूतीति विश्रुता । त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी ॥ ११०॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामाला विचित्रा च महात्रिपुरसुन्दरी ॥ १११॥ गुरुवृन्दा परगुरुः प्रकाशानन्ददायिनी । शिवानन्दा नादरूपा शक्रानन्दस्वरूपिणी ॥ ११२॥ देव्यानन्दा नादमयी कौलेशानन्दनाथिनी । शुक्लदेव्यानन्दनाथा कुलेशानन्ददायिनी ॥ ११३॥ दिव्यौघसेविता दिव्यभोगदानपरायणा । क्रीडानन्दा क्रीडमाना समयानन्ददायिनी ॥ ११४॥ वेदानन्दा पार्वती च सहजानन्ददायिनी । सिद्धौघगुरुरूपा चाप्यपरा गुरुरूपिणी ॥ ११५॥ गगनानन्दनाथा च विश्वाद्यानन्ददायिनी । विमलानन्दनाथा च मदनानन्ददायिनी ॥ ११६॥ भुवनानन्दनाथा च लीलोद्यानप्रिया गतिः । स्वात्मान्दविनोदा च प्रियाद्यानन्दनाथिनी ॥ ११७॥ मानवाद्या गुरुश्रेष्ठा परमेष्ठि गुरुप्रभा । परमाद्या गुरुश्शक्तिः किर्तनप्रिया ॥ ११८॥ त्रैलोक्यमोहनाख्या च सर्वाशापरिपूरका । सर्वसङ्क्षोभिणी पूर्वाम्नाया चक्रत्रयालया ॥ ११९॥ सर्वसौभाग्यदात्री च सर्वार्थसाधकप्रिया । सर्वरक्षाकरी साधुर्दक्षिणाम्नायदेवता ॥ १२०॥ मध्यचक्रैकनिलया पश्चिमाम्नायदेवता । नवचक्रकृतावासा कौबेराम्नायदेवता ॥ १२१॥ बिन्दुचक्रकृतायासा मध्यसिंहासनेश्वरी । श्रीविद्या नवदुर्गा च महिषासुरमर्दिनी ॥ १२२॥ सर्वसाम्राज्यलक्ष्मीश्च अष्टलक्ष्मीश्च संश्रुता । शैलेन्द्रतनया ज्योतिः निष्कला शाम्भवी उमा ॥ १२३॥ अजपा मातृका चेति शुक्लवर्णा षडानना । पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणदा ॥ ११४॥ पञ्चकल्पलता चैव त्र्यक्षरी मूलपीठिका । सुधाश्रीरमृतेशानी ह्यन्नपूर्णा च कामधुक् ॥ १२५॥ पाशहस्ता सिद्धलक्ष्मीः मातङ्गी भुवनेश्वरी । वाराही नवरत्नानामीश्वरी च प्रकीर्तिदा ॥ १२६॥ परं ज्योतिः कोशरूपा सैन्धवी शिवदर्शना । परापरा स्वामिनी च शाक्तदर्शनविश्रुता ॥ १२७॥ ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी । विष्णुदर्शनरूपा च स्रष्टॄदर्शनरूपिणी ॥ १२८॥ सौरदर्शनरूपा च स्थितिचक्रकृताश्रया । बौद्धदर्शनरूपा च तुरीया बहुरूपिणी ॥ १२९॥ तत्त्वमुद्रास्वरूपा च प्रसन्ना ज्ञानमातृका । सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता ॥ १३०॥ शिखास्थिता वर्ममयी नेत्रत्रयविलासिनी । अस्त्रस्था चतुरस्रस्था द्वारस्था द्वारदेवता ॥ १३१॥ अणिमा पश्चिमस्था च दक्षिणद्वारदेवता । वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १३२॥ महिमापूर्वनाथा च लघिमोत्तरदेवता । अग्निकोणस्थगरिमा प्राप्तिर्नैरृतिवासिनी ॥ १३३॥ ईशित्वसिद्धिसुरथा सर्वकामोर्ध्ववासिनी । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १३४॥ वाराह्यैन्द्री च चामुण्डा वामा ज्येष्ठा सरस्वती । क्षोभिणी द्राविणी रौद्री काल्युन्मादनकारिणी ॥ १३५॥ खेचरा कालकरणी च बलानां विकरणी तथा । मनोन्मनी सर्वभूतदमनी सर्वसिद्धिदा ॥ १३६॥ बलप्रमथिनी शक्तिः बुद्ध्याकर्षणरूपिणी । अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ १३७॥ स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी । रसाकर्षणरूपा च प्लधाकर्षणरूपिणी ॥ १३८॥ चित्राकर्षणरूपा च धैर्याकर्षणरूपिणी । स्मृत्याकर्षणरूपा च नामाकर्षणस्त्वपिणी ॥ १३९॥ बीजाकर्षणरूपा च ह्यात्माकर्षणरूपिणी । अमृताकर्षिणी चैव शरीराकर्षणी तथा ॥ १४०॥ षोडशस्वरसम्पन्ना स्रवत्पीयूषमण्डिता । त्रिपुरेशी सिद्धिदात्री कलादर्शनवासिनी ॥ १४१॥ सर्वसङ्क्षोभचक्रेशी शक्तिर्गुह्यतराभिधा । अनङ्गकुसुमाशक्तिः तथैवानङ्गमेखला ॥ १४२॥ अनङ्गमदनाऽनङ्गमदनातुररूपिणी । अनङ्गरेखा चानङ्गवेगानङ्गाकुशाभिधा ॥ १४३॥ अनङ्गमालिनी चैव ह्यष्टवर्गाधिगामिनी । वस्वष्टककृतावासा श्रीमत्त्रिपुरसुन्दरी ॥ १४४॥ सर्वसाम्राज्यसुभगा सर्वभाग्यप्रदेश्वरी । सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा ॥ १४५॥ सर्वविद्रावणी सर्वाकर्षिणीरूपकारिणी । सर्वाह्लादनशक्तिश्च सर्वसम्मोहिनी तथा ॥ १४६॥ सर्वस्तम्भनशक्तिश्च सर्वजृम्भणकारिणी । सर्ववश्यकशक्तिश्च तथा सर्वानुरञ्जनी ॥ १४७॥ सर्वोन्मादनशक्तिश्च तथा सर्वार्थसाधिका । सर्वसम्पत्तिदा चैव सर्वमातृमयी तथा ॥ १४८॥ सर्वद्वन्द्वक्षयकरी सिद्धिस्त्रिपुरवसिनी । चतुर्दशारचक्रेशी कुलयोगसमन्वया ॥ १४९॥ सर्वसिद्धिप्रदा चैव सर्वसम्पत्प्रदा तथा । सर्वप्रियकरी चैव सर्वमङ्गलकारिणी ॥ १५०॥ सर्वकामप्रपूर्णा च सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी सर्व विघ्नविनाशिनी ॥ १५१॥ सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी । त्रिपुरा श्रीश्च सर्वार्थसाधिका दशकोणगा ॥ १५॥ सर्वरक्षाकरी चैव ईश्वरी योगिनी तथा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १५३॥ सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५४॥ सर्वानन्दमयी चैव सर्वरक्षास्वरूपिणी । तथैव च महाशक्तिः सर्वेप्सितफलप्रदा ॥ १५५॥ अन्तर्दशारचक्रस्था तथा त्रिपुरमालिनी । सर्वरोगहरा चैव रहस्ययोगिनी तथा ॥ १५६॥ वाग्देवी वशिनी चैव तथा कामेश्वरी तथा । मोदिनी विमला चैव ह्यरुणा जयिनी तथा ॥ १५॥ शिवकामप्रदा देवी शिवकामस्य सुन्दरी । ललिता ललिताध्यानफलदा शुभकारिणी ॥ १५॥ सर्वेश्वरी कौलिनी च वसुवंशाभिवर्द्धिनी । सर्वकामप्रदा चैव परापररहस्यवित् ॥ १५९॥ त्रिकोणचतुरश्रस्थ कामेश्वर्यायुधात्मिका । कामेश्वरीबाणरूपा कामेशी चापरूपिणी ॥ १६०॥ कामेशी पाशहस्ता च कामेश्यङ्कुशरूपिणी । कामेश्वरी रुद्रशक्तिः अग्निचक्रकृतालया ॥ १६१॥ कामाभिन्त्रा कामदोग्ध्री कामदा च त्रिकोणगा । दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धरालया ॥ १६२॥ सूर्यचक्रालया वामकोणगा सोमचक्रगा । भगमाला बृहच्छक्ति पूर्णा पूर्वास्ररागिणी ॥ १६३॥ श्रीमत्त्रिकोणभुवना त्रिपुराख्या महेश्वरी । सर्वानन्दमयीशानी बिन्दुगातिरहस्यगा ॥ १६४॥ परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी । सर्वचक्रान्तरस्था च सर्वचक्राधिदेवता ॥ १६५॥ सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा । सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६६॥ सर्वयोगेश्वरी सर्वपीठेश्वर्यखिलेश्वरी । सर्वकामेश्वरी सर्वतत्वेश्वर्यागमेश्वरी ॥ १६७॥ शक्तिः शक्तिभृदुल्लासा निर्द्वन्द्वाद्वैतगर्भिणी । निष्प्रपञ्चा प्रपञ्चाभा महामाया प्रपञ्चसूः ॥ १६८॥ सर्वविश्वोत्पत्तिधात्री परमानन्दकारणा । लावण्यसिन्धुलहरी सुन्दरीतोषमन्दिरा ॥ १६९॥ शिवकामसुन्दरी देवी सर्वमङ्गलदायिनी । इतिनाम्नां सहस्रं च गदितं इष्टदायकम् ॥ १७०॥ ॥ उत्तरपीतिका ॥ सहस्रनाम मन्त्राणां सारमाकृष्य पार्वति । रचितं हि मया चैतत् सिद्धिदं परमोक्षदम् ॥ १॥ अनेन स्तुवतो नित्यं अर्धरात्रे निशामुखे । प्रातः काले च पूजायां पठनं सर्वकामदम् ॥ २॥ सर्वसाम्राज्यसुखदा सुन्दरी परितुष्यति । रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ ३॥ मनोरथरथस्थानि ददाति परमेश्वरी । पुत्रपौत्राश्च वर्धन्ते सन्ततिस्सार्वकालिका ॥ ४॥ शत्रवस्तस्य नश्यन्ति वर्धन्ते च बलानि च । व्याधयस्तस्य नश्यन्ति लभते चौषधानि च ॥ ५॥ मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा । कृषिः फलवती तस्य भूमिः कामाखिलप्रदा ॥ ६॥ स्थिरं जनपदं तस्य राज्यं तस्य निरङ्गुशम् । मातङ्गास्तुरगास्तुङ्गाः सिञ्चिन्तो मदवारिभिः ॥ ७॥ सैनिकाश्च विराजन्ते तुष्टाः पुष्टास्तुरङ्गमाः । पूजाः शश्वत् विवर्धन्ते निर्विवादाश्च मन्त्रिणः ॥ ८॥ ज्ञातयस्तस्य तुष्यन्ति बान्धवाः विगतज्वराः । भृत्यास्तस्य वशे नित्यं वर्तन्तेऽस्य मनोनुगाः ॥ ९॥ गद्यपद्यमयी वाणी वाक्त्वातुर्यसुसम्भृता । समग्र सुखसम्पत्ति शालिनी लास्यमालिनी ॥ १०॥ नानापदमयी वाणी तस्य गङ्गाप्रवाहवत् । अदृष्टान्यपि च शास्त्राणि प्रकाशन्ते निरन्तरम् ॥ ११॥ निग्रहः परवाक्यानां सभायां तस्य जायते । स्तुवन्ति कृतिनस्तं वै राजानो दासवत्तथा ॥ १२॥ शस्त्राण्यस्त्राणि तद्गात्रे जनयन्ति रुजो नहि । मातङ्गाः तस्य वशगाः सर्पवर्या भवन्ति च ॥ १३॥ विषं निर्विषतां याति पानीयममृतं भवेत् । परसेनास्तम्भनं च प्रतिवादिविजृम्भणम् ॥ १४॥ नवरात्रेण जायन्ते सततन्यासयोगतः । अहोरात्रं पठेद्यस्तु स्तोत्रं संयतमानसः ॥ १५॥ वशाः तस्योपजायन्ते सर्वे लोकाः सुनिश्चितम् । षण्मासाभ्यासयोगेन देवा यक्षाश्च किन्नराः ॥ १६॥ सिद्धा महोरगास्सर्वे वशमायान्ति निश्चयम् । नित्यं कामकलां न्यस्यन् यः पतेत् स्तोत्रमुत्तमम् ॥ १७॥ मदनोन्मादिनी लीलापुरस्त्री तद्वशानुगा । लावण्यमदना साक्षात् विदग्धमुखचन्द्रिका ॥ १८॥ प्रेमपूर्णाश्रुनयना सुन्दरी वशगा भवेत् । भूर्जपत्रे रोचनेन कुङ्कुमेन वरानने ॥ १९॥ धातुरागेण वा देवी मूलमन्त्रं विलिख्य च । रक्षार्थं भस्म विन्यस्य पुटीकृत्य समन्त्रकम् ॥ २०॥ सुवर्णरौप्यखचिते सुषिरे स्थाप्य यत्नतः । सम्पूज्य तत्र देवेशीं पुनरादाय भक्तितः ॥ २१॥ धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि । नाभौ च विद्युतं धन्यं जयदं सर्वकामदम् ॥ २२॥ रक्षाकरं नान्यदस्मात् विद्यते भुवनत्रये । ज्वररोगनृपाविष्टभयहृत् भूतिवर्धनम् ॥ २३॥ बलवीर्यकरं चाथ भूतशत्रुविनाशनम् । पुत्रपौत्रगुणश्रेयोवर्धकं धनधान्यकृत् ॥ २४॥ य इदं पठति स्तोत्रं स सर्वं लभते नरः । यद्गृहे लिखितं स्तोत्रं तिष्ठेदेतद् वरानने ॥ २५॥ तत्र तिष्ठाम्यहं नित्यं हरिश्च कमलासनः । वसन्ति सर्वतीर्थानि गौरी लक्ष्मीस्सरस्वती ॥ २६॥ शिवकामेश्वरीं ध्यात्वा पठेन्नामसहस्रकम् । असकृत् ध्यानपाठेन साधकः सिद्धिमाप्नुयात् ॥ २७॥ शुक्रवारे पौर्णमास्यां पठन्नामसहस्रकम् । पूजां यः कुरुते भक्त्या वाञ्छितं लभते ध्रुवम् ॥ २८॥ शिवकामेश्वरीमन्त्रः मन्त्रराजः प्रकीर्तितः । तदभ्यासात्साधकश्च सिद्धिमाप्नोत्यनुत्तमाम् ॥ २९॥ नासाधकाय दातव्यमश्रद्धाय शठाय च । भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ ३०॥ अलसायायत्नवतेऽशिवभक्ताय सुन्दरि । विष्णुभक्तिविहीनाय न दातव्यं कदाचन ॥ ३१॥ देयं भक्तवरायैतत्भुक्तिमुक्यिकरं शुभम् । सिद्धिदं भवरोगघ्नं स्तोत्रमेतद्वरानने ॥ ३२॥ लतायोगे पठेद्यस्तु तस्य क्षिप्रं फलं भवेत् । सैव कल्पलता तस्य वाञ्छाफलकरी स्मृता ॥ ३३॥ पुष्पितां यां लतां सम्यक् दृष्ट्वा श्रीललितां स्मरन् । अक्षुब्धः प्रपठेद्यस्तु स यज्ञक्रतुपुण्यभाक् ॥ ३४॥ विकल्परहितो यो हि निर्विकल्पः स्वयं शिवः । नैतत्प्रकाशयेद्भक्तः कुशिष्यायाल्पमेधसे ॥ ३५॥ अनेकजन्मपुण्येन दीक्षितो जायते नरः । तत्राप्यनेकभाग्येन शैवो विष्णु परायणः ॥ ३६॥ तत्राप्यनेकपुण्येन शक्तिभावः प्रजायते । महोदयेन तत्रापि सुन्दरीभावभाग्भवेत् ॥ ३७॥ सहस्रनाम्नां तत्रापि कीर्तनं च सुदुर्लभम् । यत्र जन्मनि सा नित्यं पूर्वपुण्यवशाद्भवेत् ॥ ३८॥ जीवन्मुक्तो भवेत्तस्य कर्तव्यं नावशिष्यते । अवधूतत्वमेव स्यात् न वर्णाश्रमकल्पना ॥ ३९॥ ब्रह्मादयोऽपि देवेशीं प्रार्थयन्ते तदव्ययाम् । हंसत्वं भक्तिभावेन परमानन्दकारणम् ॥ ४०॥ देवोऽसौ सर्वदा शक्ति भावयन्नेव संस्थितः । स्वयं शिवस्तु विज्ञेयः सुन्दरीभावलम्पटः ॥ ४१॥ ब्रह्मानन्दमयीं ज्योत्स्नां सदाशिवपरायणाम् । शिवकामेश्वरीं देवीं भावयन् सिद्धिमाप्नुयात् ॥ ४२॥ आह्लादः सुन्दरीध्यानात् सुन्दरीनामकीर्तनात् । सुन्दरीदर्शनाच्चैव सदानन्दः प्रजायते ॥ ४३॥ ॥ इति श्रीरुद्रयामले उमामहेशसंवादे श्रीशिवकामसुन्दर्याः श्रीमत्त्रिपुरसुन्दर्याः षोडशार्णायाः तुरीयसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by DPD
% Text title            : shrI shivakAmasundarI sahasranAmastotra 2 rudrayAmalAntargartam
% File name             : shivakAmasundarIsahasranAmastotrarudrayAmala.itx
% itxtitle              : shivakAmasundarIsahasranAmastotram 2 (rudrayAmalAntargartam)
% engtitle              : shivakAmasundarIsahasranAmastotra 2 from rudrayAmalatantra
% Category              : sahasranAma, devii, stotra, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Description-comments  : Mahaperiaval trust publication
% Source                : Rudrayamalatantra
% Indexextra            : (Scan)
% Latest update         : August 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org