वृन्दावनपूजा अथवा तुलसीविष्णुपूजा

वृन्दावनपूजा अथवा तुलसीविष्णुपूजा

कार्तिके शुक्लद्वादश्यां वृन्दावने महाविष्णुं तुलसीं च पूजयेत् । तुलसीसमीपे महाविष्णुप्रतिमां निधाय, विघ्नेशं सम्पूज्य, शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं शुभे ... तिथौ तुलसी महाविष्णु प्रसादसिद्ध्यर्थं तुलसी महाविष्णुपूजां करिष्ये । इति सङ्कल्प्य विघ्नेशमुद्वास्य कलशपूजां कृत्वा, तुलसीं विष्णुं च ध्यायेत् । ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्वदनाम्भोजां वरदामभयप्रदाम् ॥ तुलसीं ध्यायामि ध्यायामि विष्णुं वरदं तुलसीप्रियवल्लभम् । पीताम्बरं पद्मनेत्रं वासुदेवं वरप्रदम् ॥ महाविष्णुं ध्यायामि ॥ वासुदेव प्रिये देवि सर्वदेवस्वरूपिणि । आगच्छ पूजाभवने सदा सन्निहिता भव ॥ आगच्छागच्छ देवेश तेजोराशे जगत्पते । क्रियमाणां मया पूजां वासुदेव गृद्दाण भोः ॥ -तुलसीविष्णू - आवाहयामि नानारत्नसमायुक्तं कार्तस्वरविभूषितम् । आसनं कृपया विष्णो तुलसि प्रतिगृह्यताम् । तुलसी विष्णुभ्यां नमः - आसनं समर्पयामि । गङ्गादिसर्वतीर्थेभ्यो वासुदेव मया हृतम् । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥ नानानदीसमानीतं सुवर्णकलशस्थितम् । पाद्यं गृहाण तुलसि पापं मे विनिवारय ॥(पाद्यं) नमस्ते देवदेवेश नमस्ते कमलापते । नमस्ते सर्वविनुत गृहाणार्घ्यं नमोऽस्तु ते ॥ अर्घ्यं गृहाण देवि त्वं अच्युतप्रियवल्लभे । अक्षतादिसमायुक्तं अक्षय्यफलदायिनि ॥ (अर्घ्यं) कर्पूरवासितं तोयं गङ्गादिभ्यः समाहृतम् । आचम्यतां जगन्नाथ मया दत्तं च भक्तितः ॥ गृहाणाचमनार्थाय विष्णुवक्षः स्थलालये । स्वच्छं तोयमिदं देवि सर्वपापविनाशिनि ॥ (आचमनीयम्) दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् । गृहाण विष्णो वरद लक्ष्मीकान्त नमोऽस्तु ते ॥ मधुपर्कं गृहाणेमं मधुसूदनवल्लभे । मधुदध्याज्य संयुक्तं महापापविनाशिनि । (मधुपर्कं) मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम् । पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक ॥ पञ्चामृतं गृहाणेदं पञ्चपातकनाशिनि । दधिक्षीरसमायुक्तं दामोदरकुटुम्बिनि ॥ (पञ्चामृतम् ) गङ्गा कृष्णा च यमुना नर्मदा च सरस्वती । तुङ्गा गोदावरी वेणी क्षिप्रा सिन्धुर्घटप्रभा ॥ तापी पयोष्णी सरयूस्ताभ्यः स्नानार्थमाहृतम् । तोयमेतत्सुखस्पर्शं स्नानीयं गृह्यतां हरे ॥ गङ्गागोदावरीकृष्णातुङ्गादिभ्यः समाहृतम् । सलिलं देवि तुलसि स्नानार्थं प्रतिगृह्यताम् ॥ (स्नानं ) सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । वाससी प्रतिगृह्णातु लक्ष्मीजानिरधोक्षजः ॥ पीताम्बरमिदं दिव्यं पातकव्रजनाशिनि । पीताम्बरप्रिये देवि परिधत्स्व परात्परे ॥ (वस्त्रम्) भूषणानि वरार्हाणि गृह्णीतं तुलसीश्वर । किरीटहारकेयूरकटकानि हरेऽमृते ॥ (आभरणानि) चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् । गन्धं स्वीकुरुतं देवौ रमेशहरिवल्लभे ॥ (गन्धान् ) मल्लिकाकुन्दमन्दारञ्जाजीवकुल चम्पकैः । शतपत्रैश्च कल्हारैःअर्चये तुलसीहरी । (पुष्पाणि) अङ्गपूजा- वृन्दायै अच्युताय नमः - पादौ पूजयामि । तुलस्यै अनन्ताय नमः - गुल्फौ पूजयामि । जनार्दनप्रियायै तुलसीकान्ताय नमः - जङ्घे पूजयामि । जन्मनाशिन्यै गङ्गाधरपदाय नमः - जानुनी पूजयामि । उत्तमायै उत्तमाय नमः - ऊरू पूजयामि । कमलाक्ष्यै कमलाक्षाय नमः - कटिं पूजयामि । नारायण्यै नारायणाय नमः - नाभिं पूजयामि । उन्नतायै उन्नताय नमः - उदरं