॥ गीता सन्धिविग्रह अन्वय ॥

अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः । अथ प्रथमः अध्यायः । अर्जुन-विषाद योगः । धृतराष्ट्र उवाच । धृतराष्ट्रः उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥ धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः । मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १-१॥ हे सञ्जय! धर्म-क्षेत्रे, कुरु-क्षेत्रे, युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत ? सञ्जय उवाच । सञ्जयः उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ १-२॥ दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा । आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ १-२॥ तदा तु पाण्डव-अनीकम् व्यूढम् दृष्ट्वा, राजा दुर्योधनः आचार्यम् उपसङ्गम्य, (इदं) वचनम् अब्रवीत् ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥ पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् । व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ १-३॥ हे आचार्य! तव धीमता शिष्येण, द्रुपद-पुत्रेण व्यूढाम् पाण्डु-पुत्राणाम् एताम् महतीम् चमूम् पश्य । अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥ अत्र शूराः महा-इषु-आसाः भीम-अर्जुन-समाः युधि । युयुधानः विराटः च द्रुपदः च महारथः ॥ १-४॥ अत्र, भीम-अर्जुन-समाः युधि शूराः महा-इषु-आसाः, महारथः युयुधानः, विराटः च द्रुपदः च । धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ १-५॥ धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् । पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः ॥ १-५॥ धृष्टकेतुः, चेकितानः च, वीर्यवान् काशिराजः च, पुरुजित् कुन्तिभोजः च, नर-पुङ्गवः शैब्यः च । युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥ युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् । सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥ १-६॥ विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव । अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥ अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज-उत्तम । नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ १-७॥ हे द्विज-उत्तम! अस्माकम् तु ये विशिष्टाः, मम सैन्यस्य नायकाः, तान् निबोध । तान् संज्ञार्थम् ते ब्रवीमि । भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ १-८॥ भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः । अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥ १-८॥ भवान् भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा विकर्णः च, तथा एव च सौमदत्तिः । अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥ अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥ १-९॥ अन्ये च बहवः शूराः, सर्वे मदर्थे त्यक्त-जीविताः, नाना-शस्त्र-प्रहरणाः युद्ध-विशारदाः [सन्ति]। अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥ अपर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभिरक्षितम् । पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभिरक्षितम् ॥ १-१०॥ अस्माकम् भीष्म-अभिरक्षितम् तत् बलम् अपर्याप्तम्, एतेषाम् तु भीम-अभिरक्षितम् इदम् बलम् पर्याप्तम् (अस्ति)। अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥ अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥ १-११॥ भवन्तः सर्वे एव हि सर्वेषु अयनेषु च यथा-भागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु । तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥ तस्य सञ्जनयन् हर्षम् कुरु-वृद्धः पितामहः । सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥ १-१२॥ तस्य हर्षम् सञ्जनयन् प्रतापवान् कुरु-वृद्धः पितामहः, उच्चैः सिंहनादम् विनद्य शङ्खम् दध्मौ । ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥ ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः । सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥ १-१३॥ ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् । ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥ ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥ ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः । पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥ पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः । पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदरः ॥ १-१५॥ हृषीकेशः पाञ्चजन्यम्, धनञ्जयः देवदत्तम् , भीम-कर्मा वृक-उदरः पौण्ड्रम् महा-शङ्खम् दध्मौ । अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥ अनन्तविजयम् राजा कुन्ती-पुत्रः युधिष्ठिरः । नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ ॥ १-१६॥ कुन्ती-पुत्रः राजा युधिष्ठिरः अनन्तविजयम्, नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ । काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥ काश्यः च परम-इषु-आसः शिखण्डी च महारथः । धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥ १-१७॥ परम-इषु-आसः काश्यः च, महारथः शिखण्डी च धृष्टद्युम्नः विराटः च, अपराजितः सात्यकिः च । द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥ द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते । सौभद्रः च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ १-१८॥ द्रुपदः द्रौपदेयाः च, महा-बाहुः सौभद्रः च, हे पृथिवी-पते! पृथक् पृथक् सर्वशः शङ्खान् दध्मुः । स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १-१९॥ सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् । नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ॥ १-१९॥ सः तुमुलः घोषः नभः च पृथिवीम् च एव व्यनुनादयन्, धार्त्रराष्ट्राणाम् हृदयानि व्यदारयत् । अथ व्यवस्थितान्दृष्ट्वा धार्त्रराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अथ व्यवस्थितान् दृष्ट्वा धार्त्रराष्ट्रान् कपि-ध्वजः । प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः ॥ १-२०॥ हृषीकेशम् तदा वाक्यम् इदम् आह महीपते । अथ कपि-ध्वजः पाण्डवः धार्त्रराष्ट्रान् व्यवस्थितान् दृष्ट्वा, शस्त्र-सम्पाते प्रवृत्ते (सति) धनुः उद्यम्य हे महीपते! तदा हृषीकेशम् इदम् वाक्यम् आह । अर्जुन उवाच । अर्जुनः उवाच । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥ सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥ १-२१॥ हे अच्युत! उभयोः सेनयोः मध्ये मे रथम् स्थापय । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥ ॥ यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान् । कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥ १-२२॥ यावत् अहम् योद्धु-कामान् अवस्थितान् एतान् निरीक्षे; अस्मिन् रण-समुद्यमे मया कैः सह योद्धव्यम् ? योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥ ॥ योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥ १-२३॥ दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रिय-चिकीर्षवः ये एते अत्र समागताः योत्स्यमानान् अहम् अवेक्षे । सञ्जय उवाच । सञ्जयः उवाच । एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५॥ एवम् उक्तः हृषीकेशः गुडाकेशेन भारत । सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥ १-२४॥ भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम् । उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥ १-२५॥ हे भारत! एवम् गुडाकेशेन उक्तः हृषीकेशः, उभयोः सेनयोः मध्ये, भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम् रथ-उत्तमम् स्थापयित्वा, हे 'पार्थ! एतान् समवेतान् कुरून् पश्य', इति उवाच । तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १-२७॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥ १-२६॥ श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि । तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ १-२७॥ कृपया परयाविष्टः विषीदन् इदम् अब्रवीत् । अथ पार्थः उभयोः सेनयोः अपि, तत्र स्थितान् पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान् तथा सखीन्, श्वशुरान् सुहृदः, च एव अपश्यत् सः कौन्तेयः । तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य परया कृपया आविष्टः, विषीदन् इदम् अब्रवीत् । अर्जुन उवाच । अर्जुनः उवाच । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ १-२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १-२९॥ दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ १-२८॥ सीदन्ति मम गात्राणि मुखम् च परिशुष्यति । वेपथुः च शरीरे मे रोम-हर्षः च जायते ॥ १-२९॥ हे कृष्ण! इमम् स्वजनम् युयुत्सुम् समुपस्थितम् दृष्ट्वा मम गात्राणि सीदन्ति मुखम् च परिशुष्यति, मे शरीरे वेपथुः च रोम-हर्षः च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १-३०॥ गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते । न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः ॥ १-३०॥ हस्तात् गाण्डीवम् स्रंसते, त्वक् च एव परिदह्यते, अवस्थातुम् च न शक्नोमि मे मनः च भ्रमति इव । निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १-३१॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥ १-३१॥ हे केशव! निमित्तानि विपरीतानि च पश्यामि । आहवे च स्वजनम् हत्वा श्रेयः न अनुपश्यामि । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२॥ न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च । किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ १-३२॥ हे कृष्ण! विजयम् न , राज्यम् च सुखानि च न (काङ्क्षे)। हे गोविन्द! नः राज्येन किम् भोगैः जीवितेन वा किम् ? येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १-३३॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४॥ येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च । ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च ॥ १-३३॥ आचार्याः पितरः पुत्राः तथा एव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ १-३४॥ येषाम् अर्थे नः राज्यम् काङ्क्षितम्, भोगाः सुखानि च; ते इमे आचार्याः पितरः पुत्राः, तथा एव च पितामहाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा, युद्धे अवस्थिताः । एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १-३५॥ एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन । अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते ॥ १-३५॥ हे मधुसूदन! (मां) घ्नतः अपि एतान्, त्रैलोक्य-राज्यस्य हेतोः अपि न हन्तुम् इच्छामि, किम् नु महीकृते ? निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन । पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥ १-३६॥ हे जनार्दन! एतान् धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ? आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत् । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७॥ तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् । स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ १-३७॥ हे माधव! तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयम् न अर्हाः । हि स्वजनम् हत्वा (वयम्) कथम् सुखिनः स्याम ? यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३९॥ यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः । कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम् ॥ १-३८॥ कथम् न ज्ञेयम् अस्माभिः पापात् अस्मान् निवर्तितुम् । कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ १-३९॥ यदि अपि एते लोभ-उपहत-चेतसः कुल-क्षय-कृतम् दोषम्, मित्र-द्रोहे च पातकम् न पश्यन्ति; हे जनार्दन! कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुम् कथम् न ज्ञेयम् ? कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४०॥ कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥ १-४०॥ कुल-क्षये सनातनाः कुल-धर्माः प्रणश्यन्ति, उत धर्मे नष्टे अधर्मः कृत्स्नम् कुलम् अभिभवति । अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१॥ अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥ १-४१॥ हे कृष्ण! अधर्म-अभिभवात् कुल-स्त्रियः प्रदुष्यन्ति । हे वार्ष्णेय! स्त्रीषु दुष्टासु वर्ण-सङ्करः जायते । सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२॥ सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च । पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः ॥ १-४२॥ सङ्करः कुल-घ्नानाम् कुलस्य च नरकाय एव (भवति); हि एषाम् पितरः लुप्त-पिण्ड-उदक-क्रियाः (सन्तः) पतन्ति । दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १-४३॥ दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः ॥ १-४३॥ कुल-घ्नानाम् एतैः वर्ण-सङ्कर-कारकैः दोषैः शाश्वताः जाति-धर्माः कुल-धर्माः च उत्साद्यन्ते । उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४॥ उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन । नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥ १-४४॥ हे जनार्दन! उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् नरके नियतम् वासः भवति, इति अनुशुश्रुम । अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५॥ अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् । यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः ॥ १-४५॥ अहो! बत, महत् पापम् कर्तुम् वयम् व्यवसिताः यत् राज्य-सुख-लोभेन स्वजनम् हन्तुम् उद्यताः । यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४६॥ यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र-पाणयः । धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् ॥ १-४६॥ यदि शस्त्र-पाणयः धार्तराष्ट्राः अशस्त्रम् अप्रतीकारम् माम् रणे हन्युः तत् मे क्षेमतरम् भवेत् । सञ्जय उवाच । सञ्जयः उवाच । एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७॥ एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थे उपाविशत् । विसृज्य सशरम् चापं शोक-संविग्न-मानसः ॥ १-४७॥ सङ्ख्ये एवम् उक्त्वा, शोक-संविग्न-मानसः अर्जुनः सशरम् चापं विसृज्य, रथ-उपस्थे उपाविशत् । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे अर्जुन-विषाद-योगः नाम प्रथमः अध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः । अथ द्वितीयः अध्यायः । साङ्ख्य-योगः । सञ्जय उवाच । सञ्जयः उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् । विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ॥ २-१॥ तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् विषीदन्तम् तम् मधुसूदनः इदम् वाक्यम् उवाच । श्रीभगवानुवाच । श्रीभगवान् उवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥ २-२॥ हे अर्जुन! अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदम् कश्मलम् विषमे त्वा कुतः समुपस्थितम् ? क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥ क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते । क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ॥ २-३॥ हे पार्थ! क्लैब्यम् मा स्म गमः । एतत् त्वयि न उपपद्यते । हे परन्तप! क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ । अर्जुन उवाच । अर्जुनः उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २-४॥ कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन ॥ २-४॥ हे मधुसूदन! अहम् भीष्मम् द्रोणम् च सङ्ख्ये इषुभिः कथम् प्रतियोत्स्यामि? अरि-सूदन! (एतौ) पूजा-अर्हौ । गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥ गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके । हत्वा अर्थ-कामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ २-५॥ हि महानुभावान् गुरून् अहत्वा, इह लोके भैक्ष्यम् भोक्तुम् अपि श्रेयः । गुरून् हत्वा तु इह एव रुधिर-प्रदिग्धान् अर्थ-कामान् भोगान् भुञ्जीय । न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥ न च एतत् विद्मः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः । यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥ नः कतरत् गरीयः? यत् वा (वयं) जयेम, यदि वा (ते) नः जयेयुः, एतत् च न विद्मः । यान् हत्वा न जिजीविषामः, ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः । कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥ कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः । यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् ॥ २-७॥ कार्पण्य-दोष-उपहत-स्वभावः धर्म-सम्मूढ-चेताः (अहं) त्वाम् पृच्छामि । यत् निश्चितम् श्रेयः स्यात्, तत् मे ब्रूहि । अहम् ते शिष्यः । त्वाम् प्रपन्नम् माम् शाधि । न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ २-८॥ न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यम् सुराणाम् अपि च आधिपत्यम् ॥ २-८॥ हि भूमौ असपत्नम् ऋद्धम् राज्यम् अवाप्य , सुराणाम् च अपि आधिपत्यम्, यत् मम इन्द्रियाणाम् उच्छोषणम् शोकम् अपनुद्यात् न प्रपश्यामि । सञ्जय उवाच । सञ्जयः उवाच । एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९॥ एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः । न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥ २-९॥ परन्तपः गुडाकेशः हृषीकेशम् एवम् उक्त्वा 'न योत्स्ये' इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह । तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१०॥ तम् उवाच हृषीकेशः प्रहसन् इव भारत । सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः ॥ २-१०॥ हे भारत! उभयोः सेनयोः मध्ये विषीदन्तम् (अर्जुनं) तम् हृषीकेशः प्रहसन् इव इदम् वचः उवाच । श्रीभगवानुवाच । श्रीभगवान् उवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥ अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे । गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः ॥ २-११॥ त्वम् अशोच्यान् अन्वशोचः । प्रज्ञा-वादान् च भाषसे । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति । न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥ न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः । न च एव न भविष्यामः सर्वे वयम् अतः परम् ॥ २-१२॥ अहम् जातु न आसम् (इति) न तु एव, त्वम् (जातु न आसीः इति)न, इमे जनाधिपाः (जातु न आसन् इति) न, । अतः परम् च वयम् सर्वे न भविष्यामः (इति) न एव । देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥ देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा । तथा देहान्तर-प्राप्तिः धीरः तत्र न मुह्यति ॥ २-१३॥ देहिनः अस्मिन् देहे यथा कौमारम् यौवनम् जरा, तथा देहान्तर-प्राप्तिः । तत्र धीरः न मुह्यति । मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥ मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः । आगम अपायिनः अनित्याः । भारत तान् तितिक्षस्व ॥ २-१४॥ हे कौन्तेय! मात्रा-स्पर्शाः तु शीत-उष्ण-सुख-दुःख-दाः, आगम अपायिनः, अनित्याः । हे भारत! तान् तितिक्षस्व । यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५॥ यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ । सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते ॥ २-१५॥ हे पुरुष-ऋषभ! हि यम् सम-दुःख-सुखम् धीरम् पुरुषम् एते न व्यथयन्ति, सः अमृतत्वाय कल्पते । नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥ न असतः विद्यते भावः न अभावः विद्यते सतः । उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः ॥ २-१६॥ असतः भावः न विद्यते सतः अभावः न विद्यते । तत्त्व-दर्शिभिः तु उभयोः अपि अनयोः अन्तः दृष्टः । अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥ अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् । विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति ॥ २-१७॥ विद्धि, येन इदम् सर्वम् ततम्, तत् तु अविनाशि । अस्य अव्ययस्य विनाशम् कर्तुम्, कश्चित् न अर्हति । अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥ अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः । अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत ॥ २-१८॥ अनाशिनः अप्रमेयस्य नित्यस्य शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । हे भारत! तस्मात् युध्यस्व । य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९॥ यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते ॥ २-१९॥ यः एनम् हन्तारम् वेत्ति, यः च एनम् हतम् मन्यते तौ उभौ न विजानीतः, अयम् न हन्ति न हन्यते । न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२०॥ न जायते म्रियते वा कदाचित् न अयम् भूत्वा अभविता वा न भूयः । अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे ॥ २-२०॥ अयम् कदाचित् न जायते, न वा म्रियते, (अयम्) भूत्वा भूयः अभविता वा न। अयम् अजः नित्यः शाश्वतः पुराणः, शरीरे हन्यमाने न हन्यते । वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१॥ वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् । कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् ॥ २-२१॥ हे पार्थ! यः एनम् अविनाशिनम् नित्यम् अजम् अव्ययम् वेद, सः पुरुषः कथम् कम् घातयति, कम् हन्ति ? वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ २-२२॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥ २-२२॥ यथा नरः जीर्णानि वासांसि विहाय, अपराणि नवानि गृह्णाति, तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति । नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३॥ न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः । न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥ २-२३॥ एनम् शस्त्राणि न छिन्दन्ति, एनम् पावकः न दहति एनम् आपः न क्लेदयन्ति, (एनम्) च मारुतः न शोषयति । अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥ अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च । नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः ॥ २-२४॥ अयम् अच्छेद्यः, अयम् अदाह्यः, अयम् अक्लेद्यः, (अयम्) अशोष्यः च एव । अयम् नित्यः, सर्वगतः, स्थाणुः, अचलः, सनातनः । अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥ अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते । तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि ॥ २-२५॥ अयम् अव्यक्तः, अयम् अचिन्त्यः, अयम् अविकार्यः उच्यते । तस्मात् एनम् एवम् विदित्वा (त्वं) अनुशोचितुम् न अर्हसि । अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २-२६॥ अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् । तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि ॥ २-२६॥ अथ च एनम् नित्य-जातम्, नित्यम् वा मृतम् मन्यसे , तथा अपि हे महा-बाहो! त्वम् एनम् शोचितुम् न अर्हसि । जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७॥ जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च । तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ॥ २-२७॥ हि जातस्य मृत्युः ध्रुवः, मृतस्य च जन्म ध्रुवम्, तस्मात् अपरिहार्ये अर्थे त्वम् शोचितुम् न अर्हसि । अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥ अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनानि एव तत्र का परिदेवना ॥ २-२८॥ हे भारत! भूतानि अव्यक्त-आदीनि व्यक्त-मध्यानि अव्यक्त-निधनानि एव, तत्र परिदेवना का? आश्चर्यवत्पश्यति कश्चिदेन्- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९॥ आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः । आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चित् ॥ २-२९॥ कश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव च अन्यः एनम् आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति; श्रुत्वा अपि च कश्चित् एव न वेद । देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३०॥ देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ॥ २-३०॥ हे भारत! सर्वस्य देहे अयम् देही नित्यम् अवध्यः; तस्मात् त्वम् सर्वाणि भूतानि शोचितुम् न अर्हसि । स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१॥ स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते ॥ २-३१॥ स्वधर्मम् च अपि अवेक्ष्य विकम्पितुम् न अर्हसि । हि क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते । यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२॥ यत् ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ २-३२॥ हे पार्थ! यत् ऋच्छया च उपपन्नम् ईदृशम् अपावृतम् स्वर्ग-द्वारम् युद्धम् सुखिनः क्षत्रियाः लभन्ते । अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥ अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि । ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ॥ २-३३॥ अथ त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि चेत्, ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि । अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४॥ अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ॥ २-३४॥ अपि च भूतानि ते अव्ययाम् अकीर्तिम् कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते । भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५॥ भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः । येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् ॥ २-३५॥ महारथाः त्वाम् भयात् रणात् उपरतम् मंस्यन्ते; येषाम् च त्वम् बहु-मतः भूत्वा, लाघवम् यास्यसि । अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६॥ अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः । निन्दन्तः तव सामर्थ्यम् ततः दुःखतरम् नु किम् ॥ २-३६॥ तव सामर्थ्यम् निन्दन्तः तव अहिताः च बहून् अवाच्य-वादान् वदिष्यन्ति । ततः किम् नु दुःखतरम्? हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७॥ हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् । तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ २-३७॥ हतः वा स्वर्गम् प्राप्स्यसि, जित्वा वा महीम् भोक्ष्यसे । हे कौन्तेय! तस्मात् युद्धाय कृत-निश्चयः उत्तिष्ठ । सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥ सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ । ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि ॥ २-३८॥ सुख-दुःखे लाभ-अलाभौ जय-अजयौ समे कृत्वा ततः युद्धाय युज्यस्व । एवम् पापम् न अवाप्स्यसि । एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९॥ एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु । बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि ॥ २-३९॥ हे पार्थ! एषा ते साङ्ख्ये बुद्धिः अभिहिता; योगे तु इमाम् (बुद्धिं) शृणु । यया बुद्ध्या युक्तः (त्वं) कर्म-बन्धम् प्रहास्यसि । नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥ न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते । स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् ॥ २-४०॥ इह अभिक्रम-नाशः न अस्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य स्वल्पम् अपि (अनुष्ठानं) महतः भयात् त्रायते । व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥ व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन । बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् ॥ २-४१॥ हे कुरु-नन्दन! इह व्यवसाय-आत्मिका एका बुद्धिः । अव्यवसायिनाम् हि बुद्धयः अनन्ताः बहु-शाखाः च । यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥ याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः । वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः ॥ २-४२॥ काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलाम् भोग-ऐश्वर्य-गतिम् प्रति ॥ २-४३॥ भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम् । व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥ हे पार्थ! वेद-वाद-रताः, अन्यत् न अस्ति इति वादिनः, अविपश्चितः, काम-आत्मानः, स्वर्ग-पराः, भोग-ऐश्वर्य-गतिम् प्रति क्रिया-विशेष-बहुलाम् जन्म-कर्म-फल-प्रदाम् याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति, तया अपहृत-चेतसाम् भोग-ऐश्वर्य-प्रसक्तानाम् बुद्धिः व्यवसाय-आत्मिका (भूत्वा) समाधौ न विधीयते । त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५॥ त्रैगुण्य-विषयाः वेदाः निस्त्रैगुण्यः भवार्जुन । निर्द्वन्द्वः नित्य-सत्त्वस्थः निर्योगक्षेमः आत्मवान् ॥ २-४५॥ हे अर्जुन! वेदाः त्रैगुण्य-विषयाः । (त्वं) निस्त्रैगुण्यः, नित्य-सत्त्वस्थः, निर्द्वन्द्वः, निर्योगक्षेमः आत्मवान् भव । यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥ यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥ यावान् अर्थः उदपाने (तावान्) सर्वतः सम्प्लुतोदके (भवति) । (तथा यावान् अर्थः) सर्वेषु वेदेषु तावान् विजानतः ब्राह्मणस्य (भवति) । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥ कर्मणि एव अधिकारः ते मा फलेषु कदाचन । मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥ २-४७॥ ते अधिकारः कर्मणि एव; कदाचन फलेषु मा । कर्म-फल-हेतुः मा भूः ते सङ्गः (च) अकर्मणि मा अस्तु । योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥ योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय । सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते ॥ २-४८॥ हे धनञ्जय! सङ्गम् त्यक्त्वा, सिद्धि-असिद्ध्योः समः भूत्वा, योगस्थः कर्माणि कुरु । समत्वम् योगः उच्यते । दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९॥ दूरेण हि अवरम् कर्म बुद्धि-योगात् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ २-४९॥ हे धनञ्जय! कर्म बुद्धि-योगात् दूरेण अवरम् हि । बुद्धौ शरणम् अन्विच्छ । फल-हेतवः कृपणाः । बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥ बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते । तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥ इह बुद्धि-युक्तः उभे सुकृत-दुष्कृते जहाति । तस्मात् योगाय युज्यस्व । योगः कर्मसु कौशलम् । कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१॥ कर्मजम् बुद्धि-युक्ताः हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् ॥ २-५१॥ हि बुद्धि-युक्ताः मनीषिणः कर्मजम् फलं त्यक्त्वा जन्म-बन्ध-विनिर्मुक्ताः अनामयम् पदम् गच्छन्ति । यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥ यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति । तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥ यदा ते बुद्धिः मोह-कलिलम् व्यतितरिष्यति, तदा श्रोतव्यस्य श्रुतस्य च निर्वेदम् गन्तासि । श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३॥ श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि ॥ २-५३॥ यदा श्रुति-विप्रतिपन्ना ते बुद्धिः निश्चला (भूत्वा) समाधौ अचला स्थास्यति, तदा योगम् अवाप्स्यसि । अर्जुन उवाच । अर्जुनः उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥ स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम् ॥ २-५४॥ हे केशव! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा? स्थितधीः किम् प्रभाषेत? किम् आसीत? किम् व्रजेत? श्रीभगवानुवाच । श्रीभगवान् उवाच । प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥ प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते ॥ २-५५॥ हे पार्थ! यदा ( नरः) मनोगतान् सर्वान् कामान् प्रजहाति, आत्मनि एव आत्मना तुष्टः (भवति) तदा स्थितप्रज्ञः उच्यते । दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥ दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते ॥ २-५६॥ दुःखेषु अनुद्विग्न-मनाः, सुखेषु विगत-स्पृहः, वीत-राग-भय-क्रोधः मुनिः स्थितधीः उच्यते । यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥ यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् । न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥ यः सर्वत्र अनभिस्नेहः, तत् तत् शुभ-अशुभम् प्राप्य, न अभिनन्दति, न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता । यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥ यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥ कूर्मः अङ्गानि इव, यदा अयम् इन्द्रिय-अर्थेभ्यः इन्द्रियाणि सर्वशः संहरते, (तदा) तस्य प्रज्ञा प्रतिष्ठिता च । विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥ विषयाः विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते ॥ २-५९॥ निराहारस्य देहिनः विषयाः रसवर्जम् विनिवर्तन्ते । अस्य रसः अपि परम् दृष्ट्वा निवर्तते । यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥ यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥ हे कौन्तेय! प्रमाथीनि इन्द्रियाणि यततः विपश्चितः अपि पुरुषस्य मनः प्रसभं हरन्ति हि । तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥ तानि सर्वाणि संयम्य युक्तः आसीत मत्परः । वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥ तानि सर्वाणि संयम्य युक्तः मत्-परः आसीत । हि यस्य वशे इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता । ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥ ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥ २-६२॥ विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते । सङ्गात् कामः सञ्जायते । कामात् क्रोधः अभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥ क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति ॥ क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृति-विभ्रमः, स्मृति-भ्रंशात् बुद्धि-नाशः, बुद्धि-नाशात् प्रणश्यति । रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । or वियुक्तैस्तु आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥ राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन् । or वियुक्तैः तु आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति ॥ २-६४॥ विधेय-आत्मा तु राग-द्वेष-विमुक्तैः आत्म-वश्यैः इन्द्रियैः विषयान् चरन् प्रसादम् अधिगच्छति । प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥ प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते । प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥ प्रसादे अस्य सर्व-दुःखानाम् हानिः उपजायते । प्रसन्न-चेतसः हि बुद्धिः आशु पर्यवतिष्ठते । नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥ न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना । न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥ २-६६॥ अयुक्तस्य बुद्धिः न अस्ति, अयुक्तस्य च भावना न (अस्ति); अभावयतः च शान्तिः न (अस्ति); अशान्तस्य सुखम् कुतः? इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥ इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते । तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि ॥ २-६७॥ चरताम् इन्द्रियाणाम् हि यत् मनः अनुविधीयते, तत् अस्य प्रज्ञाम् अम्भसि हरति वायुः नावम् इव । तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥ तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥ तस्मात् हे महा-बाहो! यस्य इन्द्रियाणि इन्द्रिय-अर्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता । या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥ या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी । यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥ २-६९॥ या सर्व-भूतानाम् निशा, तस्याम् संयमी जागर्ति । यस्याम् भूतानि जाग्रति, सा पश्यतः मुनेः निशा । आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७०॥ आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामाः यम् प्रविशन्ति सर्वे सः शान्तिम् आप्नोति न काम-कामी ॥ २-७०॥ आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् यद्वत् आपः प्रविशन्ति, तद्वत् यम् सर्वे कामाः प्रविशन्ति, सः शान्तिम् आप्नोति; काम-कामी न । विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥ विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः । निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति ॥ २-७१॥ यः पुमान् सर्वान् कामान् विहाय, निःस्पृहः निर्ममः निरहङ्कारः (भूत्वा) चरति, सः शान्तिम् अधिगच्छति । एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥ एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति । स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति ॥ २-७२॥ हे पार्थ! एषा ब्राह्मी स्थितिः, एनाम् प्राप्य न विमुह्यति, अन्तकाले अपि अस्याम् स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥ ॐ तत् सत् इति श्रीमत् भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे साङ्ख्य-योगः नाम द्वितीयः अध्यायः ॥ २॥
अथ तृतीयोऽध्यायः । कर्मयोगः । अथ तृतीयः अध्यायः । कर्म-योगः । अर्जुन उवाच । अर्जुनः उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥ ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन । तत् किम् कर्मणि घोरे माम् नियोजयसि केशव ॥ ३-१॥ हे जनार्दन! कर्मणः बुद्धिः ज्यायसी ते मता चेत्, तत् हे केशव! माम् घोरे कर्मणि किम् नियोजयसि ? व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२॥ व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे । तत् एकं वद निश्चित्य येन श्रेयः अहम् आप्नुयाम् ॥ ३-२॥ व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव । तत् निश्चित्य एकं वद, येन अहम् श्रेयः आप्नुयाम् । श्रीभगवानुवाच । श्रीभगवान् उवाच । लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३॥ लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ । ज्ञान-योगेन साङ्ख्यानाम् कर्म-योगेन योगिनाम् ॥ ३-३॥ हे अनघ! अस्मिन् लोके साङ्ख्यानाम् ज्ञान-योगेन, योगिनाम् कर्म-योगेन द्विविधा निष्ठा पुरा मया प्रोक्ता । न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३-४॥ न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते । न च संन्यसनात् एव सिद्धिम् समधिगच्छति ॥ ३-४॥ कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते । (कर्मणां) च संन्यसनात् एव सिद्धिम् न समधिगच्छति । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३-५॥ न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् । कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥ ३-५॥ कश्चित् जातु क्षणम् अपि अकर्मकृत् न हि तिष्ठति । प्रकृतिजैः गुणैः सर्वः हि अवशः कर्म कार्यते । कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६॥ कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते ॥ ३-६॥ यः कर्म-इन्द्रियाणि संयम्य, मनसा इन्द्रियार्थान् स्मरन् आस्ते, सः विमूढात्मा मिथ्याचारः उच्यते । यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३-७॥ यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन । कर्म-इन्द्रियैः कर्म-योगम् असक्तः सः विशिष्यते ॥ ३-७॥ हे अर्जुन ! यः तु मनसा इन्द्रियाणि नियम्य, असक्तः कर्म-इन्द्रियैः कर्म-योगम् आरभते, सः विशिष्यते । नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८॥ नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः । शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥ ३-८॥ त्वं नियतम् कर्म कुरु, अकर्मणः हि कर्म ज्यायः । ते शरीर-यात्रा च अपि अकर्मणः न प्रसिद्ध्येत् । यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३-९॥ यज्ञार्थात् कर्मणः अन्यत्र लोकः अयम् कर्म-बन्धनः । तत् अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥ ३-९॥ यज्ञार्थात् कर्मणः अन्यत्र अयम् लोकः कर्म-बन्धनः । हे कौन्तेय! मुक्त-सङ्गः तत् अर्थम् कर्म समाचर । सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३-१०॥ सह-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट-कामधुक् ॥ ३-१०॥ पुरा प्रजापतिः सह-यज्ञाः प्रजाः सृष्ट्वा 'अनेन (यूयं) प्रसविष्यध्वम्, एषः वः इष्ट-कामधुक् अस्तु' (इति) उवाच । देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११॥ देवान् भावयत अनेन ते देवाः भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ३-११॥ अनेन (यूयं) देवान् भावयत, ते देवाः वः भावयन्तु, (एवं) परस्परं भावयन्तः परम् श्रेयः अवाप्स्यथ । इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२॥ इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः । तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः ॥ ३-१२॥ यज्ञ-भाविताः देवाः वः इष्टान् भोगान् दास्यन्ते । तैः दत्तान् एभ्यः अप्रदाय, यः भुङ्क्ते, सः हि स्तेनः एव । यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३॥ यज्ञ-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म-कारणात् ॥ ३-१३॥ यज्ञ-शिष्ट आशिनः सन्तः सर्व-किल्बिषैः मुच्यन्ते । ये तु आत्म-कारणात् पचन्ति, ते पापाः अघं भुञ्जते । अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४॥ अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः । यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः ॥ ३-१४॥ भूतानि अन्नात् भवन्ति, पर्जन्यात् अन्न-सम्भवः, पर्जन्यः यज्ञात् भवति, यज्ञः कर्म-समुद्भवः । कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥ कर्म ब्रह्म-उद्भवं विद्धि ब्रह्म अक्षर-समुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥ कर्म ब्रह्म-उद्भवं विद्धि, ब्रह्म अक्षर-समुद्भवम्, तस्मात् सर्वगतं ब्रह्म यज्ञे नित्यं प्रतिष्ठितम् । एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३-१६॥ एवं प्रवर्तितम् चक्रम् न अनुवर्तयति इह यः । अघायुः इन्द्रिय-आरामः मोघम् पार्थ सः जीवति ॥ ३-१६॥ हे पार्थ! एवं प्रवर्तितम् चक्रम् यः इह न अनुवर्तयति, सः इन्द्रिय-आरामः अघायुः मोघम् जीवति । यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७॥ यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः । आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते ॥ ३-१७॥ यः तु मानवः आत्म-रतिः एव, आत्म-तृप्तः च, आत्मनि एव च सन्तुष्टः स्यात् तस्य कार्यम् न विद्यते । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३-१८॥ न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन । न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः ॥ ३-१८॥ इह कृतेन तस्य अर्थः न एव, अकृतेन (अपि) कश्चन अस्य (अर्थः) न, (तथा) सर्व-भूतेषु च (अस्य) कश्चित् अर्थ-व्यपाश्रयः न । तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९॥ तस्मात् असक्तः सततम् कार्यम् कर्म समाचर । असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ ३-१९॥ तस्मात् (त्वं) असक्तः (सन्) सततम् कार्यम् कर्म समाचर, हि पूरुषः असक्तः (सन्) कर्म आचरन्, परम् आप्नोति । कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२०॥ कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः । लोक-संग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि ॥ ३-२०॥ हि जनक-आदयः कर्मणा एव संसिद्धिम् आस्थिताः । (त्वं) अपि लोक-संग्रहम् एव सम्पश्यन् कर्तुम् अर्हसि । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१॥ यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः । सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥ ३-२१॥ यत् यत् श्रेष्ठः आचरति तत् तत् एव इतरः जनः ( आचरति)। सः यत् प्रमाणम् कुरुते, लोकः तत् अनुवर्तते । न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२॥ न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन । न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि ॥ ३-२२॥ हे पार्थ! (यद्यपि) मे त्रिषु लोकेषु किञ्चन कर्तव्यम् न अस्ति, अनवाप्तम् अवाप्तव्यम् च न (अस्ति, तथा अपि अहं) कर्मणि वर्ते एव । यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३॥ यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३॥ यदि हि अहं अतन्द्रितः (सन्) कर्मणि जातु न वर्तेयम्, (तर्हि) हे पार्थ! मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते । उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३-२४॥ उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम् । सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ ३-२४॥ अहम् कर्म न कुर्याम् चेत् इमे लोकाः उत्सीदेयुः, सङ्करस्य कर्ता स्याम् इमाः प्रजाः च उपहन्याम् । सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ ३-२५॥ सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत । कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक-संग्रहम् ॥ ३-२५॥ हे भारत! अविद्वांसः यथा कर्मणि सक्ताः (कर्म) कुर्वन्ति, तथा लोक-संग्रहम् चिकीर्षुः विद्वान् असक्तः (सन् कर्म) कुर्यात् । न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३-२६॥ न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ ३-२६॥ विद्वान् कर्म-सङ्गिनाम् अज्ञानाम् बुद्धि-भेदम् न जनयेत् (किन्तु) युक्तः समाचरन् सर्व-कर्माणि जोषयेत् । प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३-२७॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढ-आत्मा कर्ता अहम् इति मन्यते ॥ ३-२७॥ प्रकृतेः गुणैः कर्माणि सर्वशः क्रियमाणानि (सन्ति, परन्तु) अहङ्कार-विमूढ-आत्मा 'अहम्' कर्ता इति मन्यते । तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३-२८॥ तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः । गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ ३-२८॥ हे महाबाहो! गुण-कर्म-विभागयोः तत्त्ववित् तु 'गुणाः गुणेषु वर्तन्ते' इति मत्वा न सज्जते । प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३-२९॥ प्रकृतेः गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥ ३-२९॥ प्रकृतेः गुण-सम्मूढाः गुण-कर्मसु सज्जन्ते, तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् । मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३०॥ मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा । निराशीः निर्ममः भूत्वा युध्यस्व विगत-ज्वरः ॥ ३-३०॥ मयि अध्यात्म-चेतसा सर्वाणि कर्माणि संन्यस्य निराशीः निर्ममः विगत-ज्वरः भूत्वा, युध्यस्व । ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३-३१॥ ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३-३१॥ ये मानवाः श्रद्धावन्तः अनसूयन्तः इदम् मे मतम् नित्यम् अनुतिष्ठन्ति, ते अपि कर्मभिः मुच्यन्ते । ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३-३२॥ ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३-३२॥ ये तु एतत् अभ्यसूयन्तः मे मतम् न अनुतिष्ठन्ति, तान् सर्व-ज्ञान-विमूढान् अचेतसः नष्टान् विद्धि । सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३॥ सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि । प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति ॥ ३-३३॥ ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशम् चेष्टते । भूतानि प्रकृतिम् यान्ति । निग्रहः किम् करिष्यति ? इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४॥ इन्द्रियस्य इन्द्रियस्य-अर्थे राग-द्वेषौ व्यवस्थितौ । तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३-३४॥ इन्द्रियस्य-अर्थे इन्द्रियस्य राग-द्वेषौ व्यवस्थितौ, तयोः वशम् न आगच्छेत् । तौ हि अस्य परिपन्थिनौ । श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५॥ श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः ॥ ३-३५॥ स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः (अपि) श्रेयान् । स्वधर्मे निधनम् श्रेयः । परधर्मः भय-आवहः । अर्जुन उवाच । अर्जुनः उवाच । अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३-३६॥ अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः । अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३-३६॥ हे वार्ष्णेय! अथ केन प्रयुक्तः अयं पूरुषः अनिच्छन् अपि, बलात् नियोजितः इव पापम् चरति? श्रीभगवानुवाच । श्रीभगवान् उवाच । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥ कामः एषः क्रोधः एषः रजः गुण-समुद्भवः । महा-अशनः महा-पाप्मा विद्धि एनम् इह वैरिणम् ॥ ३-३७॥ रजः गुण-समुद्भवः महा-पाप्मा महा-अशनः एषः कामः, एषः क्रोधः (अस्ति; त्वं) एनम् इह वैरिणम् विद्धि । धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३-३८॥ धूमेन आव्रियते वह्निः यथा आदर्शः मलेन च । यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३-३८॥ यथा धूमेन वह्निः, यथा च मलेन आदर्शः, आव्रियते, (यथा) उल्बेन गर्भः आवृतः, तथा तेन इदम् आवृतम् । आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९॥ आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३-३९॥ हे कौन्तेय! नित्यवैरिणा एतेन दुष्पूरेण कामरूपेण च अनलेन ज्ञानिनः ज्ञानम् आवृतम् । इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३-४०॥ इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते । एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ३-४०॥ इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते । एषः एतैः ज्ञानम् आवृत्य देहिनम् विमोहयति । तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१॥ तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ । पाप्मानम् प्रजहि हि एनं ज्ञान-विज्ञान-नाशनम् ॥ ३-४१॥ हे भरतर्षभ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य, ज्ञान-विज्ञान-नाशनम् एनं पाप्मानम् प्रजहि हि । इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥ इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः । मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ३-४२॥ इन्द्रियाणि पराणि आहुः, इन्द्रियेभ्यः मनः परम्, मनसः तु बुद्धिः परा, यः तु बुद्धेः परतः सः (आत्मा अस्ति)। एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥ एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य आत्मानम् आत्मना । जहि शत्रुम् महाबाहो काम-रूपम् दुरासदम् ॥ ३-४३॥ हे महाबाहो! एवम् (आत्मानं) बुद्धेः परम् बुद्ध्वा आत्मना आत्मानम् संस्तभ्य, काम-रूपम् दुरासदम् शत्रुम् जहि । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥ ॐ तत् सत् इति श्रीमत् भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे कर्म-योगः नाम तृतीयः अध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः अथ चतुर्थोअः अध्यायः । ज्ञान-कर्म-संन्यास-योगः श्रीभगवानुवाच । श्रीभगवान् उवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥ इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ ४-१॥ अहम् इमम् अव्ययम् योगम् विवस्वते प्रोक्तवान् । विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे अब्रवीत् । एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥ एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः । सः कालेन इह महता योगः नष्टः परन्तप ॥ ४-२॥ हे परन्तप! एवम् परम्परा-प्राप्तम् इमम् (योगं) राजर्षयः विदुः । सः योगः महता कालेन इह नष्टः । स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥ सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः । भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम् ॥ ४-३॥ सः एव अयम् पुरातनः योगः मया अद्य ते प्रोक्तः । (त्वं) मे भक्तः सखा च असि इति, हि एतत् उत्तमम् रहस्यम् । अर्जुन उवाच । अर्जुनः उवाच । अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥ अपरम् भवतः जन्म परम् जन्म विवस्वतः । कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति ॥ ४-४॥ भवतः जन्म अपरम्, विवस्वतः जन्म परम्, (अतः) त्वम् आदौ एतत् प्रोक्तवान् इति कथम् विजानीयाम् ? श्रीभगवानुवाच । श्रीभगवानुवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥ बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन । तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप ॥ ४-५॥ हे परन्तप अर्जुन! मे तव च बहूनि जन्मानि व्यतीतानि; तानि सर्वाणि अहम् वेद, त्वम् न वेत्थ । अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥ अजः अपि सन् अव्यय-आत्मा भूतानाम् ईश्वरः अपि सन् । प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया ॥ ४-६॥ (अहं) अजः अव्यय-आत्मा अपि सन्, भूतानाम् ईश्वरः अपि सन्, स्वाम् प्रकृतिम् अधिष्ठाय, आत्म-मायया सम्भवामि । यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥ यदा यदा हि धर्मस्य ग्लानिः भवति भारत । अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ॥ ४-७॥ हे भारत! यदा यदा हि धर्मस्य ग्लानिः, अधर्मस्य (च) अभ्युत्थानम् भवति, तदा अहम् आत्मानम् सृजामि । परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥ परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे ॥ ४-८॥ साधूनाम् परित्राणाय, दुष्कृताम् विनाशाय, धर्म-संस्थापन-अर्थाय च, (अहं) युगे युगे सम्भवामि । जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९॥ जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः । त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन ॥ ४-९॥ हे अर्जुन! यः मे दिव्यम् जन्म कर्म च एवम् तत्त्वतः वेत्ति, सः देहम् त्यक्त्वा, पुनः जन्म न एति, (किन्तु सः) माम् एति । वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१०॥ वीत-राग-भय-क्रोधाः मन्मयाः माम् उपाश्रिताः । बहवः ज्ञान-तपसा पूताः मद्भावम् आगताः ॥ ४-१०॥ वीत-राग-भय-क्रोधाः, मन्मयाः माम् उपाश्रिताः, ज्ञान-तपसा पूताः, बहवः मद्भावम् आगताः । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥ ये यथा माम् प्रपद्यन्ते तान् तथा एव भजाम्यि अहम् । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥ ये यथा माम् प्रपद्यन्ते, तान् तथा एव अहम् भजामि । हे पार्थ! मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते । काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२॥ काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः । क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा ॥ ४-१२॥ कर्मणाम् सिद्धिम् काङ्क्षन्तः (मनुष्याः) इह देवताः यजन्ते; हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रम् भवति । चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३॥ चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः । तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् ॥ ४-१३॥ मया गुण-कर्म-विभागशः चातुर्वर्ण्यम् सृष्टम्, तस्य कर्तारम् अपि माम् अव्ययम् अकर्तारम् विद्धि । न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥ न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति माम् यः अभिजानाति कर्मभिः न स बध्यते ॥ ४-१४॥ कर्म-फले मे स्पृहा न (अतः) कर्माणि माम् न लिम्पन्ति । इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते । एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥ एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः । कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् ॥ ४-१५॥ एवम् ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् । तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् एव कर्म कुरु । किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६॥ किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ४-१६॥ 'किम् कर्म, किम् अकर्म' इति अत्र कवयः अपि मोहिताः । तत् कर्म ते प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे । कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७॥ कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः । अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः ॥ ४-१७॥ कर्मणः (तत्त्वं) हि अपि बोद्धव्यम्, विकर्मणः च (तत्त्वं) बोद्धव्यम्, (तथा) अकर्मणः च (तत्त्वं) बोद्धव्यम्, कर्मणः गतिः गहना । कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥ कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः । सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत् ॥ ४-१८॥ यः कर्मणि अकर्म पश्येत् अकर्मणि च यः कर्म ( पश्येत्) सः मनुष्येषु बुद्धिमान्, सः युक्तः, (सः) कृत्स्न-कर्म-कृत् । यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९॥ यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः । ज्ञान-अग्नि-दग्ध-कर्माणम् तम् आहुः पण्डितम् बुधाः ॥ ४-१९॥ यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः, तम् ज्ञान-अग्नि-दग्ध-कर्माणम् बुधाः पण्डितम् आहुः । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२०॥ त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः । कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः ॥ ४-२०॥ (यः) कर्म-फल-आसङ्गम् त्यक्त्वा नित्य-तृप्तः निराश्रयः, सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति । निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१॥ निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः । शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ ४-२१॥ निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः, केवलम् शारीरम् कर्म कुर्वन् किल्बिषम् न आप्नोति । यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥ यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः । समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ ४-२२॥ यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः सिद्धौ असिद्धौ च समः, कृत्वा अपि न निबध्यते । गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३॥ गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः । यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते ॥ ४-२३॥ गत-सङ्गस्य ज्ञान-अवस्थित-चेतसः यज्ञाय आचरतः मुक्तस्य कर्म समग्रम् प्रविलीयते । ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४॥ ब्रह्म-अर्पणं ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम् । ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना ॥ ४-२४॥ ब्रह्म अर्पणं, ब्रह्म हविः, ब्रह्म-अग्नौ ब्रह्मणा हुतम्, ब्रह्म-कर्म-समाधिना तेन ब्रह्म एव गन्तव्यम् । दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५॥ दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते । ब्रह्म-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ ४-२५॥ अपरे योगिनः दैवम् एव यज्ञम् पर्युपासते; अपरे ब्रह्म-अग्नौ यज्ञेन यज्ञं एव उपजुह्वति । श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६॥ श्रोत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति । शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ॥ ४-२६॥ अन्ये श्रोत्र-आदीनि इन्द्रियाणि संयम-अग्निषु जुह्वति, अन्ये शब्द-आदीन् विषयान् इन्द्रिय-अग्निषु जुह्वति । सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥ सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे । आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ॥ ४-२७॥ अपरे ज्ञान-दीपिते आत्म-संयम-योग-अग्नौ सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति । द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८॥ द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा अपरे । स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशितव्रताः ॥ ४-२८॥ अपरे संशितव्रताः द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा च स्वाध्याय-ज्ञान-यज्ञाः यतयः (सन्ति) । अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥ अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे । प्राण-अपान-गती रुद्ध्वा प्राणायाम-परायणाः ॥ ४-२९॥ अपाने प्राणम् प्राणे अपानम् जुह्वति । (तथा अपरे) प्राण-अपान-गती रुद्ध्वा प्राणायाम-परायणाः (सन्ति) । अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥ अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः ॥ ४-३०॥ अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञ-क्षपित-कल्मषाः (सन्ति) । यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥ यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम् । नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम ॥ ४-३१॥ हे कुरुसत्तम! यज्ञ-शिष्ट-अमृत-भुजः सनातनम् ब्रह्म यान्ति । अयज्ञस्य अयम् लोकः न अस्ति, कुतः अन्यः ? एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥ एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे । कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥ एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः (सन्ति, त्वं) तान् सर्वान् कर्मजान् विद्धि । एवम् ज्ञात्वा (त्वं) विमोक्ष्यसे । श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥ श्रेयान् द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः परन्तप । सर्वम् कर्म-अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥ हे परन्तप! द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः श्रेयान् । हे पार्थ! सर्वम् अखिलम् कर्म ज्ञाने परिसमाप्यते । तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥ तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः ॥ ४-३४॥ प्रणिपातेन परिप्रश्नेन सेवया तत्त्व-दर्शिनः ज्ञानिनः ज्ञानम् ते उपदेक्ष्यन्ति तत् (त्वं) विद्धि । यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषाण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥ यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव । येन भूतानि अशेषाणि द्रक्ष्यसि आत्मनि अथो मयि ॥ ४-३५॥ हे पाण्डव! यत् ज्ञात्वा (त्वं) पुनः एवम् मोहम् न यास्यसि, येन भूतानि अशेषेण आत्मनि अथो मयि द्रक्ष्यसि । अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥ अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वम् ज्ञान-प्लवेन एव वृजिनम् सन्तरिष्यसि ॥ ४-३६॥ (त्वं) सर्वेभ्यः पापेभ्यः अपि पाप-कृत्तमः असि चेत् सर्वम् वृजिनम् ज्ञान-प्लवेन एव सन्तरिष्यसि । यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥ यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन । ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ ४-३७॥ हे अर्जुन! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते, तथा ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥ न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति ॥ ४-३८॥ हि इह ज्ञानेन सदृशम् पवित्रम् न विद्यते । तत् (ज्ञानं) स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति । श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥ श्रद्धावान् लभते ज्ञानम् तत्परः संयत-इन्द्रियः । ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ॥ ४-३९॥ श्रद्धावान्, तत्परः, संयत-इन्द्रियः ज्ञानम् लभते । ज्ञानम् लब्ध्वा अचिरेण पराम् शान्तिम् अधिगच्छति । अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥ अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति । न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४-४०॥ अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति । संशयात्मनः अयं लोकः न अस्ति, न परः (लोकः), न (च) सुखं (अस्ति)। योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥ योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥ हे धनञ्जय! योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति । तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥ तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् ज्ञान-असिना-आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ॥ ४-४२॥ हे भारत!तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् आत्मनः एनम् संशयम् ज्ञान-असिना छित्त्वा योगम् आतिष्ठ, (युद्धाय च) उत्तिष्ठ । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ज्ञान-कर्म-संन्यास-योगः नाम चतुर्थः अध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः । संन्यासयोगः । अथ पञ्चमः अध्यायः । संन्यास-योगः । अर्जुन उवाच । अर्जुनः उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥ संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि । यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सुनिश्चितम् ॥ ५-१॥ हे कृष्ण! कर्मणाम् संन्यासम्, पुनः योगम् च शंससि; एतयोः यत् एकम् श्रेयः तत् मे सुनिश्चितम् ब्रूहि । श्रीभगवानुवाच । श्रीभगवान् उवाच । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२॥ संन्यासः कर्म-योगः च निःश्रेयसकरौ उभौ । तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते ॥ ५-२॥ संन्यासः कर्म-योगः च उभौ निःश्रेयसकरौ; तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते । ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३॥ ज्ञेयः सः नित्य-संन्यासी यः न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते ॥ ५-३॥ यः न द्वेष्टि, न (च) काङ्क्षति, सः नित्य-संन्यासी ज्ञेयः; महाबाहो! हि निर्द्वन्द्वः बन्धात् सुखम् प्रमुच्यते । साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४॥ साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ५-४॥ साङ्ख्य-योगौ पृथक् (इति) बालाः प्रवदन्ति, न पण्डिताः । एकम् अपि सम्यक् आस्थितः (पुरुषः) उभयोः फलम् विन्दते । यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५॥ यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते । एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति ॥ ५-५॥ यत् स्थानम् साङ्ख्यैः प्राप्यते, तत् योगैः अपि गम्यते; यः साङ्ख्यम् च योगम् च एकम् पश्यति, स (एव) पश्यति । संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६॥ संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति ॥ ५-६॥ हे महाबाहो! अयोगतः संन्यासः तु दुःखम् आप्तुम्, योग-युक्तः मुनिः न चिरेण ब्रह्म अधिगच्छति । योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७॥ योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः । सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते ॥ ५-७॥ योग-युक्तः, विशुद्ध-आत्मा, विजित-आत्मा, जित-इन्द्रियः, सर्व-भूत-आत्म-भूत-आत्मा, कुर्वन् अपि न लिप्यते । नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९॥ न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपञ् श्वसन् ॥ ५-८॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि । इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् ॥ ५-९॥ युक्तः तत्त्ववित् पश्यन्, शृण्वन्, स्पृशन्, जिघ्रन्, अश्नन्, गच्छन्, स्वपन्, श्वसन्, प्रलपन्, विसृजन्, गृह्णन्, उन्मिषन् निमिषन् अपि, इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् किञ्चित् न एव करोमि इति मन्येत । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥ ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः । लिप्यते न सः पापेन पद्म-पत्रम् इव अम्भसा ॥ ५-१०॥ यः सङ्गम् त्यक्त्वा कर्माणि, ब्रह्मणि आधाय करोति, सः पद्म-पत्रम् अम्भसा इव, पापेन न लिप्यते । कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥ कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि । योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये ॥ ५-११॥ योगिनः आत्म-शुद्धये कायेन, मनसा, बुद्ध्या, केवलैः इन्द्रियैः अपि सङ्गम् त्यक्त्वा कर्म कुर्वन्ति । युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२॥ युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ ५-१२॥ युक्तः कर्म-फलं त्यक्त्वा नैष्ठिकीम् शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते । सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३॥ सर्व-कर्माणि मनसा संन्यस्य आस्ते सुखम् वशी । नव-द्वारे पुरे देही न एव कुर्वन् न कारयन् ॥ ५-१३॥ वशी देही सर्व-कर्माणि मनसा संन्यस्य, नव-द्वारे पुरे, न एव कुर्वन्, न कारयन् सुखम् आस्ते । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥ ५-१४॥ न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते ॥ ५-१४॥ प्रभुः लोकस्य न कर्तृत्वम्, न कर्माणि, न कर्म-फल-संयोगम् सृजति । स्वभावः तु प्रवर्तते । नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५॥ न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः । अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ॥ ५-१५॥ विभुः न कस्यचित् पापं, न च एव सुकृतं आदत्ते । अज्ञानेन ज्ञानम् आवृतम्, तेन जन्तवः मुह्यन्ति । ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६॥ ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः । तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम् ॥ ५-१६॥ येषाम् तु तत् अज्ञानम् आत्मनः ज्ञानेन नाशितम्, तेषाम् ज्ञानम् आदित्यवत् तत् परम् प्रकाशयति । तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥ तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः । गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः ॥ ५-१७॥ तत् बुद्धयः, तत् आत्मानः, तत् निष्ठाः, तत् परायणाः, ज्ञान-निर्धूत-कल्मषाः अपुनरावृत्तिम् गच्छन्ति । विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥ विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः ॥ ५-१८॥ पण्डिताः विद्या-विनय-सम्पन्ने ब्राह्मणे, गवि, हस्तिनि, शुनि, च श्वपाके च एव सम-दर्शिनः (सन्ति) । इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥ इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः । निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥ ५-१९॥ येषाम् मनः साम्ये स्थितम्, तैः इह एव सर्गः जितः, ब्रह्म हि समम् निर्दोषम्, तस्मात् ते ब्रह्मणि स्थिताः । न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥ न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् । स्थिर-बुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः ॥ ५-२०॥ प्रियम् प्राप्य न प्रहृष्येत्, अप्रियम् प्राप्य च न उद्विजेत्, (एवं) स्थिर-बुद्धिः, असम्मूढः, ब्रह्मवित् ब्रह्मणि स्थितः । बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१॥ बाह्य-स्पर्शेषु असक्त-आत्मा विन्दति आत्मनि यत् सुखम् । सः ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥ ५-२१॥ बाह्य-स्पर्शेषु असक्त-आत्मा, आत्मनि यत् सुखम् विन्दति, सः ब्रह्म-योग-युक्तात्मा अक्षयम् सुखम् अश्नुते । ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥ ये हि संस्पर्शजाः भोगाः दुःख-योनयः एव ते । आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥ हे कौन्तेय! ये हि संस्पर्शजाः भोगाः ते दुःख-योनयः आदि अन्तवन्तः एव, तेषु बुधः न रमते । शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३॥ शक्नोति इह एव यः सोढुम् प्राक् शरीर-विमोक्षणात् । काम-क्रोध-उद्भवम् वेगम् सः युक्तः सः सुखी नरः ॥ ५-२३॥ इह एव शरीर-विमोक्षणात् प्राक्, यः काम-क्रोध-उद्भवम् वेगम् सोढुम् शक्नोति, सः नरः युक्तः, सः सुखी (भवति) । योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥ यः अन्तः-सुखः अन्तर-आरामः तथा अन्तर्-ज्योतिः एव यः । सः योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति ॥ ५-२४॥ यः अन्तः-सुखः, अन्तर-आरामः, तथा यः अन्तर्-ज्योतिः एव, सः योगी ब्रह्म-भूतः ब्रह्म-निर्वाणम् अधिगच्छति । लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५॥ लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधाः यत-आत्मानः सर्व-भूतहिते रताः ॥ ५-२५॥ क्षीण-कल्मषाः, छिन्न-द्वैधाः, यत-आत्मानः, सर्व-भूतहिते रताः ऋषयः ब्रह्म-निर्वाणम् लभन्ते । कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६॥ काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम् । अभितः ब्रह्म-निर्वाणं वर्तते विदित-आत्मनाम् ॥ ५-२६॥ काम- क्रोध-वियुक्तानाम् यत-चेतसाम् विदित-आत्मनाम् यतीनाम् अभितः ब्रह्म-निर्वाणं वर्तते । स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥ स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः । प्राण-अपानौ समौ कृत्वा नास-अभ्यन्तर-चारिणौ ॥ ५-२७॥ यत-इन्द्रिय-मनः बुद्धिः मुनिः मोक्ष-परायणः । विगत-इच्छा-भय-क्रोधः यः सदा मुक्तः एव सः ॥ ५-२८॥ यः मुनिः बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च एव भ्रुवोः अन्तरे कृत्वा, प्राण-अपानौ नास-अभ्यन्तर-चारिणौ समौ ( कृत्वा), यत-इन्द्रिय-मनः बुद्धिः, विगत-इच्छा-भय-क्रोधः, मोक्ष-परायणः (स्यात्) सः सदा मुक्तः एव । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥ भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महेश्वरम् । सुहृदम् सर्व-भूतानाम् ज्ञात्वा मां शान्तिम् ऋच्छति ॥ ५-२९॥ यज्ञ-तपसाम् भोक्तारम् सर्व-भूतानाम् सुहृदम् सर्व-लोक-महेश्वरम् माम् ज्ञात्वा शान्तिम् ऋच्छति । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे संन्यास-योगः नाम पञ्चमः अध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः । आत्मसंयमयोगः । अथ षष्ठः अध्यायः । आत्म-संयम-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥ अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः । सः संन्यासी च योगी च न निरग्निः न च अक्रियः ॥ ६-१॥ यः कर्म-फलम् अनाश्रितः कार्यम् कर्म करोति, सः संन्यासी च योगी च, निरग्निः न अक्रियः च न । यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६-२॥ यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव । न हि असंन्यस्त-सङ्कल्पः योगी भवति कश्चन ॥ ६-२॥ हे पाण्डव! यम् संन्यासम् इति प्राहुः तम् योगम् विद्धि, कश्चन असंन्यस्त-सङ्कल्पः योगी न भवति हि । आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६-३॥ आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते । योग-आरूढस्य तस्य एव शमः कारणम् उच्यते ॥ ६-३॥ योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते, योग-आरूढस्य तस्य एव शमः कारणम् उच्यते । यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६-४॥ यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते । सर्व-सङ्कल्प-संन्यासी योग-आरूढः तदा उच्यते ॥ ६-४॥ यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते, तदा सर्व-सङ्कल्प-संन्यासी योग-आरूढः उच्यते । उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६-५॥ उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥ ६-५॥ आत्मना आत्मानम् उद्धरेत्, आत्मानम् न अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः, आत्मा एव आत्मनः रिपुः । बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६-६॥ बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः । अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥ ६-६॥ येन आत्मना एव आत्मा जितः, तस्य आत्मनः बन्धुः आत्मा, अनात्मनः तु शत्रुत्वे आत्मा एव शत्रुवत् वर्तेत । जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६-७॥ जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः । शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः ॥ ६-७॥ जित-आत्मनः प्रशान्तस्य परम-आत्मा शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः समाहितः (भवति)। ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ६-८॥ ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः । युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः ॥ ६-८॥ ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः सम-लोष्ट-अश्म-काञ्चनः योगी युक्तः इति उच्यते । सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६-९॥ सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते ॥ ६-९॥ सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते । योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ६-१०॥ योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः । एकाकी यत-चित्त-आत्मा निराशीः अपरिग्रहः ॥ ६-१०॥ योगी रहसि स्थितः एकाकी, यत-चित्त-आत्मा, निराशीः, अपरिग्रहः (च सन्) सततम् आत्मानम् युञ्जीत । शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२॥ शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । न अति-उच्छ्रितम् न अति-नीचम् चैल-अजिन-कुश-उत्तरम् ॥ ६-११॥ तत्र एकाग्रम् मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः । उपविश्य आसने युञ्ज्यात् योगम् आत्म-विशुद्धये ॥ ६-१२॥ शुचौ देशे, न अति-उच्छ्रितम्, न अति-नीचम्, चैल-अजिन-कुश-उत्तरम्, आत्मनः स्थिरम् आसनम् प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रम् कृत्वा, यत-चित्त-इन्द्रिय-क्रियः (सन्) आत्म-विशुद्धये योगम् युञ्ज्यात् । समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६-१३॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६-१४॥ समम् काय-शिरः-ग्रीवम् धारयन् अचलम् स्थिरः । सम्प्रेक्ष्य नासिक-अग्रं स्वम् दिशः च अनवलोकयन् ॥ ६-१३॥ प्रशान्त-आत्मा विगत-भीः ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मत्-चित्तः युक्तः आसीत मत्-परः ॥ ६-१४॥ स्थिरः (भूत्वा) काय-शिरः-ग्रीवम् अचलम् समम् धारयन् स्वम् नासिक-अग्रं सम्प्रेक्ष्य, च दिशः अनवलोकयन् प्रशान्त-आत्मा विगत-भीः ब्रह्मचारि-व्रते स्थितः, मनः संयम्य, मत्-चित्तः मत्-परः युक्तः आसीत । युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ ६-१५॥ युञ्जन् एवं सदा आत्मानम् योगी नियत-मानसः । शान्तिम् निर्वाण-परमाम् मत्-संस्थाम् अधिगच्छति ॥ ६-१५॥ एवं सदा आत्मानम् युञ्जन्, नियत-मानसः योगी निर्वाण-परमाम् मत्-संस्थाम् शान्तिम् अधिगच्छति । नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ ६-१६॥ न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः । न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन ॥ ६-१६॥ हे अर्जुन! अति अश्नतः तु न योगः अस्ति, एकान्तम् अनश्नतः च न, अति-स्वप्न-शीलस्य च न, जाग्रतः च न एव । युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ६-१७॥ युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्न-अवबोधस्य योगः भवति दुःखहा ॥ ६-१७॥ युक्त-आहार-विहारस्य, कर्मसु युक्त-चेष्टस्य, युक्त-स्वप्न-अवबोधस्य योगः दुःखहा भवति । यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६-१८॥ यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते । निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा ॥ ६-१८॥ यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते, सर्व-कामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते । यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६-१९॥ यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता । योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः ॥ ६-१९॥ यथा निवातस्थः दीपः न इङ्गते सा उपमा, आत्मनः योगम् युञ्जतः यत-चित्तस्य योगिनः, स्मृता । यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६-२०॥ सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६-२१॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६-२२॥ तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६-२३॥ यत्र उपरमते चित्तम् निरुद्धम् योग-सेवया । यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति ॥ ६-२०॥ सुखम् आत्यन्तिकम् यत् तत् बुद्धि-ग्राह्यम्-अतीन्द्रियम् । वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः ॥ ६-२१॥ यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततः । यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥ ६-२२॥ तम् विद्यात् दुःख-संयोग-वियोगम् योग-संज्ञितम् । सः निश्चयेन योक्तव्यः योगः अनिर्विण्ण-चेतसा ॥ ६-२३॥ योग-सेवया निरुद्धम् चित्तम् यत्र उपरमते, च एव यत्र आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति, यत्र यत् तत् बुद्धि-ग्राह्यम्-अतीन्द्रियम् आत्यन्तिकम् सुखम् वेत्ति, (यत्र) च स्थितः अयम् तत्त्वतः न एव चलति, यम् च लब्ध्वा, ततः अधिकम् अपरम् लाभम् न मन्यते, यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते, तम् दुःख-संयोग-वियोगम् योग-संज्ञितम् विद्यात्, सः योगः अनिर्विण्ण-चेतसा निश्चयेन योक्तव्यः । सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४॥ सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः । मनसा एव इन्द्रिय-ग्रामम् विनियम्य समन्ततः ॥ ६-२४॥ सङ्कल्प-प्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव इन्द्रिय-ग्रामम् समन्ततः विनियम्य, शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५॥ शनैः शनैः उपरमेत् बुद्ध्या धृति-गृहीतया । आत्म-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥ ६-२५॥ धृति-गृहीतया बुद्ध्या शनैः शनैः उपरमेत्, मनः आत्म-संस्थम् कृत्वा, किञ्चित् अपि न चिन्तयेत् । यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६-२६॥ यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् । ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥ ६-२६॥ चञ्चलम् अस्थिरम् मनः यतः यतः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् । प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६-२७॥ प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम् । उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम् ॥ ६-२७॥ प्रशान्त-मनसम् शान्त-रजसम् अकल्मषम् ब्रह्म-भूतम् एनम् योगिनम् हि उत्तमम् सुखम् उपैति । युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६-२८॥ युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥ ६-२८॥ एवम् सदा आत्मानम् युञ्जन् योगी विगत-कल्मषः ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् सुखेन अश्नुते । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥ सर्व-भूतस्थम् आत्मानम् सर्व-भूतानि च आत्मनि । ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः ॥ ६-२९॥ योग-युक्त-आत्मा सर्वत्र सम-दर्शनः, आत्मानम् सर्व-भूतस्थम् सर्व-भूतानि च आत्मनि ईक्षते । यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥ यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति । तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥ ६-३०॥ यः माम् सर्वत्र पश्यति, सर्वम् च मयि पश्यति, तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति । सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥ सर्व-भूत-स्थितम् यः माम् भजति एकत्वम् आस्थितः । सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥ ६-३१॥ यः एकत्वम् आस्थितः सर्व-भूत-स्थितम् माम् भजति, सः योगी सर्वथा वर्तमानः अपि, मयि वर्तते । आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥ आत्मा-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन । सुखम् वा यदि वा दुःखम् सः योगी परमः मतः ॥ ६-३२॥ हे अर्जुन! यः आत्मा-उपम्येन सर्वत्र सुखम् वा यदि वा दुःखम् समम् पश्यति, सः योगी परमः मतः । अर्जुन उवाच । अर्जुनः उवाच । योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥ यः अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन । एतस्य अहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिराम् ॥ ६-३३ हे मधुसूदन! यः अयं योगः त्वया साम्येन प्रोक्तः, एतस्य स्थिराम् स्थितिम् चञ्चलत्वात् अहं न पश्यामि । चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ६-३४॥ चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् । तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम् ॥ ६-३४॥ हे कृष्ण! मनः बलवत् दृढम् चञ्चलम् प्रमाथि, अहम् हि तस्य निग्रहम् वायोः इव, सुदुष्करम् मन्ये । श्रीभगवानुवाच । श्रीभगवान् उवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५॥ असंशयम् महाबाहो मनः दुर्निग्रहम् चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५॥ हे महाबाहो! मनः असंशयम् चलम् दुर्निग्रहम्, हे कौन्तेय! (तत्) तु अभ्यासेन वैराग्येण च गृह्यते । असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६-३६॥ असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः । वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥ ६-३६॥ असंयत-आत्मना योगः दुष्प्रापः, वश्य-आत्मना यतता तु उपायतः अवाप्तुम् शक्यः, इति मे मतिः । अर्जुन उवाच । अर्जुनः उवाच । अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७॥ अयतिः श्रद्धया उपेतः योगात् चलित-मानसः । अप्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति ॥ ६-३७॥ हे कृष्ण! श्रद्धया उपेतः अयतिः, योगात् चलित-मानसः, योग-संसिद्धिम् अप्राप्य, काम् गतिम् गच्छति? कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ६-३८॥ कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति । अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥ ६-३८॥ हे महाबाहो! ब्रह्मणः पथि अप्रतिष्ठः विमूढः उभय-विभ्रष्टः छिन्न-अभ्रम् इव न नश्यति कच्चित्? एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६-३९॥ एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः । त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥ ६-३९॥ हे कृष्ण! मे एतत् संशयम् अशेषतः छेत्तुम् अर्हसि; हि त्वत् अन्यः अस्य संशयस्य छेत्ता न उपपद्यते । श्रीभगवानुवाच । श्रीभगवान् उवाच । पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६-४०॥ पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते । न हि कल्याण-कृत् कश्चित् दुर्गतिम् तात गच्छति ॥ ६-४०॥ हे पार्थ! न इह न एव (च) अमुत्र तस्य विनाशः विद्यते । हे तात! हि कश्चित् कल्याण-कृत् दुर्गतिम् न गच्छति । प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६-४१॥ प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः । शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते ॥ ६-४१॥ योग-भ्रष्टः पुण्य-कृताम् लोकान् प्राप्य, (तत्र) शाश्वतीः समाः उषित्वा, शुचीनाम् श्रीमताम् गेहे अभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६-४२॥ अथवा योगिनाम् एव कुले भवति धीमताम् । एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥ ६-४२॥ अथवा धीमताम् योगिनाम् एव कुले भवति, यत् एतत् ईदृशम् जन्म लोके दुर्लभतरं हि । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥ तत्र तम् बुद्धि-संयोगम् लभते पौर्व-देहिकम् । यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥ हे कुरुनन्दन! (सः) तत्र तम् पौर्व-देहिकम् बुद्धि-संयोगम् लभते, ततः च भूयः संसिद्धौ यतते । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ६-४४॥ पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः । जिज्ञासुः अपि योगस्य शब्द-ब्रह्म अतिवर्तते ॥ ६-४४॥ तेन एव पूर्व-अभ्यासेन सः अवशः अपि ह्रियते, हि योगस्य जिज्ञासुः अपि शब्द-ब्रह्म अतिवर्तते । प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६-४५॥ प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धः ततः याति पराम् गतिम् ॥ ६-४५॥ ततः प्रयत्नात् यतमानः संशुद्ध-किल्बिषः योगी तु अनेक-जन्म-संसिद्धः पराम् गतिम् याति । तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६॥ तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः । कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥ ६-४६॥ योगी तपस्विभ्यः अधिकः, ज्ञानिभ्यः अपि च अधिकः मतः, योगी कर्मिभ्यः (च) अधिकः, तस्मात् हे अर्जुन! (त्वं) योगी भव । योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७॥ योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर-आत्मना । श्रद्धावान् भजते यः माम् सः मे युक्ततमः मतः ॥ ६-४७॥ सर्वेषाम् अपि योगिनाम् यः श्रद्धावान्, मत् गतेन अन्तर-आत्मना माम् भजते, सः मे युक्ततमः मतः । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे आत्म-संयम-योगः नाम षष्ठः अध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः । अथ सप्तमः अध्यायः । ज्ञान-विज्ञान-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥ मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः । असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु ॥ ७-१॥ हे पार्थ! मयि आसक्त-मनाः मत् आश्रयः (त्वं) योगम् युञ्जन्, माम् समग्रम् यथा असंशयम् ज्ञास्यसि, तत् शृणु । ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२॥ ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः । यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते ॥ ७-२॥ अहम् इदम् सविज्ञानम् ज्ञानम् ते अशेषतः वक्ष्यामि; यत् ज्ञात्वा इह भूयः अन्यत् ज्ञातव्यम् न अवशिष्यते । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३॥ मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये । यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः ॥ ७-३॥ मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति; यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥ भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च । अहंकारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा ॥ ७-४॥ भूमिः, आपः, अनलः, वायुः, खम्, मनः, बुद्धिः एव च अहंकारः इति अष्टधा भिन्ना मे इयम् प्रकृतिः । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५॥ अपरा इयम् इतः तु अन्याम् प्रकृतिम् विद्धि मे पराम् । जीव-भूताम् महाबाहो यया इदम् धार्यते जगत् ॥ ७-५॥ हे महाबाहो! इयम् अपरा (प्रकृतिः अस्ति) इतः तु अन्याम् जीव-भूताम् मे पराम् प्रकृतिम् विद्धि, यया इदम् जगत् धार्यते । एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥ एतत् योनीनि भूतानि सर्वाणि इति उपधारय । अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥ ७-६॥ सर्वाणि भूतानि एतत् योनीनि इति, उपधारय । अहम् कृत्स्नस्य जगतः प्रभवः तथा प्रलयः (अस्मि)। मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥ मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय । मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव ॥ ७-७॥ हे धनञ्जय! मत्तः परतरं अन्यत् किञ्चित् न अस्ति । सूत्रे मणिगणाः इव इदम् सर्वम् मयि प्रोतम् । रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥ रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु ॥ ७-८॥ हे कौन्तेय! अहम् अप्सु रसः, शशि-सूर्ययोः प्रभा, सर्व-वेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम् अस्मि । पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥ पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ । जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु ॥ ७-९॥ च पृथिव्याम् पुण्यः गन्धः, विभावसौ च तेजः अस्मि; सर्व-भूतेषु जीवनम्, तपस्विषु च तपः अस्मि । बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥ बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम् । बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥ ७-१०॥ हे पार्थ! माम् सर्व-भूतानाम् सनातनम् बीजम् विद्धि, अहम् बुद्धिमताम् बुद्धिः अस्मि, तेजस्विनाम् तेजः । बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥ बलम् बलवताम् च अहम् काम-राग-विवर्जितम् । धर्म-अविरुद्धः भूतेषु कामः अस्मि भरतर्षभ ॥ ७-११- अहम् च बलवताम् काम-राग-विवर्जितम् बलम् अस्मि, हे भरतर्षभ! भूतेषु धर्म-अविरुद्धः कामः (अहम् अस्मि)। ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥ ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये । मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि ॥ ७-१२॥ ये च एव सात्त्विकाः राजसाः तामसाः च भावाः, ते मत्तः एव इति तान् विद्धि, अहं तेषु न (अस्मि), तु ते मयि (वर्तन्ते) । त्रिभिः गुणमयैः भावैः एभिः सर्वम्म् इदम् जगत् । मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम् ॥ ७-१३॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥ एभिः त्रिभिः गुणमयैः भावैः इदम् सर्वम्म् जगत् मोहितम्, (अतः) एभ्यः परम् अव्ययम् माम् न अभिजानाति । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४॥ दैवी हि एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ॥ ७-१४॥ एषा दैवी गुणमयी मम माया हि दुरत्यया । ये माम् एव प्रपद्यन्ते, ते एताम् मायाम् तरन्ति । न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५॥ न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः । मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः ॥ ७-१५॥ मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः दुष्कृतिनः मूढाः नर-अधमाः माम् न प्रपद्यन्ते । चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥ चतुः-विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन । आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥ हे भरतर्षभ अर्जुन! आर्तः, जिज्ञासुः, अर्थार्थी, ज्ञानी च (इति) चतुः-विधाः सुकृतिनः जनाः माम् भजन्ते । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७॥ तेषाम् ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते । प्रियः हि ज्ञानिनः अत्यर्थम् अहम् सः च मम प्रियः ॥ ७-१७॥ तेषाम् नित्य-युक्तः एक-भक्तिः ज्ञानी विशिष्यते । अहम् हि ज्ञानिनः अत्यर्थम् प्रियः (अस्मि), सः (ज्ञानी) च मम प्रियः (अस्ति)। उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८॥ उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् । आस्थितः सः हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम् ॥ ७-१८॥ एते सर्वे एव उदाराः (सन्ति), ज्ञानी तु (मम) आत्मा एव (अस्ति इति) मे मतम् । सः हि युक्त-आत्मा अनुत्तमाम् गतिम् माम् एव आस्थितः (अस्ति)। बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥ बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते । वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः ॥ ७-१९॥ ज्ञानवान् बहूनाम् जन्मनाम् अन्ते 'वासुदेवः सर्वम्' इति (अनुभूय) माम् प्रपद्यते । सः महात्मा सुदुर्लभः । कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥ कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः । तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥ तैः तैः कामैः हृत-ज्ञानाः स्वया प्रकृत्या नियताः (अज्ञानिनः) तम् तम् नियमम् आस्थाय अन्य-देवताः प्रपद्यन्ते । यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥ यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति । तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् ॥ ७-२१॥ यः यः भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति, तस्य तस्य ताम् एव श्रद्धाम् अहम् अचलाम् विदधामि । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥ सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते । लभते च ततः कामान् मया एव विहितान् हि तान् ॥ ७-२२॥ सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते, ततः च मया एव विहितान् तान् कामान् लभते हि । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३॥ अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम् । देवान् देव-यजः यान्ति मत् भक्ताः यान्ति माम् अपि ॥ ७-२३॥ तेषाम् अल्प-मेधसाम् तत् फलम् तु अन्तवत् भवति; देव-यजः देवान् यान्ति, मत् भक्ताः अपि माम् यान्ति । अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४॥ अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः । परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम् ॥ ७-२४॥ मम परम् अव्ययम् अव्यक्तम् अनुत्तमम् भावम् अजानन्तः अबुद्धयः माम् व्यक्तिम् आपन्नम् मन्यन्ते । नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥ न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः । मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम् ॥ ७-२५॥ योग-माया-समावृतः अहम् सर्वस्य प्रकाशः न । अयम् मूढः लोकः अजम् अव्ययम् माम् न अभिजानाति । वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६॥ वेद अहम् समतीतानि वर्तमानानि च अर्जुन । भविष्याणि च भूतानि माम् तु वेद न कश्चन ॥ ७-२६॥ हे अर्जुन! अहम् समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद । कश्चन तु माम् न वेद । इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७॥ इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि सम्मोहम् सर्गे यान्ति परन्तप ॥ ७-२७॥ हे परन्तप भारत! सर्व-भूतानि इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन सर्गे सम्मोहम् यान्ति । येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८॥ येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः ॥ ७-२८॥ येषाम् पुण्य-कर्मणाम् जनानाम् तु पापम् अन्तगतम्, ते दृढ-व्रताः द्वन्द्व-मोह-निर्मुक्ताः माम् भजन्ते । जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९॥ जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम् ॥ ७-२९॥ ये माम् आश्रित्य जरा-मरण-मोक्षाय यतन्ति, ते तत् ब्रह्म, कृत्स्नम् अध्यात्मम्, अखिलम् कर्म च विदुः । साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥ साधिभूत-अधिदैवम् माम् साधियज्ञम् च ये विदुः । प्रयाणकाले अपि च मां ते विदुः युक्त-चेतसः ॥ ७-३०॥ ये साधिभूत-अधिदैवम् साधियज्ञम् च माम् विदुः ते युक्त-चेतसः प्रयाण-काले अपि च माम् विदुः । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ज्ञान-विज्ञान-योगः नाम सप्तमः अध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः । अथ अष्टमः अध्यायः । अक्षर-ब्रह्म-योगः । अर्जुन उवाच । अर्जुनः उवाच । किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८-१॥ किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम । अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते ॥ ८-१॥ हे पुरुषोत्तम! तत् ब्रह्म किम्? अध्यात्मम् किम्? कर्म किम्? अधिभूतम् किम् प्रोक्तम्? अधिदैवम् च किम् उच्यते ? अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८-२॥ अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन । प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः ॥ ८-२॥ हे मधुसूदन! अत्र अस्मिन् देहे अधियज्ञः कः कथम् (च अस्ति)? प्रयाण-काले च नियत-आत्मभिः कथम् ज्ञेयः असि ? श्रीभगवानुवाच । श्रीभगवान् उवाच । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८-३॥ अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते । भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः ॥ ८-३॥ अक्षरम् परमम् ब्रह्म, स्वभावः अध्यात्मम् उच्यते, भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८-४॥ अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् । अधियज्ञः अहम् एव अत्र देहे देह-भृताम् वर ॥ ८-४॥ हे देह-भृताम् वर! क्षरः भावः अधिभूतम्, पुरुषः अधिदैवतम्, अत्र देहे च अहम् एव अधियज्ञः । अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८-५॥ अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति सः मत् भावम् याति न अस्ति अत्र संशयः ॥ ८-५॥ यः च अन्त-काले माम् एव स्मरन् कलेवरम् मुक्त्वा प्रयाति, सः मत् भावम् याति, अत्र संशयः न अस्ति । यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६॥ यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् । तम् तम् एव एति कौन्तेय सदा तद्त् भाव-भावितः ॥ ८-६॥ हे कौन्तेय! यम् यम् वा अपि भावम् स्मरन् अन्ते कलेवरम् त्यजति; सदा तद्त् भाव-भावितः (सः) तम् तम् एव एति । तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ८-७॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम् ॥ ८-७॥ तस्मात् सर्वेषु कालेषु मयि अर्पित-मनः-बुद्धिः (भव), माम् अनुस्मर, युध्य च । (एवं) असंशयम् माम् एव एष्यसि । अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८-८॥ अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना । परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् ॥ ८-८॥ हे पार्थ! अभ्यास-योग-युक्तेन न अन्य-गामिना चेतसा अनुचिन्तयन्, दिव्यम् परमम् पुरुषम् याति । कविं पुराणमनुशासितारं अणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपम्- मादित्यवर्णं तमसः परस्तात् ॥ ८-९॥ प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ ८-१०॥ कविम् पुराणम् अनुशासितारम् अणोः अणीयांसम् अनुस्मरेत् यः । सर्वस्य धातारम् अचिन्त्य-रूपं आदित्य-वर्णम् तमसः परस्तात् ॥ ८-९॥ प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव । भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् सः तम् परम् पुरुषम् उपैति दिव्यम् ॥ ८-१०॥ कविम्, पुराणम्, अनुशासितारम्, अणोः अणीयांसम्, सर्वस्य धातारम्, अचिन्त्य-रूपं, तमसः परस्तात् आदित्य-वर्णम् (विद्यमानं पुरुषं), प्रयाण-काले, अचलेन मनसा, भक्त्या युक्तः योग-बलेन च एव भ्रुवोः मध्ये सम्यक् प्राणम् आवेश्य, यः अनुस्मरेत् सः तम् परम् दिव्यम् पुरुषम् उपैति । यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८-११॥ यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः । यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् संग्रहेण प्रवक्ष्ये ॥ ८-११॥ वेद-विदः यत् अक्षरम् वदन्ति, वीत-रागाः यतयः यत् विशन्ति, (ब्रह्मचारिणः) यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति, तत् पदम् ते संग्रहेण प्रवक्ष्ये । सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥ सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च । मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम् ॥ ८-१२॥ ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहम् सः याति परमाम् गतिम् ॥ ८-१३॥ सर्व-द्वाराणि संयम्य, मनः च हृदि निरुध्य, मूर्ध्नि आत्मनः प्राणम् आधाय, योग-धारणाम् आस्थितः, ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन्, यः देहम् त्यजन् प्रयाति, सः परमाम् गतिम् याति । अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४॥ अनन्य-चेताः सततम् यः माम् स्मरति नित्यशः । तस्य अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ ८-१४॥ हे पार्थ! यः नित्यशः अनन्य-चेताः (सन्) माम् सततं स्मरति, तस्य नित्य-युक्तस्य योगिनः अहं सुलभः (अस्मि) । मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८-१५॥ माम् उपेत्य पुनः-जन्म दुःख-आलयम् अशाश्वतम् । न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः ॥ ८-१५॥ परमाम् संसिद्धिम् गताः महात्मानः माम् उपेत्य, पुनः दुःख-आलयम् अशाश्वतम् जन्म न आप्नुवन्ति । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८-१६॥ आब्रह्म-भुवनात् लोकाः पुनः-आवर्तिनः अर्जुन । माम् उपेत्य तु कौन्तेय पुनः-जन्म न विद्यते ॥ ८-१६॥ हे अर्जुन! आब्रह्म-भुवनात् (सर्वे) लोकाः पुनः-आवर्तिनः (सन्ति); हे कौन्तेय! माम् उपेत्य तु पुनः जन्म न विद्यते । सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८-१७॥ सहस्र-युग-पर्यन्तम् अहः यत् ब्रह्मणः विदुः । रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः ॥ ८-१७॥ यत् ते अहोरात्र-विदः जनाः सहस्र-युग-पर्यन्तम् ब्रह्मणः अहः युग-सहस्र-अन्ताम् रात्रिम् (च) विदुः । अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८॥ अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे । रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके ॥ ८-१८॥ अहः आगमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति, (पुनः) रात्रि आगमे तत्र अव्यक्त-संज्ञके एव प्रलीयन्ते । भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९॥ भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते । रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे ॥ ८-१९॥ हे पार्थ! सः एव अयम् भूत-ग्रामः अवशः (सन्), भूत्वा भूत्वा रात्रि आगमे प्रलीयते (पुनः) अहः आगमे प्रभवति । परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥ परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः । यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥ यः तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति, सः, तस्मात् अव्यक्तात् अन्यः, अव्यक्तः सनातनः परः भावः (अस्ति) अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८-२१॥ अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् । यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम ॥ ८-२१॥ (यः) अव्यक्तः (भावः) अक्षरः इति उक्तः, तम् परमाम् गतिम् आहुः, (ज्ञानिनः) यम् प्राप्य न निवर्तन्ते, तत् मम परमम् धाम (अस्ति)। पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२॥ पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया । यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम् ॥ ८-२२॥ हे पार्थ! भूतानि यस्य अन्तः-स्थानि (सन्ति), येन इदम् सर्वम् ततम्, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः (अस्ति)। यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८-२३॥ यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः । प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ ॥ ८-२३॥ हे भरतर्षभ! यत्र काले तु प्रयाताः योगिनः अनावृत्तिम् आवृत्तिम् च एव यान्ति, तम् कालम् वक्ष्यामि । अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४॥ अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम् । तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः ॥ ८-२४॥ अग्निः, ज्योतिः, अहः, शुक्लः (पक्षः), षण्मासाः उत्तर-आयनम्, तत्र (काले) प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८-२५॥ धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम् । तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते ॥ ८-२५॥ धूमः, रात्रिः, तथा कृष्णः (पक्षः), षण्मासाः दक्षिण-आयनम्, तत्र (काले प्रयाताः) योगी चान्द्रमसम् ज्योतिः प्राप्य निवर्तते । शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८-२६॥ शुक्ल-कृष्णे गती हि एते जगतः शाश्वते मते । एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः ॥ ८-२६॥ जगतः एते हि शुक्ल-कृष्णे गती शाश्वते मते । एकया अनावृत्तिम् याति अन्यया पुनः आवर्तते । नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७॥ न एते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन ॥ ८-२७॥ हे पार्थ! एते सृती जानन् कश्चन योगी न मुह्यति; तस्मात् हे अर्जुन! (त्वं) सर्वेषु कालेषु योग-युक्तः भव । वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ८-२८॥ वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम् । अत्येति तत् सर्वम् इदम् विदित्वा योगी परम् स्थानम् उपैति च आद्यम् ॥ ८-२८॥ योगी इदम् विदित्वा, वेदेषु यज्ञेषु तपःसु दानेषु च एव यत् पुण्य-फलम् प्रदिष्टम्, तत् सर्वम् अत्येति, आद्यम् परम् च स्थानम् उपैति । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे अक्षर-ब्रह्म-योगः नाम अष्टमः अध्यायः ॥ ८॥
अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः । अथ नवमः अध्यायः । राज-विद्या-राज-गुह्य-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥ इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे । ज्ञानम् विज्ञान-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ९-१॥ यत् ज्ञात्वा (त्वं)अशुभात् मोक्ष्यसे, (तत्) तु इदम् गुह्यतमम् विज्ञान-सहितम् ज्ञानम् अनसूयवे ते प्रवक्ष्यामि । राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥ राज-विद्या राज-गुह्यम् पवित्रम्म् इदम् उत्तमम् । प्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम् ॥ ९-२॥ इदम् (ज्ञानं) राज-विद्या, राज-गुह्यम्, उत्तमम्, पवित्रम्, अव्ययम्, प्रत्यक्ष-अवगमम्, कर्तुम् सुसुखम्, धर्म्यम् च (अस्ति)। अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥ अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप । अप्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ ९-३॥ हे परन्तप! अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्यु-संसार-वर्त्मनि निवर्तन्ते । मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥ मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः ॥ ९-४॥ अव्यक्त-मूर्तिना मया इदम् सर्वम् जगत् ततम् । सर्व-भूतानि मत्-स्थानि (सन्ति), अहम् च तेषु न अवस्थितः (अस्मि)। न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः ॥ ९-५॥ भूतानि च मत्-स्थानि न (सन्ति), मे ऐश्वरम् योगम् पश्य । (अहं) भूत-भृत् (अपि) भूत-स्थः न । मम आत्मा च भूत-भावनः (अस्ति) । यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥ यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान् । तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय ॥ ९-६॥ यथा सर्वत्रगः महान् वायुः नित्यम् आकाश-स्थितः (अस्ति), तथा सर्वाणि भूतानि मत्-स्थानि (सन्ति), इति (त्वं) उपधारय । सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥ सर्व-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् । कल्प-क्षये पुनः तानि कल्प-आदौ विसृजामि अहम् ॥ ९-७॥ हे कौन्तेय! सर्व-भूतानि कल्प-क्षये मामिकाम् प्रकृतिम् यान्ति । पुनः कल्प-आदौ तानि विसृजामि । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८॥ प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात् ॥ ९-८॥ (अहम्) स्वाम् प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमम् कृत्स्नम् भूत-ग्रामम् पुनः पुनः विसृजामि । न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९॥ न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवत् आसीनम् असक्तम् तेषु कर्मसु ॥ ९-९॥ हे धनञ्जय! तेषु कर्मसु असक्तम् उदासीनवत् आसीनम् माम् तानि कर्माणि च न निबध्नन्ति । मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥ मया अध्यक्षेण प्रकृतिः सूयते सचर-अचरम् । हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ ९-१०॥ हे कौन्तेय! मया अध्यक्षेण प्रकृतिः सचर-अचरम् सूयते, अनेन हेतुना जगत् विपरिवर्तते । अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥ अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम् । परम् भावम् अजानन्तः मम भूत-महेश्वरम् ॥ ९-११॥ भूत-महेश्वरम् मम परम् भावम् अजानन्तः मूढाः मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति । मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥ मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः । राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः ॥ ९-१२॥ (ते) मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः मोहिनीम् राक्षसीम् आसुरीम् प्रकृतिम् च एव श्रिताः । महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३॥ महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः । भजन्ति अनन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम् ॥ ९-१३॥ हे पार्थ! दैवीम् प्रकृतिम् आश्रिताः महात्मानः तु माम् भूतादिम् अव्ययम् ज्ञात्वा, अनन्य-मनसः (मां) भजन्ति । सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४॥ सततम् कीर्तयन्तः माम् यतन्तः च दृढ-व्रताः । नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते ॥ ९-१४॥ (ते) नित्य-युक्ताः भक्त्या माम् सततम् कीर्तयन्तः यतन्तः च दृढ-व्रताः नमस्यन्तः च माम् उपासते । ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥ ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५। अन्ये च अपि ज्ञान-यज्ञेन यजन्तः एकत्वेन, पृथक्त्वेन, बहुधा विश्वतोमुखम् माम् उपासते । अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥ अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम् । मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम् ॥ ९-१६॥ अहम् क्रतुः, अहम् यज्ञः, अहम् स्वधा, अहम् औषधम्, अहम् मन्त्रः, अहम् एव आज्यम्, अहम् अग्निः, अहम् हुतम्, पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ ९-१७॥ पिता अहम् अस्य जगतः माता धाता पितामहः । वेद्यम् पवित्रम् ओंकारः ऋक्-साम यजुः एव च ॥ ९-१७॥ अहम् अस्य जगतः माता, पिता, धाता, पितामहः, वेद्यम् (वस्तु), पवित्रम् (वस्तु), ओङ्कारः, ऋक्, साम, यजुः एव च (अस्मि)। गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥ गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् । प्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् ॥ ९-१८॥ (अहं) गतिः, भर्ता, प्रभुः, साक्षी, निवासः, शरणम्, सुहृत्, प्रभवः, प्रलयः, स्थानम्, निधानम्, अव्ययम् बीजम् (च अस्मि) । तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥ तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च । अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ ९-१९॥ हे अर्जुन! अहम् तपामि, अहम् वर्षम्, निगृह्णामि उत्सृजामि च, अहम् एव अमृतम् मृत्युः च, (अहं एव) सत् असत् च (अस्मि) । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२०॥ त्रै-विद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकं अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥ ९-२०॥ त्रै-विद्याः सोमपाः पूत-पापाः माम् यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते । ते पुण्यम् सुरेन्द्र-लोकं आसाद्य, दिवि दिव्यान् देव-भोगान् अश्नन्ति । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ ९-२१॥ ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति । एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आगतम् काम-कामाः लभन्ते ॥ ९-२१॥ ते तम् विशालम् स्वर्ग-लोकम् भुक्त्वा, पुण्ये क्षीणे (सति) मर्त्य-लोकम् विशन्ति । एवम् त्रयी-धर्मम् अनुप्रपन्नाः काम-कामाः गत-आगतम् लभन्ते । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥ अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते । तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् वहामि अहम् ॥ ९-२२॥ अनन्याः चिन्तयन्तः ये जनाः माम् पर्युपासते, तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् अहम् वहामि । येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥ ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः । ते अपि माम् एव कौन्तेय यजन्ति अविधि-पूर्वकम् ॥ ९-२३॥ अपि ये अन्य-देवता-भक्ताः श्रद्धया अन्विताः यजन्ते, ते अपि हे कौन्तेय! अविधि-पूर्वकम् माम् एव यजन्ति । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥ अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च । न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥ ९-२४॥ अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च (अस्मि), माम् तु तत्त्वेन न अभिजानन्ति, अतः ते च्यवन्ति । यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥ यान्ति देव-व्रताः देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि माम् ॥ ९-२५॥ देव-व्रताः देवान् यान्ति, पितृ-व्रताः पितॄन् यान्ति, भूत-इज्याः भूतानि यान्ति, मत् याजिनः अपि माम् यान्ति । पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥ पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति । तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत आत्मनः ॥ ९-२६॥ यः पत्रम् पुष्पम् फलम् तोयम् भक्त्या मे प्रयच्छति, (तस्य) प्रयत-आत्मनः भक्ति-उपहृतम् तत् अहम् अश्नामि । यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥ यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम् ॥ ९-२७॥ हे कौन्तेय! यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि, तत् मत् अर्पणम् कुरुष्व । शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८॥ शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि ॥ ९-२८॥ एवम् (कृते सति) शुभ-अशुभ-फलैः कर्म-बन्धनैः संन्यास-योग-युक्त-आत्मा विमुक्तः (भूत्वा) मोक्ष्यसे माम् उप-एष्यसि । समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९॥ समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् ॥ ९-२९॥ अहम् सर्व-भूतेषु समः, मे द्वेष्यः प्रियः च न अस्ति, (परं)तु ये माम् भक्त्या भजन्ति, ते मयि, (च) अहम् अपि तेषु (च)। अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०॥ अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक् । साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः ॥ ९-३०॥ सु-दुः-आचारः अपि माम् अनन्य-भाक् भजते चेत्, सः साधुः एव मन्तव्यः, सः हि सम्यक् व्यवसितः (अस्ति)। क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥ क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥ हे कौन्तेय! (सः) क्षिप्रम् धर्म-आत्मा भवति, शश्वत् शान्तिम् निगच्छति, मे भक्तः न प्रणश्यति, (इति त्वं) प्रतिजानीहि । मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२॥ माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः । स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम् ॥ ९-३२॥ हे पार्थ! ये अपि हि पाप-योनयः स्त्रियः वैश्याः तथा शूद्राः स्युः ते अपि माम् व्यपाश्रित्य, पराम् गतिम् यान्ति । किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३॥ किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा । अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् ॥ ९-३३॥ किम् पुनः पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः? (तस्मात् त्वं) अनित्यम् असुखम् इमम् लोकम् प्राप्य, माम् भजस्व । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥ मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु । माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः ॥ ९-३४॥ (त्वं) मत्-मनाः मत्-भक्तः मत्-याजी (च) भव, माम् मत्-परायणः (सन्) नमस्कुरु एवम् आत्मानम् युक्त्वा माम् एव एष्यसि । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे राजविद्या-राजगुह्य-योगः नाम नवमः अध्यायः ॥ ९॥
अथ दशमोऽध्यायः । विभूतियोगः । अथ दशमः अध्यायः । विभूति-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥ भूयः एव महाबाहो शृणु मे परमम् वचः । यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ १०-१॥ हे महाबाहो! भूयः एव मे परमम् वचः शृणु । प्रीयमाणाय ते यत् अहम् हित-काम्यया वक्ष्यामि । न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥ न मे विदुः सुर-गणाः प्रभवम् न महर्षयः । अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः ॥ १०-२॥ सुर-गणाः महर्षयः च मे प्रभवम् न विदुः, अहम् हि देवानाम् महर्षीणाम् (च) सर्वशः आदिः (अस्मि)। यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥ यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम् । असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ १०-३॥ यः माम् अजम् अनादिम् लोक-महेश्वरम् च वेत्ति, सः मर्त्येषु असम्मूढः (भूत्वा) सर्व-पापैः प्रमुच्यते । बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥ बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः । सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च ॥ १०-४॥ बुद्धिः, ज्ञानम्, असम्मोहः, क्षमा, सत्यम्, दमः, शमः, सुखम्, दुःखम्, भवः, अभावः, भयम् च एव अभयम् च अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥ अहिंसा समता तुष्टिः तपः दानम् यशः अयशः । भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः ॥ १०-५॥ अहिंसा, समता, तुष्टिः, तपः, दानम्, यशः, अयशः, (इमे) भूतानाम् पृथक्-विधाः भावाः मत्तः एव भवन्ति । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥ महर्षयः सप्त पूर्वे चत्वारः मनवः तथा । मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः ॥ १०-६॥ पूर्वे सप्त महर्षयः तथा चत्वारः मनवः मत् भावाः, मानसाः जाताः येषाम् लोके इमाः प्रजाः । एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥ एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः । सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ १०-७॥ यः मम एताम् विभूतिम् योगम् च तत्त्वतः वेत्ति, सः अविकम्पेन योगेन युज्यते अत्र संशयः न । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥ अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते । इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः ॥ १०-८॥ अहम् सर्वस्य प्रभवः (अस्मि), मत्तः सर्वम् प्रवर्तते, इति मत्वा बुधाः भाव-समन्विताः माम् भजन्ते । मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥ मत् चित्ताः मत् गत-प्राणाः बोधयन्तः परस्परम् । कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च ॥ १०-९॥ मत् चित्ताः मत् गत-प्राणाः परस्परम् माम् बोधयन्तः कथयन्तः च नित्यम् तुष्यन्ति च । तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥ तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम् । ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते ॥ १०-१०॥ (एवं) सतत-युक्तानाम् प्रीति-पूर्वकम् भजताम् तेषाम् तम् बुद्धि-योगम् ददामि येन ते माम् उपयान्ति । तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥ तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजम् तमः । नाशयामि आत्म-भावस्थः ज्ञान-दीपेन भास्वता ॥ १०-११॥ तेषाम् एव अनुकम्पार्थम् अहम् आत्म-भावस्थः (सन्) भास्वता ज्ञान-दीपेन अज्ञानजम् तमः नाशयामि । अर्जुन उवाच । अर्जुनः उवाच । परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥ परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् । पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् ॥ १०-१२॥ आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा । असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे ॥ १०-१३॥ भवान् परम् ब्रह्म, परम् धाम, परमम् पवित्रम् (अस्ति) । सर्वे ऋषयः त्वाम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् पुरुषम् आहुः । तथा देवर्षिः नारदः असितः देवलः व्यासः (कथयति) (त्वं) च स्वयम् एव मे ब्रवीषि । सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥ सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव । न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥ १०-१४॥ हे केशव! यत् माम् (त्वं) वदसि, (तत्) एतत् सर्वम् (अहं) ऋतम् मन्ये । हे भगवन्! न देवाः न दानवाः (वा) ते व्यक्तिम् हि विदुः । स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥ स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुषोत्तम । भूत-भावन भूत-ईश देव-देव जगत्-पते ॥ १०-१५॥ हे पुरुषोत्तम! भूत-भावन, भूत-ईश, देव-देव, हे जगत्-पते! त्वम् स्वयम् एव आत्मना आत्मानम् वेत्थ । वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥ वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः । याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥ १०-१६॥ (अतः) याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, (ताः) दिव्याः आत्म-विभूतयः हि अशेषेण वक्तुम् अर्हसि । कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥ कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १०-१७॥ हे योगिन्! सदा परिचिन्तयन् अहम् त्वाम् कथम् विद्याम् ? हे भगवन्! केषु केषु च भावेषु (त्वं) मया चिन्त्यः असि ? विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥ विस्तरेण आत्मनः योगम् विभूतिम् च जनार्दन । भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् ॥ १०-१८॥ हे जनार्दन! आत्मनः योगम् विभूतिम् च भूयः विस्तरेण कथय । (एतत्) अमृतम् शृण्वतः हि मे तृप्तिः न अस्ति । श्रीभगवानुवाच । श्रीभगवान् उवाच । हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥ हन्त ते कथयिष्यामि दिव्याः हि आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १०-१९॥ हे कुरु-श्रेष्ठ! हन्त, दिव्याः आत्म-विभूतयः प्राधान्यतः ते कथयिष्यामि, मे विस्तरस्य हि अन्तः न अस्ति । अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥ अहम् आत्मा गुडाका-ईश सर्व-भूत-आशय-स्थितः । अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च ॥ १०-२०॥ हे गुडाका-ईश! अहम्, सर्व-भूत-आशय-स्थितः आत्मा, भूतानाम् आदिः च मध्यम् च अन्तः च अहम् एव । आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥ आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् । मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी ॥ १०-२१॥ आदित्यानाम् विष्णुः अहम्, ज्योतिषाम् अंशुमान् रविः, मरुताम् मरीचिः, नक्षत्राणाम् शशी (च) अहम् अस्मि । वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥ वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः । इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥ १०-२२॥ वेदानाम् सामवेदः (अहं), अस्मि देवानाम् वासवः अस्मि, इन्द्रियाणाम् मनः अस्मि, भूतानाम् चेतना च अस्मि । रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥ रुद्राणाम् शङ्करः च अस्मि वित्त-ईशः यक्ष-रक्षसाम् । वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ १०-२३॥ रुद्राणाम् शङ्करः, यक्ष-रक्षसाम् च वित्त-ईशः अस्मि, वसूनाम् पावकः, शिखरिणाम् मेरुः च अहम् अस्मि । पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥ पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥ १०-२४॥ हे पार्थ! पुरोधसाम् च मुख्यम् बृहस्पतिम् माम् विद्धि, सेनानीनाम् स्कन्दः, सरसाम् सागरः अहम् अस्मि । महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥ महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् । यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः ॥ १०-२५॥ महर्षीणाम् भृगुः, गिराम् एकम् अक्षरम् अहम् अस्मि, यज्ञानाम् जप-यज्ञः, स्थावराणाम् हिमालयः (च) अस्मि । अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥ अश्वत्थः सर्व-वृक्षाणाम् देवर्षीणाम् च नारदः । गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः ॥ १०-२६॥ सर्व-वृक्षाणाम् अश्वत्थः, देवर्षीणाम् च नारदः, गन्धर्वाणाम् चित्ररथः, सिद्धानाम् कपिलः मुनिः (अहं अस्मि) । उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥ उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम् । ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् ॥ १०-२७॥ अश्वानाम् अमृत-उद्भवम् उच्चैःश्रवसम्, गजेन्द्राणाम् ऐरावतम्, नराणाम् नराधिपम् च माम् विद्धि । आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥ आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् । प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ १०-२८॥ आयुधानाम् वज्रम् अहम्, धेनूनाम् कामधुक् (अहं) अस्मि, प्रजनः कन्दर्पः अस्मि, सर्पाणाम् वासुकिः च अस्मि । अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥ अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् । पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ १०-२९॥ नागानाम् अनन्तः, यादसाम् वरुणः च अहम् अस्मि, पितॄणाम् अर्यमा च, संयमताम् यमः (च) अहम् अस्मि । प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥ प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् । मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥ १०-३०॥ दैत्यानाम् प्रह्लादः, कलयताम् कालः च अहम् अस्मि, मृगाणाम् मृगेन्द्रः च , पक्षिणाम् वैनतेयः च अहम् (अस्मि) । पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥ पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ १०-३१॥ पवताम् पवनः अस्मि, शस्त्र-भृताम् च रामः अहम् (अस्मि), झषाणाम् मकरः अस्मि, स्रोतसाम् जाह्नवी च (अहं) अस्मि । सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥ सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन । अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १०-३२॥ हे अर्जुन! सर्गाणाम् आदिः मध्यम् च अन्तः च एव अहम् (अस्मि), विद्यानाम् अध्यात्म-विद्या, प्रवदताम् वादः अहम् (अस्मि)। अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥ अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च । अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ १०-३३॥ अक्षराणाम् अकारः, सामासिकस्य च द्वन्द्वः, अक्षयः कालः अहम् एव , विश्वतोमुखः धाता (च) अहं अस्मि । मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥ मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् । कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ १०-३४॥ सर्व-हरः मृत्युः, भविष्यताम् उद्भवः च अहम् नारीणाम् च कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च (अहं अस्मि)। बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥ बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् । मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १०-३५॥ साम्नाम् बृहत्-साम, तथा छन्दसाम् गायत्री अहम्, मासानाम् मार्गशीर्षः, ऋतूनाम् कुसुमाकरः अहम् (अस्मि) । द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥ द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् । जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १०-३६॥ छलयताम् द्यूतम्, तेजस्विनाम् तेजः अहम् अस्मि, जयः अहम् अस्मि, व्यवसायः (अहम्) अस्मि, सत्त्ववताम् सत्त्वम् (अहम् अस्मि)। वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥ वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः । मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ १०-३७॥ वृष्णीनाम् वासुदेवः, पाण्डवानाम् धनञ्जयः अस्मि, मुनीनाम् अपि व्यासः (अहं), कवीनाम् उशना कविः (अहं अस्मि)। दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥ दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् । मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ १०-३८॥ दमयताम् दण्डः अस्मि, जिगीषताम् नीतिः अस्मि । गुह्यानाम् मौनम्, ज्ञानवताम् ज्ञानम् च एव अहम् अस्मि । यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥ यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन । न तत् अस्ति विना यत् स्यात् मया भूतम् चर-अचरम् ॥ १०-३९॥ हे अर्जुन! च सर्व-भूतानाम् यत् बीजम् तत् अपि अहम् (अस्मि), यत् चर-अचरम् भूतम् स्यात् तत् मया विना न अस्ति । नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥ न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप । एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०-४०॥ हे परन्तप! मम दिव्यानाम् विभूतीनाम् अन्तः न अस्ति, एषः तु विभूतेः विस्तरः मया उद्देशतः प्रोक्तः । यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥ यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा । तत् तत् अवगच्छ त्वम् मम तेजः अंश-सम्भवम् ॥ १०-४१॥ यत् यत् सत्त्वम् विभूतिमत्, श्रीमत् ऊर्जितम् एव वा (अस्ति), तत् तत् मम तेजः अंश-सम्भवम् (अस्ति इति) त्वम् अवगच्छ । अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥ अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन । विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ १०-४२॥ हे अर्जुन! अथवा एतेन बहुना ज्ञातेन तव किम्? अहम् इदम् कृत्स्नम् जगत् एक-अंशेन विष्टभ्य स्थितः (अस्मि इति त्वं विद्धि) । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विभूति-योगः नाम दशमः अध्यायः ॥ १०॥
अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः । अथ एकादशः अध्यायः । विश्व-रूप-दर्शन-योगः । अर्जुन उवाच । अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥ मत् अनुग्रहाय परमम् गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम ॥ ११-१॥ त्वया मत् अनुग्रहाय अध्यात्म-संज्ञितम् यत् परमम् गुह्यम् वचः उक्तम्, तेन मम अयम् मोहः विगतः । भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥ भव अपि अयौ हि भूतानाम् श्रुतौ विस्तरशः मया । त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥ ११-२॥ हे कमल-पत्र-अक्ष! भूतानाम् भव अपि अयौ मया त्वत्तः विस्तरशः श्रुतौ हि; अव्ययम् माहात्म्यम् अपि च (श्रुतं) । एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥ एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम ॥ ११-३॥ हे परमेश्वर! यथा एवम् त्वम् आत्मानं आत्थ, एतत् हे पुरुषोत्तम! ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि । मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४॥ मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो । योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम् ॥ ११-४॥ हे योगेश्वर प्रभो! मया तत् द्रष्टुम् शक्यम् इति त्वम् यदि मन्यसे, ततः मे अव्ययम् आत्मानम् दर्शय । श्रीभगवानुवाच । श्रीभगवान् उवाच । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥ पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्ण-आकृतीनि च ॥ ११-५॥ हे पार्थ! मे नाना-विधानि, नाना-वर्ण-आकृतीनि, दिव्यानि च शतशः अथ सहस्रशः रूपाणि पश्य । पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६॥ पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुताः तथा । बहूनि अदृष्ट-पूर्वाणि पश्य आश्चर्याणि भारत ॥ ११-६॥ हे भारत! आदित्यान्, वसून्, रुद्रान्, अश्विनौ तथा मरुताः पश्य, अदृष्ट-पूर्वाणि बहूनि आश्चर्याणि (च) पश्य । इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७॥ इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर-अचरम् । मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ११-७॥ हे गुडाकेश! कृत्स्नम् सचर-अचरम् जगत्, यत् अन्यत् च द्रष्टुम् इच्छसि, (तत् अपि) इह मम देहे एकस्थम् अद्य पश्य । न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥ न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा । दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ११-८॥ अनेन एव स्व-चक्षुषा तु माम् द्रष्टुम् न शक्यसे, (अत एव) दिव्यम् चक्षुः ते ददामि, मे ऐश्वरम् योगम् पश्य । सञ्जय उवाच । सञ्जयः उवाच । एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥ एवम् उक्त्वा ततः राजन् महा-योग-ईश्वरः हरिः । दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥ ११-९॥ हे राजन्! एवम् उक्त्वा, ततः महा-योग-ईश्वरः हरिः पार्थाय परमम् ऐश्वरम् रूपम् दर्शयामास । अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१०॥ अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् । अनेक-दिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥ ११-१०॥ अनेक-वक्त्र-नयनम्, अनेक-अद्भुत-दर्शनम्, अनेक-दिव्य-आभरणम्, दिव्य-अनेक-उद्यत-आयुधम्, दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११॥ दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् । सर्व-आश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् ॥ ११-११॥ दिव्य-माल्य-अम्बर-धरम्, दिव्य-गन्ध-अनुलेपनम्, सर्व-आश्चर्यमयम्, अनन्तम्, विश्वतोमुखम् देवम् (अर्जुनः अपश्यत्) । दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥ दिवि सूर्य-सहस्रस्य भवेत् युगपत् उत्थिता । यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ ११-१२॥ यदि दिवि सूर्य-सहस्रस्य भाः युगपत् उत्थिता भवेत्, (तर्हि) सा तस्य महात्मनः भासः सदृशी स्यात् । तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥ तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा । अपश्यत् देव-देवस्य शरीरे पाण्डवः तदा ॥ ११-१३॥ पाण्डवः तदा अनेकधा प्रविभक्तम् कृत्स्नम् जगत्, तत्र देव-देवस्य शरीरे एकस्थम् अपश्यत् । ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥ ततः सः विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवम् कृत-अञ्जलिः अभाषत ॥ ११-१४॥ ततः विस्मय-आविष्टः हृष्ट-रोमा सः धनञ्जयः, देवम् शिरसा प्रणम्य, कृत-अञ्जलिः अभाषत । अर्जुन उवाच । अर्जुनः उवाच । पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥ पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान् । ब्रह्माणम् ईशम् कमल-आसनस्थं ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ ११-१५॥ हे देव! (अहं) तव देहे सर्वान् देवान्, तथा भूत-विशेष-सङ्घान्, कमल-आसनस्थं ईशम् ब्रह्माणम् च, सर्वान् ऋषीन्, दिव्यान् उरगान् च पश्यामि । अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥ अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त-रूपम् । न अन्तम् न मध्यम् न पुनः तव आदिम् पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥ (अहं) त्वाम् अनेक-बाहु-उदर-वक्त्र-नेत्रम् सर्वतः अनन्त-रूपम् पश्यामि । हे विश्वरूप विश्वेश्वर! पुनः तव अन्तम् मध्यम् आदिम् न पश्यामि । किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥ किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् । पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ॥ ११-१७॥ त्वाम् किरीटिनम्, गदिनम्, चक्रिणम्, तेजो-राशिम् सर्वतः दीप्तिमन्तम्, समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् दुर्निरीक्ष्यम् च पश्यामि । त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥ त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनः त्वम् पुरुषः मतः मे ॥ ११-१८॥ त्वम् वेदितव्यम् परमम् अक्षरम्, त्वम् अस्य विश्वस्य परम् निधानम्, त्वम् अव्ययः शाश्वत-धर्म-गोप्ता, त्वम् सनातनः पुरुषः मे मतः । अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥ अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम् । पश्यामि त्वाम् दीप्त-हुताश-वक्त्रम् स्व-तेजसा विश्वम् इदम् तपन्तम् ॥ ११-१९॥ अनादि-मध्य-अन्तम्, अनन्त-वीर्यम्, अनन्त-बाहुम्, शशि-सूर्य-नेत्रम्, दीप्त-हुताश-वक्त्रम्, स्व-तेजसा इदम् विश्वम् तपन्तम्, त्वाम् पश्यामि । द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥ द्यावा-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः । दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् लोक-त्रयम् प्रव्यथितम् महात्मन् ॥ ११-२०॥ हे महात्मन्! त्वया एकेन द्यावा-पृथिव्योः इदम् अन्तरम् व्याप्तम्, सर्वाः दिशः च (व्याप्ताः), इदम् तव अद्भुतम् उग्रम् रूपम् दृष्ट्वा लोक-त्रयम् प्रव्यथितम् हि । अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥ अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति । स्वस्ति इति उक्त्वा महर्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥ अमी हि सुर-सङ्घाः त्वाम् विशन्ति, केचित् भीताः प्राञ्जलयः गृणन्ति; महर्षि-सिद्ध-सङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वाम् स्तुवन्ति । रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥ रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च । गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे ॥ ११-२२॥ रुद्र-आदित्याः, वसवः, ये च साध्याः, विश्वे अश्विनौ च, मरुतः, उष्मपाः च, गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः च सर्वे विस्मिताः एव त्वाम् वीक्षन्ते । रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥ रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् । बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ ११-२३॥ हे महा-बाहो! बहु-वक्त्र-नेत्रम्, बहु-बाहु-ऊरु-पादम्, बहु-उदरम्, बहु-दंष्ट्रा-करालम् ते महत् रूपम् दृष्ट्वा लोकाः प्रव्यथिताः, तथा अहम् (अपि व्यथितः अस्मि)। नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥ नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम् । दृष्ट्वा हि त्वाम् प्रव्यथित-अन्तर-आत्मा धृतिम् न विन्दामि शमम् च विष्णो ॥ ११-२४॥ हे विष्णो! त्वाम् नभः-स्पृशम्, दीप्तम्, अनेक-वर्णम्, व्यात्त-आननम्, दीप्त-विशाल-नेत्रम्, दृष्ट्वा हि (अहं) प्रव्यथित-अन्तर-आत्मा (भूत्वा) धृतिम् शमम् च न विन्दामि । दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ ११-२५॥ दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि । दिशः न जाने न लभे च शर्म प्रसीद देवेश जगत्-निवास ॥ ११-२५॥ हे देवेश! हे जगत्-निवास! काल-अनल-सन्निभानि दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव (अहं) दिशः न जाने, शर्म च न लभे, (अतः त्वं) प्रसीद । अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७॥ अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल-सङ्घैः । भीष्मः द्रोणः सूत-पुत्रः तथा असौ सह अस्मदीयैः अपि योध-मुख्यैः ॥ ११-२६॥ वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा-करालानि भयानकानि । केचित् विलग्नाः दशन-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तम-अङ्गैः ॥ ११-२७॥ अमी च सर्वे धृतराष्ट्रस्य पुत्राः अवनिपाल-सङ्घैः सह एव, तथा भीष्मः द्रोणः असौ सूत-पुत्रः अस्मदीयैः अपि योध-मुख्यैः सह त्वाम् विशन्ति ।ते दंष्ट्रा-करालानि भयानकानि वक्त्राणि त्वरमाणाः (विशन्ति), केचित् दशन-अन्तरेषु विलग्नाः चूर्णितैः उत्तम-अङ्गैः (युक्ताः) सन्दृश्यन्ते । यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥ यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति । तथा तव अमी नर-लोक-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ ११-२८॥ यथा नदीनाम् बहवः अम्बु-वेगाः अभिमुखाः समुद्रम् एव द्रवन्ति, तथा अमी नर-लोक-वीराः तव अभिविज्वलन्ति वक्त्राणि विशन्ति । यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्- तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥ यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः । तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध-वेगाः ॥ ११-२९॥ यथा पतङ्गाः समृद्ध-वेगाः नाशाय प्रदीप्तम् ज्वलनम् विशन्ति, तथा एव लोकाः समृद्ध-वेगाः नाशाय तव अपि वक्त्राणि विशन्ति । लेलिह्यसे ग्रसमानः समन्ताल्- लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥ लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः । तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो ॥ ११-३०॥ हे विष्णो! समन्तात् ज्वलद्भिः वदनैः समग्रान् लोकान् ग्रसमानः (त्वं) लेलिह्यसे, तव उग्राः भासः तेजोभिः समग्रम् जगत् आपूर्य प्रतपन्ति । आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥ आख्याहि मे को भवानुग्ररूपो नमः अस्तु ते देववर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥ हे देववर! ते नमः अस्तु, (त्वं) प्रसीद, भवान् उग्र-रूपः कः (अस्ति)? (तत्) मे आख्याहि । (अहं) आद्यम् भवन्तम् विज्ञातुम् इच्छामि । तव प्रवृत्तिम् हि (अहं)न प्रजानामि । श्रीभगवानुवाच । श्रीभगवान् उवाच । कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥ कालः अस्मि लोक-क्षय-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते अपि त्वाम् न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥ (अहं) लोक-क्षय-कृत् प्रवृद्धः कालः अस्मि, इह लोकान् समाहर्तुम् प्रवृत्तः (अस्मि), त्वाम् ऋते अपि प्रत्यनीकेषु ये योधाः अवस्थिताः, (ते) सर्वे न भविष्यन्ति । तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥ तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् । मया एव एते निहताः पूर्वम् एव निमित्त-मात्रम् भव सव्य-साचिन् ॥ ११-३३॥ तस्मात् हे सव्य-साचिन्! त्वम् उत्तिष्ठ, यशः लभस्व, शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते पूर्वम् एव निहताः, (त्वं) निमित्त-मात्रम् भव । द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥ द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान् । मया हतान् त्वम् जहि मा व्यथिष्ठाः युध्यस्व जेता असि रणे सपत्नान् ॥ ११-३४॥ त्वम् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा मया हतान् अन्यान् अपि योध-वीरान् जहि, मा व्यथिष्ठाः, युध्यस्व, रणे सपत्नान् जेता असि । सञ्जय उवाच । सञ्जयः उवाच । एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥ एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी । नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत-भीतः प्रणम्य ॥ ११-३५॥ केशवस्य एतत् वचनम् श्रुत्वा, वेपमानः किरीटी कृत-अञ्जलिः कृष्णम् नमः कृत्वा, भीत-भीतः प्रणम्य (च) भूयः एव सगद्गदम् आह । अर्जुन उवाच । अर्जुनः उवाच । स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च । रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ ११-३६॥ हे हृषीकेश! स्थाने, तव प्रकीर्त्या जगत् प्रहृष्यति, अनुरज्यते च, भीतानि रक्षांसि दिशः द्रवन्ति, सर्वे च सिद्ध-सङ्घाः नमस्यन्ति । कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७॥ कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदि-कर्त्रे । अनन्त देवेश जगत् निवास त्वम् अक्षरम् सत् असत् तत् परं यत् ॥ ११-३७॥ हे महात्मन्! अनन्त, देवेश! ब्रह्मणः अपि गरीयसे आदि-कर्त्रे(तुभ्यं) ते कस्मात् च न नमेरन्, हे जगत्-निवास! यत् सत् असत् (अस्ति) तत् परं अक्षरम् त्वम् त्वमादिदेवः पुरुषः पुराणस्- त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥ त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम् । वेत्ता असि वेद्यम् च परम् च धाम त्वया ततम् विश्वम् अनन्त-रूप ॥ ११-३८॥ त्वम् आदिदेवः, पुराणः पुरुषः, त्वम् अस्य विश्वस्य परम् निधानम्, (त्वम्) वेत्ता च वेद्यम्। परम् धाम ह् चासि । हे अनन्त-रूप! त्वया विश्वम् ततम् । वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥ वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च । नमः नमः ते अस्तु सहस्र-कृत्वः पुनः च भूयः अपि नमः नमः ते ॥ ११-३९॥ त्वम् वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः च प्रपितामहः (असि) ते सहस्र-कृत्वः, नमः नमः, पुनः च भूयः अपि ते नमः नमः अस्तु । नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥ नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व । अनन्त-वीर्य-अमित-विक्रमः त्वम् सर्वम् समाप्नोषि ततः असि सर्वः ॥ ११-४०॥ हे सर्व! ते पुरस्तात् नमः, अथ ते पृष्ठतः नमः, (ते) सर्वतः एव (नमः अस्तु), हे अनन्त-वीर्य! त्वम्-अमित-विक्रमः सर्वम् समाप्नोषि ततः सर्वः असि । सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ११-४१॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ११-४२॥ सखा इति मत्वा प्रसभम् यत् उक्तम् हे कृष्ण हे यादव हे सखा इति । अजानता महिमानम् तव इदम् मया प्रमादात् प्रणयेन वा अपि ॥ ११-४१॥ यत् च अवहासार्थम् असत् कृतः असि विहार-शय्या-आसन-भोजनेषु । एकः अथवा अपि अच्युत तत् समक्षम् तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ११-४२॥ तव इदम् महिमानम् अजानता मया सखा इति मत्वा, ' हे कृष्ण! हे यादव, हे सखा! ' इति प्रमादात् प्रणयेन वा अपि प्रसभम् यत् उक्तम्; हे अच्युत! यत् च विहार-शय्या-आसन-भोजनेषु, अवहासार्थम् एकः अथवा तत् समक्षम् अपि, असत् कृतः असि तत् अहम् अप्रमेयम् त्वाम् क्षामये । पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३॥ पिता असि लोकस्य चर-अचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् । न त्वत् समः अस्ति अभ्यधिकः कुतः अन्यः लोक-त्रये अपि अप्रतिम-प्रभाव ॥ ११-४३॥ हे अप्रतिम-प्रभाव! त्वम् अस्य चर-अचरस्य लोकस्य पिता, गरीयान् पूज्यः गुरुः च असि, लोक-त्रये अपि त्वत् समः न अस्ति, कुतः अभ्यधिकः अन्यः? तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ११-४४॥ तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पिता इव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ११-४४॥ हे देव! तस्मात् कायम् प्रणिधाय, प्रणम्य, अहम् ईड्यम् ईशम् त्वाम् प्रसादये, पुत्रस्य (अपराधं) पिता इव, सख्युः (अपराधं) सखा , प्रियायाः (अपराधं) प्रियः (इव) (मम अपराधान्) सोढुम् अर्हसि । अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ११-४५॥ अदृष्ट-पूर्वम् हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः मे । तत् एव मे दर्शय देव रूपम् प्रसीद देवेश जगत्-निवास ॥ ११-४५॥ हे देवेश! हे जगत्-निवास! अदृष्ट-पूर्वम् (विश्वरूपं त्वां) दृष्ट्वा (अहं) हृषितः अस्मि, मे मनः भयेन प्रव्यथितम् (अस्ति, अतः) हे देव! (त्वं) प्रसीद च तत् एव (पूर्वं) रूपम् मे दर्शय । किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ११-४६॥ किरीटिनम् गदिनम् चक्र-हस्तम् इच्छामि त्वाम् द्रष्टुम् अहम् तथा एव । तेन एव रूपेण चतुः-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥ ११-४६॥ हे सहस्र-बाहो! हे विश्व-मूर्ते! अहम् त्वाम् किरीटिनम् गदिनम् (च) तथा एव चक्र-हस्तम् द्रष्टुम् इच्छामि, (तस्मात्) तेन एव चतुः-भुजेन रूपेण (युक्तः) भव । श्रीभगवानुवाच । श्रीभगवान् उवाच । मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११-४७॥ मया प्रसन्नेन तव अर्जुन इदम् रूपम् परम् दर्शितम् आत्म-योगात् । तेजोमयम् विश्वम् अनन्तम् आद्यम् यत् मे त्वत् अन्येन न दृष्ट-पूर्वम् ॥ ११-४७॥ हे अर्जुन! यत् त्वत् अन्येन दृष्ट-पूर्वम् न, (तत्) इदम् मे तेजोमयम् विश्वम् अनन्तम् आद्यम् परम् रूपम् प्रसन्नेन मया आत्म-योगात् तव दर्शितम् । न वेदयज्ञाध्ययनैर्न दानैर्- न च क्रियाभिर्न तपोभिरुग्रैः । एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥ न वेद-यज्ञ-अध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः । एवम् रूपः शक्यः अहम् नृ-लोके द्रष्टुम् त्वत् अन्येन कुरु-प्रवीर ॥ ११-४८॥ हे कुरु-प्रवीर! अहम् एवम् रूपः नृ-लोके न वेद-यज्ञ-अध्ययनैः न, दानैः न, क्रियाभिः न, उग्रैः तपोभिः चन त्वत् अन्येन द्रष्टुम् शक्यः । मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ११-४९॥ मा ते व्यथा मा च विमूढ-भावः दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् । व्यपेत-भीः प्रीत-मनाः पुनः त्वम् तत् एव मे रूपम् इदम् प्रपश्य ॥ ११-४९॥ मम इदम् ईदृक् घोरम् रूपम् दृष्ट्वा ते व्यथा मा (अस्तु) , विमूढ-भावः च मा (अस्तु) । त्वम् व्यपेत-भीः प्रीत-मनाः (भूत्वा) पुनः तत् एव इदम् मे रूपम् प्रपश्य । सञ्जय उवाच । सञ्जयः उवाच । इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५०॥ इति अर्जुनम् वासुदेवः तथा उक्त्वा स्वकम् रूपम् दर्शयामास भूयः । आश्वासयामास च भीतम् एनम् भूत्वा पुनः सौम्य-वपुः महात्मा ॥ ११-५०॥ महात्मा वासुदेवः इति तथा अर्जुनम् उक्त्वा भूयः स्वकम् रूपम् दर्शयामास । पुनः च सौम्य-वपुः भूत्वा, भीतम् एनम् आश्वासयामास । अर्जुन उवाच अर्जुनः उवाच । दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥ दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जनार्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिम् गतः ॥ ११-५१॥ हे जनार्दन! तव इदम् मानुषम् सौम्यम् रूपम् दृष्ट्वा (अहं) इदानीम् सचेताः संवृत्तः अस्मि प्रकृतिम् गतः (अस्मि) । श्रीभगवानुवाच । श्रीभगवान् उवाच । सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥ सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम । देवाः अपि अस्य रूपस्य नित्यम् दर्शन-काङ्क्षिणः ॥ ११-५२॥ यत् मम सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि, अस्य रूपस्य देवाः अपि नित्यम् दर्शन-काङ्क्षिणः (सन्ति)। नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३॥ न अहम् वेदैः न तपसा न दानेन न च इज्यया । शक्यः एवम्-विधः द्रष्टुम् दृष्टवान् असि माम् यथा ॥ ११-५३॥ (त्वं) यथा माम् दृष्टवान् असि, एवम्-विधः अहम् न वेदैः, न तपसा, न दानेन, न च इज्यया द्रष्टुम् शक्यः (अस्मि)। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४॥ भक्त्या तु अनन्यया शक्यः अहम् एवम्-विधः अर्जुन । ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप ॥ ११-५४॥ हे परन्तप अर्जुन! अहम् एवम्-विधः तत्त्वेन ज्ञातुम् च द्रष्टुम् प्रवेष्टुम् च अनन्यया भक्त्या तु शक्यः । मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५॥ मत्-कर्म-कृत् मत्-परमः मत्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः सः माम् एति पाण्डव ॥ ११-५५॥ हे पाण्डव! यः मत्-कर्म-कृत्, मत्-परमः, सङ्ग-वर्जितः सर्व-भूतेषु निर्वैरः मत्-भक्तः (अस्ति), सः माम् एति । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विश्व-रूप-दर्शन-योगः नाम एकादशः अध्यायः ॥ ११॥
अथ द्वादशोऽध्यायः । भक्तियोगः । अथ द्वादशः अध्यायः । भक्ति-योगः । अर्जुन उवाच । अर्जुनः उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥ एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते । ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः ॥ १२-१॥ (हे भगवन्) एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते, ये च अपि अव्यक्तम् अक्षरम् (पर्युपासते) तेषाम् (मध्ये) के योग-वित्तमाः (सन्ति) ? श्रीभगवानुवाच । श्रीभगवान् उवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥ मयि आवेश्य मनः ये माम् नित्य-युक्ताः उपासते । श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ १२-२॥ (हे अर्जुन!) मयि मनः आवेश्य नित्य-युक्ताः (सन्तः) ये परया श्रद्धया उपेताः माम् उपासते, ते युक्ततमाः मे मताः । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ १२-३॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥ ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते । सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥ १२-३॥ सन्नियम्य इन्द्रिय-ग्रामम् सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ १२-४॥ ये तु सर्व-भूत-हिते रताः सर्वत्र सम-बुद्धयः (सन्तः) इन्द्रिय-ग्रामम् संनियम्य, अव्यक्तम्, अचिन्त्यम्, अनिर्देश्यम्, सर्वत्रगम्, कूटस्थम्, अचलम्, ध्रुवम् अक्षरम् च पर्युपासते ते माम् एव प्राप्नुवन्ति । क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥ अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥ क्लेशः अधिकतरः तेषाम् अव्यक्त-आसक्त-चेतसाम् ॥ अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते ॥ १२-५॥ अव्यक्त-आसक्त-चेतसाम् तेषाम् अधिकतरः क्लेशः (अस्ति तैः) देहवद्भिः अव्यक्ता गतिः दुःखम् अवाप्यते हि । ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येन एव योगेन माम् ध्यायन्तः उपासते ॥ १२-६॥ ये तु मत्-पराः (सन्तः), सर्वाणि कर्माणि मयि संन्यस्य, माम् ध्यायन्तः अनन्येन योगेन एव उपासते, तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥ तेषाम् अहम् समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मयि आवेशित-चेतसाम् ॥ १२-७॥ हे पार्थ! मयि आवेशित-चेतसाम् तेषाम् मृत्यु-संसार-सागरात् न चिरात् अहम् समुद्धर्ता भवामि । मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥ मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय । निवसिष्यसि मयि एव अतः ऊर्ध्वम् न संशयः ॥ १२-८॥ मयि एव मनः आधत्स्व्, मयि बुद्धिम् निवेशय, अतः ऊर्ध्वम् मयि एव निवसिष्यसि, (अत्र) संशयः न । अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥ अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततः माम् इच्छ आप्तुम् धनञ्जय ॥ १२-९॥ हे धनञ्जय! अथ मयि स्थिरम् चित्तम् समाधातुम् न शक्नोषि, ततः अभ्यास-योगेन माम् आप्तुम् इच्छ । अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥ अभ्यासे अपि असमर्थः असि मत्-कर्म-परमः भव । मत्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १२-१०॥ (त्वं) अभ्यासे अपि असमर्थः असि (चेत्), मत्-कर्म-परमः भव, मत्-अर्थम् कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि । अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥ अथ एतत् अपि अशक्तः असि कर्तुम् मत्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागम् ततः कुरु यत-आत्मवान् ॥ १२-११॥ अथ एतत् अपि कर्तुम् अशक्तः असि (चेत्), ततः यत-आत्मवान् मत्-योगम् आश्रितः (सन्) सर्व-कर्म-फल-त्यागम् कुरु । श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥ श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२-१२॥ अभ्यासात् ज्ञानम् हि श्रेयः (अस्ति) ज्ञानात् ध्यानम् विशिष्यते; ध्यानात् कर्म-फल-त्यागः (विशिष्यते); अनन्तरम् त्यागात् शान्तिः (भवति) हि । अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥ अद्वेष्टा सर्व-भूतानां मैत्रः करुणः एव च । निर्ममः निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ १२-१३॥ सन्तुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः । मयि अर्पित-मनः-बुद्धिः यः मत्-भक्तः सः मे प्रियः ॥ १२-१४॥ यः सर्व-भूतानां अद्वेष्टा, मैत्रः, करुणः च एव, निर्ममः, निरहङ्कारः, सम-दुःख-सुखः क्षमी, सततम् सन्तुष्टः, योगी, यत-आत्मा, दृढ-निश्चयः,मयि अर्पित-मनः-बुद्धिः, सः मत्-भक्तः मे प्रियः (अस्ति)। यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥ यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः । हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः ॥ १२-१५॥ लोकः यस्मात् न उद्विजते, यः च लोकात् न उद्विजते, यः च हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः, सः मे प्रियः (अस्ति)। अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥ अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः । सर्व-आरम्भ-परित्यागी यः मत्-भक्तः सः मे प्रियः ॥ १२-१६॥ यः मत्-भक्तः अनपेक्षः, शुचिः, दक्षः, उदासीनः, गत-व्यथः, सर्व-आरम्भ-परित्यागी, सः मे प्रियः । यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥ यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभ-अशुभ-परित्यागी भक्तिमान् यः सः मे प्रियः ॥ १२-१७॥ यः न हृष्यति, न द्वेष्टि, न शोचति, न काङ्क्षति, यः शुभ-अशुभ-परित्यागी, भक्तिमान् (अस्ति), सः मे प्रियः (भवति) । समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥ समः शत्रौ च मित्रे च तथा मान-अपमानयोः । शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ १२-१८॥ तुल्य-निन्दा-स्तुतिः मौनी सन्तुष्टः येन केनचित् । अनिकेतः स्थिर-मतिः भक्तिमान् मे प्रियः नरः ॥ १२-१९॥ (यः) शत्रौ मित्रे च तथा मान-अपमानयोः समः, शीत-उष्ण-सुख-दुःखेषु समः, सङ्ग-विवर्जितः च (अस्ति) तुल्य-निन्दा-स्तुतिः, मौनी, (यः) येन केनचित् सन्तुष्टः, (भवति) अनिकेतः, स्थिर-मतिः, भक्तिमान् (सः) नरः मे प्रियः । ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥ ये तु धर्म्य-अमृतम् इदम् यथा उक्तम् पर्युपासते । श्रद्दधानाः मत्-परमाः भक्ताः ते अतीव मे प्रियाः ॥ १२-२०॥ ये तु श्रद्दधानाः मत्-परमाः भक्ताः इदम् यथा उक्तम् धर्म्य-अमृतम् पर्युपासते, ते मे अतीव प्रियाः (सन्ति)। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे भक्ति-योगः नाम द्वादशः अध्यायः ॥ १२॥
अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः । अथ त्रयोदशः अध्यायः । क्षेत्र-क्षेत्रज्ञ-विभाग-योगः । अर्जुन उवाच । अर्जुनः उवाच । प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-०॥ प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् एव च । एतत् वेदितुम् इच्छामि ज्ञानम् ज्ञेयम् च केशव ॥ १३-०॥ हे केशव! प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् च एव ज्ञानम् ज्ञेयम् च एतत् वेदितुम् इच्छामि । श्रीभगवानुवाच । श्रीभगवान् उवाच । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-१॥ इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते । एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तत्-विदः ॥ १३-१॥ हे कौन्तेय! इदम् शरीरम् क्षेत्रम् इति अभिधीयते । यः एतत् वेत्ति, तम् क्षेत्रज्ञः इति तत्-विदः प्राहुः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-२॥ क्षेत्रज्ञम् च अपि माम् विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥ १३-२॥ हे भारत! सर्व-क्षेत्रेषु माम् अपि च क्षेत्रज्ञम् विद्धि । यत् क्षेत्र-क्षेत्रज्ञयोः ज्ञानम्, तत् ज्ञानम् (इति) मम मतम् (अस्ति)। तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३-३॥ तत् क्षेत्रम् यत् च यादृक् च यत् विकारि यतः च यत् । सः च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ १३-३॥ तत् क्षेत्रम् यत् च, यादृक् च, यत् विकारि (च), यतः च यत्, सः च यः, यत् प्रभावः च (अस्ति) तत्, (त्वं) समासेन मे शृणु । ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-४॥ ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् । ब्रह्म-सूत्र-पदैः च एव हेतुमद्भिः विनिश्चितैः ॥ १३-४॥ (इदं ज्ञानं) ऋषिभिः बहुधा, (तथा) विविधैः छन्दोभिः पृथक् हेतुमद्भिः विनिश्चितैः ब्रह्म-सूत्र-पदैः च गीतम् एव । महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-५॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-६॥ महा-भूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च । इन्द्रियाणि दश--एकम् च पञ्च च इन्द्रिय-गोचराः ॥ १३-५॥ इच्छा द्वेषः सुखम् दुःखम् संघातः चेतना धृतिः । एतत् क्षेत्रम् समासेन सविकारम् उदाहृतम् ॥ १३-६॥ महा-भूतानि, अहङ्कारः, बुद्धिः, अव्यक्तम् एव च , दश इन्द्रियाणि च, एकम् (मनः) इन्द्रिय-गोचराः पञ्च च, इच्छा, द्वेषः, सुखम्, दुःखम्, संघातः, चेतना, धृतिः, एतत् सविकारम् क्षेत्रम् (मया) समासेन उदाहृतम् । अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-७॥ अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् । आचार्य-उपासनम् शौचम् स्थैर्यम् आत्म-विनिग्रहः ॥ १३-७॥ अमानित्वम्, अदम्भित्वम्, अहिंसा, क्षान्तिः, आर्जवम्, आचार्य-उपासनम्, शौचम्, स्थैर्यम्, आत्म-विनिग्रहः, इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-८॥ इन्द्रिय-अर्थेषु वैराग्यम् अनहंकारः एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ॥ १३-८॥ इन्द्रिय-अर्थेषु वैराग्यम्, अनहंकारः एव च, जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम्, असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-९॥ असक्तिः अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु । नित्यम् च सम-चित्तत्वम् इष्ट अनिष्ट-उपपत्तिषु ॥ १३-९॥ असक्तिः, पुत्र-दार-गृह-आदिषु अनभिष्वङ्गः, इष्ट-अनिष्ट-उपपत्तिषु नित्यम् सम-चित्तत्वम् च, मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-१०॥ मयि च अनन्य-योगेन भक्तिः अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिः जन-संसदि ॥ १३-१०॥ मयि च अनन्य-योगेन अव्यभिचारिणी भक्तिः, विविक्त-देश-सेवित्वम्, जन-संसदि अरतिः, अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-११॥ अध्यात्म-ज्ञान-नित्यत्वम् तत्त्व-ज्ञान-अर्थ-दर्शनम् । एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतः अन्यथा ॥ १३-११॥ अध्यात्म-ज्ञान-नित्यत्वम्, तत्त्व-ज्ञान-अर्थ-दर्शनम्, एतत् ज्ञानम् इति प्रोक्तम्, यत् अतः अन्यथा (तत्) अज्ञानम् ( इति प्रोक्तम्) । ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१२॥ ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते ॥ १३-१२॥ यत् ज्ञेयम्, यत् ज्ञात्वा (जीवः) अमृतम् अश्नुते, तत् प्रवक्ष्यामि । तत् अनादिमत् परम् ब्रह्म सत् न, असत् (च) न (इति) उच्यते । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१३॥ सर्वतः पाणि-पादम् तत् सर्वतः अक्षि-शिरः-मुखम् । सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३-१३॥ लोके तत् सर्वतः पाणि-पादम्, सर्वतः अक्षि-शिरः-मुखम्, सर्वतः श्रुतिमत् (अस्ति), सर्वम् (च) आवृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१४॥ सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् । असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च ॥ १३-१४॥ (तत्) सर्व-इन्द्रिय-गुण-आभासम्, सर्व-इन्द्रिय-विवर्जितम्, असक्तम्, सर्व-भृत् च एव, निर्गुणम् गुण-भोक्तृ च (अस्ति) । बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१५॥ बहिः-अन्तः च भूतानाम् अचरम् चरम् एव च । सूक्ष्मत्वात् तत् अविज्ञेयम् दूरस्थम् च अन्तिके च तत् ॥ १३-१५॥ तत् भूतानाम् बहिः अन्तः च (अस्ति), अचरम् चरम् च एव (अस्ति), तत् सूक्ष्मत्वात् अविज्ञेयम् (अस्ति), दूरस्थम् च अन्तिके च (अस्ति) । अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१६॥ अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥ १३-१६॥ तत् ज्ञेयम् अविभक्तम् च भूतेषु विभक्तम् इव स्थितम्, भूत-भर्तृ च ग्रसिष्णु च प्रभविष्णु च (अस्ति) । ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ १३-१७॥ ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते । ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्य धिष्ठितम् ॥ १३-१७॥ तत् ज्योतिषाम् अपि ज्योतिः (अस्ति), तमसः परम् उच्यते, (तत्) ज्ञानम्, ज्ञेयम्, ज्ञानगम्यम् (अस्ति), सर्वस्य हृदि धिष्ठितम् (अस्ति) । इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१८॥ इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतः । मत्-भक्तः एतत् विज्ञाय मत्-भावाय उपपद्यते ॥ १३-१८॥ इति क्षेत्रम्, तथा ज्ञानम् ज्ञेयम् च समासतः उक्तम्, एतत् विज्ञाय, मत्-भक्तः मत्-भावाय उपपद्यते । प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-१९॥ प्रकृतिम् पुरुषम् च एव विद्धि अनादी उभाउ अपि । विकारान् च गुणान् च एव विद्धि प्रकृति-सम्भवान् ॥ १३-१९॥ (त्वं) प्रकृतिम् पुरुषम् च उभाउ अपि अनादी एव विद्धि । विकारान् च गुणान् च प्रकृति-सम्भवान् एव विद्धि । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२०॥ कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिः उच्यते । पुरुषः सुख-दुःखानाम् भोक्तृत्वे हेतुः उच्यते ॥ १३-२०॥ प्रकृतिः कार्य-कारण-कर्तृत्वे हेतुः उच्यते । पुरुषः सुख-दुःखानाम् भोक्तृत्वे हेतुः उच्यते । पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२१॥ पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणम् गुण-सङ्गः अस्य सत् असत् योनि-जन्मसु ॥ १३-२१॥ पुरुषः प्रकृतिस्थः (सन्) प्रकृतिजान् गुणान् भुङ्क्ते हि । गुण-सङ्गः अस्य सत्-असत्-योनि-जन्मसु कारणम् (अस्ति) । उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२२॥ उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ १३-२२॥ उपद्रष्टा, अनुमन्ता, भर्ता, च भोक्ता, महेश्वरः, अपि च परमात्मा इति उक्तः परः पुरुषः अस्मिन् देहे (अस्ति) । य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२३॥ यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह । सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ १३-२३॥ यः एवम् पुरुषम् गुणैः सह प्रकृतिम् च वेत्ति, सः सर्वथा वर्तमानः अपि भूयः न अभिजायते । ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३ -२४॥ ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ॥ १३-२४॥ केचित् ध्यानेन आत्मना आत्मनि आत्मानम् पश्यन्ति । अन्ये साङ्ख्येन योगेन (आत्मानम् पश्यन्ति) । अपरे च कर्म-योगेन (आत्मानम् पश्यन्ति)। अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२५॥ अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते । ते अपि च अतितरन्ति एव मृत्युम् श्रुति-परायणाः ॥ १३-२५॥ अन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते, ते श्रुति-परायणाः च अपि मृत्युम् अतितरन्ति एव । यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञस। न्योगात्तद्विद्धि भरतर्षभ ॥ १३-२६॥ यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तत् विद्धि भरतर्षभ ॥ १३-२६॥ हे भरतर्षभ! यावत् किञ्चित् स्थावर-जङ्गमम् सत्त्वम् सञ्जायते, तत् क्षेत्र-क्षेत्रज्ञ-संयोगात् (सञ्जायते इति त्वं) विद्धि । समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२७॥ समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् । विनश्यत्सु अविनश्यन्तम् यः पश्यति सः पश्यति ॥ १३-२७॥ यः विनश्यत्सु सर्वेषु भूतेषु समम् तिष्ठन्तम् अविनश्यन्तम् परमेश्वरम् पश्यति, सः पश्यति । समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२८॥ समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्ति आत्मना आत्मानम् ततः याति पराम् गतिम् ॥ १३-२८॥ (यः) सर्वत्र समवस्थितम् ईश्वरम् समं पश्यन् हि आत्मना आत्मानम् न हिनस्ति,(सः) ततः पराम् गतिम् याति । प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-२९॥ प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथा आत्मानम् अकर्तारम् सः पश्यति ॥ १३-२९॥ यः च प्रकृत्या एव कर्माणि सर्वशः क्रियमाणानि (सन्ति इति पश्यति), तथा आत्मानम् अकर्तारम् पश्यति, सः पश्यति । यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३०॥ यदा भूत-पृथक्-भावम् एकस्थम् अनुपश्यति । ततः एव च विस्तारम् ब्रह्म सम्पद्यते तदा ॥ १३-३०॥ यदा भूत-पृथक्-भावम् एकस्थम् च ततः एव विस्तारम् अनुपश्यति, तदा ब्रह्म सम्पद्यते । अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३१॥ अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः । शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ १३-३१॥ हे कौन्तेय! अयम् परमात्मा अनादित्वात्, निर्गुणत्वात्, अव्ययः (अस्ति, अतः सः) शरीरस्थः (सन्) अपि न करोति, न (च) लिप्यते । यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३२॥ यथा सर्वगतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते । सर्वत्र-अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ १३-३२॥ यथा सर्वगतम् आकाशम् सौक्ष्म्यात् न उपलिप्यते, तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते । यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३३॥ यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः । क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥ १३-३३॥ हे भारत! यथा एकः रविः इमम् कृत्स्नम् लोकम् प्रकाशयति, तथा क्षेत्री कृत्स्नम् क्षेत्रम् प्रकाशयति । क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३४॥ क्षेत्र-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षम् च ये विदुः यान्ति ते परम् ॥ १३-३४॥ एवम् ये ज्ञान-चक्षुषा क्षेत्र-क्षेत्रज्ञयोः अन्तरम् (ज्ञानं) भूत-प्रकृति-मोक्षम् च विदुः, ते परम् यान्ति । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे क्षेत्र-क्षेत्रज्ञ-विभाग-योगः नाम त्रयोदशः अध्यायः ॥ १३॥
अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः । अथ चतुर्दशः अध्यायः । गुण-त्रय-विभाग-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१॥ परम् भूयः प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् । यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतः गताः ॥ १४-१॥ यत् ज्ञात्वा सर्वे मुनयः इतः पराम् सिद्धिम् गताः, (तत्) ज्ञानानाम् उत्तमम् परम् ज्ञानम् भूयः (अहं ते) प्रवक्ष्यामि । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२॥ इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२॥ (य) इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः, (ते) सर्गे अपि न उपजायन्ते, प्रलये च न व्यथन्ति । मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥ मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् । सम्भवः सर्व-भूतानाम् ततः भवति भारत ॥ १४-३॥ हे भारत! महत् ब्रह्म मम योनिः (अस्ति); तस्मिन् अहम् गर्भम् दधामि; ततः सर्व-भूतानाम् सम्भवः भवति । सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४॥ सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासाम् ब्रह्म महत् योनिः अहम् बीज-प्रदः पिता ॥ १४-४॥ हे कौन्तेय! सर्व-योनिषु याः मूर्तयः सम्भवन्ति तासाम् योनिः महत् ब्रह्म (अस्ति), अहम् बीज-प्रदः पिता (च अस्मि) । सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५॥ सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ १४-५॥ हे महा-बाहो! सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः (सन्ति, ते) देहे अव्ययम् देहिनम् निबध्नन्ति । तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४-६॥ तत्र सत्त्वम् निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ॥ १४-६॥ हे अनघ! तत्र अनामयम् प्रकाशकम् सत्त्वम् निर्मलत्वात् (आत्मानं) सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति । रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४-७॥ रजः राग-आत्मकम् विद्धि तृष्णा-सङ्ग-समुद्भवम् । तत् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ १४-७॥ हे कौन्तेय! राग-आत्मकम् रजः तृष्णा-सङ्ग-समुद्भवम् विद्धि । तत् देहिनम् कर्म-सङ्गेन निबध्नाति । तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ १४-८॥ तमः तु अज्ञानजम् विद्धि मोहनम् सर्व-देहिनाम् । प्रमाद-आलस्य-निद्राभिः तत् निबध्नाति भारत ॥ १४-८॥ हे भारत! तमः तु सर्व-देहिनाम् मोहनम् अज्ञानजम् विद्धि । तत् (देहिनाम्) प्रमाद-आलस्य-निद्राभिः निबध्नाति । सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ १४-९॥ सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ १४-९॥ हे भारत! सत्त्वम् (देहिनाम्) सुखे सञ्जयति, रजः कर्मणि, उत तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति । रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१०॥ रजः तमः च अभिभूय सत्त्वम् भवति भारत । रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा ॥ १४-१०॥ हे भारत! सत्त्वम्, रजः तमः एव अभिभूय (स्वयं) भवति; च रजः, सत्त्वम् तमः च (अभिभूय स्वयं भवति); तथा तमः, सत्त्वम् रजः (अभिभूय स्वयं भवति)। सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११॥ सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते । ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत ॥ १४-११॥ उत यदा अस्मिन् देहे सर्व-द्वारेषु प्रकाशः ज्ञानम् (च) उपजायते, तदा सत्त्वम् विवृद्धम् इति विद्यात् । लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥ लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा । रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥ हे भरतर्षभ! लोभः, प्रवृत्तिः, कर्मणाम् आरम्भः, अशमः, स्पृहा एतानि (चिह्नानि) रजसि विवृद्धे (सति) जायन्ते । अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३॥ अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च । तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ १४-१३॥ हे कुरु-नन्दन! अप्रकाशः, अप्रवृत्तिः च, प्रमादः च, मोहः एव एतानि (चिह्नानि) तमसि विवृद्धे (सति) जायन्ते । यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४-१४॥ यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देह-भृत् । तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते ॥ १४-१४॥ यदा तु सत्त्वे प्रवृद्धे (सति) देह-भृत् प्रलयम् याति तदा उत्तम-विदाम् अमलान् लोकान् प्रतिपद्यते । रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १४-१५॥ रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनः तमसि मूढ-योनिषु जायते ॥ १४-१५॥ (देह-भृत्) रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते । तथा (सः) तमसि प्रलीनः मूढ-योनिषु जायते । कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४-१६॥ कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् । रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥ १४-१६॥ सुकृतस्य कर्मणः सात्त्विकम् निर्मलम् फलम्, रजसः फलम् तु दुःखम्, तमसः (च) फलम् अज्ञानम् (इति) आहुः । सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७॥ सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च । प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च ॥ १४-१७॥ सत्त्वात् ज्ञानम् सञ्जायते, रजसः लोभः एव च (सञ्जायते), तमसः प्रमाद-मोहौ भवतः, अज्ञानम् च एव (भवति) । ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४-१८॥ ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्तिस्थाः अधः गच्छन्ति तामसाः ॥ १४-१८॥ सत्त्वस्थाः ऊर्ध्वम् गच्छन्ति, राजसाः मध्ये तिष्ठन्ति, जघन्य-गुण-वृत्तिस्थाः तामसाः अधः गच्छन्ति । नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९॥ न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति । गुणेभ्यः च परम् वेत्ति मत्-भावम् सः अधिगच्छति ॥ १४-१९॥ यदा द्रष्टा गुणेभ्यः अन्यम् कर्तारम् न अनुपश्यति, गुणेभ्यः च परम् (आत्मानं) वेत्ति, (तदा) सः मत्-भावम् अधिगच्छति । गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥ गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नुते ॥ १४-२०॥ देही एतान् देह-समुद्भवान् त्रीन् गुणान् अतीत्य, जन्म-मृत्यु-जरा-दुःखैः विमुक्तः (सन्) अमृतम् अश्नुते । अर्जुन उवाच । अर्जुनः उवाच । कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ १४-२१॥ कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो । किम् आचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते ॥ १४-२१॥ हे प्रभो! एतान् त्रीन् गुणान् अतीतः (जीवः) कैः लिङ्गैः (ज्ञातः) भवति? (सः) च किम् आचारः? (सः) च एतान् त्रीन् गुणान् कथम् अतिवर्तते? श्रीभगवानुवाच । श्रीभगवान् उवाच । प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२॥ प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२॥ हे पाण्डव! प्रकाशम् च प्रवृत्तिम् च मोहम् एव च सम्प्रवृत्तानि न द्वेष्टि, निवृत्तानि (च) न काङ्क्षति । उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ १४-२३॥ उदासीनवत् आसीनः गुणैः यः न विचाल्यते । गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते ॥ १४-२३॥ यः उदासीनवत् आसीनः गुणैः न विचाल्यते, यः (च) गुणाः वर्तन्ते इति (मत्वा) एवम् अवतिष्ठति, (च) न इङ्गते । समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४॥ सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः । तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः ॥ १४-२४॥ (यः) सम-दुःख-सुखः, स्वस्थः, सम-लोष्ट-अश्म-काञ्चनः, तुल्य-प्रिय-अप्रियः, धीरः, तुल्य-निन्दा-आत्म-संस्तुतिः, मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ १४-२५॥ मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः । सर्व-आरम्भ-परित्यागी गुणातीतः सः उच्यते ॥ १४-२५॥ (यः) मान-अपमानयोः तुल्यः, मित्र-अरि-पक्षयोः तुल्यः, सर्व-आरम्भ-परित्यागी (च अस्ति) सः गुणातीतः उच्यते । मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६॥ माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते । सः गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते ॥ १४-२६॥ यः माम् च अव्यभिचारेण भक्ति-योगेन सेवते, सः एतान् गुणान् समतीत्य, ब्रह्म-भूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥ ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च ॥ १४-२७॥ अमृतस्य अव्ययस्य च ब्रह्मणः, शाश्वतस्य च धर्मस्य, एकान्तिकस्य सुखस्य च हि अहम् प्रतिष्ठा (अस्मि) । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे गुण-त्रय-विभाग-योगः नाम चतुर्दशः अध्यायः ॥ १४॥
अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः । अथ पञ्चदशः अध्यायः । पुरुषोत्तम-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥ ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थम् प्राहुः अव्ययम् । छन्दांसि यस्य पर्णानि यः तम् वेद सः वेदवित् ॥ १५-१॥ छन्दांसि यस्य पर्णानि (सन्ति तं) अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखम् अव्ययम् प्राहुः । यः तम् वेद, सः वेदवित् (इति उच्यते)। अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥ अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः । अधः च मूलानि अनुसन्ततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥ १५-२॥ तस्य गुण-प्रवृद्धाः विषय-प्रवालाः शाखाः अधः ऊर्ध्वम् च प्रसृताः (सन्ति) अधः च मनुष्य-लोके कर्म-अनुबन्धीनि मूलानि अनुसन्ततानि (सन्ति)। न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥ न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठा । अश्वत्थम् एनम् सुविरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥ १५-३॥ (यथा अयं वर्णितः) तथा अस्य रूपम् इह न उपलभ्यते । (अस्य) अन्तः न, आदिः च न, सम्प्रतिष्ठा च न (उपलभ्यते), सुविरूढ-मूलम् एनम् अश्वत्थम् दृढेन असङ्ग-शस्त्रेण छित्त्वा, ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥ ततः पदम् तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः । तम् एव च आद्यम् पुरुषम् प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥ ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यम् पुरुषम् प्रपद्ये, (इति) तत् पदम् परिमार्गितव्यं, यस्मिन् गताः भूयः न निवर्तन्ति । निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥ निर्मान-मोहाः जितसङ्गदोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः । द्वन्द्वैः विमुक्ताः सुख-दुःख-संज्ञैः गच्छन्ति अमूढाः पदम् अव्ययं तत् ॥ १५-५॥ निर्मान-मोहाः, जितसङ्गदोषाः, अध्यात्म-नित्याः, विनिवृत्त-कामाः, सुख-दुःख-संज्ञैः द्वन्द्वैः विमुक्ताः, अमूढाः, तत् अव्ययं पदम् गच्छन्ति । न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥ न तत् भासयते सूर्यः न शशाङ्कः न पावकः । यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥ १५-६॥ न सूर्यः, न शशाङ्कः, न पावकः (च) तत् (पदं) भासयते । यत् गत्वा न निवर्तन्ते तत् मम परमम् धाम । ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥ मम एव अंशः जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानि-इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥ १५-७॥ (अस्मिन्) जीव-लोके मम एव सनातनः अंशः जीव-भूतः (अस्ति, सः) प्रकृति-स्थानि मनः-षष्ठानि-इन्द्रियाणि कर्षति । शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥ शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः । गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ १५-८॥ यत् (एषः) ईश्वरः शरीरम् अवाप्नोति, अपि च यत् उत्क्रामति (तत्) वायुः आशयात् गन्धान् इव, एतानि गृहीत्वा संयाति । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥ श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च । अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥ १५-९॥ अयम् (जीवः) श्रोत्रम् चक्षुः स्पर्शनम् च, रसनम् घ्राणम् मनः च एव अधिष्ठाय विषयान् उपसेवते । उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥ उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् । विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ १५-१०॥ उत्क्रामन्तम् स्थितम् वा, भुञ्जानम् गुण-अन्वितम् वा अपि विमूढाः न अनुपश्यन्ति, ज्ञान-चक्षुषः पश्यन्ति । यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥ यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् । यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति अचेतसः ॥ १५-११॥ यतन्तः योगिनः आत्मनि अवस्थितम् एनम् पश्यन्ति, अचेतसः अकृत-आत्मानः च यतन्तः अपि एनम् न पश्यन्ति । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥ यत् आदित्य-गतं तेजः जगत् भासयते अखिलम् । यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १५-१२॥ यत् आदित्य-गतं तेजः अखिलम् जगत् भासयते, यत् च चन्द्रमसि, यत् च अग्नौ (स्थितं अस्ति), तत् मामकम् तेजः (अस्ति इति त्वं) विद्धि । गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥ गाम् आविश्य च भूतानि धारयामि अहम् ओजसा । पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥ १५-१३॥ अहम् च गाम् आविश्य भूतानि ओजसा धारयामि । रसात्मकः सोमः भूत्वा च सर्वाः ओषधीः पुष्णामि । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥ अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः । प्राण-अपान-सम-आयुक्तः पचामि अन्नम् चतुर्विधम् ॥ १५-१४॥ अहम् प्राणिनाम् देहम् आश्रितः प्राण-अपान-सम-आयुक्तः वैश्वानरः भूत्वा चतुर्विधम् अन्नम् पचामि । सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥ सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च । वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-वित् एव च अहम् ॥ १५-१५॥ अहम् सर्वस्य हृदि सन्निविष्टः (अस्मि), मत्तः (सर्वस्य) स्मृतिः ज्ञानम् अपोहनम् च (भवति) अहम् च एव सर्वैः वेदैः वेद्यः (अस्मि), अहम् एव च वेदान्त-कृत् वेद-वित् च (अस्मि) । द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥ द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च । क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १५-१६॥ (अस्मिन्) लोके क्षरः अक्षरः च एव इमौ द्वौ पुरुषौ (स्तः), सर्वाणि भूतानि क्षरः, कूटस्थः च अक्षरः उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥ उत्तमः पुरुषः तु अन्यः परम्-आत्मा इति उदाहृतः । यः लोक-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥ १५-१७॥ उत्तमः पुरुषः तु अन्यः (अस्ति), (सः) परम्-आत्मा इति उदाहृतः यः अव्ययः ईश्वरः लोक-त्रयम् आविश्य (तत्) बिभर्ति । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥ यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः । अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥ यस्मात् अहम् क्षरम् अतीतः, अक्षरात् अपि च उत्तमः (अस्मि), अतः (अहं) लोके वेदे च पुरुषोत्तमः इति प्रथितः अस्मि । यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत॥ १५-१९॥ यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् । सः सर्व-वित् भजति माम् सर्व-भावेन भारत ॥ १५-१९॥ हे भारत! यः असम्मूढः माम् पुरुषोत्तमम् एवम् जानाति, सः सर्व-वित् (भूत्वा) माम् सर्व-भावेन भजति । इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥ इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ । एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ १५-२०॥ हे अनघ! इति गुह्यतमम् इदम् शास्त्रम् मया उक्तम्, हे भारत! एतत् बुद्ध्वा (जीवः) बुद्धिमान् कृतकृत्यः च स्यात् । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादेपुरुषोत्तम-योगो नाम पञ्चदशः अध्यायः ॥ १५॥
अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः । अथ षोडशः अध्यायः । दैव-आसुर-सम्पत्-विभाग-योगः । श्रीभगवानुवाच । श्रीभगवान् उवाच । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥ अभयम् सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः । दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ १६-१॥ अभयम्, सत्त्व-संशुद्धिः, ज्ञान-योग-व्यवस्थितिः, दानम्, दमः च यज्ञः च, स्वाध्यायः, तपः, आर्जवम्, अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥ अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् । दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ १६-२॥ अहिंसा, सत्यम्, अक्रोधः, त्यागः, शान्तिः, अपैशुनम्, भूतेषु दया, अलोलुप्त्वम्, मार्दवम्, ह्रीः, अचापलम्, तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥ तेजः क्षमा धृतिः शौचम् अद्रोहः न अति-मानिता । भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ १६-३॥ हे भारत! तेजः, क्षमा, धृतिः, शौचम्, अद्रोहः, न अति-मानिता (इति एतानि लक्षणानि) दैवीम् सम्पदम् अभिजातस्य (पुरुषस्य) भवन्ति । दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥ दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च । अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ १६-४॥ हे पार्थ! दम्भः, दर्पः, अभिमानः च, क्रोधः, पारुष्यम्, एव च अज्ञानम् च (एतानि लक्ष्णानि) आसुरीम् सम्पदम् अभिजातस्य (पुरुषस्य भवन्ति) । दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥ दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता । मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥ १६-५॥ दैवी सम्पत् विमोक्षाय, आसुरी (सम्पत् च) निबन्धाय मता । हे पाण्डव! (त्वं) दैवीम् सम्पदम् अभिजातः असि, मा शुचः । द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६॥ द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु ॥ १६-६॥ हे पार्थ! अस्मिन् लोके दैवः आसुरः च एव द्वौ भूत-सर्गौ (स्तः तत्र) दैवः विस्तरशः प्रोक्तः आसुरम् मे शृणु । प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥ प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः । न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते ॥ १६-७॥ आसुराः जनाः प्रवृत्तिम् च निवृत्तिम् च न विदुः, तेषु च न शौचम्, न आचारः, न अपि सत्यम् विद्यते । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥ असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् । अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ १६-८॥ (इदं) जगत् असत्यम्, अप्रतिष्ठम्, अनीश्वरम्, अपरस्पर-सम्भूतं काम-हैतुकम् (च अस्ति) अन्यत् किम् (इति) ते आहुः । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥ एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्प-बुद्धयः । प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥ १६-९॥ एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः, अल्प-बुद्धयः, उग्र-कर्माणः, अहिताः जगतः क्षयाय प्रभवन्ति । काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥ कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः । मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि-व्रताः ॥ १६-१०॥ दुष्पूरम् कामम् आश्रित्य, मोहात् असत् ग्राहान् गृहीत्वा, अशुचि-व्रताः दम्भ-मान-मद-अन्विताः प्रवर्तन्ते । चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥ चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः । काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥ १६-११॥ (ते) अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः काम-उपभोग-परमाः च , एतावत् इति निश्चिताः । आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥ आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् ॥ १६-१२॥ आशा-पाश-शतैः बद्धाः, काम-क्रोध-परायणाः, काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् ईहन्ते । इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥ इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् । इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् ॥ १६-१३॥ अद्य इदम् मया लब्धम्, इमम् मनोरथम् (श्वः) प्राप्स्ये, इदम् धनम् (अधुना) अस्ति, इदम् अपि ( धनम् च) मे पुनः भविष्यति । असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥ असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि । ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी ॥ १६-१४॥ असौ शत्रुः मया हतः, अपरान् च अपि हनिष्ये, अहम् ईश्वरः, अहं भोगी, अहम् सिद्धः, बलवान् सुखी (च अहं अस्मि) । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥ आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया । यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥ १६-१५॥ आढ्यः अभिजनवान् अस्मि, मया सदृशः कः अन्यः अस्ति? (अहं) यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञान-विमोहिताः (ते सन्ति) । अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥ अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके अशुचौ ॥ १६-१६॥ अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः काम-भोगेषु प्रसक्ताः, अशुचौ नरके पतन्ति । आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥ आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः । यजन्ते नाम-यज्ञैः ते दम्भेन अविधि-पूर्वकम् ॥ १६-१७॥ आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः, ते दम्भेन अविधि-पूर्वकम् नाम-यज्ञैः यजन्ते । अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥ अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ १६-१८॥ अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः आत्म-पर-देहेषु (स्थितं) माम् प्रद्विषन्तः अभ्यसूयकाः (ते भवन्ति) । तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥ तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥ १६-१९॥ तान् द्विषतः क्रूरान्, अशुभान्, नराधमान् संसारेषु आसुरीषु एव योनिषु अजस्रम् अहम् क्षिपामि । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥ आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि । माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् ॥ १६-२०॥ हे कौन्तेय! आसुरीम् योनिम् आपन्नाः जन्मनि जन्मनि मूढाः (सन्तः) माम् अप्राप्य एव, ततः अधमाम् गतिम् यान्ति । त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥ त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः । कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ १६-२१॥ कामः क्रोधः तथा लोभः इदम् त्रिविधम् आत्मनः नाशनम् नरकस्य द्वारम् (अस्ति), तस्मात् एतत् त्रयम् त्यजेत् । एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥ एतैः विमुक्तः कौन्तेय तमो-द्वारैः त्रिभिः नरः । आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् ॥ १६-२२॥ हे कौन्तेय! एतैः त्रिभिः तमो-द्वारैः विमुक्तः नरः, आत्मनः श्रेयः आचरत्, ततः पराम् गतिम् याति । यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥ यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ १६-२३॥ यः शास्त्र-विधिम् उत्सृज्य, काम-कारतः वर्तते, सः न सिद्धिम्, न सुखम्, न (च) पराम् गतिम् अवाप्नोति । तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥ तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥ १६-२४॥ तस्मात् कार्य-अकार्य-व्यवस्थितौ ते शास्त्रम् प्रमाणम् (अस्ति), शास्त्र-विधान-उक्तम् कर्म ज्ञात्वा (तत् त्वं) इह कर्तुम् अर्हसि । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे दैव-आसुर-सम्पत्-विभाग-योगः नाम षोडशः अध्यायः ॥
अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः अथ सप्तदशः अध्यायः । श्रद्धा-त्रय-विभाग-योगः अर्जुन उवाच । अर्जुनः उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥ ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः । तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १७-१॥ हे कृष्ण! ये शास्त्र-विधिम् उत्सृज्य, श्रद्धया अन्विताः (सन्तः) यजन्ते, तेषां तु का निष्ठा? सत्त्वम् रजः आहो तमः ? श्रीभगवानुवाच श्रीभगवान् उवाच । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ १७-२॥ त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा । सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु ॥ १७-२॥ देहिनाम् (या) स्वभावजा श्रद्धा, सा सात्त्विकी च राजसी (च) तामसी च एव इति त्रिविधा भवति, ताम् शृणु । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३॥ सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः ॥ १७-३॥ हे भारत! सर्वस्य सत्त्व-अनुरूपा श्रद्धा भवति, अयम् पुरुषः श्रद्धामयः (अस्ति), यः यत् श्रद्धः (भवति), सः एव सः । यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४॥ यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः ॥ १७-४॥ सात्त्विकाः देवान् यजन्ते, राजसाः यक्ष-रक्षांसि (यजन्ते), अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते । अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥ १७-५॥ कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६॥ अशास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः । दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ॥ १७-५॥ कर्षयन्तः शरीरस्थम् भूत-ग्रामम् अचेतसः । माम् च एव अन्तः-शरीरस्थम् तान् विद्धि आसुर-निश्चयान् ॥ १७-६॥ दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ये जनाः अशास्त्र-विहितम् घोरम् तपः तप्यन्ते, अचेतसः च (ये) शरीरस्थम् भूत-ग्रामम् अन्तः-शरीरस्थम् माम् एव कर्षयन्तः तान् आसुर-निश्चयान् विद्धि । आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ १७-७॥ आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः । यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु ॥ १७-७॥ सर्वस्य प्रियः आहारः अपि तु त्रिविधः भवति, तथा यज्ञः, तपः, दानम् (च सर्वस्य त्रिविधं भवति, त्वं) तेषाम् इमम् भेदम् शृणु । आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८॥ आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥ १७-८॥ आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः, रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः (सन्ति)। कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९॥ कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहाराः राजसस्य इह्टाः दुःख-शोक-आमय-प्रदाः ॥ १७-९॥ कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः दुःख-शोक-आमय-प्रदाः आहाराः राजसस्य इह्टाः (भवति) । यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१०॥ यातयामम् गत-रसम् पूति पर्युषितम् च यत् । उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥ १७-१०॥ यत् यातयामम्, गत-रसम्, पूति, पर्युषितम् च उच्छिष्टम् अपि च अमेध्यम् भोजनम् (तत्) तामस-प्रियम् (अस्ति) । अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११॥ अफल-आकाङ्क्षिभिः यज्ञः विधि-दृष्टः यः इज्यते । यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥ १७-११॥ अफल-आकाङ्क्षिभिः (पुरुषैः) यष्टव्यम् एव इति मनः समाधाय विधि-दृष्टः यः यज्ञः इज्यते, सः सात्त्विकः (यज्ञः मतः) । अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२॥ अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् । इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥ १७-१२॥ हे भरत-श्रेष्ठ! फलम् तु अभिसन्धाय, अपि च दम्भार्थम् एव यत् इज्यते, तम् यज्ञम् राजसम् विद्धि । विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३॥ विधि-हीनम् असृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥ १७-१३॥ विधि-हीनम्, असृष्ट-अन्नम्, मन्त्र-हीनम्, अदक्षिणम्, श्रद्धा-विरहितम्, (च) यज्ञम् तामसम् परिचक्षते । देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४॥ देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥ १७-१४॥ देव-द्विज-गुरु-प्राज्ञ-पूजनम्, शौचम्, आर्जवम्, ब्रह्मचर्यम्, अहिंसा च (इति) शारीरम् तपः उच्यते । अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५॥ अनुद्वेगकरम् वाक्यम् सत्यम् प्रिय-हितम् च यत् । स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते ॥ १७-१५॥ यत् अनुद्वेगकरम् सत्यम् प्रिय-हितम् वाक्यम् च (यत्) स्वाध्याय-अभ्यसनम् च, (तत्) एव वाङ्मयम् तपः (इति) उच्यते । मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६॥ मनः-प्रसादः सौम्यत्वम् मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिः इति एतत् तपः मानसम् उच्यते ॥ १७-१६॥ मनः-प्रसादः सौम्यत्वम्, मौनम्, आत्म-विनिग्रहः, भाव-संशुद्धिः इति एतत् मानसम् तपः उच्यते । श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७॥ श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः । अफल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥ १७-१७॥ अफल-आकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया तप्तम् (यत्) त्रिविधम् तपः, तत् सात्त्विकम् परिचक्षते । सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८॥ सत्कार-मान-पूजार्थम् तपः दम्भेन च एव यत् । क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥ १७-१८॥ सत्कार-मान-पूजार्थम् दम्भेन च एव यत् तपः क्रियते, तत् इह राजसम्, चलम्, अध्रुवम् प्रोक्तम् । मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९॥ मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः । परस्य उत्सादनार्थम् वा तत् तामसम् उदाहृतम् ॥ १७- १९॥ मूढ-ग्राहेण आत्मनः पीडया परस्य उत्सादनार्थम् वा यत् तपः क्रियते, तत् तामसम् उदाहृतम् । दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०॥ दातव्यम् इति यत् दानम् दीयते अनुपकारिणे । देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥ १७-२०॥ दातव्यम् इति यत् दानम् देशे च काले च पात्रे (च) अनुपकारिणे दीयते, तत् दानम् सात्त्विकम् स्मृतम् । यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१॥ यत् तु प्रति-उपकारार्थम् फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् ॥ १७-२१॥ यत् तु प्रति-उपकारार्थम्, फलम् उद्दिश्य, वा पुनः परिक्लिष्टम् च दीयते, तत् दानम् राजसम् स्मृतम् । अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२॥ अदेश-काले यत् दानम् अपात्रेभ्यः च दीयते । असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥ १७-२२॥ यत् दानम् असत्कृतम् अवज्ञातम्, अदेश-काले अपात्रेभ्यः च दीयते, तत् तामसम् उदाहृतम् । ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥ ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः । ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥ १७-२३॥ ॐ तत् सत् इति ब्रह्मणः त्रिविधः निर्देशः स्मृतः तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः । तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४॥ तस्मात् ॐ इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥ १७-२४॥ तस्मात् ब्रह्म-वादिनाम् विधान-उक्ताः यज्ञ-दान-तपः-क्रियाः ॐ इति उदाहृत्य सततम् प्रवर्तन्ते । तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥ तत् इति अनभिसन्धाय फलम् यज्ञ-तपः-क्रियाः । दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ १७-२५॥ मोक्ष-काङ्क्षिभिः तत् इति (उदाहृत्य) फलम् अनभिसन्धाय विविधाः यज्ञ-तपः-क्रियाः दान-क्रियाः च क्रियन्ते । सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६॥ सत्-भावे साधु-भावे च सत् इति एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते ॥ १७-२६॥ (ज्ञानिभिः) सत् इति एतत् सत्-भावे च साधु-भावे च प्रयुज्यते, तथा हे पार्थ! प्रशस्ते कर्मणि सत् शब्दः युज्यते । यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७॥ यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । कर्म च एव तत्-अर्थीयम् सत् इति एव अभिधीयते ॥ १७-२७॥ यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तत्-अर्थीयम् च एव कर्म सत् इति एव अभिधीयते । अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८॥ अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् । असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ १७-२८॥ हे पार्थ! अश्रद्धया हुतम् दत्तम्, तपः तप्तम्, यत् च कृतम्, तत् असत् इति उच्यते; (तत्) प्रेत्य, इह (अपि) च न (फलप्रदं) नो (भवति) । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे श्रद्धा-त्रय-विभाग-योगः नाम सप्तदशः अध्यायः ॥ १७॥
अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः । अथ अष्टादशः अध्यायः । मोक्ष-संन्यास-योगः । अर्जुन उवाच । अर्जुनः उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१॥ संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ १८-१॥ हे महा-बाहो! हे केशि-निषूदन हृषीकेश ! (अहं) संन्यासस्य त्यागस्य च तत्त्वम् पृथक् वेदितुम् इच्छामि । श्रीभगवानुवाच । श्रीभगवान् उवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२॥ काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः । सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ १८-२॥ कवयः काम्यानाम् कर्मणाम् न्यासम् संन्यासम् विदुः, विचक्षणाः (च) सर्व-कर्म-फल-त्यागम् त्यागम् प्राहुः । त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८-३॥ त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ १८-३॥ एके मनीषिणः कर्म दोषवत् (अस्ति तस्मात्) त्याज्यम् इति प्राहुः, अपरे च यज्ञ-दान-तपः-कर्म न त्याज्यम् इति (आहुः)। निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥ निश्चयम् शृणु मे तत्र त्यागे भरतसत्तम । त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥ हे भरतसत्तम! तत्र त्यागे मे निश्चयम् शृणु । हे पुरुष-व्याघ्र! त्यागः हि त्रिविधः सम्प्रकीर्तितः (अस्ति)। यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५॥ यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् । यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ १८-५॥ यज्ञ-दान-तपः-कर्म न त्याज्यम् तत् कार्यम् एव । यज्ञः दानम् तपः च (एतानि) मनीषिणाम् पावनानि एव (सन्ति) । एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८-६॥ एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च । कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ १८-६॥ अपि तु एतानि कर्माणि सङ्गम् फलानि च त्यक्त्वा कर्तव्यानि इति, हे पार्थ! मे निश्चितम् उत्तमम् मतम् (अस्ति) । नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७॥ नियतस्य तु संन्यासः कर्मणः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ १८-७॥ नियतस्य कर्मणः तु संन्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः । दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८-८॥ दुःखम् इति एव यत् कर्म काय-क्लेश-भयात् त्यजेत् । सः कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ १८-८॥ (यः) दुःखम् इति (मत्वा) एव यत् कर्म काय-क्लेश-भयात् त्यजेत्, सः राजसम् त्यागम् कृत्वा त्याग-फलम् न एव लभेत् । कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९॥ कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन । सङ्गम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः ॥ १८-९॥ हे अर्जुन! कार्यम् इति (मत्वा) एव यत् नियतम् कर्म, सङ्गम् फलम् च एव त्यक्त्वा क्रियते, सः त्यागः सात्त्विकः मतः । न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८-१०॥ न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते । त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ १८-१०॥ (सः) त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः (च भवति सः) अकुशलम् कर्म न द्वेष्टि, कुशले (च) न अनुषज्जते । न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११॥ न हि देह-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः । यः तु कर्म-फल-त्यागी सः त्यागी इति अभिधीयते ॥ १८-११॥ देह-भृता अशेषतः कर्माणि त्यक्तुम् न शक्यम्, यः तु हि कर्म-फल-त्यागी सः त्यागी इति अभिधीयते । अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२॥ अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् । भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् ॥ १८-१२॥ अनिष्टम्, इष्टम्, मिश्रम् च (इति) त्रिविधम् कर्मणः फलम् प्रेत्य अत्यागिनाम् भवति, संन्यासिनाम् तु क्वचित् न (भवति)। पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥ पञ्च एतानि महा-बाहो कारणानि निबोध मे । साङ्ख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ १८-१३॥ हे महा-बाहो! सर्व-कर्मणाम् सिद्धये कृत-अन्ते साङ्ख्ये प्रोक्तानि एतानि पञ्च कारणानि मे निबोध । अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥ अधिष्ठानम् तथा कर्ता करणम् च पृथक्-विधम् । विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥ १८-१४॥ अधिष्ठानम्, तथा कर्ता च, पृथक्-विधम् करणम् च, विविधाः पृथक् चेष्टाः, अत्र दैवम् पञ्चमम् एव (भवति)। शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८-१५॥ शरीर-वाक्-मनोभिः यत् कर्म प्रारभते नरः । न्याय्यम् वा विपरीतं वा पञ्च एते तस्य हेतवः ॥ १८-१५॥ नरः शरीर-वाक्-मनोभिः न्याय्यम् वा विपरीतं वा यत् कर्म प्रारभते, तस्य एते पञ्च हेतवः (सन्ति) । तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८-१६॥ तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः । पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः ॥ १८-१६॥ तत्र एवम् सति यः तु केवलम् आत्मानम् कर्तारम् पश्यति, सः दुर्मतिः अकृत-बुद्धित्वात् न पश्यति । यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८-१७॥ यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते ॥ १८-१७॥ यस्य अहंकृतः भावः न, यस्य बुद्धिः न लिप्यते, सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते । ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ १८-१८॥ ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना । करणम् कर्म कर्ता इति त्रिविधः कर्म-संग्रहः ॥ १८-१८॥ ज्ञानम्, ज्ञेयम्, परिज्ञाता इति त्रिविधा कर्म-चोदना (अस्ति) । करणम्, कर्म, कर्ता (इति) त्रिविधः कर्म-संग्रहः (अस्ति) । ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८-१९॥ ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः । प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि ॥ १८-१९॥ ज्ञानम्, कर्म च कर्ता च त्रिधा एव गुण-भेदतः गुण-सङ्ख्याने प्रोच्यते, तानि अपि यथावत् शृणु । सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२०॥ सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते । अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ १८-२०॥ येन (जीवः) विभक्तेषु सर्व-भूतेषु अविभक्तम्, एकम् अव्ययम् भावम् ईक्षते, तत् ज्ञानम् सात्त्विकम् विद्धि । पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८-२१॥ पृथक्त्वेन तु यत् ज्ञानम् नाना-भावान् पृथक्-विधान् । वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ १८-२१॥ यत् ज्ञानम् पृथक्त्वेन सर्वेषु भूतेषु तु पृथक्-विधान् नाना-भावान् वेत्ति, तत् ज्ञानम् राजसम् विद्धि । यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८-२२॥ यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्वार्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ १८-२२॥ यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पम् च, तत्(ज्ञानं) तामसम् उदाहृतम् । नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८-२३॥ नियतम् सङ्ग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ १८-२३॥ अफल-प्रेप्सुना यत् नियतम् कर्म सङ्ग-रहितम् अराग-द्वेषतः कृतम्, तत् सात्त्विकम् उच्यते । यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८-२४॥ यत् तु काम-ईप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुल आयासम् तत् राजसम् उदाहृतम् ॥ १८-२४॥ पुनः यत् तु काम-ईप्सुना, साहंकारेण वा बहुल आयासम् कर्म क्रियते, तत् राजसम् उदाहृतम् । अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८-२५॥ अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् । मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ १८-२५॥ अनुबन्धम् क्षयम् हिंसाम् पौरुषम् च अनपेक्ष्य यत् कर्म मोहात् आरभ्यते, तत् तामसम् उच्यते । मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८-२६॥ मुक्त-सङ्गः अनहं-वादी धृति-उत्साह-समन्वितः । सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ १८-२६॥ मुक्त-सङ्गः, अनहं-वादी, धृति-उत्साह-समन्वितः, सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते । रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७॥ रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः । हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७॥ रागी, कर्म-फल-प्रेप्सुः, लुब्धः, हिंसात्मकः, अशुचिः, हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः । अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८॥ अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः । विषादी दीर्घ-सूत्री च कर्ता तामसः उच्यते ॥ १८-२८॥ अयुक्तः, प्राकृतः, स्तब्धः, शठः, नैष्कृतिकः, अलसः, विषादी, दीर्घ-सूत्री च कर्ता तामसः उच्यते । बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९॥ बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९॥ हे धनञ्जय! बुद्धेः धृतेः च एव गुणतः त्रिविधम् भेदम् अशेषेण पृथक्त्वेन प्रोच्यमानम् शृणु । प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥ प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये । बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥ हे पार्थ! या बुद्धिः प्रवृत्तिम् च निवृत्तिम् कार्य-अकार्ये भय-अभये च बन्धम् मोक्षम् च वेत्ति, सा सात्त्विकी (मता)। यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१॥ यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१॥ हे पार्थ! यया च (बुद्ध्या जीवः) धर्मम् अधर्मम् च, कार्यम् अकार्यम् च, अयथावत् एव प्रजानाति सा बुद्धिः राजसी (मता)। अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८-३२॥ अधर्मम् धर्मम् इति या मन्यते तमसा आवृता । सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ १८-३२॥ हे पार्थ! या तमसा आवृता (बुद्धिः) अधर्मम् धर्मम् सर्व-अर्थान् विपरीतान् च इति मन्यते, सा बुद्धिः तामसी (स्मृता) । धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥ धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः । योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥ हे पार्थ! (नरः) यया अव्यभिचारिण्या धृत्या मनः-प्राण-इन्द्रिय-क्रियाः योगेन धारयते, सा धृतिः सात्त्विकी (अस्ति) । यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४॥ यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन । प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४॥ हे अर्जुन! यया धृत्या प्रसङ्गेन फल-आकाङ्क्षी तु (सन्) धर्म-काम-अर्थान् (नरः) धारयते, हे पार्थ! सा धृतिः राजसी (अस्ति) । यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५॥ यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५॥ हे पार्थ! दुर्मेधा (नरः) यया स्वप्नम्, भयम्, शोकम्, विषादम्, मदम् एव च न विमुञ्चति, सा धृतिः तामसी (मता) । सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८-३६॥ सुखम् तु इदानीम् त्रिविधम् शृणु मे भरतर्षभ । अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति ॥ १८-३६॥ हे भरतर्षभ! इदानीम् तु त्रिविधम् सुखम् मे शृणु, यत्र (सुखे जीवः) अभ्यासात् रमते, दुःखान्तम् च निगच्छति । यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८-३७॥ यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् । तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसादजम् ॥ १८-३७॥ यत् अग्रे विषम् इव, परिणामे अमृत-उपमम् तत् आत्म-बुद्धि-प्रसादजम् (अस्ति), तत् सुखम् सात्त्विकम् प्रोक्तम् । विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८-३८॥ विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् । परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ १८-३८॥ यत् विषय-इन्द्रिय-संयोगात् अग्रे अमृत-उपमम्, तत् परिणामे (च) विषम् इव (अस्ति) तत् सुखम् राजसम् स्मृतम् । यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८-३९॥ यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः । निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ १८-३९॥ यत् अग्रे च अनुबन्धे च आत्मनः मोहनम् निद्रा-आलस्य-प्रमाद-उत्थम्, तत् सुखम् तामसम् उदाहृतम् । न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४०॥ न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः । सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ १८-४०॥ यत् सत्त्वम् एभिः प्रकृतिजैः त्रिभिः गुणैः मुक्तम् स्यात्, तत् पृथिव्याम् वा दिवि वा पुनः देवेषु (वा) न अस्ति । ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१॥ ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ १८-४१॥ हे परन्तप! ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च कर्माणि स्वभाव-प्रभवैः गुणैः प्रविभक्तानि (सन्ति) । शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८-४२॥ शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च । ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् ॥ १८-४२॥ शमः, दमः, तपः, शौचम्, क्षान्तिः, आर्जवम्, ज्ञानम्, विज्ञानम्, आस्तिक्यम् एव च (इति) स्वभावजम् ब्रह्म-कर्म (अस्ति) । शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८-४३॥ शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् । दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभावजम् ॥ १८-४३॥ शौर्यम्, तेजः, धृतिः, दाक्ष्यम्, युद्धे अपि च अपलायनम्, दानम्, ईश्वर-भावः च (इति) स्वभावजम् क्षात्रम् कर्म (अस्ति) । कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८-४४॥ कृषि-गौरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभावजम् । परिचर्या-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् ॥ १८-४४॥ कृषि-गौरक्ष्य-वाणिज्यम् स्वभावजम् वैश्य-कर्म (अस्ति) अपि (च) शूद्रस्य परिचर्या-आत्मकम् कर्म स्वभावजम् (अस्ति) । स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५॥ स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः । स्वकर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥ १८-४५॥ स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिम् लभते । स्वकर्म-निरतः (नरः) यथा सिद्धिम् विन्दति, तत् शृणु । यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६॥ यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ १८-४६॥ यतः भूतानाम् प्रवृत्तिः (अस्ति), येन इदम् सर्वम् ततम् (अस्ति) तम् (ईश्वरं) स्वकर्मणा अभ्यर्च्य मानवः सिद्धिम् विन्दति । श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७॥ श्रेयान् स्वधर्मः विगुणः पर-धर्मात् स्वनुष्ठितात् । स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ १८-४७॥ विगुणः स्वधर्मः स्वनुष्ठितात् पर-धर्मात् श्रेयान् (अस्ति), स्वभाव-नियतम् कर्म कुर्वन् (नरः) किल्बिषम् न आप्नोति । सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८॥ सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् । सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥ १८-४८॥ हे कौन्तेय! सहजम् कर्म सदोषम् अपि न त्यजेत्, धूमेन अग्निः इव हि सर्वारम्भाः दोषेण आवृताः (सन्ति) । असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८-४९॥ असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिम् परमाम् संन्यासेन अधिगच्छति ॥ १८-४९॥ सर्वत्र असक्त-बुद्धिः जित-आत्मा, विगत-स्पृहः (नरः) परमाम् नैष्कर्म्य-सिद्धिम् संन्यासेन अधिगच्छति । सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५०॥ सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे । समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५०॥ हे कौन्तेय! सिद्धिम् प्राप्तः (मानवः) यथा ब्रह्म आप्नोति, तथा मे समासेन एव निबोध, या (च इयं ब्रह्म-प्राप्तिः) (सा) ज्ञानस्य परा निष्ठा (वर्तते) । बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८-५१॥ बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानम् नियम्य च । शब्दादीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ १८-५१॥ विशुद्धया बुद्ध्या युक्तः, धृत्या आत्मानम् नियम्य च, शब्दादीन् विषयान् त्यक्त्वा, राग-द्वेषौ च व्युदस्य, विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८-५२॥ विविक्त-सेवी लघु-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ १८-५२॥ विविक्त-सेवी, लघु-आशी, यत-वाक्-काय-मानसः, नित्यम् ध्यान-योग-परः, वैराग्यम् समुपाश्रितः (च), अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३॥ अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् । विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ १८-५३॥ अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् (च) विमुच्य, निर्ममः, शान्तः, (नरः) ब्रह्म-भूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८-५४॥ ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मत्-भक्तिम् लभते पराम् ॥ १८-५४॥ ब्रह्म-भूतः प्रसन्न-आत्मा (सन्) न शोचति, न काङ्क्षति, (च) सर्वेषु भूतेषु समः (भूत्वा) पराम् मत्-भक्तिम् लभते । भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५॥ भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः । ततः माम् तत्त्वतः ज्ञात्वा विशते तत् अनन्तरम् ॥ १८-५५॥ यावान् यः च अस्मि, (तं) माम् तत्त्वतः भक्त्या अभिजानाति, ततः तत्त्वतः माम् ज्ञात्वा तत् अनन्तरम् (माम्) विशते । सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८-५६॥ सर्व-कर्माणि अपि सदा कुर्वाणः मत्-व्यपाश्रयः । मत्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ १८-५६॥ मत्-व्यपाश्रयः सदा सर्व-कर्माणि अपि कुर्वाणः मत्-प्रसादात् शाश्वतम् अव्ययम् पदम् अवाप्नोति । चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८-५७॥ चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मत्-चित्तः सततम् भव ॥ १८-५७॥ (त्वं) सर्व-कर्माणि चेतसा मयि संन्यस्य, मत्-परः (सन्), बुद्धि-योगम् उपाश्रित्य,सततम् मत्-चित्तः भव । मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥ मत्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥ (त्वम्) मत्-चित्तः (सन्) सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ त्वम् अहंकारात् न श्रोष्यसि चेत्, विनङ्क्ष्यसि । यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९॥ यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे । मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ १८-५९॥ यत् अहंकारम् आश्रित्य 'न योत्स्ये' इति मन्यसे, (तत्) एषः ते व्यवसायः मिथ्या (एव अस्ति), प्रकृतिः त्वाम् नियोक्ष्यति । स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८-६०॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ १८-६०॥ हे कौन्तेय! (यतः) स्वभावजेन स्वेन कर्मणा निबद्धः (त्वं) यत् मोहात् कर्तुम् न इच्छसि, तत् अवशः (सन्) अपि करिष्यसि । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८-६१॥ ईश्वरः सर्व-भूतानाम् हृत्-देशे अर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ १८-६१॥ हे अर्जुन! यन्त्र-आरूढानि सर्व-भूतानि मायया भ्रामयन् ईश्वरः सर्व-भूतानाम् हृत्-देशे तिष्ठति । तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२॥ तम् एव शरणम् गच्छ सर्व-भावेन भारत । तत् प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ १८-६२॥ हे भारत! (त्वं) तम् एव सर्व-भावेन शरणम् गच्छ । तत् प्रसादात् पराम् शान्तिम् शाश्वतम् स्थानम् (च) प्राप्स्यसि । इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८-६३॥ इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरं मया । विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ १८-६३॥ इति गुह्यात् गुह्यतरं ज्ञानम् मया ते आख्यातम्, एतत् अशेषेण विमृश्य, यथा इच्छसि तथा कुरु । सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८-६४॥ सर्व-गुह्यतमम् भूयः शृणु मे परमम् वचः । इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥ १८-६४॥ सर्व-गुह्यतमम् परमम् वचः मे भूयः शृणु । मे दृढम् इष्टः असि, इति ततः ते हितम् वक्ष्यामि । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८-६५॥ मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु । माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥ १८-६५॥ मत्-मनाः, मत्-भक्तः, मत्-याजी (च) भव, माम् नमस्कुरु (एवं कृत्वा त्वं) माम् एव एष्यसि । (इति) ते सत्यम् प्रतिजाने, (यतः त्वं) मे प्रियः असि । सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥ १८-६६॥ सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज । अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि मा शुचः ॥ १८-६६॥ (त्वं) सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज , अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि, (त्वं) मा शुचः । इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७॥ इदम् ते न अतपस्काय न अभक्ताय कदाचन । न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ १८-६७॥ इदम् ते न अतपस्काय, (च) न अभक्ताय, न च अशुश्रूषवे, न च यः माम् अभ्यसूयति (तस्मै) कदाचन वाच्यम् । य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८॥ यः इदम् परमम् गुह्यम् मत्-भक्तेषु अभिधास्यति । भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ १८-६८॥ यः इदम् परमम् गुह्यम् (ज्ञानं) मत्-भक्तेषु अभिधास्यति, (सः) मयि पराम् भक्तिम् कृत्वा, असंशयः (सन्) माम् एव एष्यति । न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९॥ न च तस्मात् मनुष्येषु कश्चित् मे प्रिय-कृत्तमः । भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥ १८-६९॥ मनुष्येषु च कश्चित् तस्मात् प्रिय-कृत्तमः मे न (अस्ति); तस्मात् अन्यः भुवि प्रियतरः च मे न भविता । अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८-७०॥ अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः । ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ १८-७०॥ यः च आवयोः इमम् धर्म्यम् संवादम् अध्येष्यते, तेन ज्ञान-यज्ञेन अहम् इष्टः स्याम् इति मे मतिः । श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१॥ श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः । सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ १८-७१॥ श्रद्धावान् अनसूयः च यः नरः (इदं) शृणुयात् अपि सः मुक्तः (सन्) पुण्य-कर्मणाम् शुभान् लोकान् अपि प्राप्नुयात् । कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ १८-७२॥ कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा । कच्चित् अज्ञान-सम्मोहः प्रनष्टः ते धनञ्जय ॥ १८-७२॥ हे पार्थ! त्वया एतत् एकाग्रेण चेतसा श्रुतम् कच्चित्? हे धनञ्जय! ते अज्ञान-सम्मोहः प्रनष्टः कच्चित्? अर्जुन उवाच । अर्जुनः उवाच । नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८-७३॥ नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत । स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥ १८-७३॥ हे अच्युत! त्वत् प्रसादात् (मे) मोहः नष्टः, मया स्मृतिः लब्धा, (अहं) गत-सन्देहः स्थितः अस्मि, (इदानीं) तव वचनम् करिष्ये । सञ्जय उवाच । सञ्जयः उवाच । इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४॥ इति अहम् वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ १८-७४॥ इति अहम् वासुदेवस्य महात्मनः पार्थस्य च इमम् अद्भुतम् रोम-हर्षणम् संवादम् अश्रौषम् । व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८-७५॥ व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् । योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ १८-७५॥ व्यास-प्रसादात् स्वयम् योगम् कथयतः योगेश्वरात् कृष्णात् एतत् परम् गुह्यम् अहम् साक्षात् श्रुतवान् । राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८-७६॥ राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः ॥ १८-७६॥ हे राजन्! (अहं) केशव-अर्जुनयोः इमम् पुण्यम् अद्भुतम् च संवादम् संस्मृत्य संस्मृत्य मुहुः मुहुः हृष्यामि । तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ १८-७७॥ तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः । विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥ १८-७७॥ हे राजन्! हरेः तत् च अति-अद्भुतम् रूपम् संस्मृत्य संस्मृत्य मे महान् विस्मयः (भवति), (अहं) पुनः पुनः हृष्यामि च । यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८॥ यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ १८-७८॥ यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः, तत्र श्रीः, विजयः, भूतिः, ध्रुवा नीतिः (च इति) मम मतिः (अस्ति) । ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८॥ ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे मोक्ष-संन्यास-योगः नाम अष्टादशः अध्यायः ॥ १८॥ anvaya formulated and retyped by Sunder Hattangadi sunderh at hotmail.com

% Text title            : bhagavadgItA anvayasandhivigraha sahitaM
% File name             : gitAanvayasandhivigraha.itx
% itxtitle              : bhagavadgItA sandhivigraha anvayasahitA
% engtitle              : Gita - sandhi-vigraha and anvaya
% Category              : gItA, giitaa, bhagavadgita
% Location              : doc_giitaa
% Sublocation           : giitaa
% Subcategory           : bhagavadgita
% Author                : -
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Translated by         : -
% Latest update         : July 4, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP