विभिन्नरूपलक्ष्मीध्यानप्रकाराः

विभिन्नरूपलक्ष्मीध्यानप्रकाराः

श्रीलक्ष्मीनारायण ध्यानम् । क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने । वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥ दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् । त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥ द्विभुजालक्ष्मी - हेमवर्णा । हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप । दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥ गजलक्ष्मी - स्वर्णवर्णा । लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि । पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥ सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् । अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥ विनायकवदासीना देवी कार्या चतुर्भुजा । बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥ दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् । वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥ तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज । अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥ देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥ महालक्ष्मी - स्वर्णवर्णा । कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते । लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥ दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा । वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥ बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥ श्रीदेवी - हेमवर्णा पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः । पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥ चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा । वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी । ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥ द्विभुजा वीरलक्ष्मी - हेमवर्णा । दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा । ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥ अष्टभुजा वीरलक्ष्मी - हेमवर्णा । पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥ प्रसन्नलक्ष्मी - स्वर्णवर्णा । वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मे दधानां आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ महालक्ष्मी - प्रवालवर्णा । अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ श्रीलक्ष्मी - कनकवर्णा । अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्वाभीतियुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृता कल्पजातैः भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥ पद्मा - पद्मवर्णा पद्मा पद्मासनासीना पद्माभा पद्मवासिनी । हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥ चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा । सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥ रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी । शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥ नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ । पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥ शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा । मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥ श्रीलक्ष्मी (अपरा) अभयवरदहस्तां रत्नसिम्हासनस्थां जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् । कनकमणिविभूषामास्थितां पद्मपादां सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥ वागीश्वरी - श्वेतवर्णा । श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा । जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥ यज्ञोपवीतिनी हारमुक्ताभरणभूषिता । दुकूलवसना देवी नेत्रत्रयसमन्विता ॥ सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् । दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥ शत्रुविध्वंसिनी - नीलवर्णा । शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना । दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥ एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥ मृतसञ्जीविनी - रक्तवर्णा । मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् । पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥ रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥ अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः । एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥ चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् । दधाना दययापूर्णा योगिभिश्च निषेविता ॥ महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥ महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः । कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते । ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥ ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥ सर्वमङ्गला - कनकवर्णा । शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् । उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥ हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥ भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत् दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥ ज्वालामालिनि - कनकवर्णा कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके । दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥ मित्रा - रक्तवर्णा बालार्ककान्ति च शिलां जितवक्त्रशोभां पाशाङ्कुशौ च वरमप्यभयं दधानाम् । चित्रांशुकां च नवरत्न विभूषिताङ्गीं चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥ गायत्री - रक्तवर्णा देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् । कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् । पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे । अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥ ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् । रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥ सावित्री - शुक्लवर्णा (मध्याह्नम्) देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् । युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् । रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् । स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥ माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् । दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥ सरस्वती - श्यामवर्णा (सायङ्कालं) सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् । स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥ चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् । शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥ पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् । तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥ नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् । वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥ वश्यमुखी - रक्तवर्णा सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः । जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥ सप्तमातृकासु - ब्राह्मी - पीतवर्णा तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता । पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥ वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् । वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥ माहेश्वरी - श्वेतवर्णा माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना । श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥ खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् । पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥ कौमारी - पाटलवर्णा षडानना तु कौमारी पाटलाभा सुशीलका । रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥ पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे । वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥ परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥ वैष्णवी - नीलवर्णा वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी । वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥ शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥ वाराही - कृष्णवर्णा कृष्णवर्णा तु वाराही महिषस्था महोदरी । वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥ खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥ ऐन्द्री - कनकवर्णा ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता । वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥ वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥ चामुण्डा - कृष्णवर्णा चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा । दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥ दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे । अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥ खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥ सिद्धिदायिनी - श्वेतवर्णा सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥ अपराजिता - नीलवर्णा नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् । नीलकुञ्जितकेशाग्नां निम्ननाभीवलित्रयाम् ॥ वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् । पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥ वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् । शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥ सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥ तुलसी - श्यामवर्णा ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥ किरीटहारकेयूरकुण्डलादिविभूषिताम् । धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥ भूदेवी - स्वर्णवर्णा स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा । दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥ वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा । सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥ नीलादेवी - श्यामवर्णा नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता । चतुर्भुजा सुखासीना वराभयकरान्विता ॥ इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी । सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥ अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् । अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥ इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vibhinnarUpalakShmIdhyAnaprakArAH
% File name             : vibhinnarUpalakShmIdhyAnaprakArAH.itx
% itxtitle              : vibhinnarUpalakShmIdhyAnaprakArAH
% engtitle              : vibhinnarUpalakShmIdhyAnaprakArAH
% Category              : devii, lakShmI, devI, dhyAnam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras
% Indexextra            : (Text)
% Latest update         : May 5, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org