त्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः

त्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः

श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कल्याणदात्रि कमनीयतनूलते त्वां कं चापि कालमनुचिन्त्य हृदाब्जमध्ये । कामं प्रहर्षभरितेन मया तवाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥ एतन्मदीयसुकृत्तं परमं पुराणं यत्त्वामहं प्रतिदिनं मनसा भजामि । साक्षात्कृतेन तव रूपमनेन चाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥ ईशादिदेवमहनीयमहानुभावे दीनं त्विमं भवभयेन परिस्फुरन्तम् । दीनार्तिहर्त्रि दयया परिपालयाशु पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥ लज्जां विहाय बहुधा बहवोऽपि देवाः सम्पूजिता जडधिया नतु कोऽपि दृष्टः । लब्धं तवैव रमणीयवपुर्दृशा मे पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥ ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ मग्नः परं तु न कदापि गतोऽस्मि पारम् । तत्तारणे निपुणयोस्त्रिपुरे मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ५॥ हस्तेषु पाशमहनीयसितेक्षुचापे पुष्पास्त्रमङ्कुशवरं ललितं दधाने । हेमाद्रितुङ्गतरश‍ृङ्गनिवासशीले पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ६॥ सर्वेषु देवि समयेषु गतिस्त्वमेव नान्यं कदापि मनसा समनुस्मरामि । सर्वत्र रूपमतुलं तव पश्यताद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ७॥ कस्ते पुरेशि विधिवत्तु समर्हणायां शक्तः समस्तपरिवर्हयुतोऽपि धीमान् । हृत्पङ्कजेन भवतीं भजता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ८॥ हन्तातिस्थभवपावकशोषितेन कुत्राप्यलब्धशरणेन सरोजवक्त्रे । अन्ते मयात्रभवतीं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ९॥ लक्ष्यासि देवि बहुजन्मतपोबलेन लक्ष्मीशधातृपरिपूज्यपदास्तुजाते । आलक्ष्य रूपमरुणं तव विस्मितेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १०॥ ह्रीङ्कारमेव शरणं जगतां वदन्ति ह्रीङ्कारमेव परमं भुवने रहस्यम् । ह्रीङ्कारमेव सततं स्मरता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ११॥ सर्वस्य देवि भुवनस्य निदानभूता त्वय्येव सर्वमनघे विलयं गतं स्यात् । सञ्चिन्त्य चैतदधुना त्रिपुरे मया ते पुष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १२॥ कश्चिद्यदा भवनिहन्त्रि विचिन्तयेत्त्वां दीनं तदैव हि कटाक्षयसे दृशा त्वम् । एवं विचिन्त्य भवतीं स्मरता मयाद्य युष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १३॥ लब्ध्वा त्वदीयचरणान्धुजमम्ब जन्तुर्नावर्तते पुनरपि प्रभवाय लोके । वेदोक्तिमेवमसकृत्स्मरता मयाद्य पुष्पालिश्चरणयोरयमम्ब कीर्णः ॥ १४॥ ह्रीङ्कारमेव जपतां प्रतिवासरं च ह्रीङ्कारमेव भजतां सकलेष्टसिद्ध्यै । ह्रीङ्कारमेव परमं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमप्य कीर्णः ॥ १५॥ श्रीङ्कारमन्त्रकनकाब्जनिवासशीले श्रीरूपधारिणि शिवो श्रितकल्पवल्लि । श्रीमद्गुहस्तुतमहाविभवे पुरेशि पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १६॥ इति श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः सम्पूर्णः ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : tripurasundarIpuShpAnjalistavaH
% File name             : tripurasundarIpuShpAnjalistavaH.itx
% itxtitle              : tripurasundarIpuShpAnjalistavaH
% engtitle              : tripurasundarIpuShpAnjalistavaH
% Category              : devii, dashamahAvidyA, devI, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org