श्रीश्रीविद्यास्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ श्रीविद्यायै च विद्महे । नादबीजाय धीमहि ।
तन्नः शक्तिः प्रचोदयात् ॥
ह्रींबीजपूजिते देवि महामेरुनिवासिनि ।
श्रीषोडशाक्षरीविद्ये सुवासिनि नमोस्तु ते ॥ १॥
षोडशीपूजिते देवि षोडशीमन्त्ररूपिणि ।
षोडशीगुप्तसद्रूपे षोडशस्तोत्रमालिके ॥ २॥
नादबिन्दुकलारूपे नवावरणपूजिते ।
नानारागस्तुते देवि नारायणि नमोस्तु ते ॥ ३॥
वीणागानप्रिये मातर्वीणामृदुलसुस्वरे ।
वीणासँल्लयसङ्गीते वीणालये नमोस्तु ते ॥ ४॥
गानाञ्जलिससन्नूते गानमञ्जुलवाग्वरे ।
गानस्फूर्तिकरे मातर्गानलोले नमोस्तु ते ॥ ५॥
कविताप्रेरणे गौरि कविहृत्कमलालये ।
कवितोत्पलसौरभ्ये काव्यवासे नमोस्तु ते ॥ ६॥
नादोपासितसानन्दे नादाकृतिनमस्कृते ।
नादोपासिकहृन्नादे नादमूले नमोस्तु ते ॥ ७॥
नामरूपादिसर्वस्वे नामरूपविवर्जिते ।
नामरूपातिसौन्दर्ये नामरूपे नमोस्तु ते ॥ ८॥
रामनामप्रिये देवि नामगानातितोषिते ।
नामसङ्गीतमाधुर्ये नादरूपे नमोस्तु ते ॥ ९॥
त्यागराजगुरुस्वामिसत्सङ्गीतप्रमोदिते ।
शिष्यापुष्पाकृतस्तोत्ररागभावे नमोस्तु ते ॥ १०॥
मूकवाक्संस्तुते देवि मूककोकिलसुस्वने ।
मूकवाक्स्तुतिसुश्लोके मूकाम्बिके नमोस्तु ते ॥ ११॥
इहतृष्णापहे मातः सुज्ञानक्षीरपायने ।
परानन्दप्रदे मातर्वरानन्दे नमोस्तु ते ॥ १२॥
शक्तिरूपे शिवे मातः शिवरूपे शिवप्रिये ।
शिवशक्त्यैक्यचिद्रूपे शिवशक्ते नमोस्तु ते ॥ १३॥
प्राणशक्तिकविप्राणे आत्मशक्तिस्वरूपिणि ।
नादशक्तिमनःशक्ते शक्तिमूले नमोस्तु ते ॥ १४॥
आदिशक्तिमदम्ब त्वं अखिलाण्डैकरूपिणि ।
प्रसीद मे नमो मातः स्तोत्रमेतत्तवार्पणम् ॥ १५॥
मङ्गलं ते सुमाङ्गल्ये मङ्गलं कमलालये ।
मङ्गलं सर्वसत्सारे श्रीविद्ये शुभमङ्गलम् ॥ १६॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीश्रीविद्यास्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan