श्रीविघ्नविनाशकस्तोत्रम्

श्रीविघ्नविनाशकस्तोत्रम्

ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाशो वरेण्यो देवानामग्रगण्यः सकलगुणनिधिर्योऽग्रपूजाधिकारी । विद्याधीशो बलिष्ठः षडरिविदलनः सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवहरः श्रीगुरुः सौख्यसिन्धुः ॥ १॥ विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो व्यक्ते वाव्यक्तरूपे प्रणववपुरयं ब्रह्मरूपः स्वमात्रः । यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्क्रियोऽपि भक्तानां मुक्तिहेतौ विदलयतिकृतं मायिकस्याद्वयः सः ॥ २॥ सर्पोरज्जुर्हि यद्वन्न भुजग इति सा कथ्यते रज्जुसर्पे विश्वं ब्रह्मैव तद्वन्नच जगदिति तत्खल्विदं ब्रह्मवाक्ये । सत्तासामान्यसरूपात्कथितमपि च यो दृश्यरूपो न तादृग् दृश्यं यद्विघ्नकृत्स्यात्तदपनति यो बोधतो विघ्नहायम् ॥ ३॥ सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च चैतन्यस्याद्वयत्वात् गदित इति च यो दृश्यरूपोऽप्यरूपः । माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योद्वयः सः ॥ ४॥ भात्यस्त्यानन्दरूपो सदसुखजडतारूपदृश्येस्ति यो वै नित्यो नित्यादिकानां भवति किल तथा चेतनश्चेतनानाम् । सर्वस्यैतस्य मायाकृतसुखमिह यत्पार्थ्यते तद्गणेशो यस्तं सर्वादिभूतं भजत जगति भो! सारभूतं वरेण्यम् ॥ ५॥ नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्म तन्मत्स्वरूपं ज्ञात्वा विश्वातिभूतः सकलविदलयन् स्वार्चिषास्वस्थ आसे । माया तत्कार्यमेतत् स्पृशति न मयि वा दृश्यते नाविरासीन् मयायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोहम् ॥ ६॥ ब्रह्मानन्द करोयमात्ममतिदः श्रीढुण्ढिराजस्तवः विघ्नाघौघघनप्रचण्डपवनः कामेभपञश्चाननः । मायाव्यालकुलप्रमत्तगरुडो मोहाटवीहव्यवाड् आनान्घ्यनिवारणैकतरणिर्भेदाब्धिकुम्भोद्भवः ॥ ७॥ इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं श्रीविघ्नविनाशकस्तोत्रं सम्पूर्णम् ॥ रचनास्थकम् चिक्कमंगलूर, काॅफिउद्यानम् शके १८६५ Encoded and proofread by Sonali Upendra Dasare, Sumit
% Text title            : Shri Vighnavinashaka Stotram
% File name             : vighnavinAshakastotram.itx
% itxtitle              : vighnavinAshakastotram (shrIdharasvAmIvirachitam)
% engtitle              : Vighnavinashaka Stotram 
% Category              : ganesha, shrIdharasvAmI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sonali Upendra Dasare, Sumit
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: https://shridharamrut.com
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org