श्रीत्रिपुरास्तवराजः
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ।
वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् ।
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ १॥
सेवे सिन्दूरसन्दोहसुन्दरस्वाङ्गभासुराम् ।
करुणापूरपीयूषकटाक्षां कुलनायिकाम् ॥ २॥
द्विनेत्रं द्विभुजं शान्तं गुरुं पद्मासनस्थितम् ।
योगपीठे समासीनं नमामि शिरसिस्थितम् ॥ ३॥
नमामि सद्गुरुं शान्तं प्रत्यक्षशिवरूपिणम् ।
शिरसा योगपीठस्थं मुक्तिकामार्थसिद्धये ॥ ४॥
या नित्या परमा शक्तिर्जगच्चैतन्यरूपिणी ।
तां नमामि महादेवीं पञ्चमीं मातृरूपिणीम् ॥ ५॥
यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
लयमेष्यति यस्यां तां पञ्चमीं प्रणमाम्यहम् ॥ ६॥
श्रीमत्कल्पतरोर्मूले भवान्या रत्नमन्दिरे ।
रत्नसिंहासने देव्याः श्रीचक्रं प्रणमाम्यहम् ॥ ७॥
भूगृहं गुणरेखाढ्यं वेदद्वारोपशोभितम् ।
त्रिवृत्तं षोडशदलं तथाष्टदलकर्णिकम् ॥ ८॥
मनुकोणं द्विदिक्कोणं वसुकोणं त्रिकोणकम् ।
मध्ये बिन्दुमहाचक्रं नित्यं श्रीत्रिपुरामयम् ॥ ९॥
ब्रह्माण्डाधारशक्तिश्च कलास्मरपुरन्दराः ।
एताः संयोज्य पुरत ईश्वरीं योजयेच्छिवे ॥ १०॥
चन्द्रबीजं बिन्दुसंस्थं शिवबीजं नियोजयेत् ।
मादनं शक्रबीजस्थं योजयेद्भुवनेश्वरीम् ॥ ११॥
शिवबीजं मादनस्थं शक्रषष्टिसमन्वितम् ।
सप्तमं तच्च शक्रस्थं मायाबीजं समुद्धरेत् ॥ १२॥
तुङ्गाक्षरं शिवादिस्थं मरुदिन्द्रसमन्वितम् ।
धरन्धरसुताबीजमेकत्रापि नियोजयेत् ॥ १३॥
बगलातुरीयबीजाधः षोडशं च नियोजयेत् ।
वाक्स्थं तुरीयकं बीजं शाक्रबीजं नियोजयेत् ॥ १४॥
पिनाकेशं चन्द्रसंस्थमाकाशं रससंस्थितम् ।
चतुर्थस्वरसंयुक्तं नादबिन्दुसमन्वितम् ॥ १५॥
सर्वमेकत्र संयोज्य पञ्चपञ्चाक्षरी भवेत् ।
पञ्चकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता ॥ १६॥
कलह्रीं हसकलह्रीं हकहलह्रीं हकलह्रीं हकलसह्रीं
विद्याचूडामणिर्देवी प्रोक्ता सर्वोत्तमोत्तमा ।
तव स्नेहान्मयाख्याता नाख्येया यस्य कस्यचित् ॥ १७॥
इन्द्रो मां रक्षयेत्प्राच्यामाग्नेय्यामग्निदेवता ।
याम्ये यमः सदा पातु नैरृते निरृतिश्च माम् ॥ १८॥
पश्चिमे वरुणः पातु वायव्ये वायुदेवता ।
धनदश्चेत्तरे पातु ऐशान्यामीश्वरोऽवतु ॥ १९॥
ऊर्ध्वं प्रजापतिः पायादधश्चानन्तदेवता ।
एवं दश दिशो रक्षां कुर्वन्त्वाशाधिदेवताः ॥ २०॥
गणेशः सर्वदा पातु क्षेत्रेशो रक्षयेत्सदा ।
द्वारश्रीः सर्वदा पातु देहली पातु सर्वदा ॥ २१॥
गणनाथः सदा पातु दुर्गा मां परिरक्षतु ।
वटुको भैरवश्चान्ते क्षेत्रपालोऽभिरक्षतु ॥ २२॥
सह रत्या स्वपत्न्या च कामदेवश्च सर्वदा ।
प्रीत्या सह वसन्तोऽपि पातु मां नन्दने वने ॥ २३॥
चक्रस्य पश्चिमे द्वारे भवान्या रत्नमन्दिरे ।
शङ्खपद्म निधी रक्षां कुरुतां कामसिद्धये ॥ २४॥
पातु मां रत्नसोपानं परमैश्वर्यशोभितम् ।
रक्षयेत्पश्चिमद्वारे भवान्या रत्नमन्दिरे ॥ २५॥
सरस्वती महालक्ष्मीर्माया दुर्गा विभूतये ।
भद्रकाली तथा स्वस्ती स्वाहा चैव शुभङ्करी ॥ २६॥
गौरी च लोकधात्री च वागीश्वर्यादयो मम ।
एताश्चात्र स्थिताः सर्वा रक्षां कुर्वन्तु सर्वदा ॥ २७॥
पाषण्डाचारिणो भूता भूमौ ये चान्तरिक्षगाः ।
दिवि लोके स्थिता ये च ते गच्छन्तु शिवाज्ञया ॥ २८॥
वास्तूनामधिपो ब्रह्मा स्रष्टा रक्षतु सर्वदा ।
कुलनाथः सदा पातु द्वीपनाथोऽपि सर्वदा ॥
शिवं कुर्वन्तु ताः सर्वा आसने पञ्च देवताः ॥ २९॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ ३०॥
चक्रस्य दक्षिणे भागे श्रीमत्पात्रस्य मण्डले ।
पञ्चरत्नानि मे पान्तु पूजकानां च सिद्धये ॥ ३१॥
तत्र पात्रासने पुण्ये सर्वदा वह्निमण्डले ।
वह्नेश्च मण्डलं पातु कुलदेव्याश्च पूजने ॥ ३२॥
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे दश ॥ ३३॥
वह्नेर्दशकला ज्ञेयाः सर्वधर्मफलप्रदाः ।
एताभिः सहितो रक्षां कुर्याद्वैश्वानरो मम ॥ ३४॥
तत्र पात्रवरे दिव्ये श्रीमदादित्यमण्डले ।
सूर्यस्य मण्डलं पातु मम सर्वार्थसिद्धये ॥ ३५॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३६॥
कभाद्यर्णयुता भानोष्ठडान्ता द्वादशेरिताः ।
एताः कलास्तु सूर्यस्य सूर्यमण्डलसंस्थिताः ॥
एताभिः सहितो रक्षामादित्यः प्रकरोतु मे ॥ ३७॥
तत्र पात्रामृते दिव्ये सोमस्यामृतमण्डले ।
अमृतं सर्वदा पातु भैरवानन्दहेतुकम् ॥ ३८॥
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३९॥
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः ।
सोममण्डलमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ ४०॥
रविवेदकलापूर्णे सुधासम्पूर्णमण्डले ।
नक्षत्राधिपती रक्षां करोतु मम भूतये ॥ ४१॥
सूर्याग्निमण्डले दिव्ये सम्पूर्णे शशिमण्डले ।
पातु मां खेचरीबीजं दोषैकादशनाशकृत् ॥ ४२॥
शक्तियुक्ते सुरानन्दे भैरवाद्यैः सशक्तिभिः ।
आनन्दभैरवो रक्षां करोतु मम सर्वदा ॥ ४३॥
तत्र पूर्णामृते पुण्ये शक्तिर्या वारणी कला ।
आनन्दरूपिणी रक्षां करोतु मम सर्वदा ॥ ४४॥
सृष्टिर्बुद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।
स्थितिः सिद्धिरिति ख्याताः कचवर्गकला दश ॥ ४५॥
अकाराद्ब्रह्मणोत्पन्नाः सृष्टिकर्मणि तत्पराः ।
एताभिः सहितः पायाद्ब्रह्मा मां वाक्प्रदः सदा ॥ ४६॥
जरा च पालिनी शान्तिरीश्वरी रतिकामिके ।
वरदा ह्लादीनी प्रीतिर्दीर्घा च टतवर्गगाः ॥ ४७॥
उकाराद्विष्णुसम्भूताः स्थितिकर्मणि तत्पराः ।
एताभिः सहितः पायान्मां विष्णुः पुष्टिदायकः ॥ ४८॥
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत् क्रोधिनी क्रिया ।
उद्गारा मृत्युरूपा च पयवर्गकला दश ॥ ४९॥
मकाराद्रुद्रसम्भूताः संहारनिरताः सदा ।
एताभिः सहितो रुद्रो मां पायान्मृत्युनाशकः ॥ ५०॥
तिरस्करिण्यः पशुहृत्पञ्चेन्द्रियविमोहनाः ।
अनन्तान्तास्तु ताः पञ्च पीता श्वेतारुणासिता ॥ ५१॥
