॥ श्रीगणेश गीता ॥

क्रमांक अध्याय नाम श्लोकसंख्या ४१४ १ सांख्यसारार्थयोग ६९ २ कर्मयोग ४३ ३ विज्ञानप्रतिपादन ५० ४ वैधसंन्यासयोग ३७ ५ योगावृत्तिप्रशंसन २७ ६ बुद्धियोग २१ ७ उपासनायोग २५ ८ विश्वरूपदर्शन २६ ९ क्षेत्रज्ञातृज्ञेयविवेकयोग ४१ १० उपदेशयोग २३ ११ त्रिविधवस्तुविवेकनिरूपण ५२
॥ ॐ नमः श्रीगणेशाय ॥ ॥ अथ श्रीमद्गणेशगीता प्रारभ्यते ॥ १ ॥ प्रथमोऽध्यायः ॥ ॥ साङ्ख्यसारार्थ योगः ॥ क उवाच - एवमेव पुरा पृष्टः शौनकेन महात्मना । स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् ॥१ ॥ सूत उवाच - अष्टादशपुराणोक्तममृतं प्राशितं त्वया । ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् ॥२ ॥ येनामृतमयो भूत्वा पुमान्ब्रह्मामृतं यतः । योगामृतं महाभाग तन्मे करुणया वद ॥३ ॥ व्यास उवाच - अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् । नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ॥४ ॥ वरेण्य उवाच - विघ्नेश्वर महाबाहो सर्वविद्याविशारद । सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ॥५ ॥ श्रीगजानन उवाच - सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम । शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ॥६ ॥ न योगं योगमित्याहुर्योगो योगो न च श्रियः । न योगो विषयैर्योगो न च मात्रादिभिस्तदा ॥७ ॥ योगो यः पितृमात्रादेर्न स योगो नराधिप । यो योगो बन्धुपुत्रादेर्यश्चाष्टभूतिभिः सह ॥८ ॥ न स योगस्त्रिया योगो जगदद्भुतरूपया । राज्ययोगश्च नो योगो न योगो गजवाजिभिः ॥९ ॥ योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः । योगो यः सत्यलोकस्य न स योगो मतो मम ॥१० ॥ शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः । न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ॥११ ॥ नानिलत्वं नानलत्वं नामरत्वं न कालता । न वारुण्यं न नैरृत्यं योगो न सार्वभौमता ॥१२ ॥ योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्ततम् । भवन्ति वितृषा लोके जिताहारा विरेतसः ॥१३ ॥ पावयन्त्यखिलान्लोकान्वशीकृतजगत्त्रयाः । करुणापूर्णहृदया बोधयन्त्यपि कांश्चन ॥१४ ॥ जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि । निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ॥१५ ॥ ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् । भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ॥१६ ॥ येन केनचिदाच्छिन्ना येन केनचिदाहताः । येन केनचिदाकृष्टा येन केनचिदाश्रिताः ॥१७ ॥ करुणापूर्णहृदया भ्रमन्ति धरणीतले । अनुग्रहाय लोकानां जितक्रोधा जितेन्द्रियाः ॥१८ ॥ देहमात्रभृतो भूप समलोष्टाश्मकाञ्चनाः । एतादृशा महाभाग्याः स्युश्चक्षुर्गोचराः प्रिय ॥१९ ॥ तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् । श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ॥२० ॥ शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप । याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ॥२१ ॥ अहमेव जगद्यस्मात्सृजामि पालयामि च । कृत्वा नानाविधं वेषं संहरामि स्वलीलया ॥२२ ॥ अहमेव महाविष्णुरहमेव सदाशिवः । अहमेव महाशक्तिरहमेवार्यमा प्रिय ॥२३ ॥ अहमेको नृणां नाथो जातः पञ्चविधः पुरा । अज्ञानान्मा न जानन्ति जगत्कारणकारणम् ॥२४ ॥ मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ । ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश ॥२५ ॥ वसवो मनवो गावो मनवः पशवोऽपि च । सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ॥२६ ॥ तथैकविंशतिः स्वर्गा नागाः सप्त वनानि च । मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा ॥२७ ॥ अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः । अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः ॥२८ ॥ अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप । मोहयत्यखिलान्माया श्रेष्ठान्मम नरानमून् ॥२९ ॥ सर्वदा षड्विकारेषु तानियं योजयेत् भृशम् । हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः ॥३० ॥ विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः । अच्छेद्यं शस्त्रसङ्घातैरदाह्यमनलेन च ॥३१ ॥ अक्लेद्यं भूप भुवनैरशोष्यं मारुतेन च । अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ॥३२ ॥ यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् । त्रयीवादरता मूढास्ततोऽन्यन्मन्वतेऽपि न ॥३३ ॥ कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् । स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ॥३४ ॥ सम्पादयन्ति ते भूप स्वात्मना निजबन्धनम् । संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ॥३५ ॥ यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् । ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ॥३६ ॥ चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् । विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ॥३७ ॥ तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप । न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ॥३८ ॥ जहाति यदि कर्माणि ततः सिद्धिं न विन्दति । आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ॥३९ ॥ कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति । स च योगः समाख्यातोऽमृतत्वाय कल्पते ॥४० ॥ योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् । पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ॥४१ ॥ बहिर्दृष्ट्या च समया हृत्स्थयालोकयेत्पुमान् । सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् ॥४२ ॥ रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च । श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ॥४३ ॥ समो मां वस्तुजातेषु पश्यन्नन्तर्बहिःस्थितम् । सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथानिले ॥४४ ॥ द्विजे हृदि महानद्यां तीर्थे क्षेत्रेऽघनाशिनि । विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ॥४५ ॥ गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च । सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ॥४६ ॥ सम्पराहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः । सर्वत्र समताबुद्धिः स योगो भूप मे मतः ॥४७ ॥ आत्मानात्मविवेकेन या बुद्धिर्दैवयोगतः । स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ॥४८ ॥ धर्माधरमौ जहातीह तया युक्त उभावपि । अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ॥४९ ॥ धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः । जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ॥५० ॥ यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति । तदासौ याति वैराग्यं वेदवाक्यादिषु क्रमात् ॥५१ ॥ त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा । परात्मन्यचला बुद्धिस्तदासौ योगमाप्नुयात् ॥५२ ॥ मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय । स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते ॥५३ ॥ वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे । गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ॥५४ ॥ यथाऽयं कमठोऽङ्गानि संकोचयति सर्वतः । विषयेभ्यस्तथा खानि संकर्पेद्योगतत्परः ॥५५ ॥ व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः । विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ॥५६ ॥ विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः । मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ॥५७ ॥ युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् । संयतानीन्द्रियाणीह यस्यासौ कृतधीर्मतः ॥५८ ॥ चिन्तयानस्य विषयान्संगस्तेषूपजायते । कामः संजायते तस्मात्ततः क्रोधोऽभिवर्तते ॥५९ ॥ क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः । भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति ॥६० ॥ विना द्वेषं च रागं च गोचरान्यस्तु खैश्चरेत् । स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ॥६१ ॥ त्रिविधस्यापि दुःखस्य संतोषे विलयो भवेत् । प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ॥६२ ॥ विना प्रसादं न मतिर्विना मत्या न भावना । विना तां न शमो भूप विना तेन कुतः सुखम् ॥६३ ॥ इन्द्रियाश्वान्विचरतो विषयाननु वर्तते । यन्मनस्तन्मतिं हन्यादप्सु नावं मरुद्यथा ॥६४ ॥ या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः । न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ॥६५ ॥ सरितां पतिमायान्ति वनानि सर्वतो यथा । आयान्ति यं तथा कामा न स शान्तिं क्वचिल्लभेत् ॥६६ ॥ अतस्तानीह संरुध्य सर्वतः खानि मानवः । स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ॥६७ ॥ ममताहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् । नित्यं ज्ञानरतो भूत्वा ज्ञानान्मुक्तिं स यास्यति ॥६८ ॥ एवं ब्रह्मधियं भूप यो विजानाति दैवतः । तुर्यामवस्थां प्राप्यापि जीवन्मुक्तिं प्रयास्यति ॥६९ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे सांख्यसारार्थयोगो नाम प्रथमोऽध्यायः ॥ २ ॥ द्वितीयोऽध्यायः ॥ ॥ कर्मयोगः ॥ वरेण्य उवाच - ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो । अवधार्य वदैकं मे निःश्रेयसकरं नु किम् ॥१ ॥ गजानन उवाच - अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय । सांख्यानां बुद्धियोगेन वैधयोगेन कर्मिणाम् ॥२ ॥ अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् । न सिद्धिं याति संत्यागात्केवलात्कर्मणो नृप ॥३ ॥ कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते । अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥४ ॥ कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् । तद्गोचरान्मन्दचित्तो धिगाचारः स भाष्यते ॥५ ॥ तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् । इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥६ ॥ अकर्मणः श्रेष्ठतमं कर्मानीहाकृतं तु यत् । वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ॥७ ॥ असमर्प्य निबध्यन्ते कर्म तेन जना मयि । कुर्वीत सततं कर्मानाशोऽसङ्गो मदर्पणम् ॥८ ॥ मदर्थे यानि कर्माणि तानि बध्नन्ति न क्वचित् । सवासनमिदं कर्म बध्नाति देहिनं बलात् ॥९ ॥ वर्णान्सृष्ट्वावदं चाहं सयज्ञांस्तान्पुरा प्रिय । यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ॥१० ॥ सुरांश्चान्नेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः । लभध्वं परमं स्थानमन्योन्यप्रीणनात्स्थिरम् ॥११ ॥ इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः । तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ॥१२ ॥ हुतावशिष्टभोक्तारो मुक्ताः स्युः सर्वपातकैः । अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ॥१३ ॥ ऊर्जो भवन्ति भूतानि देवादन्नस्य संभवः । यज्ञाच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः ॥१४ ॥ ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः । अतो यज्ञे च विश्वस्मिन् स्थितं मां विद्धि भूमिप ॥१५ ॥ संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः । स मुदा प्रीणते भूपेन्द्रियक्रीडोऽधमो जनः ॥१६ ॥ अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः । आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ॥१७ कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे । किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ॥१८ ॥ अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः । सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ॥१९ ॥ परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः । संग्रहाय हि लोकानां तादृशं कर्म चारभेत् ॥२० ॥ श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः । मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ॥२१ ॥ विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप । अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ॥२२ ॥ न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः । करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ॥२३ ॥ भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः । हंता स्यामस्य लोकस्य विधाता संकरस्य च ॥२४ ॥ कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः । लोकानां संग्रहायैतद्विद्वान् कुर्यादसक्तधीः ॥२५ ॥ विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।भागाद्गुणकर्म योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ॥२६ ॥ अविद्यागुणसाचिव्यात्कुर्वन्कर्माण्यतन्द्रितः । अहंकाराद्भिन्नबुद्धिरहंकर्तेति योऽब्रवीत् ॥२७ ॥ यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद्गुणकर्मणोः । करणं विषये वृत्तमिति मत्वा न सज्जते ॥२८ ॥ कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः । अविश्वस्तः स्वात्मद्रुहो विश्वविन्नैव लंघयेत् ॥२९ ॥ नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः । त्यक्त्वाहंममताबुद्धिं परां गतिमवाप्नुयात् ॥३० ॥ अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् । अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ॥३१ ॥ ये चैव नानुतिष्ठन्ति त्वशुभा हतचेतसः । ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ॥३२ ॥ तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि । अनुयाति च तामेवाग्रहस्तत्र मुधा मतः ॥३३ ॥ कामश्चैव तथा क्रोधः खानामर्थेषु जायते । नैतयोर्वश्यतां यायादम्यविध्वंसकौ यतः ॥३४ ॥ शस्तोऽगुणो निजो धर्मः सांगादन्यस्य धर्मतः । निजे तस्मिन्मृतिः श्रेयोऽपरत्र भयदः परः ॥३५ ॥ वरेण्य उवाच - पुमान्यत्कुरुते पापं स हि केन नियुज्यते । अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥३६ ॥ श्रीगजानन उवाच - कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ । नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ॥३७ ॥ आवृणोति यथा माया जगद्बाष्पो जलं यथा । वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ॥३८ ॥ प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा । इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ॥३९ ॥ आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति । तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥४० ॥ तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् । ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ॥४१ ॥ यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः । ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ॥४२ ॥ बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना । हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॥४३ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे कर्मयोगो नाम द्वितीयोऽध्यायः ॥ ३ ॥ तृतीयोऽध्यायः ॥ ॥ विज्ञानप्रतिपादन ॥ श्रीगजानन उवाच - पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरुहम् । निर्माय चैनमवदं विष्णवे योगमुत्तमम् ॥१ ॥ अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे । ततः परम्परायातं विदुरेनं महर्षयः ॥२ ॥ कालेन बहुना चायं नष्टः स्याच्चरमे युगे । अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ॥३ ॥ एवं पुरातनं योगं श्रुतवानसि मन्मुखात् । गुह्याद्गुह्यतरं वेदरहस्यं परमं शुभम् ॥४ ॥ वरेण्य उवाच - सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन । प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥५ ॥ गणेश उवाच - अनेकानि च ते जन्मान्यतीतानि ममापि च । संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ॥६ ॥ मत्त एव महाबाहो जाता विष्ण्वादयः सुराः । मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥७ ॥ अहमेव परो ब्रह्म महारुद्रोऽहमेव च । अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत् ॥८ ॥ अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च । आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥९ ॥ अधर्मोपचयो धर्मापचयो हि यदा भवेत् । साधून्संरक्षितुं दुष्टांस्ताडितुं संभवाम्यहम् ॥१० ॥ उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च । हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ॥११ ॥ वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् । एवं यो वेत्ति संभूतिर्मम दिव्या युगे युगे ॥१२ ॥ तत्तत्कर्म च वीर्यं च मम रूपं समासतः । त्यक्ताहंममताबुद्धिं न पुनर्भूः स जायते ॥१३ ॥ निरीहा निर्भियोरोषा मत्परा मद्व्यपाश्रयाः । विज्ञानतपसा शुद्धा अनेके मामुपागताः ॥१४ ॥ येन येन हि भावेन संसेवन्ते नरोत्तमाः । तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥१५ ॥ जनाः स्युरितरे राजन्मम मार्गानुयायिनः । तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥१६ ॥ कुर्वन्ति देवताप्रीतिं काङ्क्षन्तः कर्मणां फलम् । प्राप्नुबंतीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ॥१७ ॥ चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः । कर्मांशतश्च संसृष्टा मृत्युलोके मयानघ ॥१८ ॥ कर्तारमपि तेषां मामकर्तारं विदुर्बुधाः । अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥१९ ॥ निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् । चक्रुः कर्माणि बुद्ध्यैवं पूर्वं पूर्वं मुमुक्षवः ॥२० ॥ वासनासहितादाद्यात्संसारकारणाद्दृढात् । अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ॥२१ ॥ तदकर्म च कर्मापि कथयाम्यधुना तव । यत्र मौनं गता मोहादृषयो बुद्धिशालिनः ॥२२ ॥ तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् । त्रिविधानीह कर्माणि सुनिम्नैषां गतिः प्रिय ॥२३ ॥ क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः । यस्य स्यात्स हि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ॥२४ ॥ कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः । तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥२५ ॥ फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः । उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ॥२६ ॥ निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः । केवलं वै गृहं कर्माचरन्नायाति पातकम् ॥२७ ॥ अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः । यथाप्राप्त्येह संतुष्टः कुर्वन्कर्म न बध्यते ॥२८ ॥ अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि । यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ॥२९ ॥ अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् । ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ॥३० ॥ योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च । ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ॥३१ ॥ संयमाग्नौ परे भूप इन्द्रियाण्युपजुह्वति । खाग्निष्वन्ये तद्विषयांश्छब्दादीनुपजुह्वति ॥३२ ॥ प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः । निजात्मरतिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति ॥३३ ॥ द्रव्येण तपसा वापि स्वाध्यायेनापि केचन । तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥३४ ॥ प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये । रुद्ध्वा गतीश्चोभयस्ते प्राणायामपरायणाः ॥३५ ॥ जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च । एवं नानायज्ञरता यज्ञध्वंसितपातकाः ॥३६ ॥ नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः । अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ॥३७ ॥ कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् । ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ॥३८ ॥ सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः । अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ॥३९ ॥ तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् । शुश्रूषया वदिष्यन्ति संतस्तत्त्वविशारदाः ॥४० ॥ नानासंगाञ्जनः कुर्वन्नैकं साधुसमागमम् । करोति तेन संसारे बन्धनं समुपैति सः ॥४१ ॥ सत्संगाद्गुणसंभूतिरापदां लय एव च । स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ॥४२ ॥ इतरत्सुलभं राजन्सत्संगोऽतीव दुर्लभः । यज्ज्ञात्वा पुनर्वेधमेति ज्ञेयं ततस्ततः ॥४३ ॥ ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति । अतिपापरतो जंतुस्ततस्तस्मात्प्रमुच्यते ॥४४ ॥ द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् । प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ॥४५ ॥ न ज्ञानसमतामेति पवित्रमितरन्नृप । आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ॥४६ ॥ भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् । लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥४७ ॥ भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः । तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ॥४८ ॥ आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् । योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ॥४९ ॥ ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात् । छित्वान्तःसंशयं तस्माद्योगयुक्तो भवेन्नरः ॥५० ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे विज्ञानप्रतिपादनो नाम तृतीयोऽध्यायः ॥ ४ ॥ चतुर्थोऽध्यायः ॥ ॥ वैधसंन्यासयोगः ॥ वरेण्य उवाच - संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया । उभयोर्निश्चितं त्वेकं श्रेयो यद्वद मे प्रभो ॥१ ॥ श्रीगजानन उवाच - क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने । तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥२ ॥ द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किंचन । मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान्सुखम् ॥३ ॥ वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ । मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ॥४ ॥ यदेव प्राप्यते त्यागात्तदेव योगतः फलम् । संग्रहं कर्मणो योगं यो विन्दति स विन्दति ॥५ ॥ केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः । कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ॥६ ॥ निर्मलो यतचित्तात्मा जितखो योगतत्परः । आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ॥७ ॥ तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते । एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ॥८ ॥ तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः । न लिप्यते पुण्यपापैर्भानुर्जलगतो यथा ॥९ ॥ कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा । त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ॥१० ॥ योगहीनो नरः कर्म फलेहया करोत्यलम् । बध्यते कर्मबीजैः स ततो दुःखं समश्नुते ॥११ ॥ मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् । न कुर्वन्कारयन्वापि नन्दन्श्वभ्रे सुपत्तने ॥१२ ॥ न क्रिया न च कर्तृत्वं कस्य चित्सृज्यते मया । न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ॥१३ ॥ कस्यचित्पुण्यपापानि न स्पृशामि विभुर्नृप । ज्ञानमूढा विमुह्यन्ते मोहेनावृतबुद्धयः ॥१४ ॥ विवेकेनात्मनोऽज्ञानं येषां नाशितमात्मना । तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥१५ ॥ मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः । अपुनर्भवमायान्ति विज्ञानान्नाशितैनसः ॥१६ ॥ ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु । समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ॥१७ ॥ वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः । यतोऽदोषं ब्रह्म समं तस्मात्तैर्विषयीकृतम् ॥१८ ॥ प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न । ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ॥१९ ॥ वरेण्य उवाच - किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु । भगवन्कृपया तन्मे वद विद्याविशारद ॥२० ॥ श्रीगजानन उवाच - आनन्दमश्नुतेऽसक्तः स्वात्मारामो निजात्मनि । अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥२१ ॥ विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः । उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥२२ ॥ कारणे सति कामस्य क्रोधस्य सहते च यः । तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ॥२३ ॥ अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत् । असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥२४ ॥ जेतारः षड्रिपूणां ये शमिनो दमिनस्तथा । तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥२५ ॥ आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः । संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥२६ ॥ प्राणायामं तु संरोधं प्राणापानसमुद्भवम् । वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥२७ ॥ प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् । दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥२८ ॥ चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः । षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥२९ ॥ सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा । नयन्ति प्राणिनस्तद्वत्प्राणापानौ सुसाधयेत् ॥३० ॥ पीडयन्ति मृगास्ते न लोकान्वश्यं गता नृप । दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुम् ॥३१ ॥ यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् । तथा तथा वशीकुर्यात्प्राणापानौ हि योगवित् ॥३२ ॥ पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् । अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥३३ ॥ प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता । योगस्तु धारणे द्वे स्याद्योगीशस्ते सदाभ्यसेत् ॥३४ ॥ एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते । अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ॥३५ ॥ ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि । एवं योगश्च संन्यासः समानफलदायिनौ ॥३६ ॥ जन्तूनां हितकर्तारं कर्मणां फलदायिनम् । मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥३७ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे वैधसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ५ ॥ पञ्चमोऽध्यायः ॥ ॥ योगावृत्तिप्रशंसनः ॥ श्रीगजानन उवाच - श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत् । शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् ॥१ ॥ योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् । सिद्धियोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ॥२ ॥ इन्द्रियार्थांश्च संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत् । एताननिच्छन्यः कुर्वन्सिद्धिं योगी स सिद्ध्यति ॥३ ॥ सुहृत्वे च रिपुत्वे च उद्धारे चैव बन्धने । आत्मनैवात्मनि ह्यात्मा नात्मा भवति कश्चन ॥४ ॥ मानेऽपमाने दुःखे च सुखेऽसुहृदि साधुषु । मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ॥५ ॥ समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः । अभ्यसेत्सततं योगं यदा युक्ततमो हि सः ॥६ ॥ तप्तः श्रान्तो व्याकुलो वा क्षुधितो व्यग्रचित्तकः । कालेऽतिशीतेऽत्युष्णे वानिलाग्न्यम्बुसमाकुले ॥७ ॥ सध्वनावतिजीर्णे गोःस्थाने साग्नौ जलान्तिके । कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ॥८ ॥ चैत्ये सवल्मिके देशे पिशाचादिसमावृते । नाभ्यसेद्योगविद्योगं योगध्यानपरायणः ॥९ ॥ स्मृतिलोपश्च मूकत्वं बाधिर्यं मन्दता ज्वरः । जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ॥१० ॥ एते दोषाः परित्याज्या योगाभ्यसनशालिना । अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥११ ॥ नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः । नातिजाग्रत्सिद्धिमेति भूप योगं सदाभ्यसन् ॥१२ ॥ संकल्पजांस्त्यजेत्कामान्नियताहारजागरः । नियम्य खगणं बुद्ध्या विरमेत शनैः शनैः ॥१३ ॥ ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति । धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ॥१४ ॥ एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति । विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते ॥१५ ॥ योगेन यो मामुपैति तमुपैम्यहमादरात् । मोचयामि न मुञ्चामि तमहं मां स न त्यजेत् ॥१६ ॥ सुखे सुखेतरे द्वेषे क्षुधि तोषे समस्तृषि । आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥१७ ॥ जीवन्मुक्तः स योगीन्द्रः केवलं मयि संगतः । ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्रये ॥१८ ॥ वरेण्य उवाच - द्विविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः । यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥१९ ॥ श्रीगजानन उवाच - यो निग्रहं दुर्ग्रहस्य मनसः सम्प्रकल्पयेत् । घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् ॥२० ॥ विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् । जनश्छेत्तुं न शक्नोति कर्मकीलः सुसंवृतम् ॥२१ ॥ अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च । गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ॥२२ ॥ अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये । वरेण्य दुर्लभो योगो विनास्य मनसो जयात् ॥२३ ॥ वरेण्य उवाच - योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् । विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ॥२४ ॥ श्रीगजानन उवाच - दिव्यदेहधरो योगाद्भ्रष्टः स्वर्भोगमुत्तमम् । भुक्त्वा योगिकुले जन्म लभेच्छुद्धिमतां कुले ॥२५ ॥ पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् । न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ॥२६ ॥ ज्ञाननिष्ठात्तपोनिष्ठात्कर्मनिष्ठान्नराधिप । श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ॥२७ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे योगावृत्तिप्रशंसनो नाम पञ्चमोऽध्यायः ॥ ६ ॥ षष्ठोऽध्यायः ॥ ॥ बुद्धियोगः ॥ श्रीगजानन उवाच - ईदृशं विद्धि मे तत्त्वं मद्गतेनान्तरात्मना । यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ॥१ ॥ तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया । अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप ॥२ ॥ ज्ञेया मत्प्रकृतिः पूर्वं ततः स्यां ज्ञानगोचरः । ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ॥३ ॥ क्वनलौ खमहङ्कारः कं चित्तं धीसमीरणौ । रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥४ ॥ अन्यां मत्प्रकृतिं वृद्धा मुनयः संगिरन्ति च । तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयानया ॥५ ॥ आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् । संगाद्विश्वस्य संभूतिः परित्राणं लयोऽप्यहम् ॥६ ॥ तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि । वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ॥७ ॥ साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च । मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ॥८ ॥ क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु । प्रभारूपेण पूष्ण्यब्जे रसरूपेण चाप्सु च ॥९ ॥ धीतपोबलिनां चाहं धीस्तपोबलमेव च । त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥१० ॥ न मां विन्दति पापीयान्मायामोहितचेतनः । त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ॥११ ॥ यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् । अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ॥१२ ॥ अन्ये नानाविधान्देवान्भजन्ते तान्व्रजन्ति ते । यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥१३ ॥ तथा तथास्य तं भावं पूरयाम्यहमेव तम् । अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ॥१४ ॥ अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः । नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥१५ ॥ यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः । स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज ॥१६ ॥ यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् । तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ॥१७ ॥ अतश्चाहर्निशं भूप स्मर्तव्योऽनेकरूपवान् । सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ॥१८ ॥ ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् । यो मामुपैत्यसंदिग्धः पतनं तस्य न क्वचित् ॥१९ ॥ अनन्यशरणो यो मां भक्त्या भजति भूमिप । योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥२० ॥ द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप । एकया परमं ब्रह्म परया याति संसृतिम् ॥२१ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे बुद्धियोगो नाम षष्ठोऽध्यायः ॥ ७ ॥ सप्तमोऽध्यायः ॥ ॥ उपासना योगः ॥ वरेण्य उवाच - का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन । किं ब्रह्म संसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥१ ॥ श्रीगजानन उवाच - अग्निर्ज्योतिरहः शुक्ला कर्मार्हमयनं गतिः । चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ॥२ ॥ कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती । दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥३ ॥ क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् । उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥४ ॥ अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता । संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥५ ॥ ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते । ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ॥६ ॥ स्नानवस्त्राद्यलंकारसुगन्धधूपदीपकैः । नैवेद्यैः फलतांबूलैर्दक्षिणाभिश्च योऽर्चयेत् ॥७ ॥ भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् । एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्चयेत् ॥८ ॥ अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा । अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ॥९ ॥ पूजयेन्मां प्रयत्नेन तत्तदिष्टं फलं लभेत् । त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ॥१० ॥ साप्युत्तमा मता पूजानिच्छया या कृता मम । ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ॥११ ॥ एकां पूजां प्रकुर्वाणोऽप्यन्यो वा सिद्धिमृच्छति । मदन्यदेवं यो भक्त्या द्विषन्मामन्यदेवताम् ॥१२ ॥ सोऽपि मामेव यजते परं त्वविधितो नृप । यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ॥१३ ॥ याति कल्पसहस्रं स निरयान्दुःखभाक् सदा । भूतशुद्धिं विधायादौ प्राणानां स्थापनं ततः ॥१४ ॥ आकृष्य चेतसो वृत्तिं ततो न्यासं उपक्रमेत् । कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ॥१५ ॥ न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् । स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखागतम् ॥