अजगरगीता
महाभारते शान्तिपर्वान्तर्गता
भीष्मेण युधिष्ठिरम्प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः
सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ १॥
युधिष्ठिर उवाच ।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ १॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ २॥
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ ३॥
प्रह्लाद उवाच ।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ ५॥
स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ ८॥
भीष्म उवाच ।
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ ९॥
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १०॥
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ ११॥
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये। १३॥
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४॥
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १५॥
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ १६॥
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ १७॥
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १८॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १९॥
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ २०॥
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ २१॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ २२॥
धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ २३॥
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४॥
अचलमनिधनं शिवं विशोकं
शुचिमतुलं विदुषां मते प्रविष्टम् ।
अनभिमतमसेवितं विमूढै-
र्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५॥
अचलितमतिरच्युतः स्वधर्मा-
त्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २६॥
अनियतफलभक्ष्यभोज्यपेयं
विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यै-
र्व्रतमिदमाजगरं शुचिश्चरामि ॥ २७॥
इदमिदमिति तृष्णयाऽभिभूतं
जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या
व्रतमिदमाजगरं शुचिश्चरामि ॥ २८॥
बहुविधमनुदृश्य चार्थहेतोः
कृपणमिहार्यमनार्यमाश्रयं तम् ।
उपशमरुचिरात्मवान्प्रशान्तो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २९॥
सुखमसुखमलाभमर्थलाभं
रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३०॥
अपगतभयरागमोहदर्पो
धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१॥
अनियतशयनासनः प्रकृत्या
दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसञ्चयः प्रहृष्टो
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२॥
अपगतमसुखार्थमीहनार्थै-
रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् ।
तृपितमनियतं मनो नियन्तुं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३॥
न हृदयमनुरुध्यते मनो वा
प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४॥
बहु कथितमिदं हि बुद्धिमद्भिः
कविभिरपि प्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्र तत्र हन्त
स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५॥
तदिदमनुनिशाम्य विप्रपातं
पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं
नृषु विहरामि विनीतदोषतृष्णः ॥ ३६॥
भीष्म उवाच ।
अजगरचरितं व्रतं महात्मा
य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयलोभमोहमन्युः
स खलु सुखी विचरेदिमं विहारम् ॥ ३७॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७ ॥
Mahabharata - Shanti Parva - Chapter Footnotes टिप्पणी
२ आजगरस्याऽजगरवृत्त्या जीवतः ॥
४ निर्विधित्सो निरारम्भः ॥
६ स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥
७ इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि
तन्निर्वाहमात्रार्थी अश्नासि ॥
८ प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं
शास्त्रम्। वृत्तिस्तदर्थानुष्ठानम्। श्रेयो ममेति शेषः ॥
९ अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं
कारणं तदभिज्ञः लोकधर्मविधानवित् ॥
१० अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥
१२ तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे
शोकोत्पत्तिं जानन् ॥
१५ पार्थिवानां पृथिवीस्थानाम् ॥
१९ आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥
२० आशयन्ति भोजयन्ति ॥
२६ कषायः रागद्वेषादिः ॥
२८ धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया
निशाम्यालोच्य ॥
२९ अर्थहेतोरनार्यं नीचम् । आर्यं स्वामिनमाश्रयति यः
कृपणो दीनजनस्तमनुदृश्योपशमरुचिः। आत्मवान् जितचित्तः ॥
३० विधिनियतं दैवाधीनम् ॥
३१ मतिरालोचनम् । बुद्धिर्निश्चयः। उपगतं समीपागतं
फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य
दृष्ट्वा। फलभोगिन इति मध्यमपदलोपः ॥
३२ प्रकृत्या दमादियुक्तः
अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥
३३ एषणाविषयैः पुत्रवित्तादिभिर्हेतुभिः । असुखार्थं
परिणामे दुःखार्थम्। अपगतमात्मनः पराङ्मुखं तृषितमनियतं
च मनोऽवेक्ष्य। उपगतबुद्धिर्लव्धालोकः। आत्मसंस्थमात्मनि संस्था
समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥
shAntiparva (12), adhyAya 177 (adhyAya number defers in the scanned file.)
Proofread by PSA Easwaran