॥ उमाशतकम् ॥

प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा । आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥ आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः । तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥ सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥ इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥ ५॥ इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे । विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥ ६॥ सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा । तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥ ७॥ यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति । मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः ॥ ८॥ दम्पत्योर्भगवति वां प्रतिबिम्बौ भास्करे भवतः । देहभुवौ भूचक्रस्वप्नप्रव्यक्त्ती सुधामहसि ॥ ९॥ देहे भुवः प्रतिबिम्बः प्राणन्मूलस्य नेदीयान् । प्रतिबिम्बव्यक्त्तेश्च स्वप्नव्यक्त्तिश्च नेदिष्ठा ॥ १०॥
द्वितीयं दशकम् (वसन्ततिलकावृत्तम्) काश्मीरमुन्नतपयोधरकुम्भसीम्नि स्रिग्धं प्रदिग्धमुमया शरणं ममास्तु । भेत्ता पुरामुपरि भस्मन एव धत्ते रागस्य चिह्नमिव यत्परिरम्भलग्नम् ॥ ११॥ अस्माकमम्बुदघनस्तनितोपमेषु हेरम्बबृंहितविभूतिषु भाषितेषु । सिद्धोद्यमानमतिलङ्ध्य निजापदानं बद्धश्रुतिर्भवतु भर्गगृहस्य नेत्री ॥ १२॥ सन्देह एष मम चन्द्रकलाधरस्य शुद्धान्तसुन्दरि मनांसि सतां तवाङ्ध्रिः । शुद्धानि किं विशति किन्नु भजन्ति शुद्धिम् अङ्ध्रे प्रवेशमनु तानि विधूय पङ्कम् ॥ १३॥ त्रैलोक्यपालनविधायि विकस्वराब्ज- शोभाविडम्बि मणिपीठतटीविलम्बि । क्षेमप्रदायि हृदये चरणं न्यधायि किंवा न ते नगसुते यदि यं विपन्नः ॥ १४॥ विघ्नानि यन्मुहुरिदं हृदयं चलं यत् सौख्यं न किञ्चिदपि यद्यदुपर्यसौख्यम् । त्वामाश्रितस्य च ममाखिललोकराज्ञी मत्तः परो जगति को मनुजेषु कल्की ॥ १५॥ मा भून्निदेशवचनं नयनाञ्चलस्य माभूत्प्रसारणमयि त्यज निर्दयत्वम् । अङ्गीकुरु स्तुतगुणे चरणाम्बुजं ते ध्यातुं तदेव बहु मे भुवनस्य मातः ॥ १६॥ कामं ददातु न दादतु मनो धिनोतु नो वा धिनोतु नयताद्दिवमन्यतो वा । आत्मर्पितोऽयगजापदपङ्कजाय किं काङ्क्षते प्रतिफलं विपुलोऽनुरागः ॥ १७॥ पादं ददासि मनसे किनु पापिनो मे पारिप्लवाय भुवनाधिकवासनाय । दूरे स तावदचलेन्द्रकुमारिका मे देवि प्रणाममुररीकुरु तावताऽलम् ॥ १८॥ आराधनं तव भवानि यथाविधानं कर्तुं कुलाचलकुमारि न परयामि । पादार्विन्दयुगमेव तवानतोऽहं पापाकुलः शरणमीश्वरि काङ्क्षमाणः ॥ १९॥ बद्धव्रता प्रणतपापनिवारणे त्वं बद्धाञ्जलिश्च बहुपापसमाकुलोऽहम् । कर्तव्यमद्रितनये निपुणं विमृश्य निर्धारयात्र न यथा यशसो विलोपः ॥ २०॥