१६ ॥ जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा । एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ॥१७ ॥ य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् । यज्ञोऽहमौषधं मन्रोऽग्निराज्यं च हविर्हुतम् ॥१८ ॥ ध्यानं ध्येयं स्तुतिं स्तोत्रं नतिर्भक्तिरुपासना । त्रयीज्ञेयं पवित्रं च पितामहपितामहः ॥१९ ॥ ॐकारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः । उत्पत्तिः पोषको बीजं शरणं वास एव च ॥२० ॥ असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च । दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ॥२१ ॥ यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् । योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ॥२२ ॥ मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः । न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ॥२३ ॥ प्रभवं मे विभूतिश्च न देवा ऋषयो विदुः । नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ॥२४ ॥ यद्यच्छ्रेष्ठतमं लोके स विभूतिर्निबोध मे ॥२५ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे उपासनायोगो नाम सप्तमोऽध्यायः ॥ ८ ॥ अष्टमोऽध्यायः ॥ ॥ विश्वरूपदर्शन ॥ वरेण्य उवाच - भगवन्नारदो मह्यं तव नाना विभूतयः । उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ॥१ ॥ त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन । निजं रूपमिदानीं मे व्यापकं चारु दर्शय ॥२ ॥ श्रीगजानन उवाच - एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् । नानाश्चर्याणि दिव्यानि पुराऽदृष्टानि केनचित् ॥३ ॥ ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः । चर्मचक्षुः कथं पश्येन्मां विभुं ह्यजमव्ययम् ॥४ ॥ क उवाच - ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत । ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ॥५ ॥ असंख्यवक्त्रं ललितमसंख्यांघ्रिकरं महत् । अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ॥६ ॥ असंख्यनयनं कोटिसूर्यरश्मिधृतायुधम् । तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः ॥७ ॥ दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् । वरेण्य उवाच - वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितॄन् ॥८ ॥ पातालानां समुद्राणां द्वीपानां चैव भूभृताम् । महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ॥९ ॥ भुवोऽन्तरिक्षस्वर्गांश्च मनुष्योरगराक्षसान् । ब्रह्माविष्णुमहेशेन्द्रान्देवान्जन्तूननेकधा ॥१० ॥ अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् । प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ॥११ ॥ किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् । एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ॥१२ ॥ सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः । नृत्यद्भिरप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥१३ ॥ वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः । सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ॥१४ ॥ वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् । पातालानि दिशः स्वर्गान्भुवं व्याप्याऽखिलं स्थितम् ॥१५ ॥ भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् । नानादंष्ट्राकरालं च नानाविद्याविशारदम् ॥१६ ॥ प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् । दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् ॥१७ ॥ देवा मनुष्यनागाद्याः खलास्त्वदुदरेशयाः । नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च ॥१८ ॥ अब्धेरुत्पद्यमानास्ते यथाजीमूतबिन्दवः । त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत् ॥१९ ॥ गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् । नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ॥२० ॥ दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् । को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया ॥२१ ॥ अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् । ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम ॥२२ ॥ श्रीगजानन उवाच - नेदं रूपं महाबाहो मम पश्यन्त्ययोगिनः । सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥ २३ ॥ चतुर्वेदार्थतत्त्वज्ञाः सर्वशास्त्रविशारदाः । यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते ॥२४ ॥ शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः । त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ॥२५ ॥ मद्भक्तो मत्परः सर्वसंगहीनो मदर्थकृत् । निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ॥२६ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे विश्वरूपदर्शनो नामाष्टमोऽध्यायः ॥ ९ ॥ नवमोऽध्यायः ॥ ॥ क्षेत्रज्ञातृज्ञेयविवेकयोगः ॥ वरेण्य उवाच - अनन्यभावस्त्वां सम्यङ्मूर्तिमन्तमुपासते । योऽक्षरं परमव्यक्तं तयोः कस्ते मतोऽधिकः ॥१ ॥ असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः । अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥२ ॥ श्रीगजानन उवाच - यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते । स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ॥३ ॥ खगणं स्ववशं कृत्वाखिलभूतहितार्थकृत् । ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ॥४ ॥ सोऽपि मामेत्यनिर्देश्यं मत्परो य उपासते । संसारसागरादस्मादुद्धरामि तमप्यहम् ॥५ ॥ अव्यक्तोपासनाद्दुःखमधिकं तेन लभ्यते । व्यक्तस्योपासनात्साध्यं तदेवाव्यक्तभक्तितः ॥६ ॥ भक्तिश्चैवादरश्चात्र कारणं परमं मतम् । सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान् ॥७ ॥ भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते । चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मतः ॥८ ॥ शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः । भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ॥९ ॥ अतो भक्त्या मयि मनो विधेहि बुद्धिमेव च । भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि ॥१० ॥ असमर्थोऽर्पितुं स्वान्तं एवं मयि नराधिप । अभ्यासेन चे योगेन ततो गन्तुं यतस्व माम् ॥११ ॥ तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् । मामनुग्रहतश्चैवं परां निर्वृतिमेष्यसि ॥१२ ॥ अथैतदप्यनुष्ठातुं न शक्तोऽसि तदा कुरु । प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥१३ ॥ श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं परं मतम् । ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥१४ ॥ निरहंममताबुद्धिरद्वेषः शरणः समः । लाभालाभे सुखे दुःखे मानामाने स मे प्रियः ॥१५ ॥ यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् । उद्वेगभीः कोपमुद्भीरहितो यः स मे प्रियः ॥१६ ॥ रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् । मौनी निश्चलधीभक्तिरसंगः स च मे प्रियः ॥१७ ॥ संशीलयति यश्चैनमुपदेशं मया कृतम् । स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥१८ ॥ अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ च न तुष्यति । क्षेत्रतज्ज्ञौ च यो वेत्ति समे प्रियतमो भवेत् ॥१९ ॥ वरेण्य उवाच - किं क्षेत्रं कश्च तद्वेत्ति किं तज्ज्ञानं गजानन । एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥२० ॥ श्रीगजानन उवाच - पञ्च भूतानि तन्मात्राः पञ्च कर्मेन्द्रियाणि च । अहंकारो मनो बुद्धिः पञ्च ज्ञानेन्द्रियाणि च ॥२१ ॥ इच्छाव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च । चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ॥२२ ॥ तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् । अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ॥२३ ॥ आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः । शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ॥२४ ॥ समदृष्टिर्दृढा भक्तिरेकान्तित्वं शमो दमः । एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ॥२५ ॥ तज्ज्ञानविषयं राजन्ब्रवीमि त्वं शृणुष्व मे । यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ॥२६ ॥ यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् । अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ॥ २७ ॥ विश्वभृच्चाखिलव्यापि त्वेकं नानेव भासते । बाह्याभ्यन्तरतः पूर्णमसंगं तमसः परम् ॥२८ ॥ दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तानामपि भासकम् । ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ॥२९ ॥ एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः । गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः ॥३० ॥ गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् । यदा प्रकाशः शान्तिश्च वृद्धे सत्त्वं तदाधिकम् ॥३१ ॥ लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः । मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ॥३२ ॥ सत्त्वाधिकः सुखं ज्ञानं कर्मसंगं रजोऽधिकः । तमोऽधिकश्च लभते निद्रालस्यं सुखेतरत् ॥३३ ॥ एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतीः । प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ॥३४ ॥ ततश्च सर्वभावेन भज त्वं मां नरेश्वर । भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ॥३५ ॥ अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् । विदुषि ब्राह्मणे तेजो विद्धि तन्मामकं नृप ॥३६ ॥ अहमेवाखिलं विश्वं सृजामि विसृजामि च । औषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ॥३७ ॥ सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनंजयम् । भुनज्मि चाखिलान्भोगान्पुण्यपापविवर्जितः ॥३८ ॥ अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः । इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ॥३९ ॥ येन येन हि रूपेण जनो मां पर्युपासते । तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ॥४० ॥ इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् । अखिलं भूपते सम्यगुपपन्नाय पृच्छते ॥४१ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे क्षेत्रज्ञातृज्ञेयविवेकयोगो नाम नवमोऽध्यायः ॥ १० ॥ दशमोऽध्यायः ॥ ॥ उपदेशयोगः ॥ श्रीगजानन उवाच - दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् । तासां फलानि चिन्हानि संक्षेपात्तेऽधुना ब्रुवे ॥१ ॥ आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप । चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ॥२ ॥ अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् । तेजोऽभयमहिंसा च क्षमा शौचममानिता ॥३ ॥ इत्यादि चिन्हमाद्याया आसुर्याः शृणु सांप्रतम् । अतिवादोऽभिमानश्च दर्पो ज्ञानं सकोपता ॥४ ॥ आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप । निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ॥५ ॥ द्वेषो हिंसाऽदया क्रोध औद्धत्यं दुर्विनीतता । आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ॥६ ॥ अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता । निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ॥७ ॥ मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः । पाखण्डवाक्ये विश्वासः संगतिर्मलिनान्मनाम् ॥८ ॥ सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु । अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ॥९ ॥ परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः । इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ॥१० ॥ पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते । मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥११ ॥ तामसीं ये श्रिता राजन्यान्ति ते रौरवं ध्रुवम् । अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥१२ । दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः । जात्यन्धाः पङ्गवो दीना हीनजातिषु ते नृप ॥१३ ॥ पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते । उत्पतन्ति हि मद्भक्ता यां कांचिद्योनिमाश्रिताः ॥१४ ॥ लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मश्च भूमिप । सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ॥१५ ॥ विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा । अहं हन्ता अहं कर्ता अहं भोक्तेति वादिनः ॥१६ ॥ अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी । एतादृशी मतिर्नॄणामधः पातयतीह तान् ॥१७ ॥ तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय । भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ॥१८ ॥ सापि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा । यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ॥१९ ॥ राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा । यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ॥२० ॥ वेदेनाविहितं क्रूरं साहंकारं सदम्भकम् । भजन्ते प्रेतभूतादीन्कर्म कुर्वन्ति कामुकम् ॥२१ ॥ शोषयन्तो निजं देहमन्तःस्थं मां दृढाग्रहाः । तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ॥२२ ॥ कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमी । महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ॥२३ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे उपदेशयोगो नाम दशमोऽध्यायः ॥ ११ ॥ एकादशोऽध्यायः ॥ ॥ त्रिविधवस्तुविवेकनिरूपणम् ॥ श्रीगजानन उवाच - तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः । ऋजुतार्जवशौचानि ब्रह्मचर्यमहिंसनम् ॥१ ॥ गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् । स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ॥२ ॥ मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् । अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम् ॥३ ॥ अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः । निर्मलाशयता नित्यं मानसं तप ईदृशम् ॥४ ॥ अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् । ऋध्यै सत्कारपूजार्थं सदम्भं राजसं तपः ॥५ ॥ तदस्थिरं जन्ममृती प्रयच्छति न संशयः । परात्मपीडकं यच्च तपस्तामसमुच्यते ॥६ ॥ विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः । श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम् ॥७ ॥ उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः । क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ॥८ ॥ अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् । असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥९ ॥ ज्ञानं च त्रिविधं राजन् शृणुष्व स्थिरचेतसा । त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः ॥१० ॥ नानाविधेषु भूतेषु मामेकं वीक्षते तु यः । नाशवत्सु च नित्यं मां तज्ज्ञानं सात्विकं नृप ॥११ ॥ तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः । मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥१२ ॥ हेतुहीनमसत्यं च देहात्मविषयं च यत् । असदल्पार्थविषयं तामसं ज्ञानमुच्यते ॥१३ ॥ भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् । कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत् ॥१४ ॥ कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते । यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ॥१५ ॥ क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते । अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ॥१६ ॥ अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् । कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ॥१७ ॥ धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः । अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ॥१८ ॥ कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः । अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ॥१९ ॥ प्रमादाज्ञानसहितः परोच्छेदपरः शठः । अलसस्तर्कवान्यस्तु कर्तासौ तामसो मतः ॥२० ॥ सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु । सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥२१ ॥ विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत् । इष्यमानं तथाऽऽवृत्त्या यदन्तेऽमृतवद्भवेत् ॥२२ ॥ प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् । विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ॥२३ ॥ हालाहलमिवान्ते यद्राजसं सुखमीरितम् । तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् ॥२४ ॥ सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् । न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः ॥२५ ॥ राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः । त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ॥२६ ॥ ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः । तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥२७ ॥ अन्तर्बाह्येन्द्रियाणां च वश्यत्वमार्जवं क्षमा । नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥२८ ॥ वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च । अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ॥२९ ॥ दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् । शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥३० ॥ प्रभुता मन औनत्यं सुनीतिर्लोकपालनम् । पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ॥३१ ॥ नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् । त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ॥३२ ॥ दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् । एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥३३ ॥ स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः । मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥ ३४॥ इति ते कथितो राजन्प्रसादाद्योगौत्तमः । सांगोपांगः सविस्तारोऽनादिसिद्धो मया प्रिय ॥ ३५ ॥ युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप । गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥३६ ॥ व्यास उवाच - इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः । गणेशस्य वरेण्यः स चकार च यथोदितम् ॥३७ ॥ त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् । उपदिष्टं यथा योगमास्थाय मुक्तिमाप्नवान् ॥३८ ॥ इमं गोप्यतमं योगं शृणोति श्रद्धया तु यः । सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥३९ ॥ य इमं श्रावयेद्योगं कृत्वा स्वार्थं सुबुद्धिमान् । यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥४० ॥ यो गीतां सम्यगभ्यस्य ज्ञात्वा चार्थं गुरोर्मुखात् । कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥४१ ॥ एककालं द्विकालं वा त्रिकालं वापि यः पठेत् । ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥४२ ॥ न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः । न वेदैः सम्यगभ्यस्तैः सहाङ्गकैः ॥४३ ॥ पुराणश्रवणैर्नैव न शास्त्रैः साधुचिन्तितैः । प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ॥४४ ॥ ब्रह्मघ्नो मद्यपः स्तेयी गुरुतल्पगमोऽपि यः । चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥४५ ॥ स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः । ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥४६ ॥ यः पठेत्प्रयतो नित्यं स गणेशो न संशयः । चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ॥४७ ॥ तत्तत्क्षेत्रं समासाद्य स्नात्वाभ्यर्च्य गजाननम् । सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय कल्पते ॥४८ ॥ भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः । कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥४९ ॥ सवाहनां सायुधां च समभ्यर्च्य यथाविधि । यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥५० ॥ ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् । पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ॥५१ ॥ विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् । कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥५२ ॥ इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे त्रिविधवस्तुविवेकनिरूपणं नाम एकादशोऽध्यायः ॥ ॥ इति गणेश गीता समाप्ता ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Ganesha Gita
% File name             : ganeshagita.itx
% itxtitle              : gaNeshagItA
% engtitle              : Ganesha Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Vyasa(by tradition,author of Ganesha Purana)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : portion of Ganesha Purana
% Latest update         : July 4, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP