श्रीगुरुगीता लघु
॥ श्रीगुरुगीता ॥
॥ श्री गुरुपादुका पञ्चकम् ॥
ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।
आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः ॥
ऐङ्कार ह्रीङ्कार रहस्य युक्त
श्रीङ्कार गूढार्थमहाविभूत्या ॥ १॥
ओङ्कार मर्म प्रतिपादिनीभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ २॥
होत्राग्नि हौत्राग्नि हविष्यहोत्र
होमादि सर्वाकृति भासमानाम् ।
यद् ब्रह्म तद्बोध वितारिणीभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ३॥
कामादि सर्पव्रज गारुडाभ्यां
विवेक वैराग्य निधि प्रदाभ्याम् ।
बोध प्रदाभ्यां दृतमोक्षदाभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ४॥
अनन्त संसार समुद्र तार
नौकायिताभ्यां स्थिरभक्तिदाभ्याम् ।
जाड्याब्धि संशोषण वाडवाभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ५॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ अथ श्री गुरुगीता प्रारंभः ॥
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
॥ ॐ ॥
अस्य श्री गुरुगीता स्तोत्रमन्त्रस्य ।
भगवान् सदाशिव ऋषिः ।
नानाविधानि छन्दांसि ।
श्री गुरुपरमात्मा देवता ।
हं बीजम् । सः शक्तिः । क्रों कीलकम् ।
श्री गुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर् -
विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ।
तद्द्योतं पदशांभवं तु चरणं दीपाङ्कुरग्राहिणं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
॥ अथ श्रीगुरुगीता ॥
सूत उवाच -
कैलास शिखरे रम्ये भक्तिसन्धाननायकम् ।
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ॥ १॥
श्री देव्युवाच -
ॐ नमो देवदेवेश परात्परजगद्गुरो ।
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥ २॥
केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत् ।
त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ ३॥
ईश्वर उवाच -
ममरूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४॥
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ।
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५॥
वेदशास्त्रपुराणानि इतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६॥
शैवशाक्तागमादीनि अन्यानि विविधानि च ।
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७॥
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च ।
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८॥
गुरुर्बुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः ॥ ९॥
गूढ विद्या जगन्माया देहे चाज्ञानसंभवा ।
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १०॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते ॥ ११॥
गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् ।
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ॥ १२॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् ।
गुरुपादोदकं सम्यक् संसारार्णवतारकम् ॥ १३॥
अज्ञानमूलहरणं जन्म कर्म निवारणम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् ॥ १४॥
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरुमन्त्रं सदा जपेत् ॥ १५॥
काशी क्षेत्रं तन्निवासो जाह्नवी चरणोदकम् ।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् ॥ १६॥
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः ।
तीर्थराजः प्रयागश्च गुरुमूर्त्यै नमो नमः ॥ १७॥
गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥ १८॥
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा ॥ १९॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् ॥ २०॥
अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम् ।
तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ २१॥
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ॥ २२॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम् ॥ २४॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् ।
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६॥
साधकेन प्रदातव्यं गुरुसंतोषकारकम् ।
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८॥
शरीरमिन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९॥
कृमिकीटभस्मविष्ठा दुर्गन्धिमलमूत्रकम् ।
श्लेष्मरक्तं त्वचा मांसं वञ्चयेन्न वरानने ॥ ३०॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे ।
येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥ ३१॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥ ३२॥
हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ ३३॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३४॥
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता ।
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥ ३५॥
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ ३६॥
यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः ।
प्रियं पुत्रदि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ ३७॥
येन चेतयते हीदं चित्तं चेतयते न यम् ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ ३८॥
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ ३९॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अनन्यभाव भावाय तस्मै श्रीगुरवे नमः ॥ ४०॥
यस्य कारणरूपस्य कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ ४१॥
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥ ४२॥
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ ४३॥
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि ।
तस्मात् सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ ४४॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ ४५॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम् ।
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥ ४६॥
अत्रिनेत्रः सर्वसाक्षी अचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ ४७॥
अयं मयाञ्जलिर्बद्धो दया सागरवृद्धये ।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥ ४८॥
श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम् ।
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥ ४९॥
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ ५०॥
तस्यै दिशे सततमञ्जलिरेष आर्ये
प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च ।
जागर्ति यत्र भगवान्गुरुचक्रवर्ती
विश्वोदय प्रलयनाटकनित्यसाक्षी ॥ ५१॥
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ।
वीरान्द्व्यष्टचतुष्क षष्टि नवकं वीरावली पञ्चकं
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ५२॥
अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ॥ ५३॥
स्वदेशिकस्यैव शरीरचिन्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य कीर्तनम् ॥ ५४॥
यत्पादरेणुकणिका कापि संसारवारिधेः ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ ५५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ॥ ५६॥
पादाब्जं सर्वसंसारदावानलविनाशकम् ।
ब्रह्मरन्ध्रे सिताम्भोजमध्यस्थं चन्द्रमण्डले ॥ ५७॥
अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ ५८॥
सकलभुवनसृष्टिः कल्पिताशेषपुष्टिः
निखिलनिगमदृष्टिः सम्पदां व्यर्थदृष्टिः ।
अवगुणपरिमार्ष्टिस्तत्पदार्थैकदृष्टिः
भव गुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ ५९॥
सकलभुवनरङ्गस्थापना स्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिः सच्चिदानन्ददृष्टिर्-
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ ६०॥
अग्निशुद्धसमं तात ज्वाला परिचकाधिया ।
मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ ६१॥
तदेजति तन्नैजति तद्दूरे तत्समीपके ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ६२॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् ।
अविकारश्चिदानन्द अणीयान्महतो महान् ॥ ६३॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ ६४॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् ।
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् ॥ ६५॥
मनुञ्च यद्भवं कार्यं तद्वदामि महामते ।
साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् ॥ ६६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६७॥
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।
वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६८॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
य एव सर्व सम्प्राप्तिस्तस्मै श्रीगुरवे नमः ॥ ६९॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ७०॥
स्थावरं जङ्गमं चैव तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ ७१॥
ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः ।
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः ॥ ७२॥
अनेकजन्मसम्प्राप्तसर्वकर्मविदाहिने ।
स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥ ७३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ ७४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ ७५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ ७६॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ ७७॥
सप्तसागरपर्यन्त तीर्थस्नानादिकं फलम् ।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम् ॥ ७८॥
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ ७९॥
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ॥ ८०॥
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः ।
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥ ८१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव नित्यमाराधयेद्गुरुम् ॥ ८२॥
गुरोः कृपा प्रसादेन ब्रह्मविष्णुसदाशिवाः ।
समर्थाः प्रभवादौ च केवलं गुरुसेवया ॥ ८३॥
देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ॥ ८४॥
महाहङ्कारगर्वेण तपोविद्याबलान्विताः ।
संसारकुहरावर्ते घटयन्त्रे यथा घटाः ॥ ८५॥
न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखाः ॥ ८६॥
ध्यानं शृणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ॥ ८७॥
श्रीमत्परब्रह्म गुरुं स्मरामि
श्रीमत्परब्रह्म गुरुं वदामि ।
श्रीमत्परब्रह्म गुरुं नमामि
श्रीमत्परब्रह्म गुरुं भजामि ॥ ८८॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ८९॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ ९०॥
हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं
चित्पुस्तकाभीष्टवरं दधानम् ॥ ९१॥
श्वेताम्बरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिं
मन्दस्मितं सान्द्रकृपानिधानम् ॥ ९२॥
आनन्दमानन्दकरं प्रसन्नं
ज्ञानस्वरूपं निजबोधयुक्तम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं
श्रीमद्गुरुं नित्यमहं नमामि ॥ ९३॥
यस्मिन्सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वद्भासते तं नमाम्यहम् ॥ ९४॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभययुतं शान्तं स्मरेत्तं नामपूर्वकम् ॥ ९५॥
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ ९६॥
इदमेव शिवं त्विदमेव शिवं
त्विदमेव शिवं त्विदमेव शिवम् ।
मम शासनतो मम शासनतो
मम शासनतो मम शासनतः ॥ ९७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥ ९८॥
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ ९९॥
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पन्था द्वितीयकः ॥ १००॥
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ १०१॥
यावत्कल्पान्तको देहस्तावदेव गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ १०२॥
हुङ्कारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथञ्चन ।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३॥
गुरुं त्वंकृत्य हुंकृत्य गुरुं निर्जित्य वादतः ।
अरण्ये निर्जले देशे स भवेद्ब्रह्मराक्षसः ॥ १०४॥
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरू रक्षति पार्वति ॥ १०५॥
अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा ।
गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ॥ १०६॥
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् ॥ १०७॥
श्रुतिस्मृती अविज्ञाय केवलं गुरुसेवकाः ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १०८॥
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् ।
सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ॥ १०९॥
गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत् ।
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ ११०॥
आब्रह्म स्तंबपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ॥ १११॥
वन्देऽहं सच्चिदानन्दं भेदातीतं सदा गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ ११२॥
परात्परतरं ध्येयं नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ ११३॥
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ ११४॥
अङ्गुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि ।
तत्र स्फुरति भावो यः शृणु तं कथयाम्यहम् ॥ ११५॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति ॥ ११६॥
यथा गन्धः स्वभावेन कर्पूरकुसुमादिषु ।
शीतोष्णादि स्वभावेन तथा ब्रह्म च शाश्वतम् ॥ ११७॥
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् ।
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥ ११८॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः ॥ ११९॥
श्री पार्वत्युवाच -
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किमेतदाख्याहि शङ्कर ॥ १२०॥
श्री महादेव उवाच -
पिण्डं कुण्डलिनीशक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १२१॥
पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ १२२॥
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् ।
परात्परतरं नान्यत् सर्वमेतन्निरालयम् ॥ १२३॥
तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः ।
एकाकी निःस्पृहः शान्तस्तिष्ठासेत्तत्प्रसादतः ॥ १२४॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा ॥ १२५॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः ।
सदानन्दः सदा शान्तो रमते यत्रकुत्रचित् ॥ १२६॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम् ।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥ १२७॥
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ॥ १२८॥
अनेन यद्भवेत्कार्यं तद्वदामि महामते ।
लोकोपकारकं देवि लौकिकं तु न भावयेत् ॥ १२९॥
लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम् ।
ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् ॥ १३०॥
इदं तु भक्तिभावेन पठते शृणुते यदि ।
लिखित्वा तत्प्रदातव्यं तत्सर्वं सफलं भवेत् ॥ १३१॥
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा ॥ १३२॥
गुरुगीताक्षरैकं तु मन्त्रराजमिमं जपेत् ।
अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ १३३॥
अनन्तफलमाप्नोति गुरुगीताजपेन तु ।
सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् ॥ १३४॥
कालमृत्युभयहरं सर्वसङ्कटनाशनम् ।
यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् ॥ १३५॥
महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् ।
अथवा मोहनं वश्यं स्वयमेव जपेत्सदा ॥ १३६॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः ।
मोदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ १३७॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्री व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कंबले ॥ १३८॥
कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३९॥
ध्येयं शुक्लं च शान्त्यर्थं वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ॥ १४०॥
उत्तरे शान्तिकामस्तु वश्ये पूर्वमुखो जपेत् ।
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः ॥ १४१॥
मोहनं सर्वभूतानां बन्धमोक्षकरं भवेत् ।
देवराजप्रियकरं सर्वलोकवशं भवेत् ॥ १४२॥
सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ॥ १४३॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ १४४॥
सर्वशान्तिकरं नित्यं तथा वन्ध्यासुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा ॥ १४५॥
आयुरारोग्यमैश्वर्यपुत्रपौत्रप्रवर्धनम् ।
अकामतः स्त्री विधवा जपान्मोक्षमवाप्नुयात् ॥ १४६॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम् ॥ १४७॥
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १४८॥
कामितस्य कामधेनुः कल्पनाकल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ॥ १४९॥
मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात् ।
भोगकामो जपेद्यो वै तस्य कामफलप्रदम् ॥ १५०॥
जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः ।
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः ॥ १५१॥
अथ काम्यजपे स्थानं कथयामि वरानने ।
सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १५२॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटे च धात्रीमूले वा मठे वृन्दावने तथा ॥ १५३॥
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतं समाचरेत् ॥ १५४॥
श्मशाने भयभूमौ तु वटमूलान्तिके तथा ।
सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ ॥ १५५॥
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।
शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च ॥ १५६॥
संसारमलनाशार्थं भवपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ १५७॥
स एव च गुरुः साक्षात् सदा सद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ १५८॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि ॥ १५९॥
आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि ।
अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा ॥ १६०॥
शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ १६१॥
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम् ।
भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि ॥ १६२॥
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् ॥ १६३॥
एवंविधो महामुक्तः सर्वदा वर्तते बुधः ।
तस्य सर्वप्रयत्नेन भावभक्तिं करोति यः ॥ १६४॥
सर्वसन्देहरहितो मुक्तो भवति पार्वति ।
भुक्तिमुक्तिद्वयं तस्य जिह्वाग्रे च सरस्वती ॥ १६५॥
अनेन प्राणिनः सर्वे गुरुगीता जपेन तु ।
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः ॥ १६६॥
सत्यं सत्यं पुनः सत्यं धर्म्यं साङ्ख्यं मयोदितम् ।
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ॥ १६७॥
एको देव एकधर्म एकनिष्ठा परं तपः ।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६८॥
माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १६९॥
शरीरमिन्द्रियं प्राणाश्चार्थः स्वजनबान्धवाः ।
माता पिता कुलं देवि गुरुरेव न संशयः ॥ १७०॥
आकल्पजन्मना कोट्या जपव्रततपःक्रियाः ।
तत्सर्वं सफलं देवि गुरुसंतोषमात्रतः ॥ १७१॥
विद्यातपोबलेनैव मन्दभाग्याश्च ये नराः ।
गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ॥ १७२॥
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः ॥ १७३॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥ १७४॥
जपेन जयमाप्नोति चानन्तफलमाप्नुयात् ।
हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च ॥ १७५॥
जपं हीनासनं कुर्वन्हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ॥ १७६॥
जपञ्जयमवाप्नोति मरणे मुक्तिदायकम् ।
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ॥ १७७॥
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया ।
सुगोप्यं च प्रयत्नेन मम त्वं च प्रिया त्विति ॥ १७८॥
स्वामि मुख्यगणेशादि विष्ण्वादीनां च पार्वति ।
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् ॥ १७९॥
अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च ।
प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये ॥ १८०॥
अभक्ते वञ्चके धूर्ते पाखण्डे नास्तिके नरे ।
मनसापि न वक्तव्या गुरुगीता कदाचन ॥ १८१॥
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ॥
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ १८२॥
॥ इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त ॥
॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
Transliterated by Kapila Shankaran