तृतीयं दशकम् (पृथ्वीवृत्तम्) व्रतं तव विदन्हृदि प्रणतपापनाशे कृतं फलप्रवणपातकप्रमथितोऽपि नास्म्याकुलः । भवामि शिरसा नतस्तव भवानि पादाम्बुजं व्रतस्य परिपालने यदि मतिर्गतिर्मे भव ॥ २१॥ तपश्चरितुमुत्तमं प्रयतितं मयानेकदा परन्तु बहुलैरधैः परिणतैर्वृतोऽध्वा मम । अयं मम दृढोऽञ्जलिस्तनुवियोगकालावधि - र्यदि त्वमचलव्रतास्यचलकन्यके मामव ॥ २२॥ अजेयबहुपापभृद्भुवि जनिष्यमाणः खलः कमीशदयिते पुरा न विदितस्तवायं जनः । व्रतं कृतमिदं त्वया परमसाहसोपेतया क्वा वा जननि योषितां जगति दीर्घमालोचनम् ॥ २३॥ इहापुरधमर्षणान्ययश एव भूत्वा मुधा व्यलोकि नियमैस्तथा न बहुलैश्चा कश्चिज्जयः । स्थिरं न मदधक्षये मदधतेजसा भूयसा व्रतं च तव कुण्ठितं यदि ममैव कीर्तिः परा ॥ २४॥ क्षये यदि मदेनसामसुकरे न धीरं मनो न ते नगपतेः सुते किमपि चिन्त्यमेतत्कृते । व्रतं विसृज तन्मुधा ननु वधूस्वभावात्कृतं स्थिरीभवतु दुर्विधिर्भुवि तव प्रसदाद्बली ॥ २५॥ कृतं परमयत्नश्चिरमनुज्झितं श्रद्धया भृतं बहुविधोद्यमैरविजितं महापातकैः । गतं धनतरं यशो जयति पापजातं मम् व्रतं च तव तादृशं जननि कस्य वा स्याज्जयः ॥ २६॥ मदीयदुरितावलिप्रलयकालकादम्बिनी मदोन्नतविजृम्भणं वृजनभङ्गबद्धव्रते । भवप्रियतमे निजप्रबलहुङ्कृतिप्रोद्धत - प्रभञ्जनमहौजसा शमय पालयात्मव्रतम् ॥ २७॥ अधक्षयविधौ तु ते परिणता परीपक्वता विभेदकथनं कथं पॄथुलवैभवे युज्यते । इदं तव विगर्हणं परिणतैनसं वा स्तुति - र्मनो यदि मृडानि ते जगति साध्यमेवाखिलम् ॥ २८॥ सहस्रनयनादिभिः सुरवरैः समाराधिता सहस्रकिरणप्रभा सितमरीचिशीता मम । सहस्रदलपङ्कजे कृतनिकेतना देहिनां सहस्रदललोचना दुरितसन्ततिं कृन्ततु ॥ २९॥ सरोजभवसंस्तुता सकललोकराज्येश्वरी करोपमितपल्लवा करुणयान्तरुल्लोलिता । उरोरुहभरालसा मयपुरारिसम्मोहिनी करोतु मदघक्षयं कुमुदलोचना काचन ॥ ३०॥
चतुर्थं दशकम् (शार्दूलविक्रीडितवृत्तम्) कालाम्भोधरचारुसान्द्रकबरि पूर्णेन्दुबिम्बानना ताटङ्कद्युतिधौतगण्डफलका ताम्बूलरक्ताधरा । प्रालेयद्युतिबालकेन रचितोत्तंसा हराङ्कासना शान्ता नूतनपल्लवाभचरणा भूत्यै शिवा चिन्त्यते ॥ ३१॥ श्रीपादं तवशैलराजदुहितः भास्वत्करास्फालन - प्रोद्भुद्धाम्बुजसुन्दरं श्रुतिवधूचूडातटीलालितम् । वन्दन्तां त्रिदिवौकसो वशमितः संवाहयत्वीश्वरो योगी ध्यायतु वन्दिवद्भगवति प्रस्तौति सोऽयं जनः ॥ ३२॥ यस्याश्चामरधारिणी सरसिजप्रासादसञ्चारिणी वाग्देवी हृदयेश्वरप्रभृतयो नाकौकसः किङ्कराः । देवः कैरवबन्धुकोरकधरो लीलासहायः सखा तस्याः पादसरोजवन्दिपदवीं पाप्तोऽस्म्यहं भाग्यतः ॥ ३३॥ पादस्य क्रियते क्षणान्तकतिचन ध्यानं जगद्धात्रि ते यत्तस्येभघटाकुलाङ्गनमहीश्रीर्नानुरुपं फलम् । नोद्गारो मधुमाधुरिमदमुषां स्वाभाविको वा गिरां साधीयस्तु फलं यदीश्वरि पुनर्ध्यातुं मतिर्जायते ॥ ३४॥ देवि त्वच्चरणारविन्दयुगलध्यानस्य केचित्फलं मन्यन्ते रथवाजिसामजवधूसौधादिरूपां श्रियम् । पीयूषद्रवसारवैभवमुषां वाचां परे पाटवं प्राज्ञाः साधनमादितः परिणतौ पाहुः फलं तत्स्वयम् ॥ ३५॥ लोभः कुत्रचिदस्ति कुत्रचिदसौ रोषः परं भीषणः कुत्राप्येष मनोभवोऽतिमलिने स्वान्ते निशान्ते मम । एतस्याप्यहहाद्रिराजतनुजे कोणे त्वदीयं पदं खेटीमस्तकलालितं शुचितमं वाञ्छामि कर्तुं खलः ॥ ३६॥ कन्दर्पेण निवारितं प्रहसता लोभेन निर्भर्त्सितं मात्सर्येण तिरस्कृतं मदमहानागेन चाऽभिद्रुतम् । दुर्भ्रान्त्या गलहस्ति तं बत पुनः क्रोधेन धूतं बला - दप्येतत्पदमम्ब ते विशति मे चेतोऽस्य वर्ण्या कृपा ॥ ३७॥ उद्दीप्यन्नखरांशुजालजटिलस्त्वत्पादकण्ठीरवो यावन्मीलितलोचनः शशिकलाचूडामणेर्वल्लभे । तावल्लोभकटिप्रखेलति मुदं पुष्णाति कामद्विपो रोषद्वीपिपतिश्च गर्जतितरां मन्मानसे कानने ॥ ३८॥ चाञ्चल्यं हृदयस्य नश्यन्ति कथं युष्मत्प्रसादं विना त्वं वा देवि कथं प्रसीदसि यदि स्थैर्यादपेतं मनः । अन्योन्याश्रयदोष एष सुमहानन्यं विधिं स्थापय - त्यस्माकं वरदे तवोत करुणां निर्हेतुकां जन्तुषु ॥ ३९॥ भक्तिर्मे त्वयि भर्गपत्नि महती ध्यातुं च वाञ्छामि ते पादाम्भोजयुगं तथापि चलतां चेतो न मे मुञ्चति । कामाः सन्ति सहस्रशो नगसुते पश्चाद्ब्रवीम्यग्रतः चित्तस्य स्थिरतां प्रदेहि करुणा यद्यस्ति ते वस्तुतः ॥ ४०॥
पञ्चमं दशकम् (सुबोधितावृत्तम्) उडुराजकलाकलापकान्ते सदये सुन्दरि कोमलाङ्गि मातः । श्रुतिपद्मदृशावतंसितं ते पदपद्मं प्रतिभातु मानसे मे ॥ ४१॥ अरुणाचलनाथसद्मनाथे चरितं ते चरणस्य धात्रि चित्रम् । क्रियतेऽब्जसनाभिनामुना यद्गतपङ्के मुनिमानसे निवासः ॥ ४२॥ चरितं चरणाम्बुजन्मनस्ते परमं विस्मयमातनोति मातः । अतिरागवदप्यदो विधते सहवासेन यदन्तरं विरागम् ॥ ४३॥ भवभामिनि कर्मशर्मदातुः भवदीयस्य पदस्य विस्मयाय । अपि धूलिविधूसरं विधत्ते यदिदं वीतरजो मनो मुनीनाम् ॥ ४४॥ चरणं जगदम्ब कैटभारिर्यतमानोऽपि ददर्श नैव यस्य । स हरस्तव दृश्यते विलग्नश्चरणे चण्डि चराचराधिनाथः ॥ ४५॥ कमलासनकञ्जलोचनादीनवमत्य त्रिदशान्नगेशकन्ये । अगुणे रमसे नगेऽत्र शोणे क्व गुणान् पश्यति जातिपक्षपातः ॥ ४६॥ कुसुमादपि कोमलं वपुस्ते हृदयेशस्त्वरुणो गिरिः कठोरः । प्रचलाखुतुरङ्गमस्य मातः समनुध्याय बिभेमि चेतसेदम् ॥ ४७॥ यदसौ विहितः सितोऽरुणाद्रिस्तव हासेन सितेन नात्र चित्रम् । इदमद्भुतमस्य मानसं यद्विमलं पार्वति नीयतेऽतिरागम् ॥ ४८॥ नवकुङ्कुमरेणुपङ्किलस्य स्मरणात्ते सततं स्तनाचलस्य । स्वयमप्यचलो बभूव शोणः शशिधारी जगतं सवित्रि शङ्के ॥ ४९॥ स्मरणादरुणाचलस्य मुक्त्तिः कथमश्लीलकपालभूषणस्य । वपुषोऽधर्ममुष्य चेन्नचेतस्तिमिरध्वंसिनि सर्वमङ्गले त्वम् ॥ ५०॥