बिन्दोरीश्वरसम्भूताः षलवर्गकलास्तथा ।
तिरोधानपराभिर्मां पायादेताभिरीश्वरः ॥ ५२॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चेति रेचिका मोचिका परा ॥ ५३॥
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता आप्यायिनी तथा ।
व्यापिनी व्योमरूपा च अनन्ता चेति षोडश ॥ ५४॥
एताः स्वरकला नादात्सदाशिवसमुद्भवाः ॥ ५५॥
अनुग्रहप्रदा नित्यं सर्वसिद्धिप्रदायिकाः ।
एताभिः सहितः पायात्सदापूर्वः शिवस्तु माम् ॥ ५६॥
मातृका पातु मां नित्यं सर्वमन्त्रस्वरूपिणी ।
अखण्डैकरसानन्दकरी मां पातु सर्वदा ॥ ५७॥
अमृतेशी सदा पातु दीपिनी पातु सर्वदा ।
मूलविद्या च मां पातु श्रीमत्त्रिपुरसुन्दरी ॥
कामेश्वर्यादिभिर्युक्ता नित्याभिः पातु मां सदा ॥ ५८॥
सर्वाधो मण्डुकाकारे रुद्रः कालानलो विभुः ॥ ५९॥
रक्षां करोतु मे नित्यं या मूलप्रकृतिः सदा ।
ततश्चाधारशक्तिर्या मम रक्षां करोतु सा ॥ ६०॥
कूर्मस्तु सततं पायादनन्तो रक्षयेत्सदा ।
तस्य मूर्ध्नि स्थितः श्वेतवराहः परिरक्षतु ॥ ६१॥
दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा ।
समुद्रः सर्वदा पातु सुरत्नैरमृतैर्जलैः ॥ ६२॥
रत्नदीपं च मे रक्षां करोतु स्वर्णपर्वतः ।
पातु मां नन्दनोद्यानं पान्तु मां कल्पभूरुहः ॥ ६३॥
अधस्तेषां सदा पातु विचित्रा रत्नभूमिका ।
वालुकाः पञ्च मां पान्तु पान्तु देवमहीरुहः ॥ ६४॥
नवरत्नमयास्तत्र प्राकाराः पान्तु मां नव ।
श्रीरत्नमन्दिरं दिव्यचिन्तामणिविभूषितम् ॥ ६५॥
तत्र पद्मे महादिव्ये प्रभामण्डलवेदिका ।
श्वेतच्छत्रं सदा पातु रत्नमुक्तामणिप्रभम् ॥ ६६॥
प्रभामध्यस्थितं पातु रत्नसिंहासनं च माम् ।
सिंहासनस्य पार्श्वस्थं धर्मो ज्ञानं च रक्षतु ॥ ६७॥
वैराग्यं रक्षयेन्नित्यमैश्वर्यं रक्षयेत्सदा ।
अधर्मो रक्षयेन्नित्यमज्ञानं परिरक्षतु ॥ ६८॥
अवैराग्यं तु मां पायादनैश्वर्यं तु सर्वदा ।
सिंहासनस्य मध्यस्था दुर्गा मां परिरक्षतु ॥ ६९॥
माया मां पातु तत्रैव विद्या मां परिरक्षतु ।
श्रीविद्या शुद्धविद्या च मातङ्गी भुवनेश्वरी ॥ ७०॥
वाराही च समाख्याताः पञ्चविद्याश्च पान्तु माम् ।
अनन्तो रक्षयेन्नित्यं फणपञ्चदशान्वितः ॥ ७१॥
तन्मध्यफणमध्यस्थं महापद्मं च रक्षतु ।
पातु चानन्दकन्दं मां ज्ञाननालं च सर्वदा ॥ ७२॥
दला प्रकृतिरूपा मां प्रकृत्याकारकेसरैः ।
पातु मां पातु नित्यं सा तत्त्वरूपा च कर्णिका ॥ ७३॥
सूर्यस्य मण्डलं पातु पातु मां सोममण्डलम् ।
वह्नेश्च मण्डलं पातु सत्त्वं रक्षतु सर्वदा ॥
रजश्च पातु मां नित्यं पातु नित्यं तमोगुणः ॥ ७४॥
आत्मा चैवान्तरात्मा च परमात्मा च रक्षतु ।
ज्ञानात्मा च तथा रक्षां करोतु मम सर्वदा ॥ ७५॥
आत्मतत्त्वं शक्तितत्त्वं विद्यातत्त्वं तथैव च ।
सदाशिवस्य यत्तत्त्वं तत्सर्वं पातु मां सदा ॥ ७६॥
ज्ञानं मायाकलाविद्यातत्त्वात्मानो विभूतयः ।
