तुलसीविवाहविधिः

तुलसीविवाहविधिः

(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः । तुलसी हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते ... शुभतिथौ तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये । (अप उपस्पृश्य) विघ्नेश्वरपूजां कलशपूजां तुलसी पूजां च यथाविधि निर्वर्त्य ... विष्णुं विवाहार्थे वरार्ह वस्रालङ्करण पुष्पमालादिभिः अलङ्कृत्य वाद्यधोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफल - ताम्बूलादिभिः उपसृत्य मण्डपे आसने प्रतिष्ठाप्य प्रार्थयेत्- आगच्छ भगवन् देव अर्हयिष्यामि केशव । तुभ्यं ददामि तुलसीं प्रतीच्छन् कामदो भव ॥ आसनमिदं, अलङ्क्रियताम् । पाद्यं समर्पयामि । अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि । मधुपर्कं समर्पयामि । हरिद्रालेप-मङ्गलविधिं समर्पयामि । तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं समर्पयामि । वस्रालङ्करणपुष्पमालाः समर्पयामि । गन्धान्धारयामि । गन्धोपरि हरिद्राकुङ्कमं समर्पयामि । पुष्पै: पूजयामि । १२-२४-१०८ नामभिरर्चयेत् । (वधूवरौ परस्परमभिमुखौ स्थापयित्वा) ... गोत्रोद्भवां ... शर्मणः प्रपौत्रीं, ... शर्मणः पौत्रीं, शर्मणः पुत्रीं तुलसीनाम्नीं इमां कन्यकां अजाय अनादये श्री विष्णवे वराय ददामि । (त्रिरुक्त्वा) अनादिमध्यनिधन त्रैलोक्य प्रतिपालक । इमां गृहाण तुलसीं विवाह विधिनेश्वर ।तुलसीविवाहविधि।इन्फ़् पार्वती बीजसंभूतां बृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया । त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः ॥ वाद्यघोष - वेदस्वस्तिवाचन - मङ्गलाशीर्भिः उभौ मेलयित्वा गीतादिभिः सन्तोषयेत् । सायमपि पुनः पूजां कृत्वा स्रीधनं यथाशक्ति दद्यात् । विवाहोत्सवपूर्तौ वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो । मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा । गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन । इति उभौ अभ्यनुज्ञापयेत् मङ्गलारार्तिकेन सह । तुलसीं यथापूर्वं रक्षेत् । Encoded and proofread by Shree Devi Kumar
% Text title            : tulasIvivAhavidhiH
% File name             : tulasIvivAhavidhi.itx
% itxtitle              : tulasIvivAhavidhiH
% engtitle              : tulasIvivAhavidhiH
% Category              : devii, tulasI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org