षष्ठं दशकम् (तूणकवृत्तम्) गौरि चण्डि कालिके गणाधिनायकाम्बिके स्कन्दमातरिन्दुखण्डशेखरे परात्परे । व्रजनायिके प्रपञ्चराज्ञि हैमवत्युमे भर्गपत्नि पालयेति गीयतां सदा सखे ॥ ५१॥ वासुदेवमुख्यनित्यदेवमौलिविस्फुर- द्रत्रजालरश्मिजातरञ्जिताङ्ध्रिपङ्कजे । शीतभानुबालचूडचित्तबालडोलिके शैलपालबालिके सदा वदामि नाम ते ॥ ५२॥ कल्पवल्लि गायतां नितम्बिनीमतल्लिके नाम ते विपश्चितो निरन्तरं गृणन्ति ये । दैत्यजैत्रि लोकधात्रि रात्रिराण्णिभानने शैलवंशवैजयन्ति जन्तवो जयन्ति ते ॥ ५३॥ आनने त्वदीयनाम पावनाच्च पावनं यस्य पुण्यपूरुषस्य पूरुषार्धविग्रहे । सानुमन्महेन्द्रपुत्रि सम्मदाय भूयसे बन्धनालयोऽपि तस्य नन्दनं वनं यथा ॥ ५४॥ नामकीर्तनेषु या षडाननस्य षड्विधात् शब्दतोऽपि भाषितात्पृथक्पदाभिशोभितात् । उन्नतैकनादतो गजाननस्य बॄंहितात् तृप्तिमेति पुत्रयोः समापि सा जयत्युमा ॥ ५५॥ मुग्धमित्रमानसे महान्धकारबन्धुरे निद्रितमुमां निजे बहिर्गवेषयस्यहो । तत्प्रविश्य पश्य वेददीपकेन तां ततः तारशब्दबोधितां विधाय साधयामृतम् ॥ ५६॥ आदिमो विभोः सुतो यदीयमूलमाश्रितः कुञ्जराननो बिभर्ति सालतातनौ तता । अग्रतो दधाति किञ्चिदम्बुजं मरन्दव - त्तत्र शक्त्तिरुत्तमा प्रबोधयन्ति तां विदः ॥ ५७॥ द्वादशान्तशायिनी हृदम्बुजान्तरस्थिता मण्डलद्वयालया सिताद्रिशृगचारिणी । सर्वभूतजालभर्तुरासनार्धभागिनी भूतिमुत्तमां तनोतु भुभृतः सुता तव ॥ ५८॥ क्षत्रमर्दन्प्रसूरसूरिलोकदुर्गमा दुर्गमाटवीविहारलालसा मदालसा । नित्यशक्त्तिपौरुषा ममाङ्घ्रिमूलवासिनः । सत्यकीर्तिरार्तिजालहारिणी हरत्वधम् ॥ ५९॥ शक्त्तिधारिणः सवित्रि सर्वशक्त्तिमत्युमे भक्तिमज्जनोग्रपापनिग्रहे धृतग्रहे । देवमौलिरत्नकान्तिधौतपादुकाय ते सर्वमङ्घ्रये मदियमात्मना सहार्प्यते ॥ ६०॥
सप्तमं दशकम् (मदालसावृत्तम्) जम्भारिमुख्यसुरसम्भाविता बहुलदम्भात्मनामसुलभा पुम्भावदृप्तसनिशुम्भादिबन्धुगणशुम्भासुरेन्द्रदमनी कुम्भापहासिकुचकुम्भानघोरुजितरम्भाऽनुरक्तहृदया शम्भाविभेन्द्रमुखडिम्भा करोतु तव शं भामिनीमणिरुमा ॥ ६१॥ तारावलीतुलितहारालिशोभिकुचभाराऽलसालसगतिः धाराधराभकचभारा सुपर्वरिपुवीराभिमानशमनी । नीराटकेतुशरधाराभदृष्टिरतिधीरा धराधरसुता वाराणसीवसति वाराशितूणरतिराराध्यतामयि सखे ॥ ६२॥ ख्याता मुनीन्द्रजनगीता मयूरहयपोताऽतिचित्रचरिता शीताचलाचिपतिजाता प्रभातयमताताविशेषचरणा । पूता पिनाकधरपीताधरा त्रिदिवपातालभूतलजुषां सा तापजातमविगीताऽखिलं हरतु माता कटाक्षकलया ॥ ६३॥ खण्डामृतद्युतिशिखण्डा महोग्रतरभण्डादिदैत्यदमनी चण्डाऽनलाढ्यकुलकुण्डालया विहितदण्डा खलाय भुवने । शुण्डालभूमिपतितुण्डधिभूततरुषण्डा चलाण्डघटमृत्- पिण्डायिता सकलपिण्डान्तरस्थमणिभाण्डायिताऽस्तु शरणम् ॥ ६४॥ राकासुधाकरसमाकारहासधुतभीका भवाब्धितरणे नौका कटाक्षधुतशोका महामहिमपाकारिणाऽपि विनुता । एकाम्बिका सकललोकावलेरचलतोकायिताखिलघन- श्रीकानतस्य मम सा कालिका कमलनीकाशदृक् दिशतु शम् ॥ ६५॥ नीलालका मधुरशीला विधूतरिपुजाला विलसवसतिः लोला दृशोः कनकमालावती विबुधलीलावतीपरिवृत । किलालजाप्तमुखहेला जितामृतकरेमातले निवसतां शालारुचामजिनचेलाऽबला कपटकोलानुजा दिशतु शम् ॥ ६६॥ अव्यादुदारतरपव्यायुधप्रभृतिहव्याशिर्कीर्तितगुणा गव्याज्यसम्मिलितकव्याशिलोकनुतभव्याऽतिपावनकथा । श्रव्या सदा विविधनव्यावतारवरकव्यारभट्यभिरता दिव्याकृतिस्तरुणव्याभपादखिलमव्यात्मजा तव कुलम् ॥ ६७॥ दोषाकरार्भकविभूषा कटाक्षधुतदोषा निरन्तरमन - स्तोषा परा कलुषिकाषायधारियतिवेषाऽनवाप्यचरणा । भाषावधूदयितशेषाहिशायिविनुतैषा विषादशमनी पोषाय पापततिशोषाय चास्तु कुलयोषा भवस्य भवताम् ॥ ६८॥ वन्दारुसाधुजनमन्दारवल्लिरविन्दाभदीर्घनयना कुन्दालिकल्परदबृन्दा पदाब्जनतबृन्दारकेन्दुवदना । मन्दा गतावलममन्दा मतौ जितमुकुन्दासुरप्रशमनी नन्दात्मजा दिशतु शं दारुणाधततिभिन्दाननामनिवहा ॥ ६९॥ श्यामा कदम्बवनधामा भवार्तिहरनामा नमज्जनहिता भीमा रणेषु सुरभामावतंससुमदामानुवासितपदा । कामाहितस्य कृतकामा किलालमभिरामा रमालयमुखी क्षेमाय ते भवतु वामा कदम्बकललामायिता भगवती ॥ ७०॥
अष्टमं दशकम् (द्रुतविलम्बितवृत्तम्) जलरुहं दहरं समुपाश्रिता जलचरध्वजसूदनसुन्दरी । हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥ ७१॥ नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता । अजिनचेलवधूर्विदधातु वो वृजिनजालमजालमविक्रमम् ॥ ७२॥ ललितया नतपालनलोलया प्रमथनाथमनोहरलीलया । किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥ ७३॥ अमृतदीधितिपोवतंसया कृतपदानतपापनिरासया । गतिमदर्धनरकृतिचित्रया भुवनमेव न मे कुलमार्यया ॥ ७४॥ अगणयं न च गोष्पदवद्यदि त्रिभुवनं कुतले न तरामि किम् । शरणवानहमुत्तमभावया गिरिजयारिजयावितदेवया ॥ ७५॥ सकरुणा कुशलं तव रेणुकातनुरुमा तनुतादुदितो यतः । युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्र भुजामदान् ॥ ७६॥ दशरथात्मजपूजितमीश्वरं विदधती रतिनाथवशं गतम् । दिशतु वः कुशलं नगवर्धिनी हरिहयारिहयान मृगेश्वरा ॥ ७७॥ जननि शुम्भनिशुम्भमहासुरोन्मथन विश्रुतविक्रमया त्वया । जगदरक्ष्यत गोपकुलेशितुः तनुजयानुजयार्जुनसारथेः ॥ ७८॥ चरणयोर्धृतया विजयामहे जगति माररिपुप्रियभामया । शशिकलामलमन्दरहासया नगजया गजयानविलासया ॥ ७९॥ इममगाधिपनन्दिनि कल्किनं रुषमपोह्य हरस्य विलोकितैः । कलुषनाशनभीमदृशोल्लसन्मदनकैरवकैरवलोचने ॥ ८०॥
नवमं दशकम् (आर्यावृय्त्तम्) स जयति पुण्यकुलेषु भ्राम्यन् गणनाथमातुरालोकः । यमनुचरतो जनार्दनकुलतरुणी देवता च गिराम् ॥ ८१॥ कस्य प्रबलप्रतिभटभुजकण्डूवारणं महद्वीर्यम् । कस्य गिरामिह सर्गो युगस्य परिवर्तनेऽपि पटुः ॥ ८२॥ कस्य पुनरन्तरात्मनि सङ्गसहस्रैरचालिता निष्ठा । धूर्जटिदियते युष्मद्दृगन्तभृतमन्तरा धन्यम् ॥ ८३॥ यस्य निदानमविद्या ममकारः पूर्वरूपमङ्कुरितः ॥ रूपं तापत्रितयं सत्सङ्गः किञ्चिदुपशान्तयै ॥ ८४॥ अन्तःकरणं स्थानं प्रकोपनो विषयपञ्चकाभ्यासः । मुक्तिः सुषुप्तिसमये पुनरगमनाय घोराय ॥ ८५॥ लोभाभिलाषरोषाः कफमारुतमायवस्त्रयो दोषाः । अरुचिः पथ्ये भूयस्यनुबन्धोपद्रवो घोरः ॥ ८६॥ तस्य प्रयच्छ शमनं संसाराख्यज्वरस्य भूरिकृपे । मृत्युञ्जयस्य भामिनि भेषजमालोकितं नाम ॥ ८७॥ भवदीयस्य भवानि प्रसिद्धचरिते कटाक्षमेघस्य । प्रावृट्परितापहृतो भव्यामृतवर्षिणः करुणा ॥ ८८॥ राजोग्रदृष्टिरुग्रो युवराजः सन्ततं मदोपेतः । तव राज्ञि न करुणा चेद्भुवनस्य कथं शुभं भवतु ॥ ८९॥ राज्ञि तव दृष्टिरवने विनतानामपि सदैव खेलन्त्याः । तपतोऽपि नित्यमीशो लोलो लिलासु ते भवति ॥ ९०॥
दशमं दशकम् (शशिवदनावृत्तम्) पदकमलाप्त त्रिकलुषहर्त्री । जयति शिवेति त्रिभुवनभर्त्री ॥ ९१॥ अधितनुदृष्टिस्तटिदधिभूतम् । प्रमथपतेः सा सुदृगधिदैवम् ॥ ९२॥ स्वनयनवृतौ स्थिरचरणानाम् । द्विदलसरोजे भगवति भासि ॥ ९३॥ दहरसरोजे निहितपदानाम् । द्विदलसरोजादवतरसि त्वम् ॥ ९४॥ अयि कुलकुण्डे धृतचरणानाम् । दशशतपत्रं व्रजसि तपन्ती ॥ ९५॥ दहरसरोजे दृशमपिहित्वा । विषयपराणां स्खलसि बहिस्त्वम् ॥ ९६॥ स्खलसि यतस्त्वं स भवति हीनः । विलससि यस्मिन् स खलु महात्मा ॥ ९७॥ दृशि दृशि चित्त्वं हृदि हृदि सत्ता । प्रतिनरशीर्षं प्रमदकलाऽसि ॥ ९८॥ तव लहरीषु त्रिपुरविरोधी । किमिव न चित्रं जननि करोति ॥ ९९॥ हरशिरसो गौर्यवसि जगत्त्वम् । गणपतिशीर्षादव मुनिभूमिम् ॥ १००॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिः उमाशतकं समाप्तम् ॥ Encoded and proofread byDPD

% Text title            : umAshatakam 1
% File name             : umAshatakam1.itx
% itxtitle              : umAshatakam
% engtitle              : umAshatakam
% Category              : shataka, devii, pArvatI, stotra, gaNapati-muni, ramaNa-maharShi
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Author                : Ganapati Muni with Ramana Maharshi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description-comments  : From Complete Works of Ganapati Muni Vol 1
% Indexextra            : gaNapatimunivirachitam
% Latest update         : November 24, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP