॥ ब्रह्मगीता योगवासिष्ठान्तर्गता ॥

Yoga Vasishtha - MokSha-Nirvana Uttarardha Brahmagita - Chs. 173-186 ॥ योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ सर्ग-क्रमांक नाम श्लोकसंख्या १ - १७३ परमार्थोपदेशः ३४ २ - १७४ निर्वाणोपदेशः ३० ३ - १७५ अद्वैतयुक्तिः ७९ ४ - १७६ ब्रह्माण्डोपाख्यानम् २५ ५ - १७७ सत्यवर्णनम् ४४ ६ - १७८ ऐन्दवोपाख्यानम् ६४ ७ - १७९ ब्रह्ममयत्वप्रतिपादनम् २२ ८ - १८० तापसोपाख्यानम् ४१ ९ - १८१ गौर्याश्रमवर्णनम् ३९ १० - १८२ सप्तदीपेश्वर ५३ ११ - १८३ द्वीपसप्काष्टकवर्णनम् ७० १३ - १८५ कुन्ददन्तप्रबोधः २७ १४ - १८६ सर्वं खल्विदं ब्रह्मेति- ९० प्रतिपादनयोगोपदेशः ६१८ ॥ अथ प्रारभ्यते योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ श्रीराम उवाच । सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् । अनंतस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥ १॥ चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् । इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ २॥ वसिष्ठ उवाच । शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः । सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ ३॥ पादपस्थ यथा पत्रे पत्रतायां यथाग्रहः । सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ ४॥ आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः । सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः॥ ५॥ स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः । सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ ६॥ यथागेन्द्रे दृषद्दृक्षवार्यादौ स तथाग्रहः । तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ ७॥ शरीरस्य यथा केशनखादिषु यथाग्रहः । सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ ८॥ चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता । चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ ९॥ चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः । नखकेशजलाकाशधर्ममाकारभासुरम् ॥ १०॥ चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः । जंगमं स्थावरमयं किंतु नित्यमनाकृति ॥ ११॥ यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् । स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥ १२॥ चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता । इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ १३॥ कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च । त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ १४॥ करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः । चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ॥ १५॥ यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा । तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ १६॥ नाहं तरंगः सलिलमहमित्येव युक्तितः । बुद्धं येन तरंगेण कुतस्तस्य तरंगता ॥ १७॥ ब्रह्मणोऽस्य तरंगत्वमिवाभानं यतस्ततः । तरंगत्वातरंगत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ १८॥ चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् । तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ १९॥ एवमाद्यः प्रजानाथो निराकारो निरामयः । चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ॥ २०॥ येनांगदत्वं नास्तीति बुद्धं हेमांगदेन वै । अंगदत्वं कुतस्तस्य तस्य शुद्धेव हेमता ॥ २१॥ अजे संकल्पमात्रात्मचिन्मात्रव्योमदेहिनि । अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ २२॥ चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः । एतास्ताः सर्गसंहारस्थितिसंरभसंविदः ॥ २३॥ अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् । स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥ २४॥ यथा तरंगस्तेनैव रूपेणान्येन वानिशम् । स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ २५॥ चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् । भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ २६॥ सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च । घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ २७॥ तस्य कल्पान्तरजनी शिरोरुहतयोदिता । प्रकाशतमसी कालक्रियाख्याः स्वांगसंधयः ॥ २८॥ तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । चंद्रार्कौ दृग्दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ २९॥ एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः । अस्मत्संकल्पशैलाभो विराट् स्वप्नाकृतिस्थितः ॥ ३०॥ यच्च चेतच्चिदाकाशे स्वयं कचकचायते । तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ ३१॥ विराडात्मैवमाकाशं भाति चिन्मयमाततम् । स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ ३२॥ अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव । अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ ३३॥ वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्तादृशो ब्रह्मैव स्फुरितं तथात्मकलयास्तादात्मनित्यं यतः । तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भव- त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ ३४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३॥ -१-
॥ अथ द्वितीयोऽध्याः ॥ ॥ निर्वाणोपदेशः ॥ वसिष्ठ उवाच । सर्गादौ स्वप्नसंवित्या चिदेवाभाति केवला । जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ १॥ सर्गास्तरंगा ब्रह्माब्धेस्तेषु संवेदनं द्रवः । सर्गान्तरं सुखाद्यात्म द्वैत्यैक्यादीतरत्कुतः ॥ २॥ यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् । दृश्यादृश्यांशमेकात्म रूपं चिन्नभस्तथा ॥ ३॥ जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् । परिज्ञातं भवेदत्र कथामास्था विवेकिनः ॥ ४॥ सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् । जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ ५॥ जाग्रति स्वप्ननगरवासना विविधा यथा । सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ ६॥ अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् । तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ ७॥ स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव । कारणं त्वनुमासाध्यं क्वानुमानुभवाधिका ॥ ८॥ दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् । अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ ९॥ निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः । ध्यानं तेन समाधानं न संभवति किंचन ॥ १०॥ सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति । मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ ११॥ न च नामोपलाभेन निर्विकल्पसमाधिना । अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया ॥ १२॥ तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः । सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥ १३॥ निर्विकल्पं समाधानं तदनन्तमिहोच्यते । यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ १४॥ तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् । तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ १५॥ सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् । दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥ १६॥ तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् । न निर्विकल्पं न च वा सविकल्पं न वाप्यसत् ॥ १७॥ दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् । तत्सर्वं तन्न किंचिच्च तद्वदेवांग वेत्ति तत् ॥ १८॥ सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् । यथास्थितमिदं विश्वं तत्रालंप्रलयं गतम् ॥ १९॥ न तत्र नानानाना न न च किंचिन्न किंचन । समस्तसद सद्भावसीमान्तः स उदाहृतः॥ २०॥ अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् । शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ २१॥ स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् । शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥ २२॥ मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् । बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ २३॥ न तीर्थेन न दानेन न स्नानेन न विद्यया । न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ २४॥ भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते । व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदंबरे ॥ २५॥ न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन । तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ २६॥ भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् । आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ २७॥ आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति । अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ २८॥ सर्गसंहारसंस्थानां भासो भान्ति चिदंबरे । स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ २९॥ द्रव्यस्य हृद्येव चमत्कृतिर्निजा नभस्वतः स्पन्द इवानिशं यथा । यथा स्थिता सृष्टिरियं तथास्तिता लयं नभस्यन्तरनन्यरूपिणी ॥ ३०॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४॥ -२-
