॥ श्रीमद् गीतासारः अग्निपुराणान्तर्गतः ॥

अग्निरुवाच -- गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमम् । कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदम् ॥ ३८१.१ ॥ श्रीभगवानुवाच -- गतासुरगतासुर्वा न शोच्यो देहवानजः । आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥ ३८१.२ ॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥ ३८१.३ ॥ सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति । दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥ ३८१.४ ॥ कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते । या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ ३८१.५ ॥ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३८१.६ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥ ३८१.७ ॥ गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥ ३८१.८ ॥ ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ॥ ३८१.९ ॥ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ॥ ३८१.११ ॥ ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ३८१.११ ॥ न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति । दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३८१.१२ ॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ३८१.१३ ॥ चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥ ३८१.१४ ॥ भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥ ३८१.१५ ॥ अधियज्ञोऽहमेवात्र देहे देहभृतां वर । अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥ ३८१.१६ ॥ यं यं भावं स्मरन्नन्ते त्यजेद्देहं तमाप्नुयात् । प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥ ३८१.१७ ॥ ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन् तथा । ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥ ३८१.१८ ॥ श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः । अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ॥ ३८१.१९ ॥ क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्तितः । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३८१.२१ ॥ महाभूतान्यहङ्गारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशौकञ्च पञ्च चेन्द्रियगोचराः ॥ ३८१.२१ ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ३८१.२२ ॥ अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३८१.२३ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ३८१.२४ ॥ आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥ ३८१.२५ ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ३८१.२६ ॥ अध्यात्मज्ञाननिष्ठत्वन् तत्त्वज्ञानानुदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ३८१.२७ ॥ ज्ञेयं यत्तत् प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते । अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥ ३८१.२८ ॥ सर्वतः पाणिपादां तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३८१.२९ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ३८१.३१ ॥ बहिरन्तश्च भूतानामचरञ्चरमेव च । सूक्षमत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥ ३८१.३१ ॥ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ३८१.३२ ॥ ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितम् ॥ ३८१.३३ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ ३८१.३४ ॥ अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते । तेऽपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३८१.३५ ॥ BG 13.25 चातितर सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ३८१.३६ ॥ गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥ ३८१.३७ ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ३८१.३८ ॥ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणाम् ॥ ३८१.३९ ॥ न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः । नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥ ३८१.४१ ॥ यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् । आयुः सत्त्वबलारोग्यसुखायान्नन्तु सात्त्विकम् ॥ ३८१.४१ ॥ दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसम् । अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकम् ॥ ३८१.४२ ॥ यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः । यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥ ३८१.४३ ॥ var दम्भार्थं श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते । देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ॥ ३८१.४४ ॥ अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः । मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ॥ ३८१.४५ ॥ सात्त्विकञ्च तपोऽकामं फलाद्यर्थन्तु राजसम् । तामसं परपीडायै सात्त्विकं दानमुच्यते ॥ ३८१.४६ ॥ देशादौ चैव दातव्यमुपकाराय राजसम् । अदेशादाववज्ञातं तामसं दानमीरितम् ॥ ३८१.४७ ॥ ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यज्ञदानादिकं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ३८१.४८ ॥ अनिष्टमिष्टं मिश्रञ्च त्रिविंधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ ३८१.४९ ॥ तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् । राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ॥ ३८१.५१ ॥ अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् । त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ ३८१.५१ ॥ एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसम् । अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकम् ॥ ३८१.५२ ॥ कामाय राजसं कर्म मोहात् कर्म तु तामसम् । सिद्ध्यसिद्ध्योः समः कर्ता सात्त्विको राजसोऽत्यपि ॥ ३८१.५३ ॥ शठोऽलसस्तामसः स्यात् कार्यादिधीश्च सात्त्विकी । कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥ ३८१.५४ ॥ मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी । तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगम् ॥ ३८१.५५ ॥ सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसम् । अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततम् ॥ ३८१.५६ ॥ स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ ३८१.५७ ॥ ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः । सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवम् ॥ ३८१.५८ ॥ इत्यादिमहापुराणे आग्नेये गीतासारो नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥ Agnipurana Chapter 381 From sa.wikisource.org Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : gItAsAra agnipurANAntargatam
% File name             : gItAsAraagnipurANa.itx
% itxtitle              : bhagavadgItAsAraH (agnipurANAntargataH)
% engtitle              : Shrimad Gitasara from Agni Purana 381
% Category              : gItA, giitaa, bhagavadgita
% Location              : doc_giitaa
% Sublocation           : giitaa
% Subcategory           : bhagavadgita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Agnipurana adhyAya 381
% Indexextra            : scanned
% Latest update         : May 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP