श्रीमहागणपतिवज्रपञ्जरकवचम्

श्रीमहागणपतिवज्रपञ्जरकवचम्

॥ पूर्वपीठिका ॥ महादेवि गणेशस्य वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः, गायत्रं छन्दः, श्रीमहागणपति देवता, गं बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकं, वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरवर्षये नमः शिरसि । गायत्रछन्दसे नमो मुखे । श्रीमहागणपतिदेवतायै नमो हृदि । गं बीजाय नमो गुह्ये । ह्रींशक्तये नमो नाभौ । कुरु कुरु कीलकाय नमः पादयोः । वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगाय नमः सर्वाङ्गे ॥ ॥ करन्यासः ॥ गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः ॥ ॥ अङ्गन्यासः ॥ गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् ॥ ॥ ध्यानम् ॥ विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात्सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ ॥ कवचपाठः ॥ ॐ श्रीं ह्रीं गं शिरः पातु महागणपतिः प्रभुः । विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ १॥ पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः । श्रुती मेऽवतु हेरम्बो गण्डौ मे मोदकाशनः ॥ २॥ द्वैमातुरो मुखं पातु चाधरौ पात्वरिन्दमः । दन्तान्ममैकदन्तोऽव्याद्वक्रतुण्डोऽवताद्रसाम् ॥ ३॥ गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ४॥ ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः । हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्वयुग्मकम् ॥ ५॥ प्रद्युम्नो मेऽवतात्पृष्ठं नाभिं शङ्करनन्दनः । कटिं नन्दिगणः पातु शिश्नं विश्वेश्वरोऽवतु ॥ ६॥ मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् । विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ७॥ जङ्घे मम विकर्तोऽव्याद्गुल्फावन्त्यगणोऽवतु । पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ ८॥ पादपृष्ठं सुन्दरोऽव्यान्नूपुराढ्यो वपुर्मम । विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ९॥ शिरसः पादपर्यन्तं वपुः सप्तगणोऽवतु । पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १०॥ विस्मारितं तु यत्स्थानं गणेशस्तत्सदाऽवतु । पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११॥ दक्षिणे पातु संहारो नैरृते रुरुभैरवः । पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १२॥ उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः । प्रभाते शतपत्रोऽव्यात्सहस्रारस्तु मध्यमे ॥ १३॥ दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा । सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ॥ १४॥ ॐ ॐ राजकुले हौं हौं रणभये ह्रीं ह्रीं कुद्यूतेऽवतात् श्रीं श्रीं शत्रुगृहे शौं शौं जलभये क्लीं क्लीं वनान्तेऽवतु । ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्वभीतिषु महाव्याध्यार्तिषु ग्लौं गं गौं नित्यं यक्षपिशाचभूतफणिषु ग्लौं गं गणेशोऽवतु ॥ १५॥ ॥ फलश्रुतिः ॥ इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् । वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १॥ अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् । विनानेन न सिद्धिः स्यात्पूजनस्य जपस्य च ॥ २॥ तस्मात्तु कवचं पुण्यं पठेद्वा धारयेत्सदा । तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ ३॥ यं यं कामयते कामं तं तं प्राप्नोति पाठतः । अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ ४॥ इति गुह्यं सुकवचं महागणपतेः प्रियम् । सर्वसिद्धिमयं दिव्यं गोपयेत्परमेश्वरि ॥ ॥ श्रीरुद्रयामले तन्त्रे श्रीमहागणपतिवज्रपञ्जरकवचं सम्पूर्णम् ॥ Encoded and proofread by anonymous456an at gmail.com
% Text title            : mahAgaNapativajrapanjarakavacham
% File name             : mahAgaNapativajrapanjarakavacham.itx
% itxtitle              : mahAgaNapativajrapanjarakavacham (rudrayAmalAntargatam)
% engtitle              : mahAgaNapativajrapanjarakavacham
% Category              : ganesha, panjara, kavacha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : anonymous456an at gmail.com
% Proofread by          : anonymous456an at gmail.com
% Latest update         : June 16, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org