॥ अथ तृतीयोऽध्यायः ॥ ॥ अद्वैतयुक्तिः ॥ वसिष्ठ उवाच । स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् । दृश्यान्यता संभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ १॥ सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ । न सर्गो न परो लोको दृश्यमानोऽपि सिध्यति ॥ २॥ असदेवानुभूरित्थमेवेदं भासते जगत् । स्वप्नांगनासंग इव शान्तं चिद्व्योम केवलम् ॥ ३॥ एवं नामास्ति चिद्धातुरनादिनिधनोऽमलः । शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ ४॥ मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् । कुतः किल परे व्योमन्यनादिनिधने मलः ॥ ५॥ यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् । जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥ ६॥ चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी । कृता पृथ्व्यादिकलता मनोबुद्ध्यादिता तथा ॥ ७॥ वार्यावर्त इअवाभाति पवनस्पंदवच्च यत् । अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ ८॥ पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना । कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ ९॥ स्वयमेव कचत्यच्छाच्छायेयं स्वा महाचितिः । सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ १०॥ न च किंचन नामांग कचत्यच्छैव सा स्मृता । चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ ११॥ चिदाकाशश्चिदाकाशे तदिदं स्वमल वपुः । चित्तं दृश्यमिवाभाति स्वप्ने तथा स्थितम् ॥ १२॥ अन्यथानुपपन्यार्थकारणाभावतः स्वतः । सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ १३॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ १४॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ १५॥ स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते । नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ १६॥ ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् । रूपमन्यजदेवाच्छं मनस्तामिव गच्छति ॥ १७॥ इदं सर्वं तनोतीव तच्च खात्मकमेव खम् । भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ १८॥ मन एव स्वयं ब्रह्मा स सर्गम्य हृदि स्थितः । करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ १९॥ पृथ्वादिरहितो यस्मिन्मनोहृद्यंगवर्जिते । अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ २०॥ देहरूपजगद्रूपैरहमेकमनाकृति । मनस्तिष्ठाम्यनंतात्मबोधाबोधं पराभवम् ॥ २१॥ नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता । जगत्रया केवलं खं मनः कचकचायते ॥ २२॥ विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते । केवलं भाति चिन्मात्रमात्मनात्मनि निर्धनम् ॥ २३॥ यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते । व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४॥ अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका । तूष्णींभूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ २५॥ अबुद्धिपूर्वं द्रवतो यथावर्तादयोंऽभसि । क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६॥ अबुद्धिपूर्वं वातेन क्रियते स्पंदनं यथा । अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७॥ अनन्यदात्मनो वायोर्यथा स्पंदनमव्ययम् । अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८॥ चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति । परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९॥ ब्रह्मोन्मेषनिमेषात्म स्पंदास्पंदात्म वातवत् । निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३०॥ दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् । एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात्॥ ३१॥ निमेषोन्मेषयोरेकरूपमेव परं मतम् । अतोऽस्ति दृश्यं नास्तीति सदसच्च सदाचितिः ॥ ३२॥ निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः । ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३॥ तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः । अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४॥ चिदचित्यात्मकं व्योम रूपं कचकचायते । चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५॥ न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते । स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६॥ महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् । अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७॥ सुषुप्तं स्वप्नवद्भाति ब्रह्मैव सर्गवत् । सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८॥ यद्यत्संवेद्यते यादृक्सद्वासद्वा यथा यदा । तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९॥ अन्यथानुपपत्या चेत्कारणं परिकल्प्यते । तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४०॥ प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः । प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥ ४१॥ यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति । ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ ४२॥ यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा । तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३॥ ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् । यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४॥ विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् । व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५॥ द्वित्वैकत्वादिकलना नेह काचन विद्यते । सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६॥ अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह । नैवास्ति न च नास्त्येव कर्ता भोक्ताथवा क्वचित् ॥ ४७॥ इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि । ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८॥ यदेव ब्रह्मबुद्ध्यादि तदेवैतन्निरंजनम् । यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९॥ केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः । द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५०॥ तथा बुद्ध्यादि देहादि वेदनादि परापरे । अनेकान्यप्यनन्यानि शून्यत्वानि यथांबरे ॥ ५१॥ सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा । सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२॥ एवमेव कचत्यच्छा छायेयं स्वा महाचितेः । न च किंचन नामांग कचत्यच्छैवमास्थिता ॥ ५३॥ चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः । चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ ५४॥ अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः । चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५॥ सर्गादावेव खात्मैव दृश्यं भाति निराकृति । संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७॥ तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् । शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८॥ दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० । स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते । पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१॥ स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा । न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ ६२॥ तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः । तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३॥ यथा यत्रैव लहरी वारिण्येति पुनः पुनः । तत्रैवेति तथा तद्वदनन्या खे परे जगत् ॥ ६४॥ विधयः प्रतिषेधाश्च सर्व एव सदैव च । विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ ६५॥ तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते । सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६६॥ भ्रान्तस्य भ्रमणं भूमेर्न भूभ्रान्तैव वा गणैः । न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७॥ शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः । अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ ६८॥ न जीवन्नमृतं चित्तं रोधमायाति संसृतेः । अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ ६९॥ सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः । इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ ७०॥ चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः । पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१॥ कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः । किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ ७२॥ अबुद्धमुत्तरग्रंथात्पूर्वं पूर्वं हि बुध्यते । ग्रंथं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३॥ उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये । अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४॥ तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् । भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५॥ आरुषेयमिदमिति प्रमादाच्चेन्न रोचते । तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥ ७६॥ अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् । बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८॥ अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि । स्वप्ननिजमरणबांधवरोदनमिव सदिव कचितमपि ॥ ७९॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थगीतासु अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५॥ -३-
॥ अथ पंचमोऽध्यायः ॥ ॥ सत्यवर्णनम् ॥ श्रीराम उवाच । अकारणकमेवेदं जगद्ब्रह्म परात्पदात् । यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ॥ १॥ तदकारणतः सिद्धेः संभवेऽन्यदकारणम् । कथं न जायते वस्तु क्वचित्किंचित्कदाचन ॥ २॥ वसिष्ठ उवाच । यद्यथा कल्पितं येन स सम्पश्यति तत्तथा । कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ ३॥ यथेदं कल्पितं दृश्यं मनसा येन तत्तथा । वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ ४॥ कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः । कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ ५॥ अकारणपदार्थत्वं सकारणपदार्थता । ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ ६॥ यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन । तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ ७॥ यत्र सर्वमनाद्यन्तं नानानानात्म भासते । ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ ८॥ नेह प्रवर्तते किंचिन्न च नाम निवर्तते । स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ ९॥ किं कस्य कारणं केन किमर्थं भवतु क्व वा । किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ १०॥ नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता । विद्यते न महाशून्ये न नेति न न नेति च ॥ ११॥ इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा । सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ १२॥ श्रीराम उवाच । अतज्ञविषये ब्रह्मन्कार्ये कारणसंभवे । किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ १३॥ वसिष्ठ उवाच । अतज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति । असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ १४॥ एकबोधमयाः शान्तविज्ञानघनरूपिणः । तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ १५॥ अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदंगता । गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥ १६॥ तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते । प्रयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ १७॥ सन्त्यकारणका एव सन्ति कारणजास्तथा । भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ १८॥ सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् । सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९॥ हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते । यदत्र किंचिदुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २०॥ अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते । स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१॥ स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् । चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ २२॥ स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः । परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३॥ शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् । कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥ २४॥ अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् । स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५॥ किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् । किं च गंधर्वनगरे पुरे भित्तिषु कारणम् ॥ २६॥ धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् । देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७॥ भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः । किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८॥ स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि । यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पता ॥ २९॥ तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् । अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३०॥ यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः । न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१॥ सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् । स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२॥ अन्या न काचित्कलना दृश्यते सोपपत्तिका । अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३॥ ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा । तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४॥ स्पन्दावर्तविवर्तादि निर्मले पवने यथा । तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५॥ यथानन्तत्वसौषिर्यशून्यत्वादि महांबरे । स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ ३६॥ एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् । भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७॥ सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने । सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८॥ स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा । सर्गात्सर्गान्तराण्यास्ते स्वसत्तायामजस्तथा ॥ ३९॥ पृथ्वादिरहितोऽप्येष ब्रह्माकाशो निरामयः । अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४०॥ स्थिता यथास्यां पश्यन्तां शब्दा घटपटादयः । जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१॥ पश्यन्तामेव पश्यन्ती यथा भाति तथैव च । यथा शब्दास्तथा सर्गाश्चितैव चितिचिन्मयः ॥ ४२॥ किं शास्त्रकं तत्र कथाविचारै- र्निर्वासनं जीवितमेव मोक्षः । सर्गे त्वसत्येवप्रकारणत्वा- त्सत्येव नास्त्येव न नाम काचित् ॥ ४३॥ एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका । नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७॥ -५-
॥ अथ षष्ठः सर्गः ॥ ॥ ऐन्दवोपाख्यानम् ॥ श्रीराम उवाच । पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये । यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ १॥ तानिहाप्रतिघानाढुर्नान्योन्यं वेल्लयन्ति ये । तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ २॥ इह सप्रतिघानं तु दृष्टमन्योन्यवेल्लनम् । नत्वप्रतिघरूपाणां केषांचिदपि किंचन ॥ ३॥ तत्र संवेदनं नाम यदिदं चंद्रमण्डले । इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ ४॥ अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् । वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ ५॥ कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः । प्रवेशनिर्गमभयं कथं वा वद मे प्रभो ॥ ६॥ कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् । इमं देहं चालयति भारं भारहरो यथा ॥ ७॥ यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् । कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ ८॥ वसिष्ठ उवाच । विकासमथ संकोचमत्र नाली हृदि स्थिता । यदा याति तदा प्राणश्च्छेदैरायाति याति च ॥ ९॥ बाह्योपस्करभस्रायां यथाकाशास्पदात्मकः । वायुर्यात्यपि चायाति तथात्र स्पंदनं हृदि ॥ १०॥ श्रीराम उवाच । बहिर्भस्रामयस्कारः संकोचनविकासनैः । योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ ११॥ शतं कथं भवेदेकं कथमेकं शतं भवेत् । कथं सचेतना एते काष्ठलोष्टूपलादयः॥ १२॥ कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् । वस्तु जंगममेवेह स्पन्दिमात्रेव किं वद ॥ १३॥ वसिष्ठ उवाच । अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् । बहिर्भस्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ १४॥ श्रीराम उवाच । वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने । कथमप्रतिघा संविच्चालयेदिति मे वद ॥ १५॥ संविदप्रतिघाकारा यदि सप्रतिघात्मकम् । चालयेदचलिप्यत्तददूरमम्भो यदिच्छया ॥ १६॥ सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः । वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ १७॥ सप्रतिघाप्रतिघयोः शेषो नास्ति बहिर्यथा । तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ १८॥ अन्तःस्वयं योगिना वा यथैतदनुभूयते । अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ १९॥ वसिष्ठ उवाच । सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः । सर्वैकतानुभूत्यर्थं शृणु श्रवणभूषणम् ॥ २०॥ नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् । सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ २१॥ शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् । पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ॥ २२॥ आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् । भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ २३॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । महता कारणौघेन बोधमप्रतिघं विदुः ॥ २४॥ अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा । सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ २५॥ तत्रैवमैन्दवाख्यानं शृणु श्रवणभूषणम् । मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ॥ २६॥ तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु । यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ २७ । कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः । तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ २८॥ दश तस्याभवन्पुत्रा जगतो दिक्तटा इव । महाशया महात्मानो महतामास्पदां सतां ॥ २९॥ स तेषां कालवशतः पितान्तर्धिमुपाययौ । दशानां भगवान्रुद्र एकादश इव क्षये ॥ ३०॥ तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः । अनुरक्ता दिनस्येव संध्या ताराविलोचना ॥ ३१॥ तयोस्ते तनया दुःखकलिता विपिनं गताः । कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ ३२॥ धारणानां समस्तानां का स्यादुत्तमसिद्धिदा । धारणा यन्मयाः सन्तः स्यामः सर्वेश्वरा वयम् ॥ ३३॥ इति ते तत्र संचिन्त्य बद्धपद्मासना दश । इदं संचिन्तयामासुर्निर्विघ्ने कंदरोदरे ॥ ३४॥ पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः । भवाम पद्मजोपेतं जगद्रूपमविघ्नतः ॥ ३५॥ इति संचिन्त्य सब्रह्म जगद्धारणया चिरम् । निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ ३६॥ अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः । आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ ३७॥ शुष्काः कंकालतां याताः क्रव्यादैश्चर्वितांगकाः । नाशमभ्याययुस्तत्र छायाभागा इअवातपैः ॥ ३८॥ अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः । इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ ३९॥ तानि चित्तान्यदेहानि दशैकध्यानतस्ततः । सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ ४०॥ इति तेषां चिदिच्छासासम्पन्ना सकलं जगत् । अत्यंतस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ ४१॥ संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् । सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ ४२॥ किलयत्त्रिजगज्जालं तेषां किमात्मतत्तथा । संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ ४३॥ विद्यते न यथा किंचित्तरंगः सलिलादृते । संवित्तत्वादृते तद्वद्विद्यते चलनादिकम् ॥ ४४॥ ऐंदवानि यथैतानि चिन्मयानि जगन्ति खे । तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ ४५॥ यथैवैंदवसंकल्पास्ते जगत्त्वमुपागताः । तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ॥ ४६॥ तस्मादिहेमे गिरयो वसुधापादपा घनाः । महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ ४७॥ चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः । नाचित्क्वचित्संभवति तेष्वैंदवजगत्स्विव ॥ ४८॥ चिन्मात्रखकुलालेन स्वदेहचलचक्रके । स्वशरीरमृदा सर्गः कुतोऽयं क्रियतेऽनिशम् ॥ ४९॥ संकल्पनिर्मिते सर्गे दृषदश्चेन्नचेतनाः । तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ ५०॥ कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे । प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ ५१॥ तद्धामसंविदो नाम्नि मणिराशौ मणिर्यथा । सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ ५२॥ अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् । स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ ५३॥ यथाप्रवृत्तं चिद्वारि वहत्यावर्ततेव नौ । स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ ५४॥ पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् । चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ ५५॥ अजात्मानिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् । शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ ५६॥ यत्संविन्मयमद्र्यादिसंकल्पं जगति स्थितम् । तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ ५७॥ जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे । खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ॥ ५८॥ यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते । तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ ५९॥ यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता । तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ ६०॥ दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् । संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ ६१॥ नेहाकृतिर्न च भवाभवजन्मनाशाः सत्ता न चैव न च नाम तथास्त्यसत्ता । शान्तं परं कचति केवलमात्मनीत्थं ब्रह्माथवा कचनमप्यलमत्र नास्ति ॥ ६२॥ आद्यन्तवर्जितमलभ्यलताग्रमूल- निर्माणमूलपरिवेशमशेषमच्छम् । अन्तस्थनिर्गगनसर्गकपुत्रकौघं नित्यं स्थितं ननु घनं गतजन्मनाशम् ॥ ६३॥ सन्मात्रमन्तरहिताखिलहस्तजातं पर्यन्तहीनगणनाङ्गममुक्तरूपम् । आत्माम्बरात्मकमहं त्विदमेव सर्वं सुस्तम्भरूपमजमौनमलं विकल्पैः ॥ ६४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ऐन्दवो नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८॥ -६-
॥ अथ सप्तमः सर्गः ॥ ॥ ब्रह्ममयत्वप्रतिपादनम् ॥ वसिष्ठ उवाच । एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् । संभवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ १॥ तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः । यदिदं दृश्यते किंचित्तदप्रतिघमाततम् ॥ २॥ स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् । स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ ३॥ सर्वं संविन्मयं शान्तं सत्स्वप्नं इव जाग्रति । स्थितमप्रतिघाकारं क्वासौ सप्रतिघां स्थितिः ॥ ४॥ क्व देह अवयवाः क्वान्त्रवेष्टनी क्वास्थिपंजरम् । व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोषमम् ॥ ५॥ संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् । शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ ६॥ ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः । इदं सर्वं संभवति सहेतुकमहेतुकम् ॥ ७॥ न कारणं विना कार्यं भवतीत्युपपद्यते । यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ८॥ कारणेन विना कार्यं सद्वदित्युपपद्यते । यथा भावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ ९॥ यथा संभवति स्वप्ने सर्वं सर्वत्र सर्वथा । चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ १०॥ सर्वात्मनि ब्रह्मपदे नानानात्मनि स्थिता । अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ ११॥ एकः सहस्रं भवति यथा ह्येते किलैन्दवाः । प्रयाता भूतलक्षत्वं संकल्पजगतां गणैः ॥ १२॥ सहस्रमेकं भवति संविदां च तथा हि यत् । सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ १३॥ एक एक भवत्यब्धिः स्रवन्तीनां शतैरपि । एक एक भवेत्काल ऋतुसंवत्सरोत्करैः ॥ १४॥ संविदाकाश एवायं देहः स्वप्न इवोदितः । स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ १५॥ संवित्तिरेवानुभवात्सैवाननुभवात्मिका । द्रष्टृदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ १६॥ वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् । वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ १७॥ द्रष्टा दृश्यं दर्शनं च चिद्भान परमार्थखम् । शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ १८॥ जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः । स्वप्ने भयमिवाशेषं परिज्ञात प्रशाम्यति ॥ १९॥ एकस्याः संविदः स्वप्ने यथा भानमनेकधा । नानापदार्थरूपेण सर्गादौ गगने तथा ॥ २०॥ बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा । सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ २१॥ यत्सीकरस्फुरणमम्बुनिधौ शिवाख्य व्योम्नीव वृक्षनिकरस्फुरणं स सर्गः । व्योम्नेष वृक्षनिकरो व्यतिरिक्तरूपो ब्रह्माम्बुधौ न तु मनागपि सर्गबिन्दुः ॥ २२॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः सर्गः ॥ १७९॥ -७-
॥ अथ अष्टमोऽध्यायः ॥ ॥ तापसोपाख्यानम् ॥ श्रीराम उवाच । इमं मे संशयं छिन्धि भगवन्भास्करं तमः । भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ १॥ कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् । संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ २॥ विद्वान् द्विजवरः श्रीमान्विदेहजनमण्डलात् । महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ ३॥ स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् । उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ ४॥ वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् । सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ ५॥ दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे । वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ ६॥ ब्राह्मण उवाच । एवमेतन्महाभाग सुमहायत्नवानहम् । यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ ७॥ वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः । स्वर्गस्यास्वरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ ८॥ तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः । कुन्दावदादन्तत्वात्कुन्ददन्त इति श्रुतः ॥ ९॥ अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् । देवद्विजमुनीन्द्राणां संभ्रमाच्छमशान्तये ॥ १०॥ श्रीपर्वतमखण्डेऽहं कदाचित्प्राप्तवानहम् । तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ ११॥ तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः । त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ १२॥ तत्रास्ति मध्ये विटपि लघुः पेलवपल्लवः । स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ १३॥ लम्बते तस्य शाखायां पुरुषः पावनाकृतिः । भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ १४॥ मौञ्जदामनि बद्धोर्ध्वपादो नित्यमवाक्षिराः । अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ १५॥ दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् । विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ १६॥ यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः । शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ १७॥ अनन्तरमसावेको नोपचर्यमया बहून् । दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ १८॥ पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः । करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ १९॥ अथ तेनोक्तमर्थस्ते क इवानेन तापस । अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ २०॥ इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया । यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१॥ मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे । बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२॥ समग्रसुखसंभारकोशो भवति भूमिपः । इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३॥ अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः । स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४॥ इत्यर्थेन समागत्य देशमित्थमहं स्थितः । अत्र द्वादशवर्षाणि समतीतानि मानद ॥ २५॥ तदकारणमित्रत्वं गच्छेष्टं देशमाशुगः । अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६॥ इति तेनेहमुक्तः संस्तमिच्छं प्रोक्तवाञ्छृणु । आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७॥ साधो यावत्तया प्राप्तो न नामाभिमतो वरः । त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८॥ मयेत्युक्ते स पाषाण मौनवानभमच्छमी । निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९॥ तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् । षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३०॥ अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् । एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१॥ स तेन पूज्यते यावन्मनसा कर्मणा मया । उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२॥ शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस । तपः संहर संहारी गृहाणाभिमतं वरम् ॥ ३३॥ सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् । सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४॥ एवं समीहितं दत्वा स द्वितीयो दिवाकरः । गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५॥ तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः । श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६॥ सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् । तपस्त्यक्त्वा यथा प्राप्तं व्यवहारं समाचर ॥ ३७॥ एवमङ्गीकृतवतः पादौ तस्य मया ततः । मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८॥ स्वातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् । फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९॥ तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः । समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४०॥ सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः । सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ताप्सोपाख्यानं नामाशीत्यधिकशततमः सर्गः ॥ १८०॥ -८-
॥ अथ नवमोऽध्यायः ॥ ॥ गौर्याश्रमवर्णनम् ॥ कुन्ददन्त उवाच । आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती । मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ १॥ प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले । उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ २॥ अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः । द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ ३॥ नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः । तरत्तरङ्गझांकारगायनानन्दिताध्वगाः ॥ ४॥ स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः । स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ ५ । जंगलाद्रिपुरग्रामश्वभ्राभूपस्थलावनीः । समुल्लंघ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ॥ ६॥ नीतवन्तौ निशामावां कदलीकानने घने । तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ ७॥ प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् । जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ ८॥ तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् । प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ ९॥ गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते । भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ १०॥ भ्रातरोष्टौ वयमिमे जातानेकतया तया । एकसंविन्मया जाता एकसंकल्पनिश्चयाः ॥ ११॥ तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः । स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ १२॥ तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् । षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ १३॥ पुष्पखण्ड तरुच्छाया सुप्तमुग्धमृगार्भकः । पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ १४॥ तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये । गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ १५॥ विदुषामपि धीराणामपि तत्त्वविदामपि । त्वरते हि मनः पुंसामलंबुद्धिविलोकने ॥ १६॥ तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् । यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ॥ १७॥ न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् । न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ १८॥ केवलं शून्यमेवाति तदरण्यमनन्तकम् । तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ १९॥ हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ । आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ २०॥ स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः । तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ २१॥ आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले । उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ २२॥ ततश्चिरेण कालेन मयोद्वेगेन चापलात् । उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ २३॥ शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः । सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ २४॥ कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः । केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ २५॥ तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् । न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ २६॥ इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् । ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ २७॥ मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः । श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ २८॥ यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् । मदास्पदमरण्यान्याधम्मिल्लमिव पुष्पितम् ॥ २९॥ केनापि कारणेनास्मिन्सती वागीश्वरी सती । अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ ३०॥ तदा तेनेहविस्तीर्णमभवद्घनकाननम् । गौरिवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ ३१॥ भृङ्गाङ्गनाजनमनोहरहारिगीत- लीलाविलोलकलकण्ठविहंगमङ्ग । पुष्पाम्बुवाहशतचन्द्रनभोवितानं राजीवरेणुकणकीर्णदिगन्तरालम् ॥ ३२॥ मन्दारकुन्दमकरन्दसुगन्धिताशं संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् । संतानकस्तबकहासविकासकान्त- मामोदिमारुतसमस्तलताङ्गनौघम् ॥ ३३॥ पुष्काकरस्य नगरं नवगीतभृङ्गं भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् । चन्द्रांशुजालपरिकोमलपुष्पदोला- दोलायमानसुरसिद्धवधूसमूहम् ॥ ३४॥ हारीतहंसशुककोकिलकोककाक- चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् । मेरुण्डकुक्कुटकपिञ्जलहेमचूड- राढामयूरबककल्पितकेलिरम्यम् ॥ ३५॥ गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट- पादाब्जकर्णिककदम्बसरस्वतीकम् । वातायनं कनककोमलचम्पकौघ- ताराम्बराम्बुधरपूरगृहीतगन्धम् ॥ ३६॥ मन्दानिलस्खलितपल्लवबालवल्ली- विन्यासगुप्तदिवसाधिपरश्मिशीतम् । पीतं कदम्बकरवीरकनालिकेर- तालीतमालकुलपुष्पपरागपूरैः ॥ ३७॥ कह्वारकीर्णकुमुदोत्पलपद्मखण्ड- वल्गच्चकोरबककोककदम्बहंसम् । तालीसगुग्गुलकचन्दनपारिभद्र- भद्रद्रुमोदविहारिविचित्रशक्ति ॥ ३८॥ तस्मिन्वने चिरमुवास हरार्धदेहा केनापि कारणवशेन चिराय गौरी । भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब- वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ॥ ३९॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्याने गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ॥ १८१॥ -९-
॥ अथ दशमोऽध्यायः ॥ ॥ सप्तदीपेश्वर ॥ वृद्धतापस उवाच । तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश । स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ १॥ तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः । उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ २॥ ततो गौर्या प्रयातायां तद्वनं तादृशं महत् । सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ ३॥ मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः । कदाचित्त्यक्तराज्य श्रीर्मुनीनामाश्रमान्भ्रमन् ॥ ४॥ इमं देशमनुप्राप्त इह चाश्रमवासिभिः । पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ ५॥ केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह । भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ ६॥ तपस्विनोऽष्टाविह ते तथा नाम तदावसन् । यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ ७॥ कालेनान्तरमसावेकः श्रीपर्वतं गतः । स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ ८॥ वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् । इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥ ९॥ सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् । यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ १०॥ अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् । तपस्तुष्टाभिरिष्टभिर्देवताभिर्वरैः ॥ ११॥ तपतस्ते ततो याता भ्रातरः सदनं निजम् । भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ १२॥ तद्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा । इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ १३॥ देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरौ स्थितौ । सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ १४॥ तमिष्टदेवतासार्थमुररीकृत्य सादरम् । तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ १५॥ ते ततः सदनं यातास्तेषामाश्रमवासिनः । सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ १६॥ अहं केवलमेकान्ते ध्यानैकगतमानसः । वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ १७॥ अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि । इअदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ १८॥ इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् । वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ १९॥ अथैनं देशमायातौ भवन्तौ दीर्घतापसौ । एतत्त्वत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ २०॥ तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ । तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः ॥ २१॥ अष्टानां भवतां भव्यं सदने स्वे भविष्यति । महात्मनां ब्रह्मलोके वसूनामिव संगमः ॥ २२॥ इत्युक्ते तेन स मया पृष्टः परमतापसः । संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ २३॥ एकैव सप्तद्वीपास्ति भगवन्भूरियं किल । तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ २४॥ कदम्बतापस उवाच । असमंजसमेतावदेव नो यावदुच्यते । इदमन्यदसंबद्धतरं संश्रूयतां मम ॥ २५॥ एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये । सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ २६॥ अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु । सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥ २७॥ अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् । दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ २८॥ तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् । बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ २९॥ दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः । शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ ३०॥ अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे । देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ ३१॥ देव्युवाच । भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः । चिरं क्लिष्टासि तपसा निदाघेनैव मंजरी ॥ ३२॥ इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका । स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ ३३॥ आनन्दमन्थरोवाच वचनं मृदुभाषिणी । आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ ३४॥ चिरंटिकोवाच । देवि देवाधिदेवेन यथ ते प्रेमशंभुना । भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ ३५॥ देव्युवाच । आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते । तपोदानैरतोऽन्यत्वं वरं वरय सुव्रते ॥ ३६॥ चिरंटिकोवाच । अलभ्यमेतन्मे देवि तन्मद्भर्तृर्गृहान्तरात् । मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ ३७॥ देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे । तदेतदस्त्विति वरू दीयतामम्बिके मम ॥ ३८॥ देव्युवाच । एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते । भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९॥ इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे । मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४०॥ देव्यां गतायां भर्तारस्तासां कालेन केनचित् । ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१॥ अद्यायमपि संयातु भार्याया निकटं पतिः । भ्रातृणां बान्धवानां च भवत्वन्योन्यसंगमः ॥ ४२॥ इदमन्यदथैतेषामसमंजसमाकुलम् । शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३॥ तप्यतां तप एतेषां पितरौ तौ वधू युतौ । तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४॥ शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया । गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५॥ तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् । पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६॥ धूलीलवमनादृत्य तं जरत्पान्थशंकया । यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७॥ सवधूक महामूर्ख तीर्थार्थी दारसंयुतः । मां दुर्वाससमुल्लंघ्य गच्छस्यविहितानतिः ॥ ४८॥ वधूनां ते सुतानां च गच्छतस्तपसार्जिताः । विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९॥ इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः । सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ ५०॥ अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ । कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१॥ अतो वदाम्यहं तेषां नैकं नामासमंजसम् । असमंजसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२॥ चिद्व्योमसंकल्पमहापुएरेस्मि- न्नित्थं विचित्राण्यसमंजसानि । निःशून्यरूपेऽपि हि संभवन्ति दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरो सप्तद्वीपेश्वर नाम व्यशीत्यधिकशततमः सर्गः ॥ १८२॥ -१०-
॥ अथ एकादशोऽध्यायः ॥ ॥द्वीपसप्तकाष्टकवर्णनम् ॥ कुन्ददन्त उवाच । ततः पृष्टो मया तत्र स गौर्याश्रमतापसः । तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ १॥ एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते । सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ २॥ यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः । स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ ३॥ यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् । कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ ४॥ मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः । आधार एवाधेयत्वं करोति कथमात्मनि ॥ ५॥ गौर्याश्रमतापस उवाच । सम्पश्यसि किमेतेषां भो साधो शृण्वनन्तरम् । अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ ६॥ इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ । स्वबन्धुसुखसंस्थानौ कंचित्कालं भविष्यतः ॥ ७॥ ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे । बान्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ ८॥ तेषां ते संविदाकाशः पृथक्पृथगवस्थिताः । मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ ९॥ एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः । एकत्र संघटिष्यन्ति वरशापात्मकानि खे ॥ १०॥ कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् । वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ ११॥ वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः । ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ १२॥ शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः । भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥ १३॥ वरा वदिष्यन्ति सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १४॥ शापा वदिष्यन्ति गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १५॥ वरा वदिष्यन्ति कृता भवन्तो मुनिना वयं दिनकृता कृताः । मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ १६॥ प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् । विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ १७॥ देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः । इत्युक्त्वा प्रोद्यता तेषां चक्रुःश्रुङ्गाण्यगा इव ॥ १८॥ अशापेषूद्यतशृङ्गेषु वरा इदमरातिषु । विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ १९॥ हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् । यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ २०॥ पितामहपुरीं गत्वा कलहान्ते विनिर्णयः । कर्तव्योऽस्माभिरेततत्किमादौ नेह विधीयते ॥ २१॥ शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् । को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ २२॥ ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः पुरम् । महानुभावा हि गतिः सदा संदेहनशने ॥ २३॥ प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् । ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ २४॥ ब्रह्मोवाच । वरशापाधिपा भोभो येऽन्तः सारा जयन्ति ते । केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ २५॥ इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् । वराणां हृदयं शापाः शापानां हृदयं वराः ॥ २६॥ ते परस्परमन्विष्य स्वयं हृदयसारताम् । ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ २७॥ शापा वक्ष्यन्ति जिताः प्रजानाथ वयं नान्तःसारा वयं यतः । अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ २८॥ वयं किलेमे भगवन्वराः शापाश्च सर्वदा । ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ २९॥ वरदस्य हि या संविद्वरो दत्त इति स्थिता । सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ ३०॥ विज्ञप्तिमात्रवचनं देहं सैव फलं ततः । पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ ३१॥ वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता । यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ ३२॥ वरप्रदानं वरदैर्वरदानां वरार्थिभिः । यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ ३३॥ यदेव सुचिरं संविदभ्यस्यति तदेव सा । सारमेवाशु भवति भवत्याशु च तन्मयी ॥ ३४॥ शुद्धानामतिशुद्धैव संविज्जयति संविदाम् । अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ ३५॥ क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते । नार्थे न्यायान्तरं किंचित्कर्तुमुत्सहते मदम् ॥ ३६॥ समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् । वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ ३७॥ समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् । स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ ३८॥ शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो । पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ ३९॥ इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ । प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ ४०॥ अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः । स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ ४१॥ शापस्थानका वदिष्यन्ति सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः । देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ ४२॥ सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु । कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ ४३॥ तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर । यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ ४४॥ ब्रह्मोवाच । सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे । कामः सम्पन्न एवेह भवतां भवतामपि ॥ ४५॥ व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् । चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ ४६॥ समनन्तरमेवैते देहपातात्स्वसद्मसु । सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ ४७॥ सर्वे वरा वदिष्यन्ति कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः । एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ ४८॥ कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके । पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतंगजाः ॥ ४९॥ ब्रह्मोवाच । युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् । स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ ५०॥ भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे । स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ ५१॥ मृतेरनन्तरं भाति यथास्थितमिदं जगत् । शून्यात्मैव घनाकारं तस्मिन्नैव क्षणे चितः ॥ ५२॥ अणावपि जगन्माति यत्र तत्र गृहोदरे । सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३॥ यद्भातीदं च चित्तत्वं जगत्वं जगत्क्वचित् । चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४॥ इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः । तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥ ५५॥ प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः । सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६॥ यावत्ते तत्र सम्पन्ना सप्तद्वीपाधिनायकाः । अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥। ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः । अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८॥ तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः । उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९॥ शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया । विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६०॥ कुशद्वीपराजधान्यां निराधिः सकलप्रजाः । कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१॥ शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे । जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२॥ क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते । प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३॥ उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा । योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४॥ गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् । समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५॥ पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः । दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६॥ प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् । कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७॥ त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः । तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८॥ यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् । सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ ६९॥ इत्येते प्रविकसितोदितक्रियार्थाः प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः । अन्तर्यत्स्फुरति विदस्तदेव बाह्ये नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७०॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत द्वीपसप्तकाष्टकवर्णनं नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १८३॥ -११-
॥ अथ द्वादशोऽध्यायः ॥ ॥ कुन्ददन्तोपदेशः ॥ कुन्ददन्त उवाच । इत्युक्तवानसौ पृष्टः कदम्बतलतापसः । सप्तद्वीपा भुवोऽष्टौ ताः कथं भ्राता गृहेष्विति ॥ १॥ कदम्बतापस उवाच । चिद्धातुरीदृगेवायं यदेश व्योमरूप्यपि । सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ २॥ आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् । परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ ३॥ कुन्ददन्त उवाच । एकस्मिन्विमले शान्ते शिवे परमकारणे । कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ ४॥ कदम्बतापस उवाच । सर्वं शान्तं चिदाकाशं नानास्तीह न किंचन । दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ ५॥ असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् । चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ ६॥ सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः । यथा स्वप्नेषु चिद्भावःस्वभोऽर्थगतस्तथा ॥ ७॥ न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते । सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ ८॥ न च नाम परं रूपं कचनाकचनात्मकम् । द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ ९॥ एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् । गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ १०॥ यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते । तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ ११॥ असत्यपि यथा वह्नावुष्णसंविद्धि भासते । संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ १२॥ असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः । तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ १३॥ आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च । चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ १४॥ पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः । सर्व सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ १५॥ परमार्थाम्बराम्भोधावापः सर्ग परंपरा । परमार्थ महाकाशे शून्यता सर्गसंविदः ॥ १६॥ परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् । बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ १७॥ परमार्थो जगच्चेदकमित्येव निश्चयः । अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ १८॥ संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः । तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ १९॥ यतो वाचो निवर्तन्ते न निवर्तन्त एव वा । विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ २०॥ अमौनमौनं जीवात्म यत्पाषाणवदासनम् । यत्सदेवासदाभासां तद्ब्रह्माभिधमुच्यते ॥ २१॥ सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये । का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ २२॥ एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः । यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ २३॥ एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः । बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ २४॥ द्रव्ये द्रव्यान्तरश्लिष्टं यत्कार्यान्तरमाक्षिपेत् । तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ २५॥ सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा । यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ २६ । चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः । निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ २७॥ अविद्यमानमेवेदं दृश्यतेऽथानुभूयते । जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ २८॥ विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः । हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ २९॥ स्वभाववाताधूतस्य जगज्जालचमत्कृतेः । हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥ ३०॥ यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः । तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥ ३१॥ यावत्संकल्पितं तावद्यथा संकल्पितं तथा । यथा संकल्पनगरं कचतीदं जगत्तथा ॥ ३२॥ संकल्पनगरे यावत्संकल्पसकला स्थितिः । भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ ३३॥ प्रवहत्येव नियतिर्नियतार्थप्रदायिनी । स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ ३४॥ जायते जङ्गमं जीवात्स्थावरं स्थावरादपि । नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ ३५॥ वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च । वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ ३६॥ ज्योतिर्मयं निवृत्तं तु धारासाराम्बरीकृतम् । युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ ३७॥ भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते । भावाभावोग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ ३८॥ कुन्ददन्त उवाच । प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः । भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥ ३९॥ तापस उवाच । अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा । प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ ४०॥ चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् । न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ ४१॥ चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते । शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥ ४२॥ हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च । प्रकृतेनैव मार्गेण ज्ञश्चक्रैरिव गम्यते ॥ ४३॥ निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ । चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ ४४॥ संविदाभासमात्रं यज्जगदित्यभिशब्दितम् । तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ ४५॥ यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् । सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ ४६॥ यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति । यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ ४७॥ उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं भृङ्गाविवाभिमतमाशु विधीयतां स्वम् । तिष्ठामि दुःखमलमस्तसमाधिसंस्थं भूयः समाधिमहमङ्ग चिरं विशामि ॥ ४८॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तोपदेशो नाम चतुःशीत्यधिकशततमः सर्गः ॥ १८४॥ -१२-
॥ अथ त्रयोदशोऽध्यायः ॥ ॥ कुन्ददन्तप्रबोधः ॥ कुन्ददन्त उवाच । जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः । आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ १॥ आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः । वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ २॥ आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ । दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ ३॥ अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः । स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ ४॥ क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव । मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ ५॥ ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः । अहं दुःखप्रीतात्मा परं वैधुर्यमागतः ॥ ६॥ ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् । गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ ७॥ तत्र मासत्रयेणासौ समाधिविरतोऽभवत् । प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ ८॥ कदम्बतापस उवाच । अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् । समाधिमेव प्रविश्याम्यहमाशु कृतत्वरः ॥ ९॥ परमार्थोपदेशस्ते नाभ्यासेन विनानघ । लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥ १०॥ अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः । नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ ११॥ सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल । वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ १२॥ मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज । विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ १३॥ इत्युक्त्वा स समाधानरसायनमहार्णवम् । विंवशाहमिमं देशं त्वत्सकाशमुपागतः ॥ १४॥ एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् । यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ १५॥ श्रीराम उवाच । सकुन्ददन्त इत्यादिकथाकथनकोविदः । स्थितस्ततः प्रभृत्येव मत्समीपगतः सदा ॥ १६॥ स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः । श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ १७॥ स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः । अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ १८॥ श्रीवाल्मीकिरुवाच । इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः । स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ १९॥ श्रीवसिष्ठ उवाच । कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ । बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ २०॥ कुन्ददन्त उवाच । सर्वसंशयविच्छेदि चेत एव जयाय मे । सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ २१॥ ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् । प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ २२॥ बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् । अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ २३॥ सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः । सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥ २४॥ संभवन्ति जगत्यन्तः सिद्धार्थकणकोटरे । न संभवन्ति च यथा ज्ञानमेतदशेषतः ॥ २५॥ गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा । गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ २६॥ यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च । तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ २७॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तप्रबोधो सप्तद्वीपेश्वर नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५॥ -१३-
॥ अथ चतुर्दशोऽध्यायः ॥ ॥ सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशः ॥ श्रीवाल्मीकिरुवाच । कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः । उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ १॥ श्रीवसिष्ठ उवाच । बत विज्ञानविश्रान्तिरस्य जाता महात्मनः । करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ २॥ किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् । भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ ३॥ यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः । तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ ४॥ शिवं शान्तमजं मौनममौनमजरं ततम् । सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ ५॥ यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः । सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ ६॥ परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तः स्थितो यतः । परमाणुरेव ब्रह्माण्डमन्तः स्थितजगद्यतः ॥ ७॥ तस्माच्चिदाकाशमनादिमध्य- मखण्डितं सौम्यमिदं समस्तम् । निर्वाणमस्तं गतजातिबन्धो यथास्थितं तिष्ठ निरामयात्मा ॥ ८॥ स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् । स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ॥ ९॥ यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि । स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा ॥ १०॥ ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् । एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ ११॥ दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता । एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ १२॥ यादृक्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः । संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्म्यः ॥ १३॥ संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोऽभवत् । जडीभूता तथैवास्ते संवित्स्थावरनामिका ॥ १४॥ स्थावरत्वाज्जडाच्चित्त्वं जंगमात्म प्रयाति चित् । जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ १५॥ आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले । खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ १६॥ चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा । चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ १७॥ चिता वेदन वेत्तारं स्थावरं क्रियते वपुः । चिता वेदन वेत्तारं जङ्गमं क्रियते वपुः ॥ १८॥ यथा पुंसो नखाः पादवेकमेव शरीरकम् । तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ १९॥ आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् । चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ २०॥ तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् । न प्रथामाअगतं किंचिन्नासीदप्रथितं हितम् ॥ २१॥ अयमादिरयं चान्तः सर्गस्येत्यवभासते । चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ २२॥ स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः । प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ २३॥ प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते । एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ २४॥ कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते । नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ २५॥ विभागहीनयाप्येष भागश्चिद्धननिद्रया । सुषुप्तान्मुच्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ २६॥ प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् । भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७॥ चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् । तदेव मुच्यते भूतं जीवो देवससुरादिदृक् ॥ २८॥ एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् । यदा तदा मोक्ष इति प्रोच्यते मोक्षकांक्षिभिः ॥ २९॥ श्रीराम उवाच । चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् । कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३०॥ श्रीवसिष्ठ उवाच । विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् । नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१॥ प्रमाणं तस्य चानन्तं विद्धि यद्यत्र रेणुताम् । आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२॥ यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् । एतच्चितं भूतमेतदपर्यन्तामलाकृति ॥ ३३॥ एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः । यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४॥ चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् । खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५॥ निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च । सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६॥ अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः । शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७॥ जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः । सदेव च पुमांस्तस्मात्पुंसामन्तः स्थितं जगत् ॥ ३८॥ यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव । तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९॥ चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता । व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४०॥ यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् । ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१॥ यथा द्रवत्वमम्भोधावापो जठरकोशगाः । स्फुरन्त्येवंविदाऽनन्याः पदार्थौघास्तथापरे ॥ ४२॥ यथा स्थितजगच्छालभञ्जिकाकाशरूपधृक् । चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३॥ यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् । स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४॥ समता सत्यता सत्ता चैकता निर्विकारिता । आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५॥ स्वप्नसंकल्पसंसारवरशापदृशामिह । सरोब्धिसरिदम्बूनामिअवान्यत्वं न वाथवा ॥ ४६॥ श्रीराम उवाच । वरशापार्थसंवित्तौ कार्यकारणता कथम् । उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७॥ श्रीवसिष्ठ उवाच । स्ववदातचिदाकाशकचनं जगदुच्यते । स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८॥ ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः । संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९॥ कालेनाभ्यासयोगेन विचारेण समेन च । जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५०॥ सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः । बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१॥ निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी । संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२॥ सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् । स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३॥ अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् । यथासंकल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४॥ आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा । यद्यथा संकल्पयति तथा भवति तस्य तत् ॥ ५५॥ संकल्पनगरे बालः शिलाप्रोड्डयनं यथा । सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६॥ स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये । वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७॥ स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् । कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥ ५८॥ अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः । ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९॥ या यथा कलना रूढा तावत्साद्यापि संस्थिता । न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६०॥ ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे । यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१॥ श्रीराम उवाच । अनिरावरणाज्ञानात्केवलं धर्मचारिणः । शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२॥ वसिष्ठ उवाच । संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि । तत्तदेवानुभवति यस्मात्तत्तास्ति नेतरत् ॥ ६३॥ ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः । स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४॥ संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः । तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५॥ निराधारं निरालम्बं व्योमात्म व्योम्नि भासते । दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६॥ संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः । वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७॥ तपस्विनोऽथ वादैश्च यद्ध्युरविलम्बितम् । यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८॥ इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता । द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९॥ चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति । तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७०॥ यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् । स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१॥ शिलानृतं यथा सत्यं संकल्पनगरे तथा । जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२॥ चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् । तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३॥ अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् । स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४॥ सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् । द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५॥ एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः । तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६॥ वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् । यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ ७७॥ ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् । भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८॥ यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः । विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९॥ निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः । आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ ८०॥ तांभि स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः । कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१॥ तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् । अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२॥ अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयतेः । उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३॥ यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ । तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४॥ सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा । एकस्यामेव निद्रायां सर्गासर्गो तथा परे ॥ ८५॥ यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् । परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६॥ अङ्गष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति । योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७॥ व्योमोपलजलादीनां यथा देहानुभूतयः । तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८॥ काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः । तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ॥ ८९॥ आलोकरूपमननानुभवैषणेच्छा मुक्तात्मनि स्फुरति वारिघने स्वभावात् । आवर्तवीचिवलयादि यथा तथायं शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ ९० । इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः ॥ १८६॥ -१४- Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com
% Text title            : Brahma Gita (in Yoga Vasishtha)
% File name             : brahmagItAyogavAsiShTha.itx
% itxtitle              : brahmagItA (yogavAsiShThAntargatA)
% engtitle              : Brahma Gita of Yoga Vasishtha
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : unknown
% Language              : Sanskrit
% Subject               : hinduism/advaita/philosophy
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Indexextra            : (Yogavasishtha, Nirvana Prakarana, chapter 128  173-186)
% Latest update         : Nov. 13, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP