॥ ब्रह्मगीता स्कन्दपुराणान्तर्गता ॥

श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १-६० वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ १-६० साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्ययः ॥ १-११८ तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः ॥ १-१५४ आदेशकथनं नाम पञ्चमोऽध्यायः ॥ १-१९६ दहरोपासनविवरणं नाम षष्ठोऽध्यायः ॥ १-५८ वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ १-९५ कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः १-५५ बृहादारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः ॥ १-५७ बृहादारण्यकव्याख्याकथनं नाम दशमोऽध्यायः ॥ १-५६ कठवल्लीश्वेताश्वेतरव्याख्यायामेकादशोऽध्यायः ॥ १-७२ शिवस्याहम्प्रत्यायाश्रत्वं नाम द्वादशोऽध्यायः ॥ १-७७
॥ अथ प्रारभ्यते स्कन्दपुराणान्तर्गतसूतसंहितायां ब्रह्मगीता ॥ ॥ प्रथमोऽध्यायः ॥ । ब्रह्मगीतिः । मुनय ऊचुः - भवता सर्वमाख्यातं सङ्क्षेपाद्विस्तरादपि । इदानीं श्रोतुमिच्छामो ब्रह्मगीतामनुत्तमाम् ॥ १॥ सर्वविज्ञानरत्नानामाकरस्य महात्मनः । कृष्णद्वैपायनस्यैव भवाञ्छिष्यः सुशिक्षितः ॥ २॥ त्वयैवाविदितं किञ्चिन्नास्ति सत्यं प्रभाषितम् । यदि प्रसन्नो भगवांस्तन्नो वक्तुमिहार्हसि ॥ ३॥ सूत उवाच - वक्ष्ये तामादरेणैव ब्रह्मगीतामनुत्तमाम् । श्रद्धया सहिता यूयं शृणुत ब्रह्मवित्तमाः ॥ ४॥ पुरा कल्पान्तरे देवाः सर्वे सम्भूय सादरम् । विचार्य सुचिरं कालं वेदानामर्थमुत्तमम् ॥ ५॥ संशयाविष्टचित्तास्तु तपस्तप्त्वा महत्तरम् । अभिजग्मुर्विधातारं प्रष्टुं देवा मुनीश्वराः ॥ ६॥ यत्रास्ते जगतां नाथः सर्वज्ञः सर्ववित्प्रभुः । महाकारुणिकः श्रीमान्ब्रह्मा भक्तहिते रतः ॥ ७॥ मेरुशृङ्गे वरे रम्ये सर्वयोगिसमावृते । यक्षराक्षसगन्धर्वसिद्धाद्यैश्च सुसेविते ॥ ८॥ नानारत्नसमाकीर्णे नानाधातुविचित्रिते । शकुन्तसङ्घसङ्घृष्टे नानातीर्थसमावृते ॥ ९॥ गुहाकोटिसमायुक्ते गिरिप्रस्रवणैर्युते । मधुरादिरसैः षड्भिः समृद्धेऽतीव शोभने ॥ १०॥ तत्र ब्रह्मवनं नाम शतयोजनमायतम् । शतयोजनविस्तीर्णं दीर्घिकाभिः सुसंयुतम् ॥ ११॥ नानापशुसमायुक्तं नानापक्षिसमाकुलम् । स्वादुपानीयसंयुक्तं फलमूलैश्च संयुतम् ॥ १२॥ भ्रमद्भ्रमरसञ्छन्नसुगन्धकुसुमद्रुमम् । मन्दानिलसमायुक्तं मन्दातपसमायुतम् ॥ १३॥ निशाकरकरैर्युक्तं वनमस्ति महत्तरम् । तत्र जाम्बूनदमयं तरुणादित्यसन्निभम् ॥ १४॥ नवप्राकारसंयुक्तमशीतिद्वारसंयुतम् । महाबलसमोपेतैर्द्वारपालैश्च कोटिभिः ॥ १५॥ खड्गतोमरचापादिशस्त्रयुक्तैश्च रक्षितम् । पुष्पप्रकरसङ्कीर्णं पूर्णकुम्भैश्च संयुतम् ॥ १६॥ ज्वलद्दीपैः समायुक्तं पुष्पमालाविराजितम् । विचित्रचित्रसंयुक्तभित्तिकोटिसुशोभितम् ॥ १७॥ मुक्तादामसमायुक्तं वितानैर्मौक्तिकैर्युतम् । अभ्रगामिध्वजैर्युक्तं प्रांशुतोरणसंयुतम् ॥ १८॥ नृत्यगीतादिभिर्युक्तमप्सरोगणसेवितम् । नानाविधमहावाद्यैर्नानातालैश्च संयुतम् ॥ १९॥ मृदुमध्योग्रशब्दाढ्यं नानाकाहलसंयुतम् । वेदघोषसमायुक्तं स्मृतिघोषसमन्वितम् ॥ २०॥ पुराणघोषसंयुक्तमितिहासरवान्वितम् । सर्वविद्यारवैर्युक्तं सर्वज्ञैश्च समावृतम् ॥ २१॥ अगाधजलपर्यन्तमवरोधसमन्वितम् । रथकोटिसमायुक्तं कोटिकोटिगजावृतम् ॥ २२॥ कोटिकोटिसहस्रैश्च महाश्वैश्च विराजितम् । अस्त्रशस्त्रादिसंयुक्तैरसङ्ख्यातबलान्वितैः ॥ २३॥ असङ्ख्यातैर्भटैर्नित्यं रक्षितं पुरमुत्तमम् । अस्ति पुण्यवतां प्राप्यमप्राप्यं पापकर्मणाम् ॥ २४॥ तस्मिन्नन्तःपुरे शुद्धे सहस्रस्थूणसंयुते । सर्वलक्षणसंयुक्ते सर्वालङ्कारसंयुते ॥ २५॥ मृदुतोरणसंयुक्ते कल्पवृक्षसमन्विते । कण्ठीरवमुखैर्युक्ते षट्पदस्वनसंयुते ॥ २६॥ मृदुतल्पसमोपेते रत्ननिर्मितमण्डपे । देव्या चापि सरस्वत्या वर्णविग्रहया सह ॥ २७॥ सर्वशब्दार्थभूतस्तु ब्रह्मा निवसति प्रभुः । तत्र देवा द्विजा गत्वा ददृशुर्लोकनायकम् ॥ २८॥ नानारत्नसमोपेतं विचित्रमुकुटोज्ज्वलम् । रत्नकुण्डलसंयुक्तं प्रसन्नवदनं शुभम् ॥ २९॥ नानारत्नसमोपेतहाराभरणभूषितम् । महार्हमणिसंयुक्तकेयूरकरसंयुतम् ॥ ३०॥ विचित्रकटकोपेतमङ्गुलीयकशोभितम् । उत्तरीयकसंयुक्तं शुक्लयज्ञोपवीतिनम् ॥ ३१॥ नानारत्नसमोपेतं तुन्दबन्धविराजितम् । चन्दनागरुकर्पूरक्षोददिग्धतनूरुहम् ॥ ३२॥ सुगन्धकुसुमोत्पन्ननानामालाविभूषितम् । शुक्लवस्त्रपरीधानं तप्तजाम्बूनदप्रभम् ॥ ३३॥ स्वभासा सकलं नित्यं भासयन्तं परात्परम् । सुरासुरमुनीन्द्रैश्च वन्द्यमानपदाम्बुजम् ॥ ३४॥ तं दृष्ट्वा सर्वकर्तारं साक्षिणं तमसः परम् । महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः ॥ ३५॥ सञ्जातपुलकैर्युक्ता विवशा गद्गदस्वराः । प्रकाशितसुखाब्ध्यन्तर्निमग्ना निर्मलावृतम् ॥ ३६॥ निरस्तनिखिलध्वान्ताः प्रणम्य वसुधातले । शिरस्यञ्जलिमाधाय सर्वे देवाः समाहिताः ॥ ३७॥ तुष्टुवुर्हृष्टमीशानं सर्वलोकपितामहम् । मुक्तिदं पुण्यनिष्ठानां दुःखदं पापकर्मणाम् ॥ ३८॥ देवा ऊचुः - ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधिविधायिने । ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ ३९॥ कष्टसागरमग्नानां संसारोत्तारहेतवे । साक्षिणे सर्वभूतानां साक्ष्यहीनाय वै नमः ॥ ४०॥ सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे । सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ४१॥ परात्परविहीनाय पराय परमेष्ठिने । परिज्ञातवतामात्मस्वरूपाय नमो नमः ॥ ४२॥ पद्मजाय पवित्राय पद्मनाभसुताय च । पद्मपुष्पेण पूज्याय नमः पद्मधराय च ॥ ४३॥ सुरज्येष्ठाय सूर्यादिदेवतातृप्तिकारिणे । सुरासुरनरादीनां सुखदाय नमो नमः ॥ ४४॥ वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे । वेदवेद्याय वेदान्तविधये वै नमो नमः ॥ ४५॥ विधये विधिहीनाय विधिवाक्यविधायिने । विध्युक्तकर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ४६॥ विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च । विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ४७॥ नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने । हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ ४८॥ शतानन्दाय शान्ताय शाङ्करज्ञानदायिने । शमादिसहितस्यैव ज्ञानदाय नमो नमः ॥ ४९॥ शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् । शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ ५०॥ नमः स्वयम्भुवे नित्यं स्वयम्भुब्रह्मदायिने । स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ ५१॥ द्रुहिणाय दुराचारनिरतस्य दुरात्मनः । दुःखदायान्यजन्तूनामात्मदाय नमो नमः ॥ ५२॥ वन्द्यहीनाय वन्द्याय वरदाय परस्य च । वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ ५३॥ प्रजापतिसमाख्याय प्रजानां पतये सदा । प्राजापत्यविरक्तस्य नमः प्रज्ञानदायिने ॥ ५४॥ पितामहाय पित्रादिकल्पनारहिताय च । पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ ५५॥ जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने । जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ ५६॥ विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे । स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ ५७॥ स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः । स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः ॥ ५८॥ सूत उवाच - एवं ब्रह्माणमादित्याः स्तुत्वा भक्तिपुरःसरम् । पृष्टवन्तस्तु सर्वेषां वेदानामर्थमादरात् ॥ ५९॥ ब्रह्माऽपि ब्रह्मविन्मुख्यः सर्ववेदैरभिष्टुतः । प्राह गम्भीरया वाचा वेदानामर्थमुत्तमम् ॥ ६०॥ इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १॥
॥ अथ द्वितीयोऽध्यायः ॥ ॥ वेदार्थविचारः ॥ ब्रह्मोवाच - अवाच्य एव वेदार्थः सर्वथा सर्वचेतनैः । तथाऽपि वक्ष्ये भक्तानां युष्माकं शृणुतादरात् ॥ १॥ आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा । अग्रे सर्वमिदं देवा आसीत्तन्मात्रमास्तिकाः ॥ २॥ ततो नान्यन्मिषत्किञ्चित्स पुनः कालपाकतः । प्राणिनां कर्मसंस्कारात्स्वशक्तिगतसत्त्वतः ॥ ३॥ स ऐक्षत जगत्सर्वं नु सृजा इति शङ्करः । स पुनः सकलानेताँल्लोकानात्मीयशक्तितः ॥ ४॥ यथापूर्वं क्रमेणैव सुरा असृजत प्रभुः । तं हरं केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः ॥ ५॥ केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः । केचित्प्रधानं त्रिगुणं स्वतन्त्रं केवलं जडम् ॥ ६॥ अणवः केचिदिच्छन्ति शब्दं केचन मोहिताः । क्षणप्रध्वंसिविज्ञानं केचन भ्रान्तचेतसः ॥ ७॥ शून्यसंज्ञं सुराः केचिन्निरुपाख्यं विमोहिताः । केचिद्भूतानि चेच्छन्ति निसर्गं केचन भ्रमात् ॥ ८॥ तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् । सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः ॥ ९॥ पापिष्ठानां तु जन्तूनां तत्र तत्र सुरर्षभाः । प्राक्संसारवशादेव जायते रुचिरास्तिकाः ॥ १०॥ तेऽपि कालविपाकेन श्रद्धया पूतयाऽपि च । पुरातनेन पुण्येन देवतानां प्रसादतः ॥ ११॥ कालेन महता देवाः सोपानक्रमतः पुनः । वेदमार्गमिमं मुख्यं प्राप्नुवन्ति चिरन्तनम् ॥ १२॥ प्राक्संसारवशादेव ये विचिन्त्य बलाबले । विवशा वेदमापन्नास्तेऽपि कैवल्यभागिनः ॥ १३॥ वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः । हस्तस्थं पायसं त्यक्त्वा लिहेत्कूर्परमात्मनः ॥ १४॥ विदा वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् । तमसाऽपि विना लोकं ते पश्यन्ति घटादिकम् ॥ १५॥ तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् । अन्येन वेदितो ह्यर्थो न सत्यः परमार्थतः ॥ १६॥ परमार्थो द्विधा प्रोक्तो मया हे स्वर्गवासिनः । एकः स्वभावतः साक्षात्परमार्थः सदैव तु ॥ १७॥ स शिवः सत्यचैतन्यसुखानन्तस्वलक्षणः । अपरः कल्पितः साक्षाद्ब्रह्मण्यध्यस्तमायया ॥ १८॥ कल्पितानामवस्तूनां मध्ये केचन मायया । परमार्थतया क्लृप्ताः व्यवहारे सुरर्षभाः ॥ १९॥ व्यवहारे तु सङ्क्लृप्ताः केचनापरमार्थतः । आकाशादि जगच्छुक्तिरूपे ते कथिते मया ॥ २०॥ व्यावहारिकसत्यार्थं साक्षात्सत्यार्थचिद्घनम् । उभयं वक्ति वेदस्तु मार्गा नैवं वदन्ति हि ॥ २१॥ स्वप्नावस्थासु सङ्क्लृप्तसत्यार्थेन समानिमान् । अर्थानेवामनन्त्यन्ये मार्गा हे स्वर्गवासिनः ॥ २२॥ जाग्रत्काले तु सङ्क्लृप्तसत्यार्थेन समानिमान् । मार्गा एवामनन्त्यर्था का कथा सत्यचिद्घने ॥ २३॥ तस्मादेकैकया दृष्ट्या मार्गाः सत्यार्थभाषिणः । दृष्ट्यान्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम् ॥ २४॥ चैतन्यापेक्षया चेत्यं व्योमादि सकलं जगत् । असत्यं सत्यरूपं तत्कुम्भकुड्याद्यपेक्षया ॥ २५॥ कुम्भकुड्यादयो भावा अपि व्योमाद्यपेक्षया । असत्याः सत्यरूपास्ते शुक्तिरूपाद्यपेक्षया ॥ २६॥ जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा । अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः ॥ २७॥ तथाऽपि स्वप्नदृष्टं तु वस्तु स्वर्गनिवासिनः । सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये ॥ २८॥ तथैव मार्गाः सुभ्रान्ता अपि वेदोदितस्य तु । अर्थस्य प्राप्तिसिद्ध्यार्था भवन्त्येव न संशयः ॥ २९॥ तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे । वेदनिष्ठस्तु तान्मार्गान्कदाचिदपि न स्पृशेत् ॥ ३०॥ वेदनिष्ठस्तु मार्गांस्तान्मोहेनापि स्पृशेद्यदि । प्रायश्चित्ती भवत्येव नात्र कार्या विचारणा ॥ ३१॥ एकस्यामपि तैः सार्धं पङ्क्तौ वेदैकसंस्थितः । मोहेनापि न भुञ्जीत भुक्त्वा चान्द्रायणं चरेत् ॥ ३२॥ इज्यादानविवाहादिकार्यमध्ययनं श्रुतेः । यदि तैर्मोहतः कुर्यात्कुर्याच्चान्द्रायणत्रयम् ॥ ३३॥ धर्माधर्मादिविज्ञानं नाददीत श्रुतौ स्थितः । तेभ्यो मोहादपि प्राज्ञाः श्रेयस्कामी कदाचन ॥ ३४॥ वेदबाह्येषु मार्गेषु संस्कृता ये नराः सुराः । ते हि पाषण्डिनः साक्षात्तथा तैः सहवासिनः ॥ ३५॥ कलौ जगद्विधातारं शिवं सत्यादिलक्षणम् । नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३६॥ वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् । नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३७॥ वेदोक्तेनैव मार्गेण भस्मनेव त्रिपुण्ड्रकम् । धूलनं नाचरिष्यन्ति पाषण्डोपहता जनाः ॥ ३८॥ रुद्राक्षधारणं भक्त्या वेदोक्तेनैवे वर्त्मना । न करिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ३९॥ लिङ्गे दिने दिने देवं शिवरुद्रादिसंज्ञितम् । नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ४०॥ देवकार्यं न कुर्वन्ति पितृकार्यं विशेषतः । औपासनं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४१॥ पञ्चयज्ञं न कुर्वन्ति तथैवातिथिपूजनम् । वैश्वदेवं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४२॥ वेदबाह्येन मार्गेण पूजयन्ति जनार्दनम् । निन्दन्ति शङ्करं मोहात्पाषण्डोपहता जनाः ॥ ४३॥ ब्रह्माणं केशवं रुद्रं भेदभावेन मोहिताः । पश्यन्त्येकं न जानन्ति पाषण्डोपहता जनाः ॥ ४४॥ अदक्षिणमनभ्यङ्गमधौतचरणं तथा । कुर्वन्त्यनग्निकं श्राद्धं पाषण्डोपहता जनाः ॥ ४५॥ एकादश्यामथाष्टम्यां चतुर्दश्यां विशेषतः । उपवासं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४६॥ शतरुद्रीयचमकैस्तथा पौरुषसूक्तकैः । नाभिषिञ्चन्ति देवेशं पाषण्डोपहता जनाः ॥ ४७॥ चिरन्तनानि स्थानानि शिवस्य परमात्मनः । न द्रक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः ॥ ४८॥ श्रीमद्दक्षिणकैलासे वर्तनं श्रद्धया सह । वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ४९॥ श्रीमद्व्याघ्रपुरे पुण्ये वर्तनं भुक्तिमुक्तिदम् । वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५०॥ अन्येषु च विशिष्टेषु शिवस्थानेषु वर्तनम् । वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५१॥ दिने दिने तु वेदान्तमहावाक्यार्थनिर्णयम् । आचार्यान्न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५२॥ सन्न्यासं परहंसाख्यं नाङ्गीकुर्वन्ति मोहिताः । प्रद्वेषं च करिष्यन्ति पाषण्डोपहता जनाः ॥ ५३॥ अन्यानि यानि कर्माणि वेदेनैवोदितानि तु । नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५४॥ स्मार्तान्यपि च कर्माणि यानि यानि सुरोत्तमाः । नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५५॥ ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं चार्धचन्द्रकम् । धारयिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ५६॥ शङ्खचक्रगदावज्रैरङ्कनं विग्रहे स्वके । मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५७॥ मनुष्याणां च नाम्ना तु तेषामाकारतोऽपि च । लाञ्छिताश्च भविष्यन्ति पाषण्डोपहता जनाः ॥ ५८॥ बहुनोक्तेन किं वेदमर्यादाभेदनं सुराः । श्रद्धयैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५९॥ धीरा विशिष्टाश्च महेश्वरस्य प्रसादयुक्ताश्च महत्तमाश्च । वेदोदितं केवलमेव देवा मुदा करिष्यन्ति विमुक्तिसिद्ध्यै ॥ ६०॥ इति ब्रह्मगीतासूपनिषत्सु वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ २॥
