तुलसीपूजा ३
तुलसी लघुपूजा १
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्रीपरमेश्वरप्रीत्यर्थं तुलसीदेवी प्रीत्यर्थं
सर्वारिष्टशान्त्यर्थं सर्वमङ्गलप्राप्त्यर्थं तुलसीपूजां करिष्ये ॥
(अप उपस्पृश्य - पूर्वाङ्गपूजा)
ध्यायामि तुलसीं देर्वीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥
किरीट हार केयूर कुण्डलादिविभूषिताम् ।
धवलांशुकसंयुक्तां पद्मासन निषेदुषीम् ॥
तुलसीं देवीं ध्यायामि ॥
अस्मिन् तुलसी क्षुपे तुलसीं देवीं आवाहयामि ।
विष्णुवल्लभायै नमः - आसनं समर्पयामि ।
सर्वदेवमयायै नमः - पाद्यं समर्पयामि ।
सर्वतीर्थमयायै नमः - अर्घ्यं समर्पयामि ।
दैत्यान्तकृत्प्रियायै नमः - आचमनीयं समर्पयामि ।
सर्वलोकहितायै नमः - स्नानं समर्पयामि ।
लक्ष्मी सहोदर्यै नमः - वस्रयुग्मं कञ्चुकं च समर्पयामि ।
महादेव्यै नमः - गन्धं कुङ्कुमं समर्पयामि ।
रमावासायै नमः - अक्षतान् समर्पयामि ।
अभीष्टदायै नमः - पुष्पाणि समर्पयामि ।
अर्चना--
वृन्दायै नमः । वृन्दावन्यै नमः । विश्वपूजितायै नमः ।
विश्वपावन्यै नमः । पुष्प सारायै नमः । नन्दिन्यै नमः । तुलस्यै नमः ।
कृष्णजीवन्यै नमः । (षोडशशनामभिः, अष्टोत्तरशनतनामभिः
सह्स्रनामभिर्वा)
पापहारिण्यै नमः - धूपं समर्पयामि ।
भगवत्यै नमः - दीपं समर्पयामि ।
अमृतसम्भूतायै ननः - नैवेद्यं समर्पयामि ।
जगद्धात्र्यै नमः - ताम्बूलं फलानि च समर्पयामि ।
सुदक्षिणायै नमः - नीराजनं समर्पयामि ।
परमेश्वर्यै नमः - पुष्पाञ्जलिं समर्पयामि ।
अभीष्टदायै नमः - प्रदक्षिणनमस्कारान् समर्पयामि ।
तुलसीस्तोत्राणि पठेत् । (पृ। १२८- १४०)
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ।
तुलसी देव्यै नमः - सर्वोपचारान् समर्पयामि ।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ।
॥ ॐ तत्सत् - ब्रह्मार्पणमस्तु ।
Encoded and proofread by Shree Devi Kumar