पूजयामि । वरदायै वरदाय नमः - वक्षः पूजयामि । स्तव्यायै स्तव्याय नमः - स्तनौ कौस्तुभं पूजयामि । चतुर्भुजायै चतुर्भुजाय नमः - भुजान् पूजयामि । कम्बुकण्ठ्यै वनमालिने नमः - कण्ठं पूजयामि । कल्मषघ्न्यै कल्मषघ्नाय नमः - कर्णौ पूजयामि । मुनिप्रियायै मुनिप्रियाय नमः - नेत्रे पूजयामि । शुभप्रदायै शुभप्रदाय नमः -शिरः पूजयामि । सर्वार्थदायिन्यै सवार्थदायिने नमः - सर्वाण्यङ्गानि पूजयामि । (तुलसी विष्णु नामावल्या पुष्पार्चना) धूपं गृहाण वरदे दशाङ्गेन सुवासितम् । तुलस्यमृतसम्भूते धूतपापे नमोऽस्तु ते ॥ दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः । श्रीवत्साङ्क हृषीकेश धूपोऽयं प्रतिगृह्यताम् ॥ (धूपं) वर्तित्रय युतं दीप्तं गोघृतेन समन्वितम् । दीपं देवि गृहाणेमं दैत्यारिहृदयस्थिते ॥ साज्यं त्रिवर्तिसंयुक्तं दीप्तं देव जनार्दन । गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरं हर ॥ (दीपम्) नानाभक्ष्यैश्च भोज्यैश्च फलैः क्षीरघृतादिभिः । नैवेद्यं गृह्यतां युक्तं नारायणमनः प्रिये ॥ भोज्यं चतुर्विधं चोष्यभक्ष्यसूपफलैर्युतम् । दधिमध्वाज्यसंयुक्तं गृह्यतामम्बुजेक्षण । (महानैवेद्यं) कर्पूरचूर्णताम्बूलवल्लीपूगफलैर्युतम् । जगतः पितरावेतत्ताम्बूलं प्रतिगृह्यताम् । (ताम्बूलं ) नीराजनं गृहाणेदं कर्पूरैः कलितं मया । तुलस्यमृतसम्भूते गृहाण हरिवल्लभे ॥ चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च । त्वमेव सर्वज्योतींषि कुर्यां नीराजनं हरे ॥ (नीराजनं) प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये । युवां प्रदक्षिणी कुर्वे तुलसीशौ प्रसीदतम् ॥ (प्रदक्षिणं) नमोऽस्तु पीयूष समुद्भवायै नमोऽस्तु पद्माक्षमनः प्रियायै । नमोऽस्तु जन्माप्यय भीतिहन्त्र्यै नमस्तुलस्यै जगतां जनन्यै ॥ शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत(ता)म् ॥ (नमस्कारान्) पुष्पाञ्जलिं गृहाणेदं पङ्कजाक्षस्य वल्लभे । नमस्ते देवि तुलसि नताभीष्टफलप्रदे । मन्दारनीलोत्पलकुन्दजाती पुनागमल्लीकरवीरपद्मैः । पुष्पाञ्जलिं ते जगदेकबन्धो हरे त्वदङ्ग्रौ विनिवेशयामि । (मन्त्रपुष्पाञ्जलिं) आयुरारोग्यमतुलमैश्वर्यं पुत्रसम्पदः । देहि मे सकलान्कामान् तुलस्यमृतसम्भवे ॥ नमो नमः सुखवरपूजिताङ्ग्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलपदैकसिद्ध्ये नमो नमः परमदयानिधे हरे ॥ (प्रार्थनां ) नमस्ते देवि तुलसि नमस्ते मोक्षदायिनि । इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव ॥ लक्ष्मीपते नमस्तुभ्यं तुलसीदामभूषण । इदमर्घ्यं प्रदास्यामि गृहाण गरुडध्वज ॥ श्री तुलस्यै महाविष्णवे च नमः - इद मर्घ्यमिद मर्घ्यमिदमर्घ्यम् ॥ इति त्रिः ॥ नमस्ते देवि तुलसि माधवेन समन्विता । प्रयच्छ सकलान्कामान् द्वादश्यां पूजिता मया ॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ ॐ तत्सत् Encoded and proofread by Shree Devi Kumar
% Text title            : Vrindavana Tulasi Vishnupuja
% File name             : vRRindavanatulasIviShNupUjA.itx
% itxtitle              : vRindAvanatulasIviShNupUjA
% engtitle              : vRRindAvanatulasIviShNupUjA
% Category              : pUjA, devii, tulasI, devI, vishhnu
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Description-comments  : tulasI viShNu vRindAvana pUjA
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org