विद्यादानवाक्सरस्वतीहृदयस्तोत्रम्
ॐ अस्य श्री वाग्वादिनी शारदामन्त्रस्य मार्कण्डेयाश्वलायनौ ऋषी,
स्रग्धरा अनुष्टुभौ छन्दसी,
श्रीसरस्वती देवता । श्रीसरस्वतीप्रसादसिद्ध्यर्थे विनियोगः ॥
ध्यानम् ॥
शुक्लां ब्रह्मविचारसारपरमां आद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेष्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥
ब्रह्मोवाच ।
ह्रीं ह्रीं हृद्यैकविद्ये शशिरुचिकमलाकल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्प्लुष्टा ज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ २॥
ऐं ऐं ऐं इष्टमन्त्रे कमलभवमुखाम्भोजरूपे स्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञानतत्त्वे
विश्वे विश्वान्तराळे सुरवरनमिते निष्कळे नित्यशुद्धे ॥ ३॥
ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥ ४॥
ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिः नामभिः कीर्तनीये
नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे
मन्त्रे मन्त्रार्थतत्त्वे मतिमतिमतिदे माधवप्रीतिनादे ॥ ५॥
ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह रुदितं पुस्तकव्यग्रहस्ते
सन्तुष्टाचारचित्ते स्मितमुखि सुभगे जंभनिस्तंभविद्ये ।
मोहे मुग्द्धप्रबोधे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये
गीर्वाग् गौर्भारती त्वं कविवररसनासिद्धिदा सिद्धिसाद्ध्या ॥ ६॥
सौं सौं सौं शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतत्त्वे
विश्वे विश्वान्तराळे सुरगणनमिते निष्कळे नित्यशुद्धे ॥ ७॥
स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित् त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे जातु पापम् ।
मा मे दुःखं कदाचिद्विपदि च समयेऽप्यस्तु मेऽनाकुलत्वम्
शास्त्रे वादे कवित्वे प्रसरतु मम धिः माऽस्तु कुण्ठा कदाचित् ॥ ८॥
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रः
देवीं वाचस्पतेरप्यतिमतिविभवो वाक्पटुर्नष्टपङ्कः ।
सः स्यादिष्टार्थलाभः सुतमिव सततं पाति तं सा च देवि
सौभाग्यं तस्य लोके प्रभवति कविताविघ्नमस्तं प्रयाति ॥ ९॥
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो नरः पाठात् स स्यादिष्टार्थलाभवान् ॥ १०॥
पक्षद्वयेऽपि यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११॥
शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ।
वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ॥ १२॥
इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति ॥ १३॥
इति श्रीब्रह्माण्डपुराणे नारदनन्दिकेश्वरसंवादे ब्रह्मप्रोक्ते
विद्यादानवाक्सरस्वतीहृदयस्तोत्रं सम्पूर्णम् ॥
एवं रुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वतीस्तोत्रम् ।
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com