श्रीस्तवः
ॐ श्रीदेवी महावक्त्रा चतुर्वर्णा चतुर्भुजा ।
प्रज्ञावीर्यसार (रस)ज्ञेया चिन्तामणिकुरु स्मृता ॥ १॥
श्रीशालिकान्तरूपा त्वं स्निग्धगात्रं च तण्डुलम् ।
ददासि मे सदा चित्रं सौभाग्यं लोकपूजितम् ॥ २॥
श्रीताण्डुली महादेवी श्रीमल्(त्) कमलशोभिता ।
ददासि मे महाभोग्यं सर्वद्रव्यहितं धनम् ॥ ३॥
श्रीव्रीहिमुक्ताजीवा त्वं सर्वभूप(सु) नन्दिनी ।
ददासि मे सुखं नित्यं जीवितं धातुकाञ्चनम् ॥ ४॥
श्रीधन (धान्य) देविका रम्या सर्वरूपवती तथा ।
सर्वज्ञानमणिश्चैव श्रीश्रीदेवी नमोऽस्तु ते ॥ ५॥
ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।
शिवाङ्गमिति तत्सर्वं मां रक्षतु नमोऽस्तु ते ।
श्रीदेवी सततं मूर्ध्ना त्वां नमामि च शक्तितः ॥ ६॥
॥ ॐ तत्सत्॥
Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in
The text is found in inscriptions in the Far East lands of Java and Cambodia.