श्री यमुना अपरनाम कालिन्दीसहस्रनामस्तोत्रम्

श्री यमुना अपरनाम कालिन्दीसहस्रनामस्तोत्रम्

गर्गसंहितातः मान्धातोवाच नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् । वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥ १॥ सौभरिरुवाच नाम्नां सहस्रं कालिन्द्या मान्धातस्ते वदाम्यहम् । सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥ २॥ विनियोगः ॥ अस्य श्रीकालिन्दीसहस्रनामस्तोत्रमन्त्रस्य सौभरिरृषिः । श्रीयमुना देवता । अनुष्टुप् छन्दः । मायाबीजमिति कीलकम् । रमाबीजमिति शक्तिः । श्री कालिन्दनन्दिनीप्रसादसिद्ध्यर्थे पाठे विनियोगः । अथ ध्यानम् ॥ ॐ श्यामामम्भोजनेत्रां सघनघनरुचिं रत्नमञ्जीरकूजत् काञ्चीकेयूरयुक्तां कनकमणिमये बिभ्रतीं कुण्डले द्वे । भाजच्छीनीलवस्त्रां स्फुरदमलचलद्धारभारां मनोज्ञां ध्यायेन्मार्तण्डपुत्रीं तनुकिरणचयोद्दीप्तदीपाभिरामाम् ॥ ३॥ ॐ कालिन्दी यमुना कृष्णा कृष्णरूपा सनातनी । कृष्णवामांससम्भूता परमानन्दरूपिणी ॥ ४॥ गोलोकवासिनी श्यामा वृन्दावनविनोदिनी । राधासखी रासलीला रासमण्डलमण्डिता ॥ ५॥ निकुञ्जमाधवीवल्ली रङ्गवल्लीमनोहरा । श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥ ६॥ गोलोकतटिनी दिव्या निकुञ्जतलवासिनी । दीर्घोर्मिवेगगम्भीरा पुष्पपल्लववासिनी ॥ ७॥ घनश्यामा मेघमाला बलाका पद्ममालिनी । परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥ ८॥ महावेगवती साक्षान्निकुञ्जद्वारनिर्गता । महानदी मन्दगतिर्विरजा वेगभेदिनी ॥ ९॥ अनेकब्रह्माण्डगता ब्रह्मद्रवसमाकुला । गङ्गा मिश्रा निर्जलाभा निर्मला सरितां वरा ॥ १०॥ रत्नबद्धोभयतटा हंसपद्मादिसङ्कुला । var तटी नदी निर्मलपानीया सर्वब्रह्माण्डपावनी ॥ ११॥ वैकुण्ठपरिखीभूता परिखा पापहारिणी । ब्रह्मलोकागता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥ १२॥ उल्लसन्ती प्रोत्पतन्ती मेरुमाला महोज्ज्वला । श्रीगङ्गाम्भः शिखरिणी गण्डशैलविभेदिनी ॥ १३॥ देशान्पुनन्ती गच्छन्ती महती भूमिमध्यगा । मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी ॥ १४॥ यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा । नीलाम्बरा पद्ममुखी चरन्ती चारुदर्शना ॥ १५॥ रम्भोरूः पद्मनयना माधवी प्रमदोत्तमा । तपश्चरन्ती सुश्रोणी कूजन्नूपुरमेखला ॥ १६॥ जलस्थिता श्यामलाङ्गी खाण्डवाभा विहारिणी । गाण्डीविभाषिणी वन्या श्रीकृष्णाम्बरमिच्छती ॥ १७॥ द्वारकागमना राज्ञी पट्टराज्ञी परङ्गता । महाराज्ञी रत्नभूषा गोमतीतीरचारिणी ॥ १८॥ स्वकीया स्वसुखा स्वार्था स्वीयकार्यार्थसाधिनी । नवलाङ्गाऽबला मुग्धा वराङ्गा वामलोचना ॥ १९॥ अज्ञातयौवनाऽदीना प्रभा कान्तिर्द्युतिश्छविः । सोमाभा परमा कीर्तिः कुशला ज्ञातयौवना ॥ २०॥ नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका । धीराऽधीरा धैर्यधरा ज्येष्ठा श्रेष्ठा कुलाङ्गना ॥ २१॥ क्षणप्रभा चञ्चलार्चा विद्युत्सौदामिनी तडित् । स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥ २२॥ कलहान्तरिता भीरुरिच्छा प्रोत्कण्ठिताऽऽकुला । कशिपुस्था दिव्यशय्या गोविन्दहृतमानसा ॥ २३॥ खण्डिताऽखण्डशोभाढ्या विप्रलब्धाऽभिसारिका । विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥ २४॥ मानिनी मानदा प्राज्ञा मन्दारवनवासिनी । झङ्कारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥ २५॥ मेखला मेखलाकाञ्ची श्रीकाञ्ची काञ्चनामयी । कञ्चुकी कञ्चुकमणिः श्रीकण्ठाढ्या महामणिः ॥ २६॥ श्रीहारिणी पद्महारा मुक्ता मुक्ताफलार्चिता । रत्नकङ्कणकेयूरा स्फरदङ्गुलिभूषणा ॥ २७॥ दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी । कम्बुग्रीवा कम्बुधरा ग्रैवेयकविराजिता ॥ २८॥ ताटङ्किनी दन्तधरा हेमकुण्डलमण्डिता । शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥ २९॥ मणिभूमिगता देवी रैवताद्रिविहारिणी । वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥ ३०॥ वृन्दावनलता माध्वी वृन्दारण्यविभूषणा । सौन्दर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥ ३१॥ विश्रान्तवासिनी काम्या रम्या गोकुलवासिनी । रमणस्थलशोभाढ्या महावनमहानदी ॥ ३२॥ प्रणता प्रोन्नता पुष्टा भारती भारतार्चिता । तीर्थराजगतिर्गोत्रा गङ्गासागरसङ्गमा ॥ ३३॥ सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् । लुठन्ती शैलभिद्यन्ती स्फुरन्ती वेगवत्तरा ॥ ३४॥ काञ्चनी काञ्चनीभूमिः काञ्चनीभूमिभाविता । लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता ॥ ३५॥ शैलोद्गता स्वर्गगता स्वर्गार्च्या स्वर्गपूजिता । वृन्दावनवनाध्यक्षा रक्षा कक्षा तटी पटी ॥ ३६॥ असिकुण्डगता कच्छा स्वच्छन्दोच्छलिताद्रिजा । कुहरस्था रयप्रस्था प्रस्था शान्तेतरातुरा ॥ ३७॥ अम्बुच्छटा सीकराभा दर्दुरा दर्दुरीधरा । पापाङ्कुशा पापसिंही पापद्रुमकुठारिणी ॥ ३८॥ पुण्यसङ्घा पुण्यकीर्तिः पुण्यदा पुण्यवर्धिनी । मधोर्वननदीमुख्या तुला तालवनस्थिता ॥ ३९॥ कुमुद्वननदी कुब्जा कुमुदाम्भोजवर्धिनी । प्लवरूपा वेगवती सिंहसर्पादिवाहिनी ॥ ४०॥ बहुली बहुदा बह्वी बहुला वनवन्दिता । राधाकुण्डकलाराध्या कृष्णाकुण्डजलाश्रिता ॥ ४१॥ ललिताकुण्डगा घण्टा विशाखाकुण्डमण्डिता । गोविन्दकुण्डनिलया गोपकुण्डतरङ्गिणी ॥ ४२॥ श्रीगङ्गा मानसीगङ्गा कुसुमाम्बर भाविनी । गोवर्धिनी गोधनाढ्या मयूरी वरवर्णिनी ॥ ४३॥ सारसी नीलकण्ठाभा कूजत्कोकिलपोतकी । गिरिराजप्रभूर्भूरिरातपत्रातपत्रिणी ॥ ४४॥ गोवर्धनाङ्का गोदन्ती दिव्यौषधिनिधिः श्रुतिः । var श‍ृतिः पारदी पारदमयी नारदी शारदी भृतिः ॥ ४५॥ श्रीकृष्णचरणाङ्कस्था कामा कामवनाञ्चिता । कामाटवी नन्दिनी च नन्दग्राममहीधरा ॥ ४६॥ बृहत्सानुद्युतिः प्रोता नन्दीश्वरसमन्विता । काकली कोकिलमयी भाण्डारकुशकौशला ॥ ४७॥ लोहार्गलप्रदाकारा काश्मीरवसनावृता । बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥ ४८॥ नानाभरणशोभाढ्या नानावर्णसमन्विता । नानानारीकदम्बाढ्या नानावस्त्रविराजिता ॥ ४९॥ नानालोकगता वीचिर्नानाजलसमन्विता । स्त्रीरत्नं रत्ननिलया ललनारत्नरञ्जिनी ॥ ५०॥ रङ्गिणी रङ्गभूमाढ्या रङ्गा रङ्गमहीरुहा । राजविद्या राजगुह्या जगत्कीर्तिर्घनापहा ॥ ५१॥ विलोलघण्टा कृष्णाङ्गी कृष्णदेहसमुद्भवा । नीलपङ्कजवर्णाभा नीलपङ्कजहारिणी ॥ ५२॥ नीलाभा नीलपद्माढ्या नीलाम्भोरुहवासिनी । नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥ ५३॥ ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा । सकेसरा केसरिणी केशपाशाभिशोभिता ॥ ५४॥ कज्जलाभा कज्जलाक्ता कज्जलीकलिताञ्जना । अलक्तचरणा ताम्रा लालाताम्रकृताम्बरा ॥ ५५॥ सिन्दूरिता लिप्तवाणी सुश्रीः श्रीखण्डमण्डिता । पाटीरपङ्कवसना जटामांसीरुचाम्बरा ॥ ५६॥ आगर्य्यगरुगन्धाक्ता तगराश्रितमारुता । सुगन्धितैलरुचिरा कुन्तलालिः सुकुन्तला ॥ ५७॥ शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा । सूर्यकोटिप्रभा सूर्यकन्या सूर्यसमुद्भवा ॥ ५८॥ कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी । संज्ञा संज्ञासुता स्वेच्छा संज्ञामोदप्रदायिनी ॥ ५९॥ संज्ञापुत्री स्फुरच्छाया तपन्ती तापकारिणी । सावर्ण्यानुभवा वेदी वडवा सौख्यप्रदायिनी ॥ ६०॥ शनैश्चरानुजा कीला चन्द्रवंशविवर्धिनी । चन्द्रवंशवधूश्चन्द्रा चन्द्रावलिसहायिनी ॥ ६१॥ चन्द्रावती चन्द्रलेखा चन्द्रकान्तानुगांशुका । भैरवी पिङ्गलाशङ्की लीलावत्यागरीमयी ॥ ६२॥ धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्धिनी । व्रजमल्लार्यन्धकरी विचित्रा जयकारिणी ॥ ६३॥ var व्रज गान्धारी मञ्जरी टोढी गुर्जर्यासावरी जया । कर्णाटी रागिणी गौडी वैराटी गारवाटिका ॥ ६४॥ चतुश्चन्द्रकला हेरी तैलङ्गी विजयावती । ताली तालस्वरा गानक्रिया मात्राप्रकाशिनी ॥ ६५॥ वैशाखी चञ्चला चारुर्माचारी घुङ्घटी घटा । वैरागरी सोरठी सा कैदारी जलधारिका ॥ ६६॥ कामाकरश्रीकल्याणी गौडकल्याणमिश्रिता । रामसञ्जीवनी हेला मन्दारी कामरूपिणी ॥ ६७॥ सारङ्गी मारुती होढा सागरी कामवादिनी । वैभासी मङ्गला चान्द्री रासमण्डलमण्डना ॥ ६८॥ var वैभासा कामधेनुः कामलता कामदा कमनीयका । कल्पवृक्षस्थली स्थूला क्षुधा सौधनिवासिनी ॥ ६९॥ गोलोकवासिनी सुभ्रूर्यष्टिभृद्द्वारपालिका । श‍ृङ्गारप्रकरा श‍ृङ्गा स्वच्छाक्षय्योपकारिका ॥ ७०॥ पार्षदा सुमुखी सेव्या श्रीवृन्दावनपालिका । निकुञ्जभृत्कुञ्जपुञ्जा गुञ्जाभरणभूषिता ॥ ७१॥ निकुञ्जवासिनी प्रेष्या गोवर्धनतटीभवा । विशाखा ललिता रामा नीरजा मधुमाधवी ॥ ७२॥ var नीरुजा एकानेकसखी शुक्ला सखीमध्या महामनाः । श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥ ७॥ अयोध्यापुरवासिन्यो यज्ञसीताः पुलिन्दकाः । रमा वैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥ ७४॥ ऊर्ध्ववैकुण्ठवासिन्यो दिव्याजितपदाश्रिताः । श्रीलोकाचलवासिन्यः श्रीसख्यः सागरोद्भवाः ॥ ७५॥ दिव्या अदिव्या दिव्याङ्गा व्याप्तास्त्रिगुणवृत्तयः । भूमिगोप्यो देवनार्यो लता ओषधिवीरुधः ॥ ७६॥ जालन्धर्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः । दिव्याम्बरा अप्सरसः सौतला नागकन्यकाः ॥ ७७॥ परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा । तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥ ७८॥ चिद्घना सदसन्माला दृष्टिर्दृश्या गुणाकरा । महत्तत्त्वमहङ्कारो मनो बुद्धिः प्रचेतना ॥ ७९॥ चेतोवृत्तिः स्वान्तरात्मा चतुर्धा चतुरक्षरा । चतुर्व्यूहा चतुर्मूर्तिर्व्योम वायुरदो जलम् ॥ ८०॥ मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा । कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥ ८१॥ त्रिधाधिभूतमध्यात्ममधिदैवमधिस्थितम् । ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥ ८२॥ तत्त्वसङ्घा विराण्मूर्तिर्धारणा धारणामयी । श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥ ८३॥ पाराशरी सैव सृष्टिः पारहंसी विधातृका । याज्ञवल्की भागवती श्रीमद्भागवतार्चिता ॥ ८४॥ रामायणमयी रम्या पुराणपुरुषप्रिया । पुराणमूर्तिः पुण्याङ्गी शास्त्रमूर्तिर्महोन्नता ॥ ८५॥ मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः । गायत्री वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥ ८६॥ दुर्गाऽपर्णा सती सत्या पार्वती चण्डिकाम्बिका । आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥ ८७॥ पुलोमजा शचीन्द्राणी वेदी देववरार्पिता । वयुनाधारिणी धन्या वायवी वायुवेगगा ॥ ८८॥ यमानुजा संयमनी संज्ञा छाया स्फुरद्द्युतिः । रत्नदेवी रत्नवृन्दा तारा तरणिमण्डला ॥ ८९॥ रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा । तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥ ९०॥ चतुर्भुजा चारुनेत्रा द्विभुजाष्टभुजा बला । शङ्खहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥ ९१॥ निषङ्गधारिणी चर्मखड्गपाणिर्धनुर्धरा । धनुष्टङ्कारिणी योद्ध्री दैत्योद्भटविनाशिनी ॥ ९२॥ रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता । वंशीधरा कृष्णवेषा स्रग्विणी वनमालिनी ॥ ९३॥ किरीटधारिणी याना मन्दा मन्दगतिर्गतिः । चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥ ९४॥ भैष्मी भीष्मसुता भीमा रुक्मिणी रुक्मरूपिणी । सत्यभामा जाम्बवती सत्या भद्रा सुदक्षिणा ॥ ९५॥ मित्रविन्दा सखीवृन्दा वृन्दारण्यध्वजोर्ध्वगा । श‍ृङ्गारकारिणी श‍ृङ्गा श‍ृङ्गभूः श‍ृङ्गदाऽऽशुगा ॥ ९६॥ तितिक्षेक्षा स्मृतिः स्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः । ईशा तृष्णाभिधा प्रीतिर्हिता याञ्चा क्लमा कृषिः ॥ ९७॥ आशा निद्रा योगनिद्रा योगिनी योगदा युगा । निष्ठा प्रतिष्ठा समितिः सत्त्वप्रकृतिरुत्तमा ॥ ९८॥ तमःप्रकृतिर्दुर्मर्षा रजःप्रकृतिरानतिः । क्रियाऽक्रियाकृतिर्ग्लानिः सात्त्विक्याध्यात्मिकी वृषा ॥ ९९॥ सेवा शिखामणिर्वृद्धिराहूतिः सुमतिर्द्युभूः । राज्जुर्द्विदाम्नी षड्वर्गा संहिता सौख्यदायिनी ॥ १००॥ मुक्तिः प्रोक्तिर्देशभाषा प्रकृतिः पिङ्गलोद्भवा । नागभावा नागभूषा नागरी नगरी नगा ॥ १०१॥ नौर्नौका भवनौर्भाव्या भवसागरसेतुका । मनोमयी दारुमयी सैकती सिकतामयी ॥ १०२॥ लेख्या लेप्या मणिमयी प्रतिमा हेमनिर्मिता । शैला शैलभवा शीला शीलारामा चलाऽचला ॥ १०३॥ var शीकराभा अस्थिता स्वस्थिता तूली वैदिकी तान्त्रिकी विधिः । सन्ध्या सन्ध्याभ्रवसना वेदसन्धिः सुधामयी ॥ १०४॥ सायन्तनी शिखावेद्या सूक्ष्मा जीवकला कृतिः । आत्मभूता भाविताऽण्वी प्रह्वा कमलकर्णिका ॥ १०५॥ नीराजनी महाविद्या कन्दली कार्यसाधिनी । पूजा प्रतिष्ठा विपुला पुनन्ती पारलौकिकी ॥ १०६॥ शुक्लशुक्तिर्मौक्तिका च प्रतीतिः परमेश्वरी । विराजोष्णिग्विराड्वेणी वेणुका वेणुनादिनी ॥ १०७॥ आवर्तिनी वार्तिकदा वार्त्ता वृत्तिर्विमानगा । सासाढ्यरासिनी सासी रासमण्डलमण्डली ॥ १०८॥ गोपगोपीश्वरी गोपी गोपीगोपालवन्दिता । गोचारिणी गोपनदी गोपानन्दप्रदायिनी ॥ १०९॥ पशव्यदा गोपसेव्या कोटिशो गोगणावृता । गोपानुगा गोपवती गोविन्दपदपादुका ॥ ११०॥ वृषभानुसुता राधा श्रीकृष्णवशकारिणी । कृष्णप्राणाधिका शश्वद्रसिका रसिकेश्वरी ॥ १११॥ अवटोदा ताम्रपर्णी कृतमाला विहायसी । कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥ ११२॥ वैयासकी च कावेरी तुङ्गभद्रा सरस्वती । चन्द्रभागा वेत्रवती गोविन्दपदपादुका ॥ ११३॥ गोमती कौशिकी सिन्धुर्बाणगङ्गातिसिद्धिदा । गोदावरी रत्नमाला गङ्गा मन्दाकिनी बला ॥ ११४॥ स्वर्णदी जाह्नवी वेला वैष्णवी मङ्गलालया । बाला विष्णुपदीप्रोक्ता सिन्धुसागरसङ्गता ॥ ११५॥ गङ्गासागर शोभाढ्या सामुद्री रत्नदा धुनी । भागीरथी स्वर्धुनी भूः श्रीवामनपदच्युता ॥ ११६॥ लक्ष्मी रमा रामणीया भार्गवी विष्णुवल्लभा । सीतार्चिर्जानकी माता कलङ्करहिता कला ॥ ११७॥ कृष्णपादाब्जसम्भूता सर्वा त्रिपथगामिनी । धरा विश्वम्भराऽनन्ता भूमिर्धात्री क्षमामयी ॥ ११८॥ स्थिरा धरित्री धरणिरुर्वी शेषफणस्थिता । अयोध्या राघवपुरी कौशिकी रघुवंशजा ॥ ११९॥ मथुरा माथुरी पन्था यादवी ध्रुवपूजिता । मयायुर्बिल्वनीला द्वार्गङ्गाद्वारविनिर्गता ॥ १२०॥ कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा । var मण्डलनिर्गता काशी शिवपुरी शेषा विन्ध्या वाराणसी शिवा ॥ १२१॥ अवन्तिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता । द्वारावती द्वारकामा कुशभूता कुशस्थली ॥ १२२॥ महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता । शास्त्रग्रामशिलादित्या शम्भलग्राममध्यगा ॥ १२३॥ वंशा गोपालिनी क्षिप्रा हरिमन्दिरवर्तिनी । बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥ १२४॥ दाडिमी सैन्धवी जम्बुः पौष्करी पुष्करप्रसूः । उत्पलावर्तगमना नैमिषी निमिषावृता ॥ १२५॥ कुरुजाङ्गलभूः काली हैमावत्यर्बुदा बुधा । शूकरक्षेत्रविदिता श्वेतवाराहधारिता ॥ १२६॥ सर्वतीर्थमयी तीर्था तीर्थानां कीर्तिकारिणी । हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥ १२७॥ वर्धिनी तेजसां साक्षाद्गर्भवासनिकृन्तनी । गोलोकधामधनिनी निकुञ्जनिजमञ्जरी ॥ १२८॥ सर्वोत्तमा सर्वपुण्या सर्वसौन्दर्यश‍ृङ्खला । सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥ १२९॥ श्रीदा श्रीशा श्रीनिवासा श्रीनिधिः श्रीविभावना । स्वक्षा स्वङ्गा शतानन्दा नन्दा ज्योतिर्गणेश्वरी ॥ १३० ॥
पह्लश्रुति नाम्नां सहस्रं कालिन्द्याः कीर्तिदं कामदं परम् । महापापहरं पुण्यमायुर्वर्धनमुत्तमम् ॥ १३१॥ एकवारं पठेद्रात्रौ चौरेभ्यो न भयं भवेत् । द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥ १३२॥ द्वितीयां तु समारभ्य पठेत्पूर्णावधिं द्विजः । दशवारमिदं भक्त्या ध्यात्वा देवो कलिन्दजाम् ॥ १३३॥ रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् । गुर्विणी जनयेत्पुत्रं विद्यार्थी पण्डितो भवेत् ॥ १३४॥ मोहनं स्तम्भनं शश्वद्वशीकरणमेव च । उच्चाटनं पातनं च शोषणं दीपनं तथा ॥ १३५॥ उन्मादनं तापनं च निधिदर्शनमेव च । यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥ १३६॥ ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥ १३७॥ पूजाकाले तु यो नित्यं पठते भक्तिभावतः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १३८॥ शतवारं पठेन्नित्यं वर्षावधिमतः परम् । पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥ १३९॥ सप्तद्वीपमहीराज्यं प्राप्नुयान्नात्र संशयः । निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ॥ १४०॥ त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥ १४१॥ निकुञ्जलीलाललितं मनोहरं कलिन्दजाकूललताकदम्बकम् । वृन्दावनोन्मत्तमिलिन्दशब्दितं व्रजेत्स गोलोकमिदं पठेच्च यः ॥ १४२॥ ॥ इति गर्गसंहितायां श्रीयमुनासहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by DPD, NA, PSAEAswaran
% Text title            : shrI yamunA aparanAma kAlindIsahasranAmastotra
% File name             : yamunAsahasranAmastotra.itx
% itxtitle              : yamunAsahasranAmastotram kAlindIsahasranAmam cha (gargasaMhitAtaH)
% engtitle              : yamunAsahasranAmastotram
% Category              : sahasranAma, devii, nadI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD, NA, PSAEaswaran
% Source                : shrI bhagavatIstutimanjarI, Mahaperiaval Trust, Gargasamhita
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : January 1, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org