रत्नसिंहासने देव्या रक्षां कुर्वन्तु सर्वदा ॥ ७७॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेता रक्षां कुर्वन्तु सर्वदा ॥ ७८॥
सुधार्णवासनं पातु पातु पोताम्बुजासनम् ।
देव्यासनं सदा पातु पातु चक्रासनं च माम् ॥ ७९॥
सर्वमन्त्रासनं पातु साध्यसिद्धासनं तथा ।
नवयोन्यासनं पातु सर्वदा मम रक्षणम् ॥ ८०॥
करोतु कुलसुन्दर्यः कामरूपं शिवासनम् ।
तत्रैव संस्थिता देव्यो रक्षां कुर्वन्तु सर्वदा ॥ ८१॥
त्रिपुरा त्रिपुरेशी च त्रिपुराद्या च सुन्दरी ।
त्रिपुरावासिनी पश्चात् त्रिपुराश्रीश्च मालिनी ॥ ८२॥
सिद्धाम्बा भैरवीत्येतास्त्रिपुराद्याश्च पान्तु माम् ।
गुरवो दिव्यसिद्धौघमानवौघास्त्रिधा स्थिताः ॥ ८३॥
मुनिवेदनागसङ्ख्या रक्षां कुर्वन्तु सर्वदा ।
समस्तप्रकटा गुप्तास्तथा गुप्ततराश्च याः ॥ ८४॥
सम्प्रदायाः कुलोत्तीर्णा निगर्भाश्च रहस्यकाः ।
तथैवातिरहस्याश्च परापररहस्यकाः ॥ ८५॥
नवधा पूजनं तत्र योगिनीनां विधीयते ।
एतास्तु सततं रक्षां कुर्वतां योगिनीगणाः ॥ ८६॥
त्रैलोक्यमोहनं चक्रं प्रथमं परिरक्षतु ।
अणिमा पश्चिमे पातु लघिमा चोत्तरे तथा ॥ ८७॥
पूर्वद्वारे च महिमा ईशिता पातु दक्षिणे ।
वशिता मारुते पातु प्राकाम्या त्वीशके तथा ॥ ८८॥
भुक्तिसिद्धिस्तथाग्नेय्यामिच्छा रक्षतु नैरृते ।
अधः पातु सदा प्राप्तिः सर्वकामप्रदायिनी ॥ ८९॥
सर्वकामा सदा पातु ऊर्ध्वे चोर्ध्वनिवासिनी ।
एताः प्रथमरेखायां सर्वाः प्रकटपूरिताः ॥ ९०॥
भैरवश्चासिताङ्गो यः कामरूपस्य पीठके ।
ब्रह्माणीसहितः पूर्वे द्वारे मां परिरक्षतु ॥ ९१॥
मलये चाग्निदिग्भागे संस्थितो रुरुभैरवः ।
माहेशीसहितः पातु कुलाचारस्य सिद्धये ॥ ९२॥
चण्डः कोलगिरौ रक्षां कौमारीसहितो यमे ।
करोतु भैरवो नित्यं पूजकानां च सिद्धये ॥ ९३॥
वैष्णवीसहितः क्रोधः कुलान्ते पीठराजके ।
नैरृते सर्वदा पातु भोगमोक्षार्थसिद्धये ॥ ९४॥
चौहार्ये पश्चिमे पीठे वाराहीसहितः सदा ।
उन्मत्तभैरवो रक्षां करोतु मम सिद्धये ॥ ९५॥
जालन्धरे महापीठे कपाली भैरवः सदा ।
इन्द्राणीसहितो रक्षां वायव्ये प्रकरोतु मे ॥ ९६॥
ओड्याणे चोत्तरे पीठे चामुण्डासहितः सदा ।
भीषणो भैरवः पातु साधकानां च सिद्धये ॥ ९७॥
संहारश्चण्डिकायुक्तो देवीकोष्ठे च पीठके ।
ऐशान्यां रक्षयेन्नित्यं कुलाचारस्य सिद्धये ॥ ९८॥
एते द्वितीयरेखायां संस्थिताश्चतुरश्रगाः ।
सर्वसङ्क्षेभिणी मुद्रा पश्चिमे पातु सर्वदा ॥ ९९॥
द्राविणी चोत्तरे पातु पूर्वे चाकर्षणी सदा ।
याम्ये वश्या सदा पातु उन्मादा मारुते सदा ॥ १००॥
ईशे महाङ्कुशा पातु त्रिखण्डा पातु चानले ।
नैरृते बीजमुद्रा च ऊर्ध्वे रक्षतु खेचरी ॥ १०१॥
महामुद्रा त्वधः पातु योगिनी योनिरूपिणी ।
सुसिद्धयो मुद्रिकाश्च भैरवाः सह मातृभिः ॥ १०२॥
एताश्चक्रस्थिता नित्यं सर्वकामफलप्रदाः ।
चतुरश्रे त्रिरेखासु रक्षां कुर्वन्तु सर्वदा ॥ १०३॥
सर्वाशापूरकं चक्रं द्वितीयं परिरक्षतु ।
कामाकर्षणरूपा च बुद्ध्याकर्षणरूपिणी ॥ १०४॥
अहङ्काराकर्षणी च शब्दाकर्षणरूपिणी ।
स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ १०५॥
रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ।
चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ १०६॥
स्मृत्याकर्षणरूपा च नामाकर्षणरूपिणी ।
बीजाकर्षणरूपा च आत्माकर्षणरूपिणी ॥ १०७॥
अमृताकर्षणी देवी शरीराकर्षणी तथा ।
एताश्चक्रस्थिता नित्यं स्वरार्णा षोडशे दले ॥ १०८॥
सर्वाभीष्टप्रदा देव्यो रक्षां कुर्वन्तु सर्वदा ।
सर्वसङ्क्षोभणं चक्रं तृतीयं परिरक्षतु ॥ १०९॥
अनङ्गकुसुमा पूर्वे दक्षिणेऽनङ्गमेखला ।
पश्चिमेऽनङ्गमदना उत्तरे मदनातुरा ॥ ११०॥
अनङ्गरेखा चाग्नेय्यां नैरृतेऽनङ्गवेगिनी ।
वातेऽनङ्गाङ्कुशा चैव ईशे चानङ्गमालिनी ॥ १११॥
कवर्गाद्यष्टवर्गस्था अष्टौ चानङ्गशक्तयः ।
रक्षां कुर्वन्तु ताः सर्वा देव्याश्चाष्टदले स्थिताः ॥ ११२॥
सर्वसौभाग्यदं चक्रं चतुर्थं परिरक्षतु ।
सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ ११३॥
सर्वाकर्षणशक्तिश्च सर्वाह्लादस्वरूपिणी ।
सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनरूपिणी ॥ ११४॥
सर्वजृम्भणशक्तिश्च सर्वतोवश्यरूपिणी ।
सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी ॥ ११५॥
सर्वार्थसाधिनी शक्तिः सर्वसम्पत्तिपूरणी ।
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ११६॥
चतुर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ।
सर्वार्थसाधकं चक्रं पञ्चमं परिरक्षतु ॥ ११७॥
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी ।
सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ ११८॥
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ।
सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ॥ ११९॥
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
बहिर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ॥ १२०॥
सर्वरक्षाकरं चक्रं षष्ठं रक्षतु सर्वदा ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥ १२१॥
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १२२॥
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
तथैव हि महादेवी सर्वेप्सितफलप्रदा ॥ १२३॥
अन्तर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ।
सर्वरोगहरं चक्रं सप्तमं परिरक्षतु ॥ १२४॥
वाग्देवी वशिनी पातु पातु कामेश्वरी च माम् ।
मोदिनी विमला पातु अरुणा जयिनी च माम् ॥ १२५॥
सर्वेश्वरी च मे रक्षां कुरुतां कौलिनी तथा ।
वाग्देव्यो वरदाः सन्तु सर्वास्तुष्यन्तु पूजिताः ॥ १२६॥
अष्टकोणान्तरे वाण्यो रक्षां कुर्वन्तु सर्वदा ।
सर्वसिद्धिप्रदं चक्रमष्टमं परिरक्षतु ॥ १२७॥
अष्टकोणान्तरस्थाने त्रिकोणे बहिरायुधाः ।
श्रीमत्पाशाङ्कुशधनुर्बाणाश्चायुधदेवताः ॥ १२८॥
षडङ्गदेवताः पान्तु अङ्गस्थाश्चाङ्गदेवताः ।
महादेव्यश्चक्रसंस्था रक्षां कुर्वन्तु सर्वदा ॥ १२९॥
श्रीमत्त्रिकोणमध्ये तु तत्र कोणत्रयेषु च ।
मध्ये च सर्वदा पान्तु चतस्रः पीठदेवताः ॥ १३०॥
कामे कामेश्वरी पातु पूर्णे वज्रेश्वरी तथा ।
जालन्धरे महापीठे पातु मां भगमालिनी ॥ १३१॥
ओड्याणके महापीठे महात्रिपुरसुन्दरी ।
सर्वानन्दमयं चक्रं नवमं परिरक्षतु ॥ १३२॥
सूर्येन्दुवह्निपीठे तु बिन्दुचक्रनिवासिनी ।
ब्रह्मस्वरूपिणी पातु श्रीमत्त्रिपुरसुन्दरी ॥ १३३॥
योनिमध्ये तु परितो नित्या षोडशशक्तयः ।
देव्याः श्रीचक्रमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ १३४॥
त्रैलोक्यमोहने चक्रे चतुरश्रे सुशोभने ।
पातु मामनिशं देवी त्रिपुरा परमेश्वरी ॥ १३५॥
सर्वाशापूरके चक्रे षोडशारे मनोहरे ।
तत्र चक्रेश्वरी नित्यं पातु मां त्रिपुरेश्वरी ॥ १३६॥
तथाष्टदलचक्रे तु सर्वसङ्क्षोभकारके ।
तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरसुन्दरी ॥ १३७॥
चतुर्दशारचक्रे तु शुभे सौभाग्यदायके ।
तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरवासिनी ॥ १३८॥
सर्वार्थसाधके बाह्ये दशारे चक्रराजके ।
त्रिपुराश्रीः सदा पातु मम कल्याणहेतवे ॥ १३९॥
अन्तर्दशारचक्रे तु सर्वरक्षाकरे परे ।
नित्यं चक्रेश्वरी देवी पायात्त्रिपुरमालिनी ॥ १४०॥
अथाष्टकोणचक्रे तु सर्वरोगहरे परे ।
पातु मां त्रिपुरा सिद्धा देवी चक्रेश्वरी सदा ॥ १४१॥
सर्वसिद्धि प्रदे चक्रे गुणकोणे मनोहरे ।
चक्रेश्वरी च मे रक्षां करोतु त्रिपुराम्बिका ॥ १४२॥
सर्वानन्दमये चक्रे मध्ये बिन्दौ सुशोभने ।
महाचक्रेश्वरी पातु श्रीमत्त्रिपुरभैरवी ॥ १४३॥
नित्या कामेश्वरी पातु पातु मां भगमालिनी ।
नित्यक्लिन्ना च मां पातु भेरुण्डा पातु सर्वदा ॥ १४४॥
मां वह्निवासिनी पातु महावज्रेश्वरी तथा ।
पातु मां शिवदूती च त्वरिता रक्षयेत्सदा ॥ १४५॥
कुलसुन्दरी मां पातु नित्यानित्या च पातु माम् ।
नित्या नीलपताका च विजया पातु सर्वदा ॥ १४६॥
श्रीसर्वमङ्गला पातु नित्या ज्वालांशुमालिनी ।
विचित्रा सर्वदा पातु षोडशी पातु सुन्दरी ॥ १४७॥
षोडशी प्रथमा नित्या त्रिपञ्चतिथिगामिनी ।
अनुलोमविलोमेन श्रीमत्त्रिपुरसुन्दरी ॥ १४८॥
महाविद्या तुरीया तु पातु मां बहुरूपिणी ।
महासप्तदशी नित्या नित्यमानन्दरूपिणी ॥ १४९॥
पूर्वं दक्षिणपश्चाच्च उत्तरोर्ध्वमनुत्तमम् ।
बौद्धवैदिकशैवाश्च सौरवैष्णवशाक्तकाः ॥ १५०॥
सृष्टिस्थितिलयाख्यानां वासो रक्षतु सर्वदा ।
चतस्रः समयादेव्यो योगिन्यः पान्तु सर्वदा ॥ १५१॥
चतुरस्रे महाचक्रे तारा मां परिरक्षतु ।
डाकिनी राकिणी पातु लाकिनी काकिनी तथा ॥
साकिनी हाकिनी पातु याकिनी सर्वरूपिणी ॥ १५२॥
वर्णस्था मातृकाः सर्वा देहस्था मातृकाश्च याः ।
रक्षां कुर्वन्तु ताः सर्वाश्चक्रराजे तु पूजिताः ॥ १५३॥
श्रीचक्रे पूजिता या याः पूजिता या न पूजिताः ।
सर्वास्ताः पूजिताः सन्तु श्रीमत्त्रिपुरसुन्दरी ॥ १५४॥
चतुरश्रे महाचक्रे बुद्धो मां परिरक्षतु ।
पातु मामनिशं देवः षोडशारे प्रजापतिः ॥ १५५॥
तथाष्टदलचक्रे तु शिवो मां परिरक्षतु ।
चतुर्दशारचक्रे तु भास्करो रक्षयेत्सदा ॥ १५६॥
द्विदशारे तथा पातु प्रभुर्नारायणो हरिः ।
अष्टारे मध्यचक्रे तु पातु मां भुवनेश्वरी ॥ १५७॥
अष्टारान्तस्त्रिकोणे तु कालिका पातु सर्वदा ।
त्रिकोणान्तरचक्रे तु पातु कात्यायनी च माम् ॥ १५८॥
नवचक्रेश्वरी नित्या या नित्या परमा कला ।
पातु मामनिशं देवी श्रीमत्त्रिपुरसुन्दरी ॥ १५९॥
महात्रिपुरसुन्दर्याश्चिन्तनीया च या परा ।
ब्रह्मस्वरूपिणी पातु पञ्चमी परदेवता ॥ १६०॥
पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी ।
शान्तिं करोतु सा नित्या पञ्चमी परदेवता ॥ १६१॥
सा पुनः पञ्चमी शक्तिर्नित्यचैतन्यरूपिणी ।
कारणानन्दमध्यस्था पातु मां पञ्चमी सदा ॥ १६२॥
पञ्चतत्त्वं तथा पञ्च यत्किञ्चित् पञ्चमं स्मृतम् ।
नित्यं पञ्चगुणैः पातु पञ्चमी परदेवता ॥ १६३॥
पञ्चपञ्चाक्षरैर्मन्त्रैः पञ्चकूटैश्च पञ्चभिः ।
पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी ॥ १६४॥
श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ।
त्रिशक्तिः सर्वसाम्राज्यलक्ष्मीः पञ्च प्रकीर्तिताः ॥ १६५॥
श्रीविद्या च परञ्ज्योतिः परा निष्कलशाम्भवी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ १६६॥
श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा ।
त्रिपुटा पञ्चबाणेशी पञ्चकल्पलताः स्मृताः ॥ १६७॥
श्रीविद्याऽमृतपीठेशी सुधासूरमृतेश्वरी ।
अन्नपूर्णेति विख्याता पञ्च कामदुघाः स्मृताः ॥ १६८॥
श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ।
वाराही पञ्चरत्नानामीश्वर्यश्च प्रकीर्तिताः ॥ १६९॥
गणेशो वटुकश्चैव क्षेत्रेशो योगिनीगणाः ।
तर्पिता बलिपात्राणि सर्वे रक्षन्तु पूजिताः ॥ १७०॥
ऐशान्यां सर्वदा पातु नित्यं निर्माल्यवासिनी ।
शेषिका सुन्दरी पातु बिन्दुचक्रनिवासिनी ॥ १७१॥
नित्यं कामकला पातु मुद्रा मां पातु खेचरी ।
शक्तिर्मां सर्वदा पातु या मूलाधारवासिनी ॥ १७२॥
मुद्रामन्त्रोपचारैस्तु समस्ता देवताश्च याः ।
ताः श्रीश्च पूजिता चास्तु श्रीमत्त्रिपुरसुन्दरी ॥ १७३॥
श्रीमत्त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् ।
पूजाक्रमेण कथितं साधकानां सुखावहम् ॥ १७४॥
क्रमेणानेन विधिना श्रीमत्त्रिपुरसुन्दरीम् ।
सम्पूज्य साधकश्रेष्ठो रक्षामन्त्रं सदा पठेत् ॥ १७५॥
प्रातः काले शुचिर्भूत्वा निशायामर्धरात्रके ।
अथवा सङ्कटे प्राप्ते राजस्थाने सुदुर्गमे ॥ १७६॥
जले वाथ स्थले वापि श्मशाने दुर्गमे गिरौ ।
यत्र यत्र भये प्राप्ते स तत्रैव पठेन्नरः ॥ १७७॥
सर्वावयवभावेन देवीं सञ्चिन्त्य साधकः ।
रक्षां कुर्वीत यत्नेन सर्वाशुभविनाशिनीम् ॥ १७८॥
स्तोत्रं चाद्भुतमेवेदं त्रैलोक्ये चापि दुर्लभम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥ १७९॥
यस्मै कस्मै न दातव्यं न वक्तव्यं कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ १८०॥
भ्रष्टेभ्यः साधकेभ्योऽपि बान्धवेभ्यो न दर्शयेत् ।
दत्ते चसिद्धिहानिः स्यादित्याज्ञा शाङ्करी कृता ॥ १८१॥
मन्त्राः पराङ्मुखा यान्ति क्रुद्धा भवति सुन्दरी ।
अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥ १८२॥
यद्गृहे विद्यते स्तोत्रं ग्रन्थे लिखितमुत्तमम् ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्टति ॥ १८३॥
तस्माद्यत्नादि मं ग्रन्थं पूजयेद्गन्धपुष्पकैः ।
पूजाफलं लभेन्नित्यं सुन्दरीसन्निधिर्भवेत् ॥ १८४॥
स्तवराजमिमं पुण्यं यः पठेत्सुसमाहितः ।
यत्फलं लभते तस्माच्छृणुध्वं साधकोत्तमाः ॥ १८५॥
वारमेकं तु योऽधीयात् स पूजाफलमश्नुते ।
वेदिता मातृचक्रस्य साधको भुवि जायते ॥ १८६॥
मासमेतत्क्रमेणैव पठेद्भक्तिपरायणः ।
स्वर्गेऽपि विदितो भूत्वा देवीभक्तस्तु भूतले ॥ १८७॥
भक्त्या च धारयेद्यस्तु लिखित्वा स्तोत्रमुत्तमम् ।
शिखायामथवा कण्ठे बाहौ वा भक्तिसंयुतः ॥ १८८॥
स भवेत्साधकश्रेष्ठो मातॄणां च सदा प्रियः ।
लभते सर्वकामान्वै परं स्वस्त्ययनं भवेत् ॥ १८९॥
तस्मादिदं प्रयत्नेन धारयेद्विधिना तथा ।
पठित्वा पूजयित्वा च त्रैलोक्यं वशमानयेत् ॥ १९०॥
भक्ताय ददते तस्मै मन्त्रं रक्षाकरं परम् ।
धृत्वा सौवर्णमध्यस्थां सर्वकामान्नरो लभेत् ॥ १९१॥
यानि वाञ्छति कामानि भुक्तिमुक्तिकराणि च ।
लभते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ १९२॥
दृष्ट्वा च साधकश्रेष्ठं ग्रहराक्षसहिंसकाः ।
दूरादेव पलायन्ते न समर्थाश्च हिंसितुम् ॥ १९३॥
विषं निर्विषतां याति पापं निर्याति सङ्क्षयम् ।
देववन्मानवो भूत्वा भुनक्ति बहुलं सुखम् ॥ १९४॥
तस्मान्नित्यं पठेद्धीमान्मुक्तिकामार्थसिद्धये ।
भक्त्या च धारयेद्देवीं स्वरक्षां सर्वदाऽऽचरेत् ॥ १९५॥
पूर्वजातिपरिज्ञानवेद्यं जन्मसहस्रकम् ।
न पुनर्जायते योनौ मरणं नास्ति चापरम् ॥ १९६॥
गन्धर्वरूपवान् भूत्वा सम्पूज्य परमेश्वरीम् ।
रक्षामन्त्रं पठित्वा च देवत्वं लभते ध्रुवम् ॥ १९७॥
अपुत्रे लभते पुत्रं दरिद्रो लभते धनम् ।
यं यं वापि स्मरेन्नित्यं तं तमाप्नोति निश्चितम् ॥ १९८॥
अतिदुःखालये कष्टे भीमे निगडबन्धने ।
सकृत्पाठे कृते नित्यं निगडान्मुच्यते ध्रुवम् ॥ १९९॥
दुष्कृतैरभिचारैश्च रोगैर्यक्ष्मादिभिश्च यः ।
परप्रयुक्तैर्ग्रस्तोऽपि पठनान्मुच्यते नरः ॥ २००॥
इमं त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् ।
रक्षामन्त्रं च शुभदं शिवेन परिकीर्तितम् ॥
यः पठेत्प्रयतो भक्त्या सद्यो रोगात्स मुच्यते ॥ २०१॥
आयुरारोग्यमैश्वर्यं भुक्तिं मुक्तिं च विन्दति ।
सर्वान्कामानवाप्नोति देवेन्द्रस्यापि दुर्लभान् ॥ २०२॥
इति श्रीरुद्रयामले श्रीत्रिपुरास्तवराजः समाप्तः ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com