तुलसीमहिमा - ग्रहणादौ नियमश्च
प्रसीद मम देवेशि प्रसीद हरिवल्लभे ।
तुलसीमिति सम्प्रार्थ्य अर्चयेद्धरिमव्ययम् ॥ १॥
अस्रात्वा तुलसीं छित्वा देवार्चन परायणः ।
तत्सर्वं निष्फलं चैव पञ्चगव्येन शुद्ध्यति ॥ २॥
पापानि यानि रविसूनुपटस्थितानि
गोब्रह्मबालपितृमातृवधादिकानि ।
नश्यन्ति तानि तुलसीवनदर्शनेन
गोकोटिदानसदृशं फलमाप्नुवन्ति ॥ ३॥
तुलसीकाननं यत्र यत्र पद्मवनानि च ।
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥ ४॥
तुलसीमञ्जरी ग्राह्या तदभावे दलं स्मृतम् ।
दलाभावे तु पत्रं स्यात्पत्राभावे तु काष्ठकम् ॥ ५॥
काष्ठाभावे तु मूलं स्यात् मूलाभावे तु मृत्तिका ।
मृत्तिकाया अभावे तु तुलसी शब्द इष्यते ॥ ६॥
पङ्कजं पञ्चरात्रं स्यात्सप्तरात्रं तु बिल्वकम् ।
तुलसी दशरात्रं स्यात्ततः पर्युषितं भवेत् ॥ ७॥
सङ्क्रान्तौ पक्षयोरन्ते द्वादश्यां निशि सन्ध्ययोः ।
चिन्वन्ति तुलसीं ये वै निकृण्वन्ति हरे: शिरः ॥ ८॥
ग्रहणे च व्यतीपाते भौमभार्गवभानुषु ।
नाहरेत्तुलसीपत्रं न मध्याह्ने ततः परम् ॥ ९॥
मध्याह्नके परे यस्तु हरिपूजापरायणः ।
चिनोति यस्तु तुलसीं अधो गच्छति नान्यथा ॥ १०॥
निर्माल्यमपि वै ग्राह्यं तुलस्या हेमपुष्पवत् ।
शङ्खोदकेन प्रक्षाल्य विष्णवे च निवेदयेत् ॥ ११॥
तुलस्याः कोमलैः पत्रैः श्रीहरे: पादपङ्कजम् ।
पूजनं ये प्रकुर्वन्ति कृतार्थाः स्युर्न संशयः ॥ १२॥
द्वादश्यां जागरे रात्रौ प्राशयेत्तुलसीदलम् ।
द्वाविंशदपराधांश्च क्षमते हरिरव्ययः ॥ १३॥
विष्णोर्विमानं यः कुर्यात्तुलस्याः कोमलैर्दलै: ।
हंसयुक्तविमानेन विष्णुलोकं स गच्छति । १४॥
पक्षद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये ।
सङ्ग्रहो नैव कर्तव्यो निषिद्धदिवसेष्वपि ॥ १५॥
त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् ।
न त्यजेत्तुलसीपत्रं न त्यजेज्जाह्नवीजलम् ॥ १६॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
वासुदेवादयो देवा वसन्ति तुलसीवने ॥ १७॥
तुलसीगन्धमाघ्राथ पितरस्तुष्टमानसाः ।
प्रयान्ति गरुडारूढाः सहिताश्चक्रपाणिना । १८॥
रोपणात्पालनात्सेकाद् दर्शनात्स्पर्शनान्नृणाम् ।
तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ १९॥
अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् ।
आधिव्याधिहरीं नॄणां तुलसि त्वां नमाम्यहम् ॥ २०॥
आम्रारोपसहस्राणि पिप्पलानि शतानि च ।
तत्फलं सममेकेन तुलसी विटपेन च ॥ २१॥
राजद्वारे सभामध्ये सङ्ग्रामे शत्रुपीडने ।
तुलसीस्मरणं कुर्यात् सर्वन्त्र विजयी भवेत् ॥ २२॥
कृष्यारम्भे तथा पुष्ये विवाहे चार्थसङ्ग्रहे ।
सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ॥ २३॥
यः स्मरेत्तुलसीं सीतां रामं सौमित्रिणा सह ।
विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ॥ २४॥
खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिभिः ।
सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ॥ २५॥
चतुष्कर्णे मुखे चैकं नाभावेकं तथैव च ।
शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ॥ २६॥
अन्नोपरि तथा पञ्च भोजनान्ते दलत्रयम् ।
एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ॥ २७॥
पूजनानन्तरं विष्णोः अर्पितं तुलसीदलम् ।
भक्षयेत् देह शुद्ध्यर्थं चान्द्रायणशताधिकम् ॥ २८॥
नैवेद्ममन्नं तुलसीविमिश्रितं
विशेषतः पादजलेन विष्णोः ।
योऽश्नाति नित्यं पुरतो मुरारेः
प्राप्नोति यज्ञायुत कोटिपुण्यम् ॥ २९॥
द्रव्यान्तरयुतं तैलं न दुष्येद् ग्रहणं विना ।
तुलसीदलसंयुक्तं ग्रहणेऽपि न दुष्यति ॥ ३०॥
Encoded and proofread by Shree Devi Kumar