बोध्यगीता

बोध्यगीता

भीम उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ १॥ अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन । मिथिलायां प्रदीप्तायां न मे दह्यति किं चन ॥ २॥ अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् । निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥ ३॥ बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत । निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम् ॥ ४॥ उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे । कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५॥ बोध्य उवाच । उपदेशेन वर्तामि नानुशास्मीह कञ्चन । लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ॥ ६॥ पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । इषुकारः कुमारी च षडेते गुरवो मम॥ ७॥ भीम उवाच । आशा बलवती राजन्नैराश्यं परमं सुखम् । आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ८॥ सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः । आमिषस्य परित्यागात् कुररः सुखमेधते ॥ ९॥ गृहारम्भो हि दुःखाय न सुखाय कदाचन । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १०॥ सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । अद्रोहेनैव भूतानां सारङ्गा इव पक्षिणः ॥ ११॥ इषुकारो नरः कश्चिदिषावासक्तमानसः । समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ १२॥ बहूनां कलहो नित्यं द्वयोः संकथनं भवेत् । एकाकी विचरिष्यामि कुमारीशंखको यथा ॥ १३ ॥ इति बोद्ध्यगीता समाप्ता ॥ From Mahabharata Encoded and proofread by Sunder Hattangadi PSA Easwaran
% Text title            : bodhyagItA
% File name             : bodhyagiitaa.itx
% itxtitle              : bodhyagItA
% engtitle              : bodhyagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Sunder Hattangadi PSA Easwaran at gmail.com
% Proofread by          : Sunder Hattangadi, PSA Easwaran
% Indexextra            : (mahAbhArata shAntiparva Mokshadharma, chapter 178, slokas 57-68 scanned copy (need to encode, volunteer?))
% Latest update         : June 2, 1998, December 26, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org