॥ अथ तृतीयोऽध्यायः ॥ ॥ साक्षिशिवस्वरूपकथनम् ॥ ब्रह्मोवाच - सर्वात्मा शङ्करो नाम साक्ष्येव सकलस्य तु । साक्ष्यभावे जगत्साक्ष्यं कथं भाति सुरोत्तमाः ॥ १॥ स्वतो भानविहीनं हि जगत्सर्वं चराचरम् । जडताऽजडता चास्य जगतो भानवत्तया ॥ २॥ भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते । तन्न सङ्गतमेव स्याज्जन्यं चेज्जडमेव तत् । जडानामेव जन्यत्वं कुम्भादीनां हि सम्मतम् ॥ ३॥ विज्ञानं चापि भानस्य नैवोत्पादकमिष्यते । ज्ञानस्य भानरूपेण परिणामो न सिध्यति ॥ ४॥ अविक्रियत्वाज्ज्ञानस्य यदि तस्यापि विक्रिया । तर्हि क्षीरादिवच्चेत्यं भवेत्तन्नैव वेदनम् ॥ ५॥ तथा भानस्य विज्ञानं नैवारम्भकमिष्यते । अद्रव्यत्वाद्गुणत्वेन परैरङ्गीकृतत्वतः ॥ ६॥ असद्रूपस्य भानस्य ज्ञानं नारम्भकं भवेत् । वन्ध्यासूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत् ॥ ७॥ प्रागसद्रूपभानस्य ज्ञानं नारम्भकं भवेत् । असतः प्राक्त्वपूर्वाणां विशेषाणामभावतः ॥ ८॥ अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वदा ॥ ९॥ ज्ञानस्यापि न जन्यत्वमस्ति हे स्वर्गवासिनः । उक्तन्यायेन जन्यत्वप्रतीतिर्भ्रान्तिरेव हि ॥ १०॥ भानस्यापि तथा भ्रान्तिर्जन्यत्वप्रतिभा सुराः । भावत्वे सत्यजन्यत्वाद्भानं नित्यं सुरोत्तमाः ॥ ११॥ यज्जगद्भासकं भानं नित्यं भाति स्वतः सुराः । स एव जगतः साक्षी सर्वात्मा शङ्कराभिधः ॥ १२॥ तेन कल्पितसम्बन्धादज्ञानं भाति न स्वतः । अज्ञानजन्यं चित्तं च रागद्वेषादयस्तथा । अज्ञानस्पृष्टचैतन्यादेवं भान्ति न च स्वतः ॥ १३॥ प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा । चित्तवृत्त्यभिसम्बन्धद्वारेणैव दृगन्वयात् ॥ १४॥ विभान्ति न स्वतो बाह्यविषयाश्च तथैव च ॥ १५॥ अनुमानादिवृत्तिस्थं चैतन्यं सुरसत्तमाः । अर्थानामपि केषां चिद्भासकं तेन शङ्करः ॥ १६॥ सर्वावभासकः प्रोक्तस्तेन भातमिदं जगत् । अतो रूपाणि तेनैव पश्यतीशेन मानवः ॥ १७॥ शृणोत्यनेन शब्दांश्च गन्धानाजिघ्रति प्रियान् । अनेनैव सदा वाचं व्याकरोति तु मानवः । अनेन स्वादु चास्वादु विजानाति च मानवः ॥ १८॥ शङ्कराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः । केचिधृदयमित्याहुर्ब्राह्मणा हे सुरोत्तमाः ॥ १९॥ मन इत्यपरे सन्तः संज्ञानमिति केचन । आज्ञानमिति विद्वांसः केचिद्धे स्वर्गवासिनः ॥ २०॥ विज्ञानमिति चाप्यन्ये प्रज्ञानमिति केचन । मेधेति ब्राह्मणाः केचिद्दृष्टिरित्यपरे बुधाः ॥ २१॥ धृतिरित्यपरे प्राज्ञा मतिरित्यपि केचन । मनीषेति महाप्राज्ञा जूतिरित्यपरे बुधाः ॥ २२॥ स्मृतिरित्यास्तिकाः केचित्सङ्कल्प इति केचन । क्रतुरित्यपरे प्राज्ञाः काम इत्यपरे जनाः ॥ २३॥ वश इत्यास्तिकाः केचित्सर्वाण्येतानि सन्ततम् । प्रज्ञानस्य शिवस्यास्य नामध्येयान्यसंशयम् ॥ २४॥ एष ब्रह्मैष एवेन्द्र एष एव प्रजापतिः । एष एव हि देवाश्च भूतानि भवनानि च ॥ २५॥ अण्डजा जारुजाश्चैव स्वेदजा उद्भिजा अपि । अश्वा गावश्च मर्त्याश्च हस्तिपूर्वास्तथैव च ॥ २६॥ स्थावरं जङ्गमं चैव तथाऽन्यदपि किञ्चन । सर्वमेतदयं शम्भुः प्रज्ञानघनलक्षणः ॥ २७॥ प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरी । प्रज्ञानमेव तद्ब्रह्म शिवरुद्रादि संज्ञितम् ॥ २८॥ एवंरूपपरिज्ञानादेव मर्त्योऽमृतो भवेत् । न कर्मणा न प्रजया न चान्येनापि केनचित् ॥ २९॥ ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः । अत्र नास्त्येव सन्देहस्त्रिर्वः शपथयाम्यहम् ॥ ३०॥ तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् । संसारके गुहावाच्ये मायाज्ञानादिसंज्ञिते । निहितं ब्रह्म यो वेद परमव्योमसंज्ञिते ॥ ३१॥ सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः । विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ॥ ३२॥ प्रत्यगज्ञानविज्ञानमायाशक्तेस्तु साक्षिणम् । एकं ब्रह्म च सम्पश्यन्साक्षाद्ब्रह्मविदुत्तमः ॥ ३३॥ ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् । अपञ्चीकृत आकाशः सम्भूतो रज्जुसर्पवत् ॥ ३४॥ आकाशाद्वायुसञ्ज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः । वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ ३५॥ तानि भूतानि सूक्ष्माणि पञ्चीकृत्य शिवाज्ञया । तेभ्य एव सुरा सृष्टं ब्रह्माण्डाख्यमिदं मया ॥ ३६॥ भुवनानि विशिष्टानि निर्मितानि शिवाज्ञया । ब्रह्माण्डस्योदरे देवा देवाश्च विविधा अमी ॥ ३७॥ देवादयो मनुष्याश्च तथा पश्वादयो जनाः । तत्तत्कर्मानुरूपेण मया सृष्टाः शिवाज्ञया ॥ ३८॥ अस्थिस्नाय्वादिरूपं यच्छरीरं भाति देहिनाम् । तस्मात्प्राणमयो ह्यात्मा विभिन्नश्चान्तरो यतः ॥ ३९॥ योऽयं प्राणमयो ह्यात्मा भाति सर्वशरीरिणाम् । ततो मनोमयो ह्यात्मा विभिन्नश्चान्तरत्वतः ॥ ४०॥ योऽयं मनोमयो ह्यात्मा भाति सर्वशरीरिणाम् । विज्ञानमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४१॥ विज्ञानमय आत्मा यो विभाति सकलात्मनाम् । आनन्दमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४२॥ योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु । मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ॥ ४३॥ तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु । आनन्देन सदा पूर्णस्तथा ज्ञानमयः सुराः ॥ ४४॥ तथाऽऽनन्दमयश्चापि ब्रह्मणाऽन्येन साक्षिणा । सर्वान्तरेण सम्पूर्णो ब्रह्म नान्येन केनचित् ॥ ४५॥ यदिदं ब्रह्म पुच्छाख्यं सत्यज्ञानाद्वयात्मकम् । स रसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवाः ॥ ४६॥ एतमेव रसं साक्षाल्लब्ध्वा देही सनातनम् । सुखी भवति सर्वत्र नान्यथा सुरसत्तमाः ॥ ४७॥ असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । को जीवति नरो देवाः को वा नित्यं विचेष्टते ॥ ४८॥ तस्मात्सर्वात्मनां चित्ते भासमानो रसो हरः । आनन्दयति दुःखाढ्यं जीवात्मानं कृपाबलात् ॥ ४९॥ यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । निर्भेदं परमेकत्वं विन्दते सुरसत्तमाः ॥ ५०॥ तदैवाभयमत्यन्तं कल्याणं परमामृतम् । स्वात्मभूतं परं ब्रह्म स याति स्वर्गवासिनः ॥ ५१॥ यदा ह्येवैष एतस्मिन्नल्पमत्यन्तरं नरः । विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ ५२॥ सर्वेषामात्मभूतं यद्ब्रह्म सत्यादिलक्षणम् । उदास्ते तत्सुरश्रेष्ठा यथाजातजनं प्रति ॥ ५३॥ सम्यग्ज्ञानैकनिष्ठानां तदेव परमं पदम् । तदा स्वात्मतया भाति केवलं कृपया सुराः ॥ ५४॥ तत्त्वेवाधीतवेदस्य सहाङ्गैः सुरपुङ्गवाः । मननेन विहीनस्य भयहेतुः सदा भवेत् ॥ ५५॥ भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः । भीषाऽस्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः ॥ ५६॥ अस्यैवानन्दलेशेन स्तम्बान्ता विष्णुपूर्वकाः । भवन्ति सुखिनो देवास्तारतम्यक्रमेण तु ॥ ५७॥ तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयं भाति पदे यथा ॥ ५८॥ अयमेव शिवः साक्षादादित्यहृदये तथा । अन्येषां हृदये चैव भाति साक्षितया स्वयम् ॥ ५९॥ विहाय साक्ष्यं देहादि मायान्तं तु विवेकतः । सर्वसाक्षिणमात्मानं यः पश्यति स पश्यति ॥ ६०॥ रुद्रनारायणादीनां स्तम्बान्तानां च साक्षिणम् । एवं तर्कप्रमाणाभ्यां यः पश्यति स पश्यति ॥ ६१॥ यस्यैवं तर्कमानाभ्यामस्ति विज्ञानमास्तिकाः । स लोकादखिलादस्माद्विभिद्यात्मानमात्मना ॥ ६२॥ अन्नादीनखिलान्कोशानाभासेन विभासितान् । उपसङ्क्रामतीशस्य प्रसादादेव केवलात् ॥ ६३॥ यतो वाचो निवर्तन्ते निमित्तानामभावतः । निर्विशेषे शिवे शब्दः कथं देवाः प्रवर्तते ॥ ६४॥ विशेषं कञ्चिदाश्रित्य खलु शब्दः प्रवर्तते । यस्मादेतन्मनः सूक्ष्मां व्यावृत्तं सर्वगोचरम् ॥ ६५॥ यस्माच्छ्रोत्रत्वगक्ष्यादिखानि कर्मेन्द्रियाणि च । व्यावृत्तानि पराग्वस्तुविषयाणि सुरोत्तमाः ॥ ६६॥ तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ६७॥ एवं यस्तु विजानाति स्वगुरोरुपदेशतः । स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ६८॥ तप्यतापकरूपेण विभातमखिलं जगत् । प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ६९॥ कर्ता कारयिता कर्म करणं कार्यमास्तिकः । सर्वमात्मतया भाति प्रसादात्परमेश्वरात् ॥ ७०॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७१॥ नियोज्यश्च नियोगश्च साधनानि नियोजकः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७२॥ भोक्ता भोजयिता भोगो भोगोपकरणानि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७३॥ ग्राहकश्च तथा ग्राह्यं ग्रहणं सर्वतोमुखम् । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७४॥ अन्यथाज्ञानमज्ञानं संशयज्ञानमेव च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७५॥ घटज्ञानं पटज्ञानं कुड्यादिज्ञानमेव च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७६॥ घटः कुड्यं कुसूलं च पटः पात्रं च पर्वतः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७७॥ पातालाद्याश्च लोकाश्च सत्यलोकादयोऽपि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७८॥ ब्रह्माण्डं तत्र क्लृप्तानामण्डानां शतकोटयः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७९॥ समुद्राश्च तटाकाश्च नद्यः सर्वनदा अपि । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८०॥ मेरुमन्दारपूर्वाश्च पर्वताश्च महत्तराः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८१॥ वनानि वनदेशाश्च वन्यानि विविधानि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८२॥ वृक्षाश्च विविधाः क्षुद्रतृणगुल्मादयोऽपि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८३॥ आकाशादीनि भूतानि भौतिकान्यखिलान्यपि । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८४॥ शब्दस्पर्शादितन्मात्ररूपाणि सकलानि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८५॥ कृमिकीटपतङ्गाश्च क्षुद्रा अपि च जन्तवः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८६॥ पशवश्च मृगाश्चैव पन्नगाः पापयोनयः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८७॥ मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८८॥ यक्षराक्षसगन्धर्वप्रमुखाः सिद्धकिन्नराः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८९॥ कर्मदेवाश्च देवाश्च देवराजो विराट् स्वराट् । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९०॥ अहं च मद्विभूतिश्च विष्णुभक्ताश्च देहिनः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९१॥ विष्णुर्विष्णुविभूतिश्च विष्णुभक्ताश्च देहिनः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९२॥ रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश्च देहिनः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९३॥ ईश्वरस्तद्विभूतिश्च तदीयाः सर्वदेहिनः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९४॥ सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९५॥ दिशश्च विदिशश्चैव साभ्रं नक्षत्रमण्डलम् । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९६॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९७॥ मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । तद्भक्ताश्च तथा भान्ति प्रसादात्पारमेश्वरात् ॥ ९८॥ आश्रमाश्च तथा वर्णाः सङ्करा विविधा अपि । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९९॥ निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १००॥ शरीरमिन्द्रियं प्राणो मनो बुद्धिरहङ्कृतिः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०१॥ कामक्रोधादयः सर्वे तथा शान्त्यादयोऽपि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०२॥ जीवात्मा परमात्मा च तयोर्भेदश्च भेदकः । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०३॥ जडशक्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदाऽपि च । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०४॥ अस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि । सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०५॥ आत्मा नाम सुराः स्वेन भासा यो भाति सन्ततम् । तमेव त्वमहंशब्दप्रत्ययाभ्यां तु जन्तवः ॥ १०६॥ व्यवहारे विजानन्ति न जानन्त्येव तेऽर्थतः । अर्थतश्चास्य वेत्तारो न विद्यन्तेऽद्वयत्वतः ॥ १०७॥ एवमात्मानमद्वैतमात्मना वेद यः स्थिरम् । सोऽयमर्थमिमं नित्यं गायन्नास्ते स्वभावतः ॥ १०८॥ यथा नर्तनमीशस्य स्वभावाल्लोकरक्षकम् । तथा विद्या विनोदाख्या गीतिर्लोकोपकारिणी ॥ १०९॥ यथैवादिगुरोर्गीतिर्लोकानां हितकारिणी । तथैवास्य गुरोर्गीतिर्लोकानां हितकाम्यया ॥ ११०॥ आप्तकामस्य रुद्रस्य गीतिर्व्याख्यानलक्षणा । परोपकारिणी तद्वद्गीतिरस्यापि सद्गुरोः ॥ १११॥ लौकिकेष्वपि गानेषु प्रसादं कुरुते शिवः । किं पुनर्वैदिके गाने ततो गानं समाश्रयेत् ॥ ११२॥ व्याख्यागानेष्वशक्तस्तु शिवमुद्दिश्य भक्तितः । लौकिकीमपि वा गीतिं कुर्यान्नित्यमतन्द्रितः ॥ ११३॥ गीतिज्ञानं शिवप्राप्तेः सुतरां कारणं भवेत् । गीतिज्ञानेन योगः स्याद्योगादेव शिवैक्यता ॥ ११४॥ गीतिज्ञो यदि योगेन न याति परमेश्वरम् । प्रतिबन्धकबाहुल्यात्तस्यैवानुचरो भवेत् ॥ ११५॥ केवलं लौकिकं गानं न कुर्यान्मोहतोऽपि वा । यदि कुर्यात्प्रमादेन प्रायश्चित्ती भवेद्विजः ॥ ११६॥ अतस्तु संसारविनाशने रतः श्रुतिप्रमाणेन च तर्कवर्त्मना । प्रबोधमासाद्य शिवस्य तं पुनः सदैव गायन्विचरेदिमां महीम् ॥ ११७॥ इत्युपनिषत्परतत्त्वविषया वः सत्यमुदिता सकलदुःखनिहन्त्री । कष्टहृदयस्य मनुजस्य न देया भक्तिसहितस्य तु शिवस्य खलु देया ॥ ११८॥ इति ब्रह्मगीतासूपनिषत्सु साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्यायः ॥ ३॥
॥ अथ चतुर्थोऽध्यायः ॥ ॥ तलवकारोपनिषद्व्याख्याकथनम् ॥ ब्रह्मोवाच - अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा । संसारार्णवमग्नानां साक्षात्संसारमोचकः ॥ १॥ सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु । विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि ॥ २॥ चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं शृणोत्यपि । अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ॥ ३॥ स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ॥ ४॥ इन्द्रियाणां तु सत्ता च नैव स्वाभाविकी मता । तप्तायः पिण्डवत्तस्य सत्त्ययैव सुरर्षभाः ॥ ५॥ श्रोत्रमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः । अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः ॥ ६॥ मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः । मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥ ७॥ वाचो वाक्त्वमनुप्राप्य प्राणस्य प्रणतां हरः । ददाति नियमेनैव चक्षुष्ट्वं चक्षुषस्तथा ॥ ८॥ अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः । तत्तद्रूपमनुप्राप्य ददाति नियमेन तु ॥ ९॥ तत्र चक्षुश्च वाक्चैव मनश्चान्यानि खानि च । न गच्छन्ति स्वयञ्ज्योतिःस्वभावे परमात्मनि ॥ १०॥ स देवो विदितादन्यस्तथैवाविदितादपि। वाचा च मनसा चैव चक्षुषा च तथैव च ॥ ११॥ श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् । न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम् ॥ १२॥ यस्येदमखिलं नित्यं गोचरं रूपवद्रवेः । तदेव परमं ब्रह्म वित्त यूयं सनातनम् ॥ १३॥ एवं जानन्ति ये धीरास्तर्कतश्च प्रमाणतः । गुरूक्त्या स्वानुभूत्या च भवन्ति खलु तेऽमृताः ॥ १४॥ सुज्ञातमिति तद्ब्रह्म मनुध्वं यदि हे सुराः । दभ्रमेव हि तत्साक्षि ब्रह्म वेद्यं कथं भवेत् ॥ १५॥ यस्य स्वात्मतया ब्रह्म विदितं कर्मतां विना । तस्य तज्ज्ञानकर्तृत्वविहीनस्य मतं हि तत् ॥ १६॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ १७॥ ब्रह्मज्ञाने घटज्ञाने भ्रान्तिज्ञानेऽपि चास्तिकाः । नैव कर्तृ न कर्मापि ब्रह्म चित्केवलं भवेत् ॥ १८॥ यस्य कर्तृतया भातं ब्रह्माकर्तृ सुरोत्तमाः । तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ १९॥ यस्य कर्मतया भातं ब्रह्माकर्म सुरोत्तमाः । तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ २०॥ अकर्त्रविषयप्रत्यक्प्रकाशः स्वात्मनैव तु । विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ॥ २१॥ एवंरूपपरिज्ञानमपि दृश्यतयैव तु । यस्य भाति स तत्साक्षी ब्रूत ब्रह्मात्मवित्कथम् ॥ २२॥ ब्रह्माविद्याऽपि ज्ञाता चेद्वेद्या भवति कुम्भवत् । अवेद्यं ब्रह्म वेद्यं स्याद्वेद्यविद्याभिसङ्गमात् ॥ २३॥ वेत्ताऽपि विद्यासम्बन्धात्सविशेषो भवेद्ध्रुवम् । निर्विशेषं परं ब्रह्म ततो विद्वान्न चात्मवित् ॥ २४॥ विद्याया आश्रयत्वेन विषयत्वेन वा भवेत् । ब्रह्म नैवान्यथा तत्र ब्रह्म ब्रह्म भवेत्कथम् ॥ २५॥ ब्रह्मसम्बन्धहीना चेद्विद्या ब्रह्म तु वेदितुम् । अशक्यं तत्र हे देवाः को वा ब्रह्मात्मविद्भवेत् ॥ २६॥ ब्रह्मण्यध्यस्तमायादिनिवृत्तिं कुरुते तु सा । विद्या यदि न मायायाः प्रत्यगात्मन्यसम्भवात् ॥ २७॥ प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमः । तथा सति कथं मायासम्भवः प्रत्यगात्मनि ॥ २८॥ तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने । स्वप्रकाशैकसंसिद्धेर्नास्ति माया परात्मनि ॥ २९॥ व्यावहारिकदृष्ट्येयं विद्याऽविद्या न चान्यथा । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ ३०॥ व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः । प्रकाश एव सततं तस्मादद्वैतमेव हि ॥ ३१॥ अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः । प्रकाश एव सततं तस्मान्मौनं हि युज्यते ॥ ३२॥ प्रत्यक्षादि प्रमाणैश्च तर्कैः श्रुत्या तथैव च । स्वगुरोरुपदेशेन प्रसादेन शिवस्य तु ॥ ३३॥ अर्जितैरपि धर्मैश्च कालपाकेन धार्मिकाः । अर्थो महानयं भाति शाङ्करः पुरुषस्य तु ॥ ३४॥ यस्य प्रकाशितः साक्षादयमर्थो महत्तरः । तस्य नास्ति क्रियाः सर्वा ज्ञानं चाप्यद्वयत्वतः ॥ ३५॥ अयमर्थो महान्यस्य स्वत एव प्रकाशितः । न स जीवो न च ब्रह्म न चान्यदपि किञ्चन ॥ ३६॥ अयमर्थो महान्यस्य स्वत एव प्रकाशितः । न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च ॥ ३७॥ अयमर्थो महान्यस्य स्वत एव प्रकाशितः । न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च ॥ ३८॥ एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः । स शम्भुरेव नैवान्य इति मे निश्चिता मतिः ॥ ३९॥ एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः । तस्याहं वैभवं वक्तुं न शक्तः सत्यमीरितम् ॥ ४०॥ एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः । वैभवं तस्य विष्णुश्च न शक्तो वक्तुमास्तिकाः ॥ ४१॥ एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः । वैभवं तस्य रुद्रश्च न शक्तो वक्तुमास्तिकाः ॥ ४२॥ एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः । वैभवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः ॥ ४३॥ अस्मिन्देहे यदि ज्ञातः पुरोक्तोऽर्थोमहानयम् । स साक्षात्सत्यमद्वैतं निर्वाणं याति मानवः ॥ ४४॥ अस्मिन्देहे न विज्ञातः पुरोक्तोऽर्थो महान्यदि । विनष्टिरेव महती तस्य नैव परा गतिः ॥ ४५॥ स्वशरीरेऽन्यदेहेषु समं निश्चित्य तं दृढम् । अथ धीरा न जायन्ते ह्यमृताश्च भवन्ति हि ॥ ४६॥ बद्धो मुक्तो महाविद्वानज्ञ इत्यादिभेदतः । एक एव सदा भाति नानेव स्वप्नवत्स्वयम् ॥ ४७॥ अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम् । मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः ॥ ४८॥ स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम् । आभासानां च संसारं वेद मुक्तिं तथैव च ॥ ४९॥ प्रारब्धकर्मपर्यन्तं कदाचित्परमात्मवित्। जगज्जीवादिकं वेद कदाचिन्नैव वेद तत् ॥ ५०॥ कदाचिद्ब्रह्म जानाति प्रतीतमखिलं सुराः । कदाचिन्नैव जानाति स्वभावादेव तत्त्ववित् ॥ ५१॥ जगज्जीवादिरूपेण यदा ब्रह्म विभासते । तदा दुःखादिभोगोऽपि भाति चाभासरूपतः ॥ ५२॥ यदा ब्रह्मात्मना सर्वं विभाति स्वत एव तु । तदा दुःखादिभोगोऽयमाभासो न विभासते ॥ ५३॥ जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् । न तत्पश्यति तद्रूपं ब्रह्मवस्त्वेव पश्यति ॥ ५४॥ ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपि च । तथा सति शिवादन्यत्कथं पश्यति तत्त्ववित् ॥ ५५॥ ब्रह्मरूपेण वा साक्षाज्जगज्जीवात्मनाऽथवा । यथा यथा प्रथा साक्षाद्ब्रह्म भाति तथा तथा ॥ ५६॥ यथा यथाऽवभासोऽयं स्वभावादेव भासते । तथा तथाऽनुसन्धानं योगिनः स्वात्मवेदनम् ॥ ५७॥ नामतश्चार्थतश्चापि महादेवो यदि प्रभुः । किं जहाति तदा विद्वान्किं गृह्णाति सुरर्षभाः ॥ ५८॥ ग्राह्यं वा शङ्करादन्यत्त्याज्यं वा यदि विद्यते । महत्त्वं तस्य हीयेत स्वभावो न विहन्यते ॥ ५९॥ महत्त्वं नैव धर्मोऽस्य भेदाभावात्परात्मनः । धर्मधर्मित्ववार्ता च भेदे सति हि विद्यते ॥ ६०॥ भेदोऽभेदस्तथा भेदाभेदः साक्षात्परात्मना । नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा ॥ ६१॥ ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च । तथा सति शिवज्ञानी किं गृह्णाति जहाति किम् ॥ ६२॥ मायया विद्यते सर्वमिति केचन मोहिताः । शिवरूपातिरेकेण नास्ति माया च वस्तुतः ॥ ६३॥ मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु । महत्त्वं परमं साक्षाद्धीयते सुरपुङ्गवाः ॥ ६४॥ महत्त्वस्य तु सङ्कोचो नास्ति सम्यङ्निरूपणे । अस्ति चेदप्रमाणं स्याच्छ्रुतिः सत्यार्थवादिनी ॥ ६५॥ तस्मादस्ति महादेव एव साक्षात्स्वयम्प्रभुः । आनन्दरूपः सम्पूर्णो न ततोऽन्यत्तु किञ्चन ॥ ६६॥ इयमेव तु तर्काणां निष्ठाकाष्ठा सुरोत्तमाः । प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः ॥ ६७॥ स्मृतीनां च पुराणानां भारतस्य तथैव च । वेदानुसारिविद्यानामन्यासामास्तिकोत्तमाः ॥ ६८॥ शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च । अस्मदुक्तागमस्यापि सुराः सूक्ष्मनिरूपणे ॥ ६९॥ बुद्धागमानां सर्वेषां तथैवार्हागमस्य च । यक्षगन्धर्वसिद्धादिनिर्मितस्यागमस्य च ॥ ७०॥ परमाद्वैतविज्ञानं कस्य मर्त्यस्य सिध्यति । कस्य देवस्य वा साक्षाच्छिवस्यैव हि सिध्यति ॥ ७१॥ परमाद्वैतविज्ञानं शिवस्यामिततेजसः । स्वभावसिद्धं देव्याश्च शिवाया आस्तिकोत्तमाः ॥ ७२॥ प्रसादादेव रुद्रस्य शिवायाश्च तथैव च । परमाद्वैतविज्ञानं विष्णोः साक्षान्ममापि च ॥ ७३॥ विराट्सञ्ज्ञस्य देवस्य स्वराट्सञ्ज्ञस्य चात्मनः । सम्राट्सञ्ज्ञस्य चान्येषां प्रसाद्दाएव वेदनम् ॥ ७४॥ युष्माकमपि सर्वेषां शिवस्य परमात्मनः । परमाद्वैतविज्ञानं प्रसादादेव नान्यथा ॥ ७५॥ यक्षराक्षसगन्धर्वसिद्धादीनामपीश्वराः । परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७६॥ मनुष्याणां च सर्वेषां पश्वादीनां तथैव च । परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७७॥ प्रसादे सति कीटो वा पतङ्गो वा नरोऽथ वा । देवो वा दानवो वाऽपि लभते ज्ञानमुत्तमम् ॥ ७८॥ एष एव हि जन्तूनां परज्ञानं ददाति च । न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम् ॥ ७९॥ आदाने च तथा दाने न स्वतन्त्रो महान् हरिः । तथैवाहं सुरश्रेष्ठाः सत्यमेव मयोदितम् ॥ ८०॥ स्वतन्त्रः शिव एवायं स हि संसारमोचकः । तं विना न मयोद्धर्तुं शक्यते संसृतेर्जनः ॥ ८१॥ विष्णुना च परेणापि महादेवं घृणानिधिम् । विना जन्तुं समुद्धर्तुं शक्यते न हि सत्तमाः ॥ ८२॥ दर्वीन्यायेन संसारादुद्धरामि जनानिमान् । न स्वातन्त्र्येण हे देवाः साक्षाद्विष्णुस्तथैव च ॥ ८३॥ देवदेवस्य रुद्रस्य स्वरूपं तस्य वैभवम् । को वा जानाति नास्त्येव स्वयं जानाति वा न वा ॥ ८४॥ दुर्विज्ञेयो महादेवो महतामपि देहिनाम् । प्रसादेन विना देवाः सत्यमेव मयोदितम् ॥ ८५॥ पुरा सुराणां सर्वेषामसुराणां दुरात्मनाम् । महामोहेन सङ्ग्रामः सञ्जातो दुर्निवारकः ॥ ८६॥ असुरैः पीडिता देवा बलवद्भिः सुरा भृशम् । तान्दृष्ट्वा भगवानीशः सर्वज्ञः करुणाकरः ॥ ८७॥ देवानां विजयं देवा असुराणां पराजयम् । ददौ तेन सुरैः शीघ्रमसुरास्तु पराजिताः ॥ ८८॥ अविज्ञाय महादेववैभवं परिमोहिताः । वयं विजयमापन्ना असुराश्च पराजिताः ॥ ८९॥ इत्यहम्मानसञ्छन्नाः सर्वे देवाः पुरातनाः । अतीव प्रीतिमापन्ना अभवन्सुरपुङ्गवाः ॥ ९०॥ पुनर्विश्वाधिको रुद्रो भगवान्करुणानिधिः । स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वं तथैव च ॥ ९१॥ तेषां भ्रान्तिनिवृत्यर्थमपि साक्षान्महेश्वरः । आविर्बभूव सर्वज्ञो यक्षरूपेण हे सुराः ॥ ९२॥ तं दृष्ट्वा यक्षमत्यन्तं विस्मयेन सहामराः । विचार्य सर्वे सम्भूय किमिदं यक्षमित्यपि ॥ ९३॥ पुनरग्निं समाहूय देवाः सर्वे विमोहिताः । अब्रुवंस्त्वं विजानीहि किमेतद्यक्षमित्यपि ॥ ९४॥ अग्निस्तथा करोमीति प्रोच्य यक्षं गतोऽभवत् । यक्षरूपो महादेवः कोऽसीत्याहानलं प्रति ॥ ९५॥ अग्निर्वा अहमस्मीति यक्षं प्रत्याह सोऽपि च । सोऽपि प्रोवाच भगवांस्त्वयि किं वीर्यमित्यपि ॥ ९६॥ इदं सर्वं दहेयं यदिदं भूम्यां व्यवस्थितम् । इत्याहाग्निस्तृणं तस्मै निधाय परमेश्वरः ॥ ९७॥ एतद्दहेति भगवान्स्मयमानोऽभ्यभाषत । अग्निः सर्वजवेनैव तद्दग्धुं तृणमास्तिकाः ॥ ९८॥ अशक्तो लज्जया युक्तो भीतोऽगच्छत्सुरान्प्रति । माया तस्यैव विज्ञातुं न शक्यं वैभवं सुराः ॥ ९९॥ वित्त यूयं महायासादित्याहाग्निः सुरान्प्रति । तच्छ्रुत्वा वायुमाहूय विजानीहीति चाब्रुवन् ॥ १००॥ सोऽपि गत्वा तथा तेन यक्षरूपेण शम्भुना । भृशं प्रतिहतो भूत्वा तथाऽगच्छत्सुरान्प्रति ॥ १०१॥ पुनरिन्द्रः स्वयं मोहादहन्ताकञ्चुकावृतः । विज्ञातुं यक्षमगमत्स तत्रैव तिरोदधे ॥ १०२॥ इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः । विद्यारूपामुमां देवीं ध्यात्वा कारुणिकोत्तमाम् ॥ १०३॥ लौकिकैर्वैदिकैः स्तोत्रैस्तुष्टाव परमेश्वरीम् । सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी ॥ १०४॥ शिवाभिन्ना परानन्दा शङ्करस्यापि शङ्करी । स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला ॥ १०५॥ महादेवस्य माहात्म्यं दुर्ज्ञेयं सर्वजन्तुभिः । इति दर्शयितुं देवी तत्रैवाविरभूत्स्वयम् ॥ १०६॥ तामाराध्य शिवामिन्द्रः शोभमानां तु सर्वतः । उमां पर्वतराजेन्द्रकन्यकामाह वज्रभृत् ॥ १०७॥ किमेतद्यक्षमत्रैव प्रादुर्भूतं तिरोहितम् । वक्तुमर्हसि देवेशि मम कारुणिकोत्तमे ॥ १०८॥ देवी परमकारुण्याद्ब्रह्म मे पतिरत्र तु । प्रादुर्भूतं तिरोभूतमित्याहादेषनायिका ॥ १०९॥ दुर्विज्ञेयो महादेवो विष्णोः साक्षादजस्य च । अन्येषामपि देवानां तवापि मघवन्भृशम् ॥ ११०॥ प्रदर्शयितुमीशानो दुर्ज्ञेयत्वं स्वकं परम् । आविर्भूतो न चान्येन कारणेन सुराधिप ॥ १११॥ स एव सर्वदेवानां तवापि विजयप्रदः । पराजयकरोऽन्येषां तमेव शरणं व्रज ॥ ११२॥ इत्युक्त्वा सा महादेवी चिद्रूपा सर्वसाक्षिणी । भक्तानां पाशहन्त्री तु तत्रैवान्तर्हिताऽभवत् ॥ ११३॥ पुनर्देवा महादेवं महाकारुणिकोत्तमम् । दुर्विज्ञेयं सुरश्रेष्ठाः स्वतन्त्रं भक्तिमुक्तिदम् । भुक्तिमुक्तिदम्? विदुः सुनिश्चितं त्यक्त्वा मात्सर्यं भवकारणम् ॥ ११४॥ प्रसादे सति विज्ञातुं शक्यते परमेश्वरः । प्रसादेन विना नैव शक्यते सर्वजन्तुभिः ॥ ११५॥ प्रसादेन विना विष्णुर्न जानाति महेश्वरम् । तथा चाहं न जानामि देवताः सकला अपि ॥ ११६॥ प्रसादस्य तु सिद्ध्यर्थं खलु सर्वं सुरर्षभाः । प्रसादेन विना देवं ये जानन्ति सुरर्षभाः ॥ ११७॥ ते जानन्ति विना घ्राणं गन्धं हस्तेन केवलम् । प्रसादो नाम रुद्रस्य कर्मसाम्ये तु देहिनाम् ॥ ११८॥ देशिकालोकनाज्जातो विशिष्टातिशयः सुराः । प्रसादस्य स्वरूपं तु मया नारायणेन च ॥ ११९॥ रुद्रेणापि सुरा वक्तुं न शक्यं कल्पकोटिभिः । केवलं लिङ्गगम्यं तु न प्रत्यक्षं शिवस्य च ॥ १२०॥ शिवायाश्च हरेः साक्षान्मम चान्यस्य चास्तिकाः । प्रहर्षः स्वरनेत्राङ्गविक्रिया कम्पनं तथा ॥ १२१॥ स्तोभः शरीरपातश्च भ्रमणं चोद्गतिस्तथा । आकाशेऽवस्थितिर्देवाः शरीरान्तरसंस्थितिः ॥ १२२॥ अदर्शनं च देहस्य प्रकाशत्वेन भासनम् । अनधीतस्य शास्त्रस्य स्वत एव प्रकाशनम् ॥ १२३॥ निग्रहानुग्रहे शक्तिः पर्वतादेश्च भेदनम् । एवमादीनि लिङ्गानि प्रसादस्य सुरर्षभाः ॥ १२४॥ तीव्रात्तीव्रतरः शम्भोः प्रसादो न समो भवेत् । एवंरूपः प्रसादश्च शिवया च शिवेन च ॥ १२५॥ ज्ञायते न मया नान्यैर्नैव नारायणेन च । अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम् ॥ १२६॥ तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीच्छति । विष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः ॥ १२७॥ शम्भुभक्त्यैव सर्वेषां सत्यमेव मयोदितम् । शम्भुभक्तस्य देहेऽस्मिन्प्रसादो गम्यते यथा ॥ १२८॥ न तथा विष्णुभक्तस्य न मद्भक्तस्य देहिनः । तस्मान्मुमुमुक्षुर्मां विष्णुमपि त्यक्त्वा महेश्वरम् ॥ १२९॥ आश्रयेत्सर्वभावेन प्रसादं कुरुते हि सः । प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३०॥ शक्यते मनुजैर्द्रष्टुं प्रत्यगात्मतया सदा । प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३१॥ शक्यते मनुजैर्द्रष्टुं सदा मूर्त्यात्मनैव तु । प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३२॥ शक्यते मनुजैर्द्रष्टुं सदा सर्वात्मरूपतः । सर्वसाक्षिणमात्मानं विदित्वा सकलं जगत् ॥ १३३॥ साक्षिमात्रतया नित्यं यः पश्यति स पश्यति । परमाद्वैतनिष्ठा हि निष्ठाकाष्ठा सुदुर्लभा ॥ १३४॥ शिवादन्यतया भ्रान्त्या द्वैतं वा वेद चेत्पशुः । परमाद्वैतविज्ञानी स्वयं तु परदेवता ॥ १३५॥ तस्यैव परमा मुक्तिर्न हि संशयकारणम् । गौतमस्य मुनेः शापाद्दधीचस्य च शापतः ॥ १३६॥ जन्मान्तरकृतात्पापादयमर्थो न रोचते । महापापवतां नॄणां परमाद्वैतवेदने ॥ १३७॥ प्रद्वेषो जायते साक्षाद्वेदजन्ये शिवेऽपि च । महापावतां नॄणां शिवज्ञानस्य साधने ॥ १३८॥ सर्वाङ्गोद्धूलने तिर्यक्त्रिपुण्ड्रस्य च धारणे । रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने ॥ १३९॥ प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च । अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ १४०॥ परमाद्वैतविज्ञानं जायते सुरपुङ्गवाः । परमाद्वैतविज्ञानी मयाऽऽराध्यः सदैव तु ॥ १४१॥ नारायणेन रुद्रेण तथा देवैर्विशेषतः । परमाद्वैतविज्ञानी यत्र कुत्र स्थितः सुराः ॥ १४२॥ तत्र सन्निहिता मुक्तिर्नात्र कार्या विचारणा । परमाद्वैतविज्ञाननिष्ठस्यैव महात्मनः ॥ १४३॥ शुश्रूषा क्रियते येन तत्पादौ मम मस्तके । परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४४॥ समं देवा न पश्यामि न हरिर्न महेश्वरः । परमाद्वैतविज्ञाननिष्ठाय परयोगिने ॥ १४५॥ शरीरमर्थं प्राणांश्च प्रदद्याच्छ्रद्धया सह । परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४६॥ शुश्रूषा शुद्धविद्यायाः साधनं हि न संशयः । वेदबाह्येषु तन्त्रेषु नराणां वासनाऽपि च ॥ १४७॥ कुतर्कवासना लोकवासना च सुरर्षभाः । पुत्रमित्रकलत्रादौ वासना चार्थवासना ॥ १४८॥ देहेन्द्रियमनोबुद्धिप्राणादावपि वासना । पाण्डित्यवासना भोगवासना कान्तिवासना ॥ १४९॥ प्रद्वेषवासना रुद्रवेदनारायणादिषु । ज्ञानसाधनभूतेषु त्रिपुण्ड्रोद्धलनादिषु ॥ १५०॥ प्रद्वेषवासना पापवासना सुरपुङ्गवाः । परमाद्वैतविज्ञानजन्मनः प्रतिबन्धकम् ॥ १५१॥ तस्मान्मुमुक्षुः श्रद्धालुर्वासनामखिलामिमाम् । विसृज्य परमाद्वैतज्ञाननिष्ठो भवेत्सदा ॥ १५२॥ वेदोदितमहाद्वैतपरिज्ञानस्य वैभवम् । न शक्यं वक्तुमस्माभिस्तस्मादेवोपरम्यते ॥ १५३॥ कथितमखिलदुःखध्वंसकं वः समस्तं परमसुखशिवात्मप्रापकं सद्य एव । विगतसकलदोषा वेदवेदान्तनिष्ठा हृदयकुहरनिष्ठं कर्तुमर्हन्ति चैतत् ॥ १५४॥ इति ब्रह्मगीतासूपनिषत्सु तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः ॥ ४॥
॥ अथ पञ्चमोऽध्यायः ॥ ॥ आदेशकथनम् ॥ ब्रह्मोवाच । अतीवगुह्यमादेशमनन्तार्थप्रकाशकम् । वक्ष्ये युष्माकमद्याहं शृणुत श्रद्धया सह ॥ १॥ यस्य श्रवणमात्रेण श्रुतमेवाश्रुतं भवेत् । अमतं च मतं ज्ञातमविज्ञातं च सत्तमाः ॥ २॥ एकेनैव तु पिण्डेन मृत्तिकाया यथा सुराः । विज्ञातं मृण्मयं सर्वं मृदभिन्नत्वतः सदा ॥ ३॥ एकेन लोहमणिना सर्वं लोहमयं यथा । विज्ञातं स्याद्यथैकेन नखानां कृन्तनेन च ॥ ४॥ सर्वं कार्ष्णायसं ज्ञातं तदभिन्नत्वतः सुराः । कार्यं तु कारणाभिन्नं न भिन्नं नोभयात्मकम् ॥ ५॥ भिन्नपक्षे तु सद्वाऽसत्कार्यं सदसदेव वा । सच्चेत्कारणसत्ता वा कार्यसत्ताऽथवा परा ॥ ६॥ यदि कारणसत्तैव कार्यसत्ता न चापरा । तर्हि कारणसत्तैका कथं सत्ताभिदा भवेत् ॥ ७॥ सत्तैकाऽपि भवेद्भिन्नं कारणात्कार्यसञ्ज्ञितम् । इति वार्ता च वार्तैव कार्यसञ्ज्ञमसत्खलु ॥ ८॥ सत्ताहीनस्य कार्यस्यासत्त्वमेव हि युज्यते । प्राप्तेऽसत्त्वे तु कार्यस्य सत्कार्योक्तिर्वृथा भवेत् ॥ ९॥ नैव कारणसत्तैव कार्यसत्ताऽपरैव चेत् । तर्हि सा कार्यसत्ता तु तया कारणसत्तया ॥ १०॥ सद्रूपेणैव भिन्ना स्यादसद्रूपेण वा भवेत् । सद्रूपेणेति चेदेका सत्ता भिन्ना न सा भवेत् ॥ ११॥ असद्रूपेण सा भिन्ना कार्यसत्ता तया यदि । तर्हि सा नैव सत्ता स्यादसत्त्वादेव शून्यवत् ॥ १२॥ यद्यसत्कार्यमिष्येत न कार्यं तर्हि तद्भवेत् । वन्ध्यापुत्रो न कस्यापि वस्तुनः कार्यमिष्यते ॥ १३॥ प्रध्वंसोऽपि न कार्यं स्यात्तस्योत्पत्तेरसम्भवात् । नास्ति कारकसम्बन्धः प्रध्वंसस्य सुरोत्तमाः । शून्यवन्निरुपाख्यत्वात्ततो नास्ति जनिक्रिया ॥ १४॥ असत्त्वेऽपि विशेषोऽस्ति कार्यस्येति मतिर्यदि ॥ १५॥ को विशेषोऽस्य सम्बन्धः कारकैर्यदि तन्न हि । विशेषे सति सम्बन्धः सम्बन्धोऽस्य स एव हि ॥ १६॥ जनिक्रियाश्रयत्वं चेद्विशेषोऽस्य तदाऽपि तु । पूर्वोक्तदोषः सम्प्राप्तस्तस्य नास्ति निवारकः ॥ १७॥ सत्तासम्बन्धवत्त्वं चेद्विशेषोऽस्य न तत्पटु । तदाऽपि दोषः पूर्वोक्तः प्राप्नोत्येव न संशयः ॥ १८॥ अतोऽसतो न कार्यत्वं सदसत्त्वं न सङ्गतम् । उक्तदोषद्वयापत्तेरतः कार्यं तु कारणात् । अभिन्नमेव भेदस्यासम्भवादेव वस्तुतः ॥ १९॥ भेदाभेदसमाख्या तु सुतरां नैव सिध्यति । कारणात्कार्यजातस्य भेदाभावाच्च वस्तुतः ॥ २०॥ कार्यकारणभेदश्च कारकव्यावृतिस्तथा । उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च ॥ २१॥ नामरूपविशेषश्च सर्वं भ्रान्त्या प्रसिध्यति ॥ २२॥ अतः सर्वो विकारश्च वाचा केवलमास्तिकाः । अस्तीत्यारभ्यते नामधेयमात्रं हि सत्सदा ॥ २३॥ प्रातीतिकेन रूपेण विकारोऽसत्य एव हि । कारणाकार एवास्य सत्यः साक्षात्सदा सुराः ॥ २४॥ कारणाभिन्नरूपेण कार्यं कारणमेव हि । सद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु ॥ २५॥ अतः कारणविज्ञानात्सर्वविज्ञानमास्तिकाः । सुतरामुपपन्नं हि न सन्देहोऽस्ति कश्चन ॥ २६॥ तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् । भेदः सर्वत्र मिथ्यैव धर्म्यादेरनिरूपणात् ॥ २७॥ भेदे ज्ञाते हि धर्म्यादिविभागस्य च वेदनम् । विभेदेनैव धर्म्यादौ विज्ञाते भेदवेदनम् ॥ २८॥ भेदानिरूपणादेव भेदाभेदो न सङ्गतः । अतश्च कारणं नित्यमेकमेवाद्वयं सुराः ॥ २९॥ कुलालादेर्मृदादेश्च भेदे दृष्टेऽपि भूतले । अचैतन्यान्मृदादेस्तु कुलालादिरपेक्ष्यते ॥ ३०॥ अत्र कारणमद्वैतं शुद्धं चैतन्यमेव हि । तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम् ॥ ३१॥ स्वयं चेतनमप्येतत्कारणं न कुलालवत् । अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम् ॥ ३२॥ प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी । सर्वप्रकारैर्विद्वद्भिरनिरूप्याऽस्ति शाङ्करी ॥ ३३॥ तया दुर्घटकारिण्या तादात्म्येनैव सङ्गतम् । कारणं सकलस्रष्टृ सर्वसंहर्तृ चास्तिकाः ॥ ३४॥ पालकं च सदा सच्च चिद्रूपत्वात्सुरोत्तमाः । चिद्रूपस्य तु सत्यत्वं युक्तमेवास्तिकाः सदा ॥ ३५॥ अचिद्रूपाहिरज्ज्वादेर्मृषात्वं सम्मतं खलु । अतस्तत्कारणं देवाः सदेवैकं च शाश्वतम् ॥ ३६॥ इदं सर्वं जगत्पूर्वं सदेवाऽसीत्सुरर्षभाः । असदासीदिति भ्रान्ता वदन्ति सुरपुङ्गवाः ॥ ३७॥ असन्न कारणं युक्तं वस्तुतत्त्वनिरूपणे । वन्ध्यापुत्रोऽपि सर्वेषां कारणं स्यात्स्वयं खलु ॥ ३८॥ स्वशक्त्याऽसच्च सर्वेषां कारणं भवतीति चेत् । शक्तिरप्यसतो नास्ति सतो बीजस्य दर्शनात् ॥ ३९॥ अङ्कुरोत्पादिका शक्तिः सद्रूपस्यैव दृश्यते । खलु बीजस्य सर्वत्र नासतस्तददर्शनात् ॥ ४०॥ साऽपि शक्तिः सती किंवाऽसती सदसती तु वा । सती चेत्सा सती शक्तिः कथं वन्ध्यासुताश्रया । आश्रयत्वं सतो दृष्टं खलु लोके न चासतः ॥ ४१॥ साऽसती चेत्कथं शक्तिः कार्यनिर्वाहिकाऽसती ॥ ४२॥ वन्ध्यापुत्रः स्वयं नैव कार्यनिर्वाहकः खलु । निर्वाहकत्वधर्मश्च सत एव हि दृश्यते ॥ ४३॥ शक्तिः सदसती सा चेद्दोषद्वयसमागमः । अतः स्वशक्त्या चासत्तु सर्वेषां नैव कारणम् ॥ ४४॥ तस्मात्सोऽयमसद्वादो जल्पमात्रं न युक्तिमान् । अतः सदेव सर्वेषां कारणं नासदास्तिकाः ॥ ४५॥ सृष्टेस्तु प्रागिदं सर्वं सदेवाऽऽसीत्तु कारणम् । तच्च कारणमाद्यन्तविनिर्मुक्तं सदद्वयम् ॥ ४६॥ पूर्वकल्पप्रपञ्चोत्थसंस्कारेणानुरञ्जितम् । कालकर्मविपाकेन सत्त्ववृत्तिसमाश्रितम् ॥ ४७॥ सृष्ट्यर्थमैक्षत प्राज्ञा बहु स्यामिति शक्तिमत् । पुनस्तत्पूर्वसंस्कारादाकाशं वायुमादितः ॥ ४८॥ सृष्ट्वा तेजस्ततः सृष्ट्वा पुनः सृष्ट्वा त्वपस्ततः । अन्नशब्दोदितां देवाः ससर्ज पृथिवीं पराम् ॥ ४९॥ तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च । एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः ॥ ५०॥ अंशान्पञ्च समादाय तेषामेकैकमास्तिकाः । कृत्वा चतुर्धा तेष्वंशानादाय चतुरः सुराः ॥ ५१॥ यथाक्रमेण भूतानां चतुरस्तांश्च कारणम् । यथाक्रमेण भूतार्धेनैकेनैकं करोति तत् ॥ ५२॥ एवमंशान्तरानेतानादाय चतुरः स्वयम् । एकं भूतान्तरार्धेन करोति क्रमशः सुराः ॥ ५३॥ एवं भूतानि सर्वाणि पञ्चीकृत्य सुरर्षभाः । अण्डानि भुवनान्याशु करोति ब्रह्म कारणम् ॥ ५४॥ अण्डजं जारजं चैव स्वेदजं चोद्भिजं तथा । करोति कालपाकेन प्राणिकर्मवशेन च ॥ ५५॥ ब्रह्म सर्वत्र चिद्रूपेणैवानुप्राप्य सात्त्विकाः । पृथङ्नामानि रूपाणि कुरुते पूर्वकल्पवत् ॥ ५६॥ इदं सर्वं जगत्सत्यमिव भातमपि स्वतः । कारणव्यतिरेकेण नास्त्येवात्र न संशयः ॥ ५७॥ यद्ग्ने रोहितं रूपं तद्रूपं तेजसः सदा । यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् ॥ ५८॥ नास्ति रूपातिरेकेण सदा सोऽग्निः सुरर्षभाः । वाचारम्भणमात्रो हि विकारो वह्निसञ्ज्ञितः ॥ ५९॥ त्रीणि रूपाणि हे देवा एव सत्यं न चानलः । यद्भानो रोहितं रूपं तद्रूपं तेजसः सदा ॥ ६०॥ यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् । नास्ति रूपातिरेकेण सदाऽऽदित्यो न संशयः ॥ ६१॥ भ्रान्त्या केवलमादित्य इत्याहुरविवेकिनः । एवं चन्द्रश्च विज्ञेयो विद्युच्च सुरपुङ्गवाः ॥ ६२॥ घटकुड्यादयो भावा भूतानि भुवनानि च । सर्वं ब्रह्मातिरेकेण नास्ति ब्रह्मैव सत्सदा ॥ ६३॥ पूर्वपूर्वभ्रमोत्पन्नवासनाया बलेन तु । देहेन्द्रियादिसङ्घातेऽहम्मतिर्जायते दृढम् ॥ ६४॥ देहेन्द्रियादयो भावा नाहमर्था निरूपणे । भौतिकत्वाच्च भूतांशैः सदैवाप्यायितत्वतः ॥ ६५॥ मृदम्भसा यथा भित्तिर्निर्मिता वै मृदम्भसा । आप्यायते तथा भुक्तैर्भूतैर्देहादयोऽपि च ॥ ६६॥ अतो देहादिसङ्घातेऽहम्ममेत्यादिकां मतिम् । विसृज्य साक्षिचैतन्ये विद्वान्कुर्यादहम्मतिम् ॥ ६७॥ दध्नः सर्पिर्यथा जातं मन्थनेन सुरर्षभाः । तथा बुद्ध्यादयो भावा भूतेभ्यश्चोद्भवन्ति हि ॥ ६८॥ भौतिकं देहसङ्घातं विसृज्य मतिमान्पुनः । सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ६९॥ अन्नेनाप्यायतेऽभुक्ते नाधीतं तस्य भासते । ततोऽपि बुद्धिरन्नस्य कार्यमेव न संशयः ॥ ७०॥ अतोऽपि बुद्धिमन्नस्य कार्यं त्यक्त्वा विविक्तधीः । सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ७१॥ देहेन्द्रियादिसङ्घातेऽहम्ममेत्यादिकां मतिम् । त्यक्त्वा स्वात्मनि चिद्रूपे यदाऽपीतो भवत्ययम् ॥ ७२॥ तदा स्वपिति दुःखादिदर्शनं च न विद्यते । स्वात्मरूपसुखप्राप्तिरेवं दृष्टाऽस्य देहिनः ॥ ७३॥ अतोऽपि मतिमान्नित्यं त्यक्त्वा देहादिगां धियम् । सर्वसाक्षिणि चिद्रूपे साक्षात्कुर्यादहम्मतिम् ॥ ७४॥ यदिदं साक्षिणा वेद्यं तत्सर्वं ब्रह्म केवलम् । तत्सत्यं पूर्णचैतन्यं तत्त्वमर्थो न संशयः ॥ ७५॥ त्वंशब्दार्थो य आभाति सोऽहंशब्दार्थ एव हि । योऽहंशब्दार्थ आभाति स त्वंशब्दार्थ एव हि ॥ ७६॥ त्वमहंशब्दलक्ष्यार्थः साक्षात्प्रत्यक्चितिः परा । तच्छब्दस्य च लक्ष्यार्थः सैव नात्र विचारणा ॥ ७७॥ त्वमहंशब्दवाच्यार्थस्यैव देहादिवस्तुनः । न तच्छब्दार्थतां वक्ति श्रुतिस्तत्त्वमसीति सा ॥ ७८॥ तदर्थैक्यविरुद्धांशं त्यक्त्वा वाच्यगतं श्रुतिः । अविरुद्धचिदाकारं लक्षयित्वा ब्रवीति हि ॥ ७९॥ तदर्थे च त्वमर्थैक्यविरुद्धांशं विनैव तु । कारणत्वादिवाच्यस्थं लक्षयित्वा तु केवलम् ॥ ८०॥ चिदाकारं पुनस्तस्य त्वमर्थैक्यं ब्रवीति च । तत्त्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः ॥ ८१॥ एकत्वं यत्स्वतःसिद्धं स हि वाक्यार्थ आस्तिकाः । इतोऽन्यथा यो वाक्यार्थः सोऽवाक्यार्थो न संशयः ॥ ८२॥ एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः । व्यावहारिकमज्ञानं बाधते विद्ययैव तु ॥ ८३॥ सदा प्रमितमेकत्वं स्वत एव न चान्यतः । अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम् ॥ ८४॥ वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः । अतो वाक्यं न चाज्ञानबाधकं च निरूपणे ॥ ८५॥ एकत्वं यत्पुरा प्रोक्तं तत्स्वयं सेद्धुमर्हति । न प्रमाणेन मानानि तस्मिन्कुण्ठीभवन्ति हि ॥ ८६॥ व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुतः । अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव हि ॥ ८७॥ सत एव हि सद्भावो नासतः सूक्ष्मदर्शने । सदसत्कोटिनिर्मुक्तमित्युक्तिश्चार्थभासने । खलु नाभासते भानं ब्रह्म वस्त्वेव केवलम् ॥ ८८॥ भानसम्बन्धतोऽभानमिति वार्ताऽप्यसङ्गता ॥ ८९॥ सम्बन्धिरूपसद्भावे सति सम्बन्धसम्भवः । सद्भावे सति सम्बन्धिरूपं ब्रह्मैव केवलम् ॥ ९०॥ अनिरूपितरूपेण सद्भाव इति चेन्मतम् । अनिरूपितरूपस्य रूपं तु ब्रह्म केवलम् । ब्रह्मैव रूपं नैवान्यन्न रूपमपरस्य हि ॥ ९१॥ अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः । रूपरूपेण रूपं च ब्रह्मरूपं भवेत्खलु ॥ ९२॥ ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत् ॥ ९३॥ तर्हि रूपान्तरं रूपाद्भिन्नं वाऽभिन्नमेव वा । भिन्नाभिन्नं न वा भिन्नं यदि रूपाद्विभेदतः ॥ ९४॥ तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत् । उक्तदोषद्वयापत्तेर्भिन्नाभिन्नं न तद्भवेत् ॥ ९५॥ अत एव सुरश्रेष्ठा अनिरूपितरूपतः । सद्भाव इति वार्ता च वार्तैव खलु केवलम् ॥ ९६॥ तस्मादज्ञानमेवैतद्ब्रह्मैव सततोदितम् । अज्ञानमयमेवेदं सर्वमित्यपि भाषणम् । नैव भाषणमज्ञानाभावादेव शिवं विना ॥ ९७॥ तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः ॥ ९८॥ एकं ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः । ऐतदात्म्यमिदं सर्वमित्याह हि परा श्रुतिः ॥ ९९॥ साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते । श्रोतुश्चित्ताविपाकेन विषण्णा विवशा श्रुतिः ॥ १००॥ क्वचित्कदाचिदन्यार्थं वक्ति च ब्रह्मणः पृथक् । साध्यसाधनसम्बन्धकथनं फलभाषणम् ॥ १०१॥ जगद्वैचित्र्यनिर्देशो धर्माधर्मार्थभाषणम् । वर्णाश्रमविभागोक्तिस्तद्धर्मोक्तिस्तथैव च ॥ १०२॥ शोभनाशोभनोक्तिश्च भूतभौतिकभाषणम् । शब्दानां भेदनिर्देशस्तथाऽर्थानां च भाषणम् ॥ १०३॥ आत्मनोऽन्यस्य सर्वस्य सद्भावोक्तिः सुरर्षभाः । मिथ्यात्वभाषणं तस्य मायासद्भावभाषणम् ॥ १०४॥ मायात्वोक्तिश्च मायाया बन्ध इत्यभिभाषणम् । गुरुशिष्यकथोक्तिश्च ब्रह्मविद्याभिभाषणम् ॥ १०५॥ शास्त्राणामपि निर्देशस्तर्काणामपि भाषणम् । अन्यद्वितर्कजालं यत्तदुक्तिश्च समासतः । अन्यार्थेन परं ब्रह्म श्रुतिः साध्वी न तत्परा ॥ १०६॥ चित्तपाकानुगुण्येन श्रोतॄणां परमा श्रुतिः । सोपानक्रमतो देवा मन्दं मन्दं हितं नृणाम् ॥ १०७॥ उपदिश्य विषण्णाऽपि पुनः पक्वाधिकारिणः । ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम् ॥ १०८॥ जगज्जीवेश्वरत्वादिविचित्रविभवं विना । केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः ॥ १०९॥ जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम् । इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम् ॥ ११०॥ इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः । विचारेणायमेवार्थस्त्वयमेवाविचारणे ॥ १११॥ न कदाचिद्विशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम् ॥ ११२॥ यथा यथा स्वभावेन यद्यद्भाति सुरर्षभाः । तथा तथा शिवो भाति स्वयमेव न चापरः ॥ ११३॥ यथा यथा प्रभा साक्षाच्छाम्भवी सा न चापरा । इति निश्चयविज्ञानं परमाद्वैतवेदनम् ॥ ११४॥ यथा यथाऽवभासोऽयं शिव एवेति पश्यति । तथा तथा महादेवं भजतेऽयत्नतस्तु सः ॥ ११५॥ यथा यथा प्रथा पुंसस्तद्वस्तुष्वनवस्थिता । तथा तथाऽनुसन्धानं स्वभावेनैव पूजनम् ॥ ११६॥ शिवरूपतया सर्वं यो वेद स हि तत्त्ववित् । अशिवं वेद यत्किञ्चित्स एव परिमोहितः ॥ ११७॥ शिवादन्यतया किञ्चिदपि यो वेद सोऽधमः । शिवस्यैवापचारं हि कुरुते स पशुर्नरः ॥ ११८॥ शिवरूपतया सर्वं यस्य भाति स्वभावतः । स्वेच्छाचारः समाचारस्तस्य चार्चा च शूलिनः ॥ ११९॥ यथा यथा प्रभा शम्भोः प्रथा सा सा तदर्चनम् । इत्ययत्नेन विज्ञानात्पूज्यते परमेश्वरः ॥ १२०॥ क्रीडया जगदाकारा नान्यतश्चात्मदेवता । क्रीडयैवात्मनाऽऽत्मानं भुङ्क्ते सा तद्धि वेदनम् ॥ १२१॥ इन्द्रियाकारभासा सा विषयाकारभासनम् । क्रीडया देवता भुङ्क्ते स्वत इत्यर्चनं मतम् ॥ १२२॥ परमाद्वैतविज्ञानमिदं भवभयापहम् । भवप्रसादतो लभ्यं भावनारहितं परम् ॥ १२३॥ यथा नक्तन्दृशः सूर्यप्रकाशो नावभासते । तथेदं परमाद्वैतं मनुष्याणां न भासते ॥ १२४॥ प्रसादादेव रुद्रस्य श्रद्धया स्वस्य धैर्यतः । देशिकालोकनाच्चैव कर्मसाम्ये प्रकाशते ॥ १२५॥ बहुप्रकारं बहुशः श्रुतिः साध्वी सनातनी । एवमेतं महायासादर्थं वदति दुःखिनाम् ॥ १२६॥ शिव एवास्ति नैवान्यदिति यो निश्चयः स्थिरः । सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे ॥ १२७॥ अयमेव हि वेदार्थो नापरः परमास्तिकाः । गृह्णामि परशुं तप्तं सत्यमेव न संशयः ॥ १२८॥ अयमेव हि सत्यार्थो नापरः परमास्तिकाः । विश्वासार्थं शिवं स्पृष्ट्वा त्रिर्वः शपथयाम्यहम् ॥ १२९॥ अयमेव हि वेदार्थो नापरः परमास्तिकाः । अन्यथा चेत्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति ॥ १३०॥ अयमेव हि सत्यार्थो नापरः परमास्तिकाः । अत्रैव सन्निधिं देवो विश्वासार्थं करिष्यति ॥ १३१॥ सूत उवाच - एवमुक्त्वा तु भगवान्ब्रह्मा सर्वहिते रतः । प्रणम्य दण्डवद्भूमौ भक्त्या परवशोऽभवत् ॥ १३२॥ अस्मिन्नवसरे श्रीमाञ्शङ्करः शशिशेखरः । नीलकण्ठो विरूपाक्षः साम्बः साक्षाद्घृणानिधिः ॥ १३३॥ ब्रह्मविष्णुमहेशाद्यैरुपास्यो गुणमूर्तिभिः । आविर्बभूव सर्वज्ञस्तत्रैव सुरसन्निधौ ॥ १३४॥ आसनं विमलं दिव्यं शिवार्हं हैममद्भुतम् । आगतं तत्र भगवानास्ते तस्मिन्यथासुखम् ॥ १३५॥ विष्णुर्विश्वजगत्कर्ता शिवस्यामिततेजसः । बुद्ध्वोद्योगं महाप्रीतस्तत्र सन्निहितोऽभवत् ॥ १३६॥ पुष्पवृष्टिरभवत्पुनः पुनः शब्दितं च मुनिभिः सनातनैः । शुद्धवेदवचनैः सुशोभनै- र्भक्तिमद्भिरपि पूजनं कृतम् ॥ १३७॥ उच्चमन्दमृदुतीव्रकाहलैः शब्दितं च पटहादिभिस्तथा । तालमानकुशलैस्तथा परै- र्भेरिकादिकुशलैः सुघोषितम् ॥ १३८॥ अप्सरोभिरपि नर्तनं कृतं गायनैश्च सहितैर्महत्तरैः । गीतमाशु कविभिश्च कीर्तितं स्थानमीशदृशिगोचरं द्विजाः ॥ १३९॥ विस्मिताश्च मुनयश्च केचन श्रद्धयैव शिरसा च नर्तिताः । मुष्टियुद्धमपि कुर्युरास्तिकाः श्रद्धयैव परया च केचन ॥ १४०॥ मस्तकेन मनुजानतिप्रियान् पृष्ठतश्च चरणेन पाणिना । दण्डरज्जुशिबिकादिभिस्तथा केचिदश्वनिकरैर्वहन्ति च ॥ १४१॥ बन्धनं च निगडैश्च गर्विता मोचनं च मनुजानतिप्रियान् । कुर्युरस्त्रनिकरैश्च केचन च्छेदनं च विवशाश्च केचन ॥ १४२॥ अन्योन्यमालिङ्गनमाचरन्ति प्रियेण केचिन्मुनयश्च केचित् । धावन्ति वेगेन पटं विसृज्य प्रियेण चान्यानपि ताडयन्ति ॥ १४३॥ विलोक्य सर्वं शिवया शिवोऽपि प्रहृष्टचित्तस्तु निवार्य सर्वान् । हरिं विरञ्चिं च सुरानशेषा- नतिप्रियेणैव निरीक्ष्य विप्राः ॥ १४४॥ उवाच सत्यं करुणानिधानः श्रुतिप्रमाणैकसुनिश्चितार्थः । हिताय लोकस्य सुरासुराद्यैः प्रपूजनीयश्च सदा महेशः ॥ १४५॥ ईश्वर उवाच : अहं हि सर्वं न च किञ्चिदन्य- न्निरूपणायामनिरूपणायाम् । इयं हि वेदस्य परा हि निष्ठा ममानुभूतिश्च न संशयश्च ॥ १४६॥ अहं सदाऽधश्च यथाऽहमूर्ध्वं त्वहं पुरस्तादहमेव पश्चात् । अहं च सव्येतरमास्तिकास्तथा त्वहं सदैवोत्तरतोऽन्तरालम् ॥ १४७॥ परोक्षरूपेण सुसंस्थितोऽहं तथाऽपरोक्षेण सुसंस्थितोऽहम् । अनात्मरूपेण सुसंस्थितोऽहं सदात्मरूपेण सुसंस्थितोऽहम् ॥ १४८॥ जैवेन रूपेण सुसंस्थितोऽहम् तथेशरूपेण सुसंस्थितोऽहम् । अज्ञानरूपेण सुसंस्थितोऽहम् विज्ञानरूपेण सुसंस्थितोऽहम् ॥ १४९॥ संसाररूपेण सुसंस्थितोऽहम् कैवल्यरूपेण सुसंस्थितोऽहम् । शिष्यादिरूपेण सुसंस्थितोऽहम् गुर्वादिरूपेण सुसंस्थितोऽहम् ॥ १५०॥ वेदादिरूपेण सुसंस्थितोऽहं स्मृत्यादिरूपेण सुसंस्थितोऽहम् । पुराणरूपेण सुसंस्थितोऽहं कल्पादिरूपेण सुसंस्थितोऽहम् ॥ १५१॥ प्रमातृरूपेण सुसंस्थितोऽहं प्रमाणरूपेण सुसंस्थितोऽहम् । प्रमेयरूपेण सुसंस्थितोऽहं मितिस्वरूपेण सुसंस्थितोऽहम् ॥ १५२॥ कर्तृस्वरूपेण सुसंस्थितोऽहं क्रियास्वरूपेण सुसंस्थितोऽहम् । तद्धेतुरूपेण सुसंस्थितोऽहं फलस्वरूपेण सुसंस्थितोऽहम् ॥ १५३॥ भोक्तृस्वरूपेण सुसंस्थितोऽहं भोगस्वरूपेण सुसंस्थितोऽहम् । तद्धेतुस्वरूपेण सुसंस्थितोऽहं भोग्यस्वरूपेण सुसंस्थितोऽहम् ॥ १५४॥ पुण्यस्वरूपेण सुसंस्थितोऽहं पापस्वरूपेण सुसंस्थितोऽहम् । सुखस्वरूपेण सुसंस्थितोऽहं दुःखस्वरूपेण सुसंस्थितोऽहम् ॥ १५५॥ रुद्रप्रभेदेन सुसंस्थितोऽहं विष्णुप्रभेदेन सुसंस्थितोऽहम् । ब्रह्मप्रभेदेन सुसंस्थितोऽहं देवप्रभेदेन सुसंस्थितोऽहम् ॥ १५६॥ मर्त्यप्रभेदेन सुसंस्थितोऽहं तिर्यक्प्रभेदेन सुसंस्थितोऽहं कृमिप्रभेदेन सुसंस्थितोऽहं कीटप्रभेदेन सुसंस्थितोऽहम् ॥ १५७॥ वृक्षप्रभेदेन सुसंस्थितोऽहं गुल्मप्रभेदेन सुसंस्थितोऽहम् । लताप्रभेदेन सुसंस्थितोऽहं तृणप्रभेदेन सुसंस्थितोऽहम् ॥ १५८॥ कलाप्रभेदेन सुसंस्थितोऽहं घटप्रभेदेन सुसंस्थितोऽहम् । पटप्रभेदेन सुसंस्थितोऽहं कुड्यादिभेदेन सुसंस्थितोऽहम् ॥ १५९॥ अन्नप्रभेदेन सुसंस्थितोऽहं पानप्रभेदेन सुसंस्थितोऽहम् । वनप्रभेदेन सुसंस्थितोऽहं गिरिप्रभेदेन सुसंस्थितोऽहम् ॥ १६०॥ नदीप्रभेदेन सुसंस्थितोऽहं नदप्रभेदेन सुसंस्थितोऽहम् । समुद्रप्रभेदेन सुसंस्थितोऽहं तटप्रभेदेन सुसंस्थितोऽहम् ॥ १६१॥ तडागभेदेन सुसंस्थितोऽहं अभ्रप्रभेदेन सुसंस्थितोऽहम् । नक्षत्रभेदेन सुसंस्थितोऽहं ग्रहप्रभेदेन सुसंस्थितोऽहम् ॥ १६२॥ मेघप्रभेदेन सुसंस्थितोऽहं विद्युत्प्रभेदेन सुसंस्थितोऽहम् । यक्षप्रभेदेन सुसंस्थितोऽहं रक्षःप्रभेदेन सुसंस्थितोऽहम् ॥ १६३॥ गन्धर्वभेदेन सुसंस्थितोऽहं सिद्धप्रभेदेन सुसंस्थितोऽहम् । अण्डप्रभेदेन सुसंस्थितोऽहं लोकप्रभेदेन सुसंस्थितोऽहम् ॥ १६४॥ देशप्रभेदेन सुसंस्थितोऽहं ग्रामप्रभेदेन सुसंस्थितोऽहम् । गृहप्रभेदेन सुसंस्थितोऽहं मठप्रभेदेन सुसंस्थितोऽहम् ॥ १६५॥ कटप्रभेदेन सुसंस्थितोऽहं प्राकारभेदेन सुसंस्थितोऽहम् । पुरप्रभेदेन सुसंस्थितोऽहं पुरीप्रभेदेन सुसंस्थितोऽहम् ॥ १६६॥ व्योमादिभेदेन सुसंस्थितोऽहं शब्दादिभेदेन सुसंस्थितोऽहम् । शरीरभेदेन सुसंस्थितोऽहं प्राणप्रभेदेन सुसंस्थितोऽहम् ॥ १६७॥ श्रोत्रादिभेदेन सुसंस्थितोऽहं पदादिभेदेन सुसंस्थितोऽहम् । मनःप्रभेदेन सुसंस्थितोऽहं बुद्धिप्रभेदेन सुसंस्थितोऽहम् ॥ १६८॥ अहम्प्रभेदेन सुसंस्थितोऽहं चित्तप्रभेदेन सुसंस्थितोऽहम् । सङ्घातभेदेन सुसंस्थितोऽहं जन्मादिभेदेन सुसंस्थितोऽहम् ॥ १६९॥ जाग्रत्प्रभेदेन सुसंस्थितोऽहं स्वप्नप्रभेदेन सुसंस्थितोऽहम् । सुषुप्तिभेदेन सुसंस्थितोऽहं तुरीयभेदेन सुसंस्थितोऽहम् ॥ १७०॥ दृश्यप्रभेदेन सुसंस्थितोऽहं द्रष्टृप्रभेदेन सुसंस्थितोऽहम् । साक्षिस्वरूपेण सुसंस्थितोऽहं सर्वस्वरूपेण सुसंस्थितोऽहम् ॥ १७१॥ अस्तिनास्तिवचनेन भाषितं भातिशब्दपरिभाषितं तथा । भानहीनपरिभाषितं च मे रूपमेव हि न संशयः क्वचित् ॥ १७२॥ शब्दगोचरतया स्थितं सदा शब्दगोचरविहीनरूपतः । यत्स्थितं तदहमेव सन्ततं प्रत्ययेऽपि गतिरेवमेव हि ॥ १७३॥ नित्यशुद्धपरिबुद्धमुक्ततां यस्य नित्यमिति वक्ति वाक् श्रुतेः । तस्य सत्यसुखबोधपूर्णता तथ्यमेव मम नास्ति संशयः ॥ १७४॥ यत्स्वरूपमहमात्मना तथा यत्स्वरूपमिदमात्मनैव तु । भाति तत्तु मम चिद्वपुः सदा भाति नान्यदिति निश्चयो मम ॥ १७५॥ अहं समस्तं मम रूपतः पृथङ् न किञ्चिदस्तीति सुनिश्चयः कृतः । मया तु वेदान्तवचोभिरञ्जसा पितामहेनापि च सत्यमीरितम् ॥ १७६॥ अत्र संशयमतिर्विनश्यति भ्रष्ट एव परमार्थदर्शनात् । अत्र निश्चयमतिस्तु मुच्यते कष्टरूपभवपाशबन्धनात् ॥ १७७॥ सूत उवाच । एवमुक्त्वा महादेवः साम्बः संसारमोचकः । समालिङ्ग्य महाविष्णुं ब्रह्माणमपि सादरम् ॥ १७८॥ विलोक्य देवानखिलान्विशुद्धेनैव चेतसा । भद्रमस्तु सुरश्रेष्ठा युष्माकमिति चाब्रवीत् ॥ १७९॥ देवाश्च देवदेवेशं प्रसन्नं करुणानिधिम् । पूजयामासुराह्लादात्पत्रपुष्पफलादिभिः ॥ १८०॥ विष्णुर्विश्वजगत्कर्ता विश्वेशाङ्घ्रिसरोरुहम् । स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८१॥ पितामहोऽपि सर्वात्मा शिवपादाम्बुजद्वयम् । स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८२॥ देवदेवो महादेवः साम्बः संसारमोचकः । ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १८३॥ करतालं महादेवी करुणासागरा परा । चकार परमप्रीत्या समालोक्य महेश्वरम् ॥ १८४॥ विष्णुर्ब्रह्मा सुराः सर्वे तत्र सन्निहिता जनाः । सर्वे सन्तोषतस्तत्र नृत्यन्ति स्म यथाबलम् ॥ १८५॥ देवदेवो महादेवो महानन्दोदधिर्द्विजाः । विलोक्य सर्वान्सुप्रीतस्तत्रैवान्तर्हितोऽभवत् ॥ १८६॥ विष्णुर्ब्रह्माणमालिङ्ग्य विलोक्य सकलान्सुरान् । प्रसन्नः पद्मया सार्धं वैकुण्ठमगमत्प्रभुः ॥ १८७॥ ब्रह्माऽपि विस्मयापन्नो विलोक्य सकलान्सुरान् । अवशः सन्पुनश्चाह श्रद्धयैव तु केवलम् ॥ १८८॥ ब्रह्मोवाच । विद्याः सर्वा नृणां साक्षात्संसारस्य प्रवर्तिकाः । आत्मविद्या तु संसारतमसः प्रतिघातिनी ॥ १८९॥ आत्मविद्याविहीनस्य शोकसागर एव हि । मुक्तिरेवात्मनिष्ठस्य नास्ति संशयकारणम् ॥ १९०॥ यत्रान्यत्पश्यति प्राणी शृणोत्यन्यत्तथैव च । अन्यज्जानाति चाल्पं तद्यदल्पं मर्त्यमेव तत् ॥ १९१॥ यत्र पश्यति नान्यच्च न शृणोत्यन्यदास्तिकाः । अन्यच्च न विजानाति स भूमा सुरपुङ्गवाः ॥ १९२॥ यो वै भूमा सुखं तद्धि तद्धि कैवल्यमुत्तमम् । नाल्पे चास्ति सुखं तस्मान्महाद्वैतपरो भवेत् ॥ १९३॥ महाद्वैतपरस्यास्य न नाशो जन्म नैव च । नैव गत्यागती नान्यद्बन्धनं न विमोचनम् ॥ १९४॥ अत्रैव लीयते सम्यक्सर्वमात्मतया स्वतः । घृतकाठिन्यवत्स्वप्नप्रपञ्चप्रतिभासवत् ॥ १९५॥ सर्वमेतदतिशोभनं परं केवलं करुणयैव भाषितम् । देवदेवचरणप्रसादतो नेतरद्धि कथनीयमस्ति वः ॥ १९६॥ इति ब्रह्मगीतासूपनिषत्सु आदेशकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
॥ अथ षष्ठोऽध्यायः ॥ ॥ दहरोपासनविवरणम् ॥ ब्रह्मोवाच । अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं सुराः । पुण्डरीकं तु तन्मध्य आकाशो दहरोऽस्ति तु ॥ १॥ स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः । स विजिज्ञासितव्यश्च विना सङ्कोचमास्तिकाः ॥ २॥ स्वाभिव्यञ्जकसङ्कोचत्सङ्कोचप्रतिभाऽऽत्मनः । न स्वरूपेण चिद्रूपं सर्वव्यापि सदा खलु ॥ ३॥ ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिणः । सर्वं भाति तदाभाति ततस्तद्व्यापि सर्वदा ॥ ४॥ स्वयं सेद्धुमशक्यं हि जडात्मकमिदं जगत् । चित्सम्बन्धबलेनैव खलु भाति न चान्यथा ॥ ५॥ अतोऽवभास्यं सकलं व्याप्य तद्भासकः शिवः । स्वतो व्यापी न चाव्यापी सङ्कोचश्चान्यसङ्गमात् ॥ ६॥ यावान्वा अयमाकाशस्तावानाकाश आन्तरः । द्यावापृथ्वी उभे अस्मिन्नन्तरेव समाहिते ॥ ७॥ उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । नक्षत्राणि च विद्युच्च यच्चास्तित्वेन भासते ॥ ८॥ यच्च नास्तितया भाति सर्वं तस्मिन्समाहितम् । अतः सर्वाश्रयः शम्भुः सर्वव्यापी स्वभावतः ॥ ९॥ एष आत्मा परो व्यापी पाप्मभिः सकलैः सदा । असौ चा(ना)पहतः साक्षी विमृत्युर्विजरः सुराः ॥ १०॥ विशोको विजिघत्सोऽपिपासः सत्यादिलक्षणः । सत्यकामस्तथा सत्यसङ्कल्पश्च सुरर्षभाः ॥ ११॥ यथा कर्मजिता लोकाः क्षीयन्ते भुवि सत्तमाः । तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च ॥ १२॥ येऽविदित्वा परात्मानं व्रजन्ति सकलाः क्रियाः । तेषां सर्वेषु लोकेषु कामचारो न विद्यते ॥ १३॥ ये विदित्वा परात्मानं व्रजन्तीव क्रियाः स्थिताः । तेषां सर्वेषु लोकेषु कामचारस्तु विद्यते ॥ १४॥ यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः । उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः ॥ १५॥ तथा सुषुप्तौ गच्छन्तो ब्रह्मलोकं स्वयम्प्रभम् । न विन्दन्ति महामोहादहो मोहस्य वैभवम् ॥ १६॥ अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तं शिवः संसारमोचकः ॥ १७॥ य एवं वेद स स्वर्गं लोकमेति न संशयः । अस्माच्छरीरादुत्थाय सुषुप्तौ यः सुरर्षभाः ॥ १८॥ परं ज्योतिःस्वरूपं तं शिवं सम्पद्यते सुराः । अभिनिष्पद्यते स्वेन रूपेणैव स्वभावतः ॥ १९॥ एष आत्मा न चैवान्यः सत्यमेव मयोदितम् । एतदेवामृतं साक्षादभयं ब्रह्म हे सुराः ॥ २०॥ य आत्मा दहराकाशः स सेतुर्विधृतिः सुराः । असम्भेदाय लोकानामेषामेतं महेश्वरम् ॥ २१॥ अहोरात्रे न तरतो न मृत्युर्न जराऽपि च । न शोको नैव सुकृतं न दुष्कृतमपीश्वराः ॥ २२॥ अतः सर्वे निवर्तन्ते पाप्मानः सुरपुङ्गवाः । एषोऽपहतपाप्मा हि ब्रह्मलोकः स्वयम्प्रभः ॥ २३॥ तस्माद्वै सेतुमेतं तु तीर्त्वाऽन्धः सन्सुरर्षभाः । भवत्यनन्धो विद्धः सन्नविद्धस्तद्वदेव तु ॥ २४॥ य एषो दहराकाश इत्युक्तः परमेश्वरः । स देहादिविशेषेभ्यः पृथग्भूतः सनातनः ॥ २५॥ जाग्रत्स्वप्नसुषुप्ताख्याऽवस्था या भाति देहिनाम् । तस्या अपि महादेवः साक्षी भिन्नः स्वयम्प्रभः ॥ २६॥ तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च ॥ २७॥ स्वदृश्येन शरीरेण सशरीरस्य सर्वदा । प्रियाप्रियाभ्यां सम्बन्धो भवत्येव न संशयः ॥ २८॥ अशरीरं वाव सन्तं विद्यया न प्रियाप्रिये । स्पृशतः सत्यमेवोक्तं नात्र सन्देहकारणम् ॥ २९॥ य एष दहराकाशः स एव सुरपुङ्गवाः । नामरूपस्य निर्माता तदेव ब्रह्म शाश्वतम् ॥ ३०॥ अमृतं च तदेवैतत्स आत्मा सर्वदेहिनाम् । ततो नान्यत्परं किञ्चिन्नापरं चास्ति किञ्चन ॥ ३१॥ स एव सर्वरूपेण विभाति न विभाति च । अहो रुद्रस्य देवस्य पूर्णता को नु वेद ताम् ॥ ३२॥ यथा मृत्स्वविकारेषु तत्तद्रूपेण संस्थिता । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३३॥ यथा वारिविकारेषु जलं तत्तत्स्वरूपतः । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३४॥ यथाऽग्निः स्वविकारेषु तत्तद्रूपेण संस्थितः । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३५॥ यथा वा स्वविकारेषु वायुस्तत्तत्स्वरूपतः । तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३६॥ यथा वा सर्वगं व्योम स्वाकाराणैव संस्थितम् । तथा सर्वात्मकः साक्षी साक्षिरूपेण संस्थितः ॥ ३७॥ घटाकाशादिभेदेन विभिन्नोऽप्यविभागवान् । आकाशस्तद्वदीशानो विभिन्नोऽप्यविभागवान् ॥ ३८॥ महादेवोऽविभागेन विभागेन च भासते । अन्यथा चेन्महादेवो महादेवः कथं भवेत् ॥ ३९॥ महादेवो महादेव एव नैवामहानयम् । तथा सति महादेव एव सर्वं न चापरम् ॥ ४०॥ येन केनापि रूपेण यद्यद्भाति न भाति च । तेन तेनैव रूपेण शिव एवावभासते ॥ ४१॥ यथाभातेन रूपेण शिव एवेति या मतिः । सा शिवा परमा संविन्नापरा न हि संशयः ॥ ४२॥ अहमिति शिवसत्यचिद्घनः स्फुरति सदा पृथगस्ति नैव वस्तु । इदमिति वपुषा च तेन बन्धनं न हि मनुजस्य विमोचनं च किञ्चित् ॥ ४३॥ शिव इति सकलं यदा विभासते न च मरणं जननं तदाऽस्ति किञ्चित् । इति हृदये वचनं मदीयमेत- न्निशितमतिः सततं निधाय तिष्ठेत् ॥ ४४॥ परमशिवः परमेश्वरः प्रसन्नो यदि विमला परमानुभूतिरेषा । न हि सकलैर्विमलैरुपायवृन्दै- र्न च हरिणा न मया न चापरेण ॥ ४५॥ परमशिवः परमेश्वरः स्वतन्त्रो यदि कुरुते मनुजस्य वेदनं हि तत् । परमपदं विमलं प्रयाति मर्त्यो यदि कुरुते न शिवः प्रयाति बन्धम् ॥ ४६॥ दिनकरकिरणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेति । घनतरभवकारणान्तरं तमः शिवदिनकृत्प्रभया न चापरेण ॥ ४७॥ हरिरहमप्यपरे सुरासुराद्याः परमशिवप्रभया तिरस्कृताश्च । रविकिरणैरखिलान्यहानि यद्वत् परमशिवः स्वत एव बोधकारी ॥ ४८॥ शिवचरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः । न हि मरणप्रभवप्रणाशहेतुः शिवचरणस्मरणादृतेऽस्ति किञ्चित् ॥ ४९॥ परमशिवः खलु नः समस्तहेतुः परमशिवः खलु नः समस्तमेतत् । परमशिवः खलु नः स्बरूपभूतः परमशिवः खलु नः प्रमाणभूतः ॥ ५०॥ परमशिवः सकलागमादिनिष्ठः परमशिवः परमानुभूतिगम्यः । परमशिवः परमानुभूतिरूपः परमशिवः परमानुभूतिदश्च ॥ ५१॥ परमशिवसमुद्रेऽहं हरिः सर्वदेवा मनुजपशुमृगाद्याः शीकरा एव सत्यम् । विमलमतिभिरेवं वेदवेदान्तनिष्ठै- र्हृदयकुहरनिष्ठं वेदितुं शक्यते हि ॥ ५२॥ मायाबलेनैव हरिं शिवेन समानमाहुः पुरुषाधमाश्च । मोहेन केचिन्मम साम्यमाहु- र्माया तु शैवी खलु दुस्तरेयम् ॥ ५३॥ खद्योतो यदि चण्डभानुसदृशस्तुल्यो हरिः शम्भुना किम्पाको यदि चन्दनेन सदृशस्तुल्योऽहमीशेन च । अज्ञानं यदि वेदनेन सदृशं देवेन तुल्या जनाः किं वक्ष्ये सुरपुङ्गवा अहमहो मोहस्य दुश्चेष्टितम् ॥ ५४॥ अतः शिवेनैव समस्तमेत- द्भवत्यनन्तेन न चापरेण । शिवस्वभावेन शिवः समस्तं शिवप्रभावेन जगद्विचित्रम् ॥ ५५॥ तत्त्वदृक्सकलमद्वयं सदा पश्यति स्म परिमोहितः पुमान् । कष्टशिष्टघटकुड्यरूपतः कष्टमेव खलु तस्य वेदनम् ॥ ५६॥ इदं जगदिति स्वतः सकलजन्तोः प्रतीतिर्दृढा परं जगदिति स्फुरत्यमलबोधस्वभावेन च । इदं हि परिवेदनं विमलचित्तस्य पुंसः सदा भवं तरति मानवः परमबोधेन चैतेन हि ॥ ५७॥ छन्दोगश्रुतिमस्तके विनिहितं विज्ञानमेतन्मया जन्तूनामविवेकिनामतितरामज्ञानविध्वस्तये । कारुण्यादमराधिपा अतिशुभब्रह्मामृतावाप्तये देवानामधिपाधिपस्य वचनादुक्तं महेशस्य च ॥ ५८॥ इति ब्रह्मगीतासूपनिषत्सु दहरोपासनविवरणं नाम षष्ठोऽध्यायः ॥ ६॥
॥ अथ सप्तमोऽध्यायः ॥ ॥ वस्तुस्वरूपविचारः ॥ ब्रह्मोवाच । अस्ति तत्त्वं परं साक्षादक्षरं क्षरवस्तुनाम् । अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ॥ १॥ तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं सुराः । तदात्मकत्वात्सर्वस्य नास्त्येव हि भिदा स्वतः ॥ २॥ द्वे विद्ये वेदितव्ये हि परा चैवापरापि च । तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ ३॥ सामवेदस्तथाऽथर्ववेदः शिक्षा सुरर्षभाः । कल्पो व्याकरणं चैव निरुक्तं छन्द एव च । ज्योतिषं च तथाऽनात्मविषया अपि बुद्धयः ॥ ४॥ अथैषा परविद्या सा यया तत्परमक्षरम् । गम्यते सुदृढं प्राज्ञैः साक्षाच्छम्भोः प्रसादिभिः ॥ ५॥ यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् । अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं सदा ॥ ६॥ नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । यद्भूतयोनिं धीमन्तः परिपश्यन्ति चात्मना ॥ ७॥ यथोर्णनाभिः सृजते गृह्णते च सुरर्षभाः । यथा पृथ्व्यामोषधयः सम्भवन्ति यथा सतः ॥ ८॥ पुरुषात्केशलोमानि तथा चैवाक्षरात्सुराः । विश्वं सम्भवतीहैव तत्सर्वं स्वपनोपमम् ॥ ९॥ तपसा चीयते ब्रह्म तदन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ १०॥ यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ॥ ११॥ तस्मादेतत्सुरा ब्रह्म नामरूपान्नपूर्वकम् । जायते सत्यवत्स्वप्नप्रपञ्चोपममेव तत् ॥ १२॥ तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते । कर्मणा नास्ति तत्प्राप्तिः संसारस्य विनाशनम् । प्लवा ह्येते सुरा यज्ञा अदृढाश्च न संशयः ॥ १३॥ एभिरेव परं श्रेय इति जानन्ति ये जनाः । ते मूढा अनिशं मृत्युं जरां चैवापियन्ति हि ॥ १४॥ कर्मनिष्ठाः स्वयं धीरा मर्त्याः पण्डितमानिनः ॥ १५॥ मूढा एव न विद्वांसस्तेषां नास्ति परा गतिः । अन्धेनैव यथा चान्धा नीयमानाः सुदारुणे ॥ १६॥ अन्धकूपे पतन्त्येव तथा कर्मरता जनाः । कर्मनिष्ठा स्वयं सर्वे कृतार्था इति मोहिताः ॥ १७॥ अभिमन्यन्ति ते कर्मक्षये वश्यं पतन्ति हि । विना नास्ति परं ज्ञानं तेषां कैवल्यमुत्तमम् ॥ १८॥ इष्टापूर्तं मन्यमाना वरिष्ठमिति ये जनाः । ते मूढाः परमं श्रेयो नैव यान्ति न संशयः ॥ १९॥ अनेकजन्मसंसिद्धः श्रौतस्मार्तपरायणः । अनित्यमिति विज्ञाय जगद्वैराग्यमाप्नुयात् ॥ २०॥ ज्ञानादेव हि संसारविनाशो नैव कर्मणा । इति ज्ञात्वा शिवज्ञानसिद्ध्यर्थं पुनरास्तिकाः ॥ २१॥ श्रोत्रियं ब्रह्मनिष्ठं च गुरुं गच्छेत्प्रियेण च । गुरुस्तस्मै परां विद्यां दद्याच्च सुरपुङ्गवाः ॥ २२॥ विस्फुलिङ्गा यथा चाग्नेः सुदीप्तात्प्रभवन्ति च । अपियन्ति तथा भावा अक्षरे शिवसञ्ज्ञके ॥ २३॥ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो मायाया जीवतः परः ॥ २४॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ २५॥ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां भूमिः शङ्करोऽयं हि सत्यः ॥ २६॥ तस्मादग्निः समिधो यस्य सूर्यः सोमाद्वृष्टिश्चौषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजा बहुधा सम्प्रसूताः ॥ २७॥ तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरो यजमानश्च लोकः सोमो यत्र पवते यत्र सूर्यः ॥ २८॥ तस्माद्देवा बहुधा सम्प्रसूताः साध्या मर्त्याः पशवः पक्षिणश्च । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ २९॥ तस्मात्प्राणा अर्चिषः सप्त होमाः सुरश्रेष्ठाः समिधः सप्त चैव । लोकाः सर्वे चोद्भवन्त्याशु पूर्वं यथा तद्वत्स्वप्नतुल्यं तथाऽपि ॥ ३०॥ अतः समुद्रा गिरयश्च नद्य- स्तथा सर्वा ओषधयो रसाश्च । सर्वस्यात्मा सर्वसाक्षी परात्मा नित्यानन्दोऽयं पुराणः सुपूर्णः ॥ ३१॥ इदं सकलमास्तिकाः पुरुष एव नैवापरं न किञ्चिदपरं ततः सकलमस्ति सत्यं हि तत् । इदं हि मम वेदनं मुनिगणस्य शम्भोर्हरे- र्न कश्चिदपि संशयः श्रुतिमतस्य युक्तः खलु ॥ ३२॥ अहो विषयमायया मरणपूर्वदुःखोदधौ पतन्ति मनुजा अमी परशिवस्य विद्यां विना । तरन्ति जननार्णवं परशिवस्य विद्याबला- दिदं तु शिववेदनं शिवपदस्य देवाबलात् ॥ ३३॥ गुहायां निहितं साक्षादक्षरं वेद चेन्नरः । छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ॥ ३४॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतदमृतं सत्यं तद्वेद्धव्यं मनीषिभिः ॥ ३५॥ धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३६॥ लक्ष्यं सर्वगतं चैव शरोऽयं सर्वतोमुखः । वेद्धा सर्वगतश्चैव विद्धं लक्ष्यं न संशयः ॥ ३७॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देव पश्येन्निगूढवत् ॥ ३८॥ द्यौरन्तरिक्षं भूमिश्च मनः प्राणः सुरोत्तमाः । यस्मिन्नोतं तमेवैकं विद्यात्प्राज्ञः समाहितः ॥ ३९॥ ब्रह्मैकविषयां वाचं वदेत्सततमास्तिकाः । अन्या वाचस्त्यजेदेष सेतुरेवामृतस्य च ॥ ४०॥ यः सर्वज्ञः सर्वविद्यो यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे व्योम्नि शिवः साक्षात्प्रतिष्ठितः ॥ ४१॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितः सर्वहृदम्बुजान्तः । तद्विज्ञानेन परिमुच्यन्ति धीरा यद्भाति चानन्दवपुः स्वभावात् ॥ ४२॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ४३॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ४४॥ न तत्र सूर्यश्चन्द्रश्च तारका विद्युतोऽनलः । विभान्ति शङ्करे साक्षात्स्वयम्भाने चिदात्मके ॥ ४५॥ तमेव सकलं भान्तमनुभाति स्वभावतः । तस्य भासा सर्वमिदं विभाति तत एव हि ॥ ४६॥ न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकलाश्च देवताः । स एष देवः कृतभूतभावनः स्वयं विशुद्धो विरजः प्रकाशते ॥ ४७॥ ब्रह्मैवेदममृतं तत्पुरस्ता- द्ब्रह्मानन्तं परमं चैव पश्चात् । ब्रह्मानन्तं परमं दक्षिणे च ब्रह्मानन्तं परमं चोत्तरे च ॥ ४८॥ द्वौ सुपर्णौ शरीरेऽस्मिन् जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ४९॥ केवलं साक्षिरूपेण विना भोगं महेश्वरः । प्रकाशते स्वयम्भेदः कल्पितो मायया तयोः ॥ ५०॥ यथाकाशो घटाकाशमहाकाशमभेदतः । कल्पितः परचिज्जीवः शिवरूपेण कल्पितः ॥ ५१॥ तत्त्वतश्चिच्छिवः साक्षाच्चिज्जीवश्च ततः सदा । चिच्चिदाकारतोऽभिन्ना न भिन्न चित्त्वहानितः ॥ ५२॥ चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः । भिद्यते चेज्जडे भेदश्चिदेका सर्वदा खलु ॥ ५३॥ तर्कतश्च प्रमाणाच्च चिदेकत्वे व्यवस्थिते । अपि पापवतां पुंसां विपरीता मतिर्भवेत् ॥ ५४॥ श्रौतस्मार्तसमाचारैर्विशुद्धस्य महात्मनः । प्रसादादेव रुद्रस्य चिदेकत्वे मतिर्भवेत् ॥ ५५॥ चिदेकत्वपरिज्ञानान्न शोचति न मुह्यति । अद्वैतं परमानन्दं शिवं याति तु केवलम् ॥ ५६॥ शिवस्थाने शरीरेऽस्मिन्स्थितोऽपि स्वात्ममायया । दुःखादिसागरे मग्नो मुह्यमानश्च शोचति ॥ ५७॥ स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम् । अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ॥ ५८॥ अहमस्मीति निश्चित्य वीतशोको भवत्ययम् । अस्य चिन्मात्ररूपस्य स्वस्य सर्वस्य साक्षिणः ॥ ५९॥ महिमानं यदा वेद परमाद्वैतलक्षणम् । तदैव विद्यया साक्षाद्वीतशोको भवत्ययम् ॥ ६०॥ ब्रह्मयोनिं सदा पूर्णं रुक्मवर्णं महेश्वरम् । अपश्यन्नेव पश्यन्तं कर्तृत्वेन प्रकाशितम् ॥ ६१॥ अनेककोटिभिः कल्पैरर्जितैः पुण्यकर्मभिः । तर्कतश्च प्रमाणाच्च प्रसादात्परमेश्वरात् ॥ ६२॥ पश्यति श्रद्धया चापि यदा विद्वान्सुरर्षभाः । पुण्यपापे विधूयायमसक्तः सर्वहेतुभिः ॥ ६३॥ सर्वाकारतया साम्यं परमाद्वैतलक्षणम् । उपैति नात्र सन्देहः कर्तव्यश्च मनीषिभिः ॥ ६४॥ चिन्मात्रं हि सदा रूपमुभयोः शिवजीवयोः । तथा सति कथं साम्यं चिन्मात्रे भेदवर्जिते ॥ ६५॥ उपाधियुक्तरूपे तु तयोः साम्यं भवेद्यदि । तदाऽपि नैव साम्यं स्याज्जीवस्य परमात्मनः ॥ ६६॥ महाकाशसमत्वं तु घटाकाशस्य सर्वथा । यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु ॥ ६७॥ अस्तु वा साम्यमीशेन जीवस्यास्य तदाऽपि तु । कर्मणा विद्यया वा तत्साम्यं सिध्यति नान्यथा ॥ ६८॥ कर्मणा चेद्विनाशः स्यात्कर्मसाध्यं हि नश्वरम् । विद्ययैव तु चेत्साम्यं पुरस्तादेव चास्ति हि ॥ ६९॥ पुरस्तादेव सिद्धस्य बोधकं खलु वेदनम् । अभूतार्थस्य चोत्पत्तिं न करोति कदाचन ॥ ७०॥ तत्रैवं सति साम्यं तु तयोः सर्वात्मनैव तु । पुरस्तादेव चास्त्येव तदाऽपि शिवजीवयोः ॥ ७१॥ पुरस्तादेव कैवल्यं लक्षणैकत्वतोऽस्ति च । तथा सति शिवो भिन्नो विद्ययाऽभिन्नवत्स्थितः ॥ ७२॥ विद्यया तद्विनाशेन स्वसाम्यं याति नान्यथा । अतः साम्यं तयोः साक्षादैक्यमेव न चेतरत् ॥ ७३॥ एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् । स्वात्मन्येव रतिं क्रीडामन्यच्च कुरुते सदा ॥ ७४॥ बहिश्चेष्टा च मय्येव शिवे सत्यसुखात्मके । इति जानाति सर्वं तु स्वात्मनैव हि भासते ॥ ७५॥ स्वात्मनैव स्वयं सर्वं यदा पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्तता ॥ ७६॥ एवं रूपा परा विद्या सत्येन तपसाऽपि च । ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदोक्तवर्त्मना ॥ ७७॥ शरीरेऽन्तः स्वयञ्ज्योतिःस्वरूपं स्वकमैश्वरम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः ॥ ७८॥ एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिद्गमनं नास्ति तस्य सम्पूर्णरूपिणः ॥ ७९॥ आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति । तद्वत्स्वात्मविभुत्वज्ञः कुत्रचिन्नैव गच्छति ॥ ८०॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वः स निष्कलं पश्यति रूपमैशम् ॥ ८१॥ ध्यानेन परमेशस्य साम्बमूर्तिधरस्य च । स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना ॥ ८२॥ एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्र्यया धिया । पञ्चधा सन्निविष्टोऽसुर्यस्मिन्सर्वाश्रये सुराः ॥ ८३॥ संविभाति स्वचित्तेन यं यं लोकं विशुद्धधीः । सदा कामयते यांश्च तज्जयत्यखिलं ततः ॥ ८४॥ तस्मादात्मविदं साक्षादीश्वरं भवतारकम् । अर्चयेद्भूतिकामस्तु स्वशरीरेण चार्थतः ॥ ८५॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ ८६॥ नायमात्मा बलहीनेन लभ्यः प्रमादतस्तपसो नान्यलिङ्गात् । एतैर्यत्नं यः करोत्येव धीमां- स्तस्यात्माऽयं विशते ब्रह्म धाम ॥ ८७॥ सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतशोकाः प्रशान्ताः । ते सर्वगं सर्वशः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ८८॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ ८९॥ गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवताश्च । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ९०॥ यथा नद्यः स्यन्दमानाः समुद्रे अस्तं यान्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषं ब्रह्म याति ॥ ९१॥ स यो ह वै तत्परमं ब्रह्म वेद सुरर्षभाः । ब्रह्मैव भवति ज्ञानान्नास्ति संशयकारणम् ॥ ९२॥ सुनिश्चितं परं ब्रह्म वेद चेत्स्वानुभूतितः । कुले भवति नाब्रह्मवित्तस्य सुरपुङ्गवाः ॥ ९३॥ शोकं तरति पाप्मानं गुहाग्रन्थिर्विनश्यति । अमृतो भवति प्राज्ञः सत्यमेव मयोदितम् ॥ ९४॥ सर्वमुक्तमतिशोभनं मया शोकमोहपटलस्य भेदकम् । आशु सत्यसुखबोधवस्तुदं वेदमाननिरतस्य भासते ॥ ९५॥ इति ब्रह्मगीतासूपनिषत्सु वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ ७॥
॥ अथ अष्टमोऽध्याः ॥ ॥ कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिः ॥ ब्रह्मोवाच - अस्ति तत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम् । तदवश्यं महायासाद्वेदितव्यं मनीषिभिः ॥ १॥ तद्विद्या यतिभिः सेव्या निगूढातीव शोभना । अचिरात्सर्वपापघ्नी परब्रह्मप्रदा नृणाम् ॥ २॥ श्रद्धया परया (च महा) भक्त्या ध्यानेन च सुरोत्तमाः । योगेन च परा विद्या लभ्या सा नैव कर्मणा । न प्रजाभिर्न चार्थेन त्यागेनैषां सुरर्षभाः ॥ ३॥ ये वेदान्तमहावाक्यश्रवणोत्पन्नविद्यया । सुनिश्चितार्था यतयो विशुद्धहृदया भृशम् ॥ ४॥ ब्रह्मदृश्ये शरीरेऽस्मिन्नन्तकाले परस्य तु । अज्ञानाख्यस्य ते सर्वे मुच्यन्ति हि परामृतात् ॥ ५॥ अतो विद्याऽऽप्तिसिद्ध्यर्थं मुमुक्षुर्मतिमत्तमः ॥ ६॥ विविक्तं देशमाश्रित्य सुखासीनो महाशुचिः । समग्रीवशिरःकायः सितभस्मावगुण्ठितः ॥ ७॥ इन्द्रियाणि समस्तानि निरुध्य सुरपुङ्गवाः । प्रणम्य स्वगुरुं भक्त्या विचिन्त्य हृदयाम्बुजम् ॥ ८॥ विशुद्धं विरजं तस्य मध्ये विशदमीश्वरम् । अनन्तं शुद्धमव्यक्तमचिन्त्यं सर्वजन्तुभिः ॥ ९॥ शिवं प्रशान्तममृतं वेदयोनिं सुरर्षभाः । आदिमध्यान्तनिर्मुक्तमेकं साक्षाद्विभुं तथा ॥ १०॥ अरूपं सच्चिदानन्दमद्भुतं परमेश्वरं । उमासहायमोमर्थं प्रभुं साक्षात्त्रिलोचनम् । नीलकण्ठं प्रशा(भा)न्तस्तं(स्थं) ध्यायेन्नित्यमतन्द्रितः ॥ ११॥ एवं ध्यानपरः साक्षान्मुनिर्ब्रह्मात्मविद्यया ॥ १२॥ भूतयोनिं समस्तस्य साक्षिणं तमसः परम् । गच्छत्येव न सन्देहः सत्यमुक्तं मया सुराः ॥ १३॥ योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ १४॥ स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः । स एव सर्वं यद्भूतं यच्च भव्यं समासतः ॥ १५॥ स एव विद्याविद्या च न ततोऽन्यत्तु किञ्चन । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ १६॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १७॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनादेव पा(शा)पान्दहति पण्डितः ॥ १८॥ स एव भगवानीशो माययैवात्मभूतया । मुह्यमान इव स्थित्वा स्वस्वातन्त्र्यबलेन तु ॥ १९॥ शरीरमिदमास्थाय करोति सकलं पुनः । जाग्रत्संज्ञमिदं धाम प्रकल्प्य स्वीयमायया ॥ २०॥ राजपुत्रादिवत्तस्मिन्क्रीडया केवलं हरः । अन्नपानादिभिः स्त्रीभिस्तृप्तिमेति सुरर्षभाः ॥ २१॥ स्वप्नकाले तथा शम्भुर्जीवत्वेन प्रकाशितः । सुखदुःखादिकान्भोगान्भुङ्क्ते स्वेनैव निर्मितान् ॥ २२॥ सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः । स्वस्वरूपमहानन्दं भुङ्क्ते विश्व(दृश्य)विवर्जितः ॥ २३॥ पुनः पूर्वक्रियायोगाज्जीवत्वेन प्रकाशितः । जाग्रत्संज्ञमिदं धाम याति स्वप्नमथापि वा ॥ २४॥ पुरत्रयमिदं पुंसो भोगायैव विनिर्मितम् । भोगश्चास्य सदा क्रीडा न दुःखाय कदाचन ॥ २५॥ विश्वाधिको महानन्दः स्वतन्त्रो निरुपद्रवः । असक्तः सर्वदोषैश्च कथं दुःखी भवेद्धरः ॥ २६॥ स न जीवः शिवादन्यो यो भुङ्क्ते कर्मणां फलम् । भेदाभावाच्चितश्चेत्यं न कर्मफलमर्हति ॥ २७॥ अतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः । अद्वितीयो महानन्दः क्रीडया भोगमर्हति ॥ २८॥ धामत्रयमिदं शम्भोर्न दुःखाय कदाचन । क्रीडारामतया भाति न चोद्यार्हो महेश्वरः ॥ २९॥ इदं धामत्रयं शम्भोर्विभेदेन न विद्यते । शम्भुरेव तथा भाति न ह्यन्यत्परमेश्वरात् ॥ ३०॥ जाग्रत्स्वप्नसुषुप्त्याख्यावस्थारूपेण भाति यः । स विश्वतैजसप्राज्ञसमाख्याः क्रमशो भवेत् ॥ ३१॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । प्राज्ञस्त्वानन्दभुक्साक्षी केवलः सुखलक्षणः ॥ ३२॥ त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः । उभयं ब्रह्म यो वेद स भुञ्जानो न लिप्यते ॥ ३३॥ अश्वमेधसहस्राणि ब्रह्महत्याशतानि च । कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति ॥ ३४॥ जीवरूप इव स्थित्वा यः क्रीडति पुरत्रये । स न जीवः सदा शम्भुः सत्यमेव न संशयः ॥ ३५॥ ततस्तु जातं सकलं विचित्रं सत्यवत्सुराः । स सत्योऽसत्यसाक्षित्वात्साक्षित्वाच्चित्सुखं तथा ॥ ३६॥ प्रेमास्पदत्वादद्वैतो भेदाभावात्सुरर्षभाः । तस्मिन्नैव लयं याति पुरत्रयमिदं ततः ॥ ३७॥ न जीवो जीववद्भाति साक्षाद्ब्रह्मैव केवलम् । अज्ञानाज्जीवरूपेण भासते न स्वभावतः ॥ ३८॥ ब्रह्मणो जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ ३९॥ यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतमं नित्यं तत्त्वंशब्दार्थ एव हि ॥ ४०॥ यस्त्वंशब्दस्य लक्ष्यार्थः स तच्छब्दार्थ एव हि । तत्त्वंशब्दौ स्वतःसिद्धे चिन्मात्रे पर्यवस्यतः ॥ ४१॥ यः पदद्वयलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पितः । मायाविद्यात्मकोपाधिभेदेनैव न वस्तुतः ॥ ४२॥ स्वतःसिद्धैकताज्ञानं व्युदस्य श्रुतिरादरात् । स्वभावसिद्धमेकत्वं बोधयत्यधिकारिणः ॥ ४३॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चत्वेन भाति यत् । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४४॥ यस्तु ब्रह्म विजानाति स्वात्मना सुदृढं नरः । तस्य स्वानुभवस्त्वेवं स्वभावादनुवर्तते ॥ ४५॥ त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यस्तथा । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ४६॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ४७॥ अणोरणीयानहमेव तद्व- न्महानहं विश्वमहं विशुद्धः । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ४८॥ अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुश्च शृणोम्यकर्णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥ ४९॥ वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धयश्च ॥ ५०॥ न भूमिरापो मम नैव वह्नि- र्न चानिलो मेऽस्ति न चाम्बरं च । सदाऽहमेवाहमिति स्फुरामि स्वभावतश्चेदमिति स्फुरामि ॥ ५१॥ अभातरूपेण तथैव सर्वदा विभातरूपेण च भानरूपतः । अभानरूपेण च सर्वरूपतः स्फुरामि देवोऽहमतः पुरातनः ॥ ५२॥ एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् । समस्तभानं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥ ५३॥ अतश्च वेदान्तवचोभिरञ्जसा मुमुक्षुभिर्नित्यमशेषनायकः । गुरूपदेशेन च तर्कतस्तथा विचिन्तनीयश्च विशेषतः शिवः ॥ ५४॥ कैवल्योपनिषत्परा परकृपायुक्ता यदुच्चैर्मुदा प्रोवाच प्रतितौजसैरपि हरिब्रह्मादिभिश्चादृतम् । हे देवा अहमुक्तवानतिशुभब्रह्मापरोक्षाय त- त्सर्वेषामधिकारिणां मतमिदं वित्तातिभक्त्या सह ॥ ५५॥ इति ब्रह्मगीतासूपनिषत्सु कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः ॥ ८॥
॥ अथ नवमो।ध्यायः ॥ ॥ बृहादारण्यकोपनिषद्व्याख्यानम् ॥ ब्रह्मोवाच । प्रत्यग्रूपः शिवः साक्षात्परानन्दस्वलक्षणः । परप्रेमास्पदत्वेन प्रतीतत्वात्सुरर्षभाः । परप्रेमास्पदानन्दः सुरा आनन्द एव हि ॥ १॥ प्रियो भवति भार्यायाः पतिः सोऽयं सुरर्षभाः ॥ २॥ पतिर्न पत्युः कामाय प्रियो भवति सर्वथा । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ३॥ जायायास्तु न कामाय न हि जाया प्रिया मता । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ४॥ पुत्राणां तु न कामाय प्रियाः पुत्रा भवन्ति च । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ५॥ ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम् । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ६॥ क्षत्रस्यैव तु कामाय न क्षत्रं भवति प्रियम् । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ७॥ वित्तस्यैव तु कामाय न वित्तं भवति प्रियम् । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ८॥ लोकानामेव कामाय न भवन्ति प्रियाश्च ते । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ९॥ देवानामपि कामाय प्रिया देवा भवन्ति न । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १०॥ वेदानामेव कामाय प्रिया वेदा भवन्ति न । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ११॥ भूतान्यपि च भूतानां कामाय न भवन्ति च । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १२॥ सर्वस्यैव तु कामाय न सर्वं भवति प्रियम् । किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १३॥ अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः । सुखाभिलाषिभिः सोऽयं त्यक्त्वा कर्माणि सादरम् ॥ १४॥ द्रष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथैव च । मन्तव्यश्च विचिन्त्यश्च सर्वं तद्दर्शनादिभिः ॥ १५॥ दुःखराशेर्विनाशाय परमाद्वैतविद्भवेत् ॥ १६॥ परमाद्वैतविज्ञानात्संसारः प्रविणश्यति । स्वतःसिद्धाद्वयानन्दः स्वयमेव विभाति च ॥ १७॥ परादात्तं सुरा ब्रह्म स्वतोऽन्यद्ब्रह्म वेद यः । तथा परादात्क्षत्रं तं लोका अपि तथैव च ॥ १८॥ देवा वेदाश्च भूतानि परादुः खलु तं पशुम् । स्वस्वरूपात्परं किञ्चिदपि पश्यन्प्रणश्यति ॥ १९॥ ब्रह्मक्षत्रादिभेदेन प्रतीता ह्यखिला अमी । वर्णास्तथाऽऽश्रमाः सर्वे सङ्कराः सकला अपि ॥ २०॥ देवगन्धर्वपूर्वाश्च भूतानि भुवनानि च । अस्ति नास्तीति शब्दार्थौ तथैवान्यच्च किञ्चन ॥ २१॥ मायाविद्यातमोमोहप्रभेदा अखिला अपि । सर्वमात्मैव नैवान्यदन्यबुद्धिर्हि संसृतिः ॥ २२॥ निर्विकल्पे परे तत्त्वे विद्यया बुद्धिविश्रमः । सा हि संसारविच्छित्तिर्नापरा पुरुषाधिका ॥ २३॥ प्रतीतमविशेषेण सकलं ब्रह्म यः पुमान् । वेद तं शिरसा नित्यं प्रणयामि जगद्गुरुम् ॥ २४॥ वेदा बहुमुखा भान्ति स्मृतयश्च तथैव च । पुराणानि समस्तानि बुद्धार्हाद्यागमान्तराः ॥ २५॥ शैवाश्च वैष्णवाश्चैव मदुक्ता आगमा अपि । अपभ्रंशाः समस्ताश्च केवलं लौकिकी मतिः ॥ २६॥ तर्काश्च विविधाः सूक्ष्माः स्थूलाश्च सकला अपि । परस्परविरोधेन प्रभान्ति सकलात्मनाम् ॥ २७॥ तेषामेवाविरोधे तु कालो याति च धीमताम् । कथञ्चित्कालसद्भावेऽप्यविरोधो न सिध्यति ॥ २८॥ अतः सर्वं परित्यज्य मनसो मलकारणम् । यथाभातेन रूपेण शिवं पश्येत्सुनिश्चलः ॥ २९॥ क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः । पश्वादिभ्यो नराः प्राज्ञास्तेषु केचन कोविदाः ॥ ३०॥ तथा तेभ्यश्च गन्धर्वाः पितरो मतिमत्तमाः । अन्ये च तारतम्येन पण्डिता उतरोत्तरम् ॥ ३१॥ यूयं सत्त्वोत्कटाः प्राज्ञाः सर्वेषामपि हे सुराः । युष्मभ्योऽहं महाप्राज्ञो मत्तः प्राज्ञो जनार्दनः ॥ ३२॥ जनार्दनादपि प्राज्ञः शङ्करो गुणमूर्तिषु । ततः प्राज्ञतमः साक्षाच्छिवः साम्बः सनातनः ॥ ३३॥ स एव साक्षात्सर्वज्ञस्ततोऽन्यो नास्ति कश्चन । तस्माद्विद्यामिमां त्यक्त्वा ब्रह्म सर्वं विलोकयेत् ॥ ३४॥ आयासस्तावदत्यल्पः फलं मुक्तिरिहैव तु । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३५॥ कदाचिदपि चित्तस्य भयं किञ्चिन्न विद्यते । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३६॥ स्वस्वरूपातिरेकेण नास्ति मानं विरोधि च । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३७॥ स्वस्वरूपातिरेकेण तर्कश्च न हि विद्यते । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३८॥ श्रुतिस्मृतिपुराणानि प्राहुरेकत्वमात्मनः । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३९॥ अनुग्राहकतर्कश्च कुरुते तर्कवेदनम् । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४०॥ शिवागमेषु चाद्वैतं बभाषे परमेश्वरः । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४१॥ नारायणोऽपि चाद्वैतं बभाषे स्वागमेषु च । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४२॥ अहं चावोचमद्वैतं मदुक्तेष्वागमेषु च । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४३॥ अन्ये च योगिनः सर्वे प्राहुरद्वैतमात्मनः । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४४॥ विशुद्धज्ञानिनां देवा निष्ठाऽप्यद्वैतगोचरा । तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४५॥ केचित्सामान्यमद्वैतं वदन्ति भ्रान्तचेतसः । विशेषं द्वैतमाश्रित्य न तेषामस्ति वेदनम् ॥ ४६॥ द्वैतमेव हि सर्वत्र प्रवदन्ति हि केचन । न ते मनुष्याः कीटाश्च पतङ्गाश्च घटा हि ते ॥ ४७॥ अविशेषेण सर्वं तु यः पश्यति महेश्वरम् । स एव साक्षाद्विज्ञानी स शिवः स तु दुर्लभः ॥ ४८॥ जगदिति प्रतिभा व्यवहारतः परतरः परमः परमार्थतः । इति मतिर्न भवत्यपि कस्यचि- च्छशिधरस्मरणेन हि सिध्यति ॥ ४९॥ जगदिति प्रतिभाऽपि च शाङ्करी मतिमतामिति मे सुविनिश्चयः । इति मतिर्विमला च शुभावहा शशिधरस्मरणेन हि सिध्यति ॥ ५०॥ जगदिति प्रतिभासमपेक्ष्य च श्रुतिरपि प्रियहेतुमिहाह हि । न हि जगत्प्रतिभा न च सा श्रुतिः प्रियकरः सकलश्च न वस्तुतः ॥ ५१॥ इति मतिर्विमला ननु जायते यदि जनः शिव एव स तादृशः । न हि कृतिः सकला महात्मनो यदि कृतिः पशुरेव स मानवः ॥ ५२॥ न हि जनिर्मरणं गमनागमौ न हि मलं विमलं न च वेदनम् । शिवमिदं सकलं विभासते स्फुटतरं परमस्य तु योगिनः ॥ ५३॥ विसृज्य सन्देहमशेषमास्तिकाः प्रतीतमेतन्निखिलं जडाजडम् । गुरूपदेशेन शिवं विलोकये- द्विलोकनं चापि शिवं विलोकयेत् ॥ ५४॥ विलोकनं चापि शिवं विलोकय- न्विलोकनं चापि विसृज्य केवलम् । स्वभावभूतः स्वचिताऽवशिष्यते चिताऽवशेषश्च न तस्य तत्त्वतः ॥ ५५॥ निष्ठा तस्य महात्मनः सुरवरा वक्तुं मया शक्यते न प्रौढेन शिवेन वा मुनिगणैर्नारायणेनापि च । वेदेनापि पुरातनेन परया शक्त्या परेणाथ वा मूकीभावमुपैति तत्र विदुषां निष्ठा हि तादृग्विधा ॥ ५६॥ सर्वमुक्तमिति वः सुरर्षभाः केवलेन करुणाबलेन च । वेद एव सकलार्थबोधकः शेष एव वचनं च तस्य मे ॥ ५७॥ इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः ॥ ९॥
॥ अथ दशमोऽध्यायः ॥ ॥ बृहादारण्यकव्याख्याकथनम् ॥ ब्रह्मोवाच । अस्ति सर्वान्तरः साक्षी प्रत्यगात्मा स्वयम्प्रभः । तदेव ब्रह्म सम्पूर्णमपरोक्षतमं सुराः ॥ १॥ प्राणापानादिभेदस्य यः सत्तास्फुरणप्रदः । यस्य सन्निधिमात्रेण चेष्टते सकलं सुराः ॥ २॥ यश्च सर्वस्य चेष्टायामसक्तो निष्क्रियः स्वयम् । स हि सर्वान्तरः साक्षादात्मा नान्यः सुरर्षभाः ॥ ३॥ योऽयं सर्वान्तरः स्वात्मा सोऽहमर्थो न विग्रहः । दृश्यत्वादस्य देहस्य द्रष्टा योऽस्य स एव सः ॥ ४॥ योऽयं सर्वान्तरः स्वात्मा सोऽयं न प्राणपूर्वकः । दृश्यत्वात्प्राणपूर्वस्य द्रष्टा योऽस्य स एव सः ॥ ५॥ दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता च यः सुराः । विज्ञातेरपि विज्ञाता स हि सर्वान्तरः परः ॥ ६॥ अतोऽन्यदार्तं सकलं न सत्यं तु निरूपणे । स एव सर्वं नैवान्यदिति सम्यङ्निरूपणे ॥ ७॥ यथा पृथिव्यामोतं च प्रोतं च सकलं सुराः । तथाऽप्सु सकलं देवा ओतं प्रोतं न संशयः ॥ ८॥ आपश्च वायौ हे देवा ओताः प्रोतास्तथैव च । अन्तरिक्षेषु वायुश्च लोकेषु सुरपुङ्गवाः ॥ ९॥ अन्तरिक्षाश्च लोकाश्च तथा गन्धर्वकेषु च । लोकेष्वादित्यलोकेषु स्थिता गन्धर्वसञ्ज्ञिताः ॥ १०॥ चन्द्रलोकेषु चादित्यलोका ओतास्तथैव च । चन्द्रलोकाश्च नक्षत्रलोकेषु सुरपुङ्गवाः ॥ ११॥ देवलोकेषु नक्षत्रलोका ओतास्तथैव च । देवलोकाश्च हे देवा इन्द्रलोकेषु संस्थिताः ॥ १२॥ प्राजापत्येषु लोकेषु स्थिता ऐन्द्राः सुरर्षभाः । प्राजापत्यास्तथा लोका ब्रह्मलोकेषु संस्थिताः ॥ १३॥ विष्णुलोकेषु हे देवा ब्रह्मलोकाः सुसंस्थिताः । विष्णुलोकास्तथा ओता रुद्रलोकेषु हे सुराः ॥ १४॥ रुद्रलोकाः स्थिता लोकेष्वीश्वरस्य सुरर्षभाः । सदाशिवस्य लोकेषु स्थिता ह्यैशाः सुरर्षभाः ॥ १५॥ ओताः प्रोताश्च ते लोका ब्रह्मसञ्ज्ञे परे शिवे । एवं सर्वे सदा साक्षिस्वरूपे प्रत्यगात्मनि ॥ १६॥ सर्वान्तरतमे प्रोता ओता अध्यासतः स्थिताः ॥ १७॥ सर्वाधिष्ठानरूपस्तु प्रत्यगात्मा स्वयम्प्रभः । न कस्मिंश्चित्स्थितः साक्षी सत्स्वरूपः सुरर्षभाः ॥ १८॥ यस्मिन्नध्यस्तरूपेण स्थितं सर्वं निरूपणे । स एव सकलं नान्यदिति सम्यङ्निरूपणे ॥ १९॥ योऽयमात्मा स्वयं भाति सत्तयाऽन्यविवर्जितः । स एव साक्षात्सर्वेषामन्तर्यामी न चापरः ॥ २०॥ पृथिव्यामपि यस्तिष्ठन्पृथिव्या अन्तरः सदा । यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि ॥ २१॥ योऽन्तरो यमयत्येतां भूमिं निष्क्रियरूपतः । एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २२॥ अप्सु तिष्ठन्नपां देवा अन्तरो यं न ता विदुः । आपः शरीरं यस्यैता योऽन्तरो यमयत्यपः । एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २३॥ एवमग्नेश्च यो नेता चान्तरिक्षस्य हे सुराः ॥ २४॥ वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च । एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २५॥ अदृष्टोऽयं सुरा द्रष्टा श्रोतैवायं तथाऽश्रुतः । अमतश्च तथा मन्ता विज्ञाता केवलं सुराः ॥ २६॥ रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः । चित्तसाक्षितया भाति स्वप्रकाशेन केवलम् ॥ २७॥ चित्तव्यापारनाशे तु तदभावं सुरर्षभाः । स्वप्रकाशेन जानाति सुषुप्तौ वेद तामपि ॥ २८॥ आविर्भावतिरोभावरहितस्तु स्वयम्प्रभः । भावाभावात्मकं सर्वं सदाऽयं वेद केवलः ॥ २९॥ भावाभावात्मना वेद्यं समस्तं सुरपुङ्गवाः । वेत्तैवायं न चैवान्यदिति सम्यङ्निरूपणम् ॥ ३०॥ एवं द्वैतं विचारेण स्वात्मना वेद यः पुमान् । स योगी सर्वदा द्वैतं पश्यन्नपि न पश्यति ॥ ३१॥ द्रष्टुर्दृष्टेर्न नाशोऽस्ति दृश्यमेव विनश्यति । तच्च द्वैतं दृशेर्दृश्यं नास्ति द्रष्टाऽस्ति केवलम् ॥ ३२॥ एषाऽस्य परमा सम्पद्गतिश्च परमाऽस्य तु । एषोऽस्य परमो लोक एतद्धि परमं सुखम् ॥ ३३॥ अहिनिर्ल्वयनीं मुक्तां यथाऽहिः स्वात्मना पुनः । न पश्यति तथा विद्वान्न देहेऽहम्मतिर्भवेत् ॥ ३४॥ सर्वाधारे स्वतःसिद्धे शिवसञ्ज्ञे तु निर्मले । प्रत्यग्रूपे परानन्दे नेह नानाऽस्ति किञ्चन ॥ ३५॥ मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति । तस्मादध्यस्तमज्ञानं तत्कार्यं चात्मरूपतः ॥ ३६॥ एकधैव महायासाद्द्रष्टव्यो हि मुमुक्षुभिः । अयमात्माऽप्रमेयश्च विरजश्च महान्ध्रुवः ॥ ३७॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३८॥ स वा एष महानात्मा जन्मनाशादिवर्जितः । वशी सर्वस्य लोकस्य सर्वस्येशान एव च ॥ ३९॥ सर्वस्याधिपतिः शुद्धो न भूयान्साधुकर्मणा । कर्मणाऽसाधुना नैव कनीयान्सुरपुङ्गवाः ॥ ४०॥ एष सर्वेश्वरः साक्षाद्भूताधिपतिरेव च । भूतपालश्च लोकानामसम्भेदाय हे सुराः ॥ ४१॥ एष सेतुर्विधरणस्तमेव ब्राह्मणोत्तमाः । वेदानुवचनेनापि यज्ञेन सकलेन च ॥ ४२॥ दानेन तपसा देवास्तथैवानशनेन च । वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः ॥ ४३॥ नेति नेतीति निष्कृष्टो य एष सर्वसाधकः । सोऽयमात्मा सदाऽग्राह्यस्वरूपो न हि गृह्यते ॥ ४४॥ तथाऽशीर्यस्वभावश्च हे देवा नैव शीर्यते । असङ्गरूपो भगवान्सर्वदा न हि सज्जते ॥ ४५॥ एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन ॥ ४६॥ तस्माद्ब्रह्मज्ञानलाभाय विद्वा- ञ्शान्तो दान्तः सत्यवादी भवेच्च । कर्मत्यागी सर्ववेदान्तसिद्धं विद्याहेतुं सन्ततं त्वभ्युपेयात् ॥ ४७॥ त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः सदाऽऽचरेच्छङ्करवेदने रतः । शिवादिशब्दं च जपेद्विशेषतः प्रपूजयेद्भक्तिपुरःसरं हरम् ॥ ४८॥ साधनैः सकलैः सहितः सुरा वेदनेन समस्तमिदं जगत् । देवरूपतयैव तु निश्चितं वेदहस्ततलस्थितबिल्ववत् ॥ ४९॥ नैनं पाप्मा तरति ब्रह्मनिष्ठं सर्वं पापं तरति प्राकृतं च । नैनं पाप्मा तपति ब्रह्मनिष्ठं सर्वं पापं तपति प्राकृतं च ॥ ५०॥ इत्थं ब्रह्म स्वात्मभूतं विदित्वा श्रद्धापूर्वं देहमेतं स्वकीयम् । अर्थं सर्वं क्षेत्रजातं समस्तं दद्यादस्मै देशिकेन्द्राय मर्त्यः ॥ ५१॥ यश्चातृणत्त्यवितथेन कर्णा- वदुःखं कुर्वन्नमृतं सम्प्रयच्छन् । तं विद्यात्पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ५२॥ स्वदेशिकस्यैव तु नामकीर्तनं भवेदनन्तस्य शिवस्य चिन्तनम् । स्वदेशिकस्यैव तु पूजनं तथा भवेदनन्तस्य शिवस्य पूजनम् ॥ ५३॥ स्वदेशिकस्यैव तु नामकीर्तनं शिवादिशब्दस्य तु कीर्तनं भवेत् । स्वदेशिकस्यैव तु बाधनं तथा भवेदनन्तस्य शिवस्य बाधनम् ॥ ५४॥ तस्माद्विद्वान्सर्वमेतद्विहाय श्रद्धायुक्तः सद्गुरुं सत्यनिष्ठम् । विद्याकोशं वेदवेदान्तनिष्ठं गच्छेन्नित्यं सत्यधर्मादियुक्तः ॥ ५५॥ वक्तव्यं सकलं मया परकृपायुक्तेन सङ्कीर्तितं कर्तव्यं सकलं सुरा न हि मुनेर्ब्रह्मात्मनिष्ठस्य तु । स्मर्तव्यं सकलं तथा न हि सदा ब्रह्मैव सच्चित्सुखं सम्पूर्णं सततोदितं समरसं शश्वत्स्वयं भासते ॥ ५६॥ इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकव्याख्याकथनं नाम दशमोऽध्यायः ॥ १०॥
॥ अथ एकादशोऽध्यायः ॥ ॥ कठवल्लीश्वेताश्वतरव्याख्यायाम् ॥ ब्रह्मोवाच । अस्ति तत्त्वं परं साक्षाद्दुर्दर्शं गूढमुत्तमम् । अनुप्रविष्टं सर्वत्र गुहायां निहितं परम् ॥ १॥ तद्विदित्वा महाधीरो हर्षशोकौ जहाति च । धर्मादिभ्यः परं तत्तु भूताद्भव्याच्च सत्तमाः ॥ २॥ यदामनन्ति वेदाश्च तपांसि परमं पदम् । ब्रह्मचर्यं यदिच्छन्तश्चरन्ति शिव एव सः ॥ ३॥ एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ४॥ एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ५॥ न जायते म्रियते वा विपश्चि- न्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ६॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ ७॥ अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमस्य ॥ ८॥ दूरं व्रजति चासीनः शयानो याति सर्वतः । कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमर्हति ॥ ९॥ अशरीरं शरीरेषु ह्यनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १०॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ११॥ नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ १२॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । क इत्थं वेद देवो वा मनुष्योऽन्यश्च यत्र सः ॥ १३॥ ऋतौ पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति शरीरभृच्छङ्करसञ्ज्ञितौ तौ ॥ १४॥ शरीरभृत्कर्मफलं भुङ्क्ते योजयिता शिवः । प्रतीतितो विरुद्धौ तौ भेदस्त्वौपाधिकस्तयोः ॥ १५॥ आत्मानं रथिनं विद्याच्छरीरं रथमेव तु । बुद्धिं तु सारथिं विद्यान्मनः प्रग्रहमेव च ॥ १६॥ इन्द्रियाणि हयान्विद्याद्विषयानपि गोचरान् । आत्मेन्द्रियमनोयुक्तं विद्याद्भोक्तारमास्तिकाः ॥ १७॥ यस्त्वविज्ञानवान्मर्त्योऽयुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ १८॥ यस्तु विज्ञानवान्मर्त्यो युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ १९॥ यस्त्वविज्ञानवान्मर्त्यो ह्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ २०॥ यस्तु विज्ञानवान्मर्त्यः समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ २१॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ २२॥ पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम् । पदं परममद्वैतं स शिवः साम्बविग्रहः ॥ २३॥ रुद्रविष्णुप्रजेशानामन्येषामपि देहिनाम् । ऋते साम्बं महादेवं किं भवेत्परमं पदम् ॥ २४॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २५॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ २६॥ पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः । साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ॥ २७॥ एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २८॥ यच्चेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । महत्यात्मनी विज्ञानं तद्यच्छेच्छान्त आत्मनि ॥ २९॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ ३०॥ पराञ्चि खानि व्यतृणन्महेश- स्तस्मात्पराङ्पश्यति नात्मरूपम् । कश्चिद्धीरः प्रत्यगात्मानमैक्ष्य- दावृत्तचक्षुरमृतत्वमिच्छन् ॥ ३१॥ पराञ्चः कामाननुनयन्ति बाला मृत्योः पाशं तेऽपियन्ति स्वमोहात् । अथ धीरा अमृतत्वं विदित्वा ध्रुवं तत्त्वं यान्ति कामैरसक्ताः ॥ ३२॥ येन रूपान् रसान्गन्धाञ्शब्दान्स्पर्शांश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते ॥ ३३॥ जाग्रत्स्वप्नसुषुप्ताख्यं पुरं येनानुपश्यति । महान्तं परमात्मानं मत्वा धीरो न शोचति ॥ ३४॥ जाग्रदादित्रयं यस्तु विजानाति चिदात्मना । ततो भेदेन नैवास्ति पुरत्रयमिदं सदा ॥ ३५॥ चैतन्यमात्रो भगवाञ्शिव एव स्वयम्प्रभः । पुरत्रयात्मना भाति न भाति च महाप्रभुः ॥ ३६॥ इहामुत्र स्थितं तत्त्वं सदेकं न ततोऽपरम् । मृत्योः स मृत्युमाप्नोति योऽन्यं देवं प्रपश्यति ॥ ३७॥ अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ३८॥ वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ३९॥ सूर्यो यथा सर्वलोकस्य चक्षु- र्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ४०॥ एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४१॥ येनैव नित्याश्च सचेतनश्च यस्मिन्विभक्ताः प्रविभान्ति मोहात् । तमात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४२॥ तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयत्किमु भाति विभाति वा ॥ ४३॥ आदित्यचन्द्रानलतारकाद्या न भान्ति यस्मिन्ननिशं महान्तः । प्रकाशमानं तमनुप्रभान्ति प्रभानमस्यैव हि नेतरेषाम् ॥ ४४॥ ऊर्ध्वमूलस्त्ववाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ ४५॥ तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत्सुरश्रेष्ठाः सम्यगेव मयोदितम् ॥ ४६॥ इदं सर्वं जगत्साक्षाच्छिवः कम्पयते ध्रुवम् । महद्भयमिदं वज्रं विदित्वा मुच्यते नरः ॥ ४७॥ तपत्यस्य भयादग्निर्भयात्तपति भास्करः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ४८॥ वर्तमाने शरीरेऽस्मिन्न शक्तो बोद्धुमीश्वरम् । नरः सर्वेषु लोकेषु शरीरित्वाय कल्पते ॥ ४९॥ यथाऽऽदर्शे स्वकं रूपं यथावन्निर्मले नरः । तथा पश्यति देहेस्मिन्नात्मानं ब्रह्म केवलम् ॥ ५०॥ जन्मनाशवतां खानां पृथग्भावं परात्मनः । तेषां जन्मविनाशौ च विदित्वाऽनात्मरूपतः ॥ ५१॥ पश्चादनात्मरूपेण विदितं केवलात्मना । विदित्वा स्वानुभूत्येव स धीरस्तु न शोचति ॥ ५२॥ इन्द्रियेभ्यो मनः श्रेष्ठं मनसः सत्त्वमुत्तमम् । सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ५३॥ अव्यक्तात्तु परः साक्षाद्व्यापकोऽलिङ्ग एव च । यं विदित्वा नरः साक्षादमृतत्वं हि गच्छति ॥ ५४॥ न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् । हृदा मनीषा मनसाऽभिक्लृप्तः साक्षादात्मा शक्यते वेदितुं सः ॥ ५५॥ एवं साक्षात्सच्चिदानन्दरूपं भावाभावाशेषलोकस्य हेतुम् । श्रुत्या युक्त्या ब्रह्म जानन्ति मर्त्या विद्यायोगादेव मुक्ता भवन्ति ॥ ५६॥ विद्यावेद्यं ब्रह्म यद्वेदसिद्धं तस्याचिन्त्या काचिदस्त्येव शक्तिः । शक्त्या भिन्नं तद्भवत्यद्वयं सत्सत्यानन्दासङ्गबोधैकरूपम् ॥ ५७॥ एकं रूपं ब्रह्मणो जीवरूपं भोग्यं विश्वं ब्रह्मणस्त्वन्यरूपम् । अन्यद्रूपं ब्रह्मणः सर्वशास्त्रं प्रज्ञामात्रं शुद्धरूपं परस्य ॥ ५८॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिञ्जीवो भ्राम्यते ब्रह्मचक्रे । ब्रह्मात्मानं प्रेरितारं च युक्त्या मत्वा चैकं याति मर्त्योऽमृतत्वम् ॥ ५९॥ ज्ञाज्ञौ जीवाजीवसञ्ज्ञौ प्रतीत्या श्रुत्या युक्त्या स्वानुभूत्या ह्यभिन्नौ । माया भोक्तुर्भोगहेतुः परात्मा रूपैरेभिर्विश्वरूपो ह्यकर्ता ॥ ६०॥ क्षरं माया चाक्षरं जीवरूपं क्षरात्मना भिद्यते देव एकः । तस्य ध्यानाद्योजनातत्त्वभावा- द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ६१॥ ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्य ध्यानान्मूलमायाविभेदे विश्वैश्वर्यं याति कैवल्यरूपम् ॥ ६२॥ एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ६३॥ वह्नेर्यथा योनिगतस्य मूर्ति- र्न दृश्यते नैव च लिङ्गनाशः । स भूय एवेन्धनयोनिगृह्य- स्तद्वोभयं वै प्रणवेन देहे ॥ ६४॥ स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ ६५॥ तिलेषु तैलं दधिनीव सर्पि- रापः स्रोतःस्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैवं तपसा योऽनुवेत्ति ॥ ६६॥ सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ॥ ६७॥ यज्ञज्ञानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति । योगात्सञ्जायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा ॥ ६८॥ अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् । नाप्रशान्ताय दातव्यं नापुत्राय कदाचन ॥ ६९॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा । त्रिपुण्ड्रधारणं चापि वदन्त्यत्याश्रमं बुधाः ॥ ७०॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७१॥ श्रुतिवचनेन मयैव समस्त परमकृपाबलतः पठितं च । यदि विदितं स नरः स्वकमोहं तरति शिवं विशति प्रियरूपम् ॥ ७२॥ इति ब्रह्मगीतासूपनिषत्सु कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः ॥ ११॥
॥ अथ द्वादशोऽध्यायः । ॥ शिवस्याहम्प्रत्ययाश्रत्वम् ॥ ब्रह्मोवाच। वक्ष्ये सारतरं साक्षात्सर्वशास्त्रार्थसङ्ग्रहम् । श्रद्धया सहिता यूयं शृणुतातीव शोभनम् ॥ १॥ अस्ति तावदहंशब्दप्रत्ययालम्बनं सुराः । सर्वेषां नः परं ज्ञानं स एवात्मा न संशयः ॥ २॥ सोऽयं स्वाविद्यया साक्षाच्छिवः सन्नपि वस्तुतः । स्वशिवत्वमविज्ञाय संसारीवावभासते ॥ ३॥ वेदोदितेन मार्गेण पारम्पर्यक्रमेण तु । मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनैः ॥ ४॥ सहितः शिवभक्त्या च गुरोः पादौ प्रणम्य च । वेदान्तानां महावाक्यश्रवणेन तथैव च ॥ ५॥ मननेन तथा देवा ध्यानेन परमात्मनः । प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वा याति शिवं परम् ॥ ६॥ प्रत्यगात्मानमद्वन्द्वमहंशब्दोपलक्षितम् । शिवरूपेण सम्पश्यन्नेव याति स्वपूर्णताम् ॥ ७॥ शिवरूपतया भातेऽहंशब्दार्थे मुनीश्वराः । अविद्या विलयं याति विद्यया परयैव तु ॥ ८॥ विद्यया परयाऽविद्यानिवृत्तौ ब्रह्म केवलम् । शिष्यते खलु नाभावो भावो नान्यस्तथाऽपि च ॥ ९॥ व्यवहारदृशाऽविद्या तन्निवृत्तिश्च कथ्यते । तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः ॥ १०॥ ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते । जगद्रूपतयाऽप्येतद्ब्रह्मैव प्रतिभासते ॥ ११॥ विद्याविद्यादिभेदेन भावाभावादिभेदतः । गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते ॥ १२॥ ब्रह्म सर्वमिति ज्ञानं ब्रह्मप्राप्तेस्तु साधनम् । जगन्मायेति विज्ञानमज्ञानं फलतो भवेत् ॥ १३॥ तथाऽपि परमाद्वैतज्ञानस्येदं तु वेदनम् । उपकारकमत्यन्तं तद्दृष्ट्वा वक्ति च श्रुतिः ॥ १४॥ यथा भातस्वरूपेण सत्यत्वेन जगच्छ्रुतिः । अङ्गीकृत्य हितं नॄणां कदाचिद्वक्ति सादरम् ॥ १५॥ सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् । असत्यत्वेन भानं तु संसारस्य निवर्तकम् ॥ १६॥ अतः संसारनाशाय कदाचित्परमा श्रुतिः । जगत्सर्वमिदं माया वदत्यत्यन्तनिर्मला ॥ १७॥ अतीव पक्वचित्तस्य चित्तपाकमपेक्ष्य सा । सर्वं ब्रह्मेति कल्याणी श्रुतिर्वदति सादरम् ॥ १८॥ ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने । न च विद्या न चाविद्या जगच्च न चापरम् ॥ १९॥ अतः परमनिर्वाणनिष्ठस्य परयोगिनः । यथा यथाऽवभासोऽयं शिव एव न चापरम् ॥ २०॥ भूतपूर्वानुसन्धानात्कथ्यते न च वस्तुतः । यथा यथाऽवभासोऽयं शिव इत्यपि वेदनम् ॥ २१॥ न हि निर्वाणनिष्ठस्य शिवस्य परयोगिनः । यथा यथेति यत्किञ्चिद्भासते परमार्थतः ॥ २२॥ तथा तथाऽवभासेन स्वेन रूपेण केवलम् । स्तिमितोदधिवद्योगी स्वयं तिष्ठति नान्यथा ॥ २३॥ परनिर्वाणनिष्ठस्य योगिनः परमां स्थितिम् । स्वयं च न विजानाति न हरिर्न महेश्वरः ॥ २४॥ न मया च परिज्ञातुं शक्यते योगिनः स्थितिः । नापि वेदेन मानेन न च स्मृतिपुराणकैः ॥ २५॥ अहो निर्वाणनिष्ठस्य योगिनः परमा स्थितिः । यादृशी परमा निष्ठा तादृश्येव हि केवलम् ॥ २६॥ एवंरूपा परा निष्ठा शिवस्यास्ति स्वभावतः । शिवायाश्चाम्बिकाभर्तुः प्रसादेन हरेरपि ॥ २७॥ तथा ममापि चान्येषां न चोद्योर्हो महेश्वरः । तादृग्रूपो महादेवः खलु साक्षात्सनातनः ॥ २८॥ ईदृशी परमा निष्ठा गुरोः साक्षान्निरीक्षणात् । कर्मसाम्ये त्वनायासात्सिध्यत्येव न संशयः ॥ २९॥ देशिकं देवदेवेशं शिवं विद्याद्विचक्षणः । तदिष्टं सर्वयत्नेन प्रकुर्यात्सर्वदाऽऽदरात् ॥ ३०॥ स्वस्यानिष्टमपि प्राज्ञः प्रकुर्याद्गुरुणोदितः । गुरोरिष्टं प्रकुर्वाणः परं निर्वाणमृच्छति ॥ ३१॥ स्वाश्रमं च स्वजातिं च स्वकीर्तिं च तथैव च । स्वादृष्टं लोकविद्विष्टं बन्धुपुत्रादिसङ्गमम् ॥ ३२॥ गृहक्षेत्रधनादीनां हानिं क्लेशं सुखं तथा । अनवेक्ष्य गुरोरिष्टं कुर्यान्नित्यमतन्द्रितः ॥ ३३॥ गुरौ प्रीते शिवः साक्षात्प्रसन्नः प्रतिभासते । गुरोर्देहे महादेवः साम्बः सन्निहितः सदा ॥ ३४॥ गुरोरनिष्टं मोहाद्वा न कुर्यात्कुरुते यदि । पच्यते नरके तीव्रे यावदाभूतसम्प्लवम् ॥ ३५॥ शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन । तस्मादिष्टं गुरोः कुर्यात्कायेन मनसा गिरा ॥ ३६॥ गुरुर्नामात्मनो नान्यः सत्यमेव न संशयः । आत्मलाभात्परो लाभो नास्ति नास्ति न संशयः ॥ ३७॥ अनात्मरूपं देहादि यो ददाति पिता तु सः । न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ३८॥ अष्टैश्वर्यप्रदस्तद्वद्गन्धर्वादिपदप्रदाः । सार्वभौमप्रदश्चापि न गुरुः क्लेशदो हि सः ॥ ३९॥ मन्त्रतन्त्रादिदस्तद्वल्लौकिकोपायदस्तथा । न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ४०॥ सत्यवत्सकलं भातं निश्चित्यासत्यरूपतः । सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम् ॥ ४१॥ यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम् । शिवत्वं बोधयत्येष गुरुः साक्षान्न चापरः ॥ ४२॥ दृश्यरूपमिदं सर्वं दृग्रूपेण विलाप्य च । दृग्रूपं ब्रह्म यो वक्ति स गुरुर्नापरः पुमान् ॥ ४३॥ परमाद्वैतविज्ञानं कृपयैव ददाति यः । सोऽयं गुरुगुरुः साक्षाच्छिव एव न संशयः ॥ ४४॥ तादृशं देशिकं साक्षाद्वेदान्ताम्बुजभास्करम् । तोषयेत्सर्वयत्नेन श्रेयसे भूयसे नरः ॥ ४५॥ सर्ववेदान्तवाक्यानामर्थः सङ्ग्रहरूपतः । कथितश्च मया देवा मामाह परमेश्वरः ॥ ४६॥ सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः । सर्वदोषविनिर्मुक्तः सत्यमेवाब्रवीन्मम ॥ ४७॥ यथाऽऽह सर्ववेदानामर्थं सर्वज्ञ ईश्वरः । तथैव कथितोऽस्माभिः सत्यमेव न संशयः ॥ ४८॥ स्वप्रकाशस्वरूपस्य स्वतःशुद्धस्य शूलिनः । करामलकवत्सर्वं प्रत्यक्षं हि न संशयः ॥ ४९॥ वेदानामन्यथैवार्थं ये वदन्ति विमोहिताः । महासाहसिका एव ते नरा न हि संशयः ॥ ५०॥ मदुक्तार्थप्रकारेण विना ये प्रवदन्ति ते । अन्धकूपे निरालम्बे पतन्त्येव न संशयः ॥ ५१॥ वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गवाः । नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः ॥ ५२॥ अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया । अनिश्चितार्थश्चेन्मूर्धा युष्माकं च पतिष्यति ॥ ५३॥ अतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः । सत्यमेव मया प्रोक्तं शम्भोः पादौ स्पृशाम्यहम् ॥ ५४॥ सूत उवाच । एवमुक्त्वा महातेजा ब्रह्मा च सुरपुङ्गवान् । प्रत्यग्भूतं परानन्दं पार्वतीपतिमीश्वरम् ॥ ५५॥ परमाद्वैतरूपं तं भवरोगस्य भेषजम् । स्मृत्वा नत्वा पुनः स्तुत्वा भक्त्या परवशोऽभवत् ॥ ५६॥ देवाश्च देवदेवेशं स्मृत्वा साम्यं त्रियम्बकम् । प्रणम्य दण्डवद्भूमौ विवशा अभवन्मुदा ॥ ५७॥ देवदेवो महादेवो महाकारुणिकोत्तमः । तत्रैवाविरभूद्देव्या सह सत्यतपोधनाः ॥ ५८॥ विष्णुश्च पद्मया सार्धं तत्रैव ब्रह्मवित्तमाः । आगतो भगवान्द्रष्टुमशेषसुरनायकम् ॥ ५९॥ पुष्पवृष्टिरभवद्यथा पुरा स्वस्तिपूर्ववचनानि चाभवन् । तत्र भक्तिसहितेन विष्णुना पद्मया च परिपूजितः शिवः ॥ ६०॥ शङ्करोपि शशिशेखरः पर- स्त्वम्बयैव सहितः सनातनः । तत्र नृत्यमकरोदतिप्रभुः स्वस्वरूपपरवेदनप्रियात् ॥ ६१॥ सर्वलोकजननी शिवा परा पापनाशकरबोधदायिनी । ब्रह्मवज्रधरपूर्वकानिमा- न्स्वानुभूतिसहितेन चक्षुषा ॥ ६२॥ विलोक्य कारुण्यबलेन केवलं प्रबोधयामास सुरोत्तमानिमान् । पुनः प्रजानाथपुरःसराः सुराः प्रनृत्यमानं तु शिवं शिवामपि ॥ ६३॥ त्वक्चक्षुषैव ददृशुः श्रुतिमस्तकोत्थ- विज्ञानरूपपरलोचनगोचरार्हम् । भक्त्या पुनः परमकारुणिकं महान्तं पञ्चाक्षरेण भवपाशहरेण पूज्यम् ॥ ६४॥ तुष्टवुः श्रुतिवचोभिरादरा- न्नष्टकष्टभवपाशबन्धनाः । इष्टसिद्धिरभवद्धि यः सुराः इत्यवोचदशुभापहः शिवः ॥ ६५॥ शाङ्करी च शरणागतप्रिया बन्धहेतुमलनाशकारिणी । मत्प्रसादबललब्धवेदना इत्यवोचदभवन्नतिप्रिया ॥ ६६॥ केशवोऽपि सुरपुङ्गवान्प्रति प्राह शम्भुरयमद्भुतः प्रभुः । सर्ववेदशिरसामगोचरः प्रीत एव भवतामिति द्विजाः ॥ ६७॥ देवोऽपि कारुण्यरसार्द्रमानसः सुरानशेषानजपूर्वकान्प्रति । उवाच गीतामतिशोभनामिमां ममानुकूलामपि यः पठेद्विजः ॥ ६८॥ स याति मामेव निरस्तबन्धनः परा शिवा वाचि सदैव वर्तते । दिवाकरेणापि समश्च तेजसा श्रिया मुकुन्देन समः सदा भवेत् ॥ ६९॥ एषा गीता ब्रह्मगीताभिधाना श्रुत्या युक्ता सर्वगीतोत्तमा च । वेदाकारा वेदनिष्ठैर्द्विजेन्द्रै- र्भक्त्या पाठ्या नैव शूद्रादिभिश्च ॥ ७०॥ इत्येवं परमशिवः प्रभाष्य नाथः शिष्टानामशुभहरः पुरत्रयारिः । भक्तानाममलसुखप्रबोधकारी तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७१॥ दैवी सा सकलजगद्विचित्रचित्रा कारुण्यादखिलसुरानजं विलोक्य । सुप्रीता परमसुखप्रबोधरूपा तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७२॥ विष्णुर्लक्ष्म्या साकमाश्वास्य देवान् हृष्टस्तुष्टः स्वस्य वैकुण्ठमाप । ब्रह्मा देवानात्मविद्याभियुक्तां- स्त्यक्त्वा रुद्रध्याननिष्ठो बभूव ॥ ७३॥ देवाः सर्वे दण्डवद्भूमिभागे भक्त्या सार्धं पद्मयोनिं प्रणम्य । हृष्टात्मानः सत्यबोधैकनिष्ठाः सद्यः स्वं स्वं देशमीयुर्द्विजेन्द्राः ॥ ७४॥ ईत्थं साक्षाद्ब्रह्मगीतं भवद्भिः शुद्धज्ञानैरादरेण श्रुतैव । मत्तः श्रद्धाभक्तियुक्तस्य विप्रा नित्यं देया नेतरस्यातिशुद्धा ॥ ७५॥ इति परशिवभक्त्या प्राप्तविद्यस्तु सूतः सुखघनशिवतत्त्वप्रापिकामेव गीताम् । मुनिगणहितबुद्ध्याऽऽभाष्य निर्वाणरूपं परतरमवलोक्य प्रज्ञया मौनमाप ॥ ७६॥ मुनयश्च गुरुं परवेदिनं प्रणिपत्य समस्तहितप्रदम् । हृदयस्थमहम्पदलक्षितं परतत्त्वतयैव विदुः स्थिरम् ॥ ७७॥ इति श्रीब्रह्मगीतासूपनिषत्सु शिवस्याहम्प्रत्ययाश्रत्वं नाम द्वदशोऽध्यायः ॥ १२॥ ॥ इति ब्रह्मगीता समाप्ता ॥ Encoded by Sunder Hattangadi sunderh at hotmail.com Proofread by Sunder Hattangadi, PSA Easwaran psaeaswaran at gmail.com

% Text title            : Brahma Gita (Skanda Purana)
% File name             : brahmagiitaaskanda.itx
% itxtitle              : brahmagItA (skandapurANAntargatA)
% engtitle              : Brahma Gita Skanda Purana
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Vyasa muni (by tradition)
% Language              : Sanskrit
% Subject               : hinduism/philosophy/mythology
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi, v.subrahmanian, PSA Easwaran
% Indexextra            : Skanda Purana, Suta Samhita, Yajnavaibhava Khanda, Uparibhaga ch 1-12
% Latest update         : Oct. 9, 2010, February 18, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP