॥ हंसगीता भागवतपुराणे एकादशस्कन्धे ॥

श्रीभगवानुवाच । सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः । सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥ १३.१॥ सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः । सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ १३.२॥ धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः । आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ १३.३॥ आगमोऽपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ १३.४॥ तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥ १३.५॥ सात्त्विकान्येव सेवेत पुमान्सत्त्वविवृद्धये । ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥ १३.६॥ वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ १३.७॥ उद्धव उवाच । विदन्ति मर्त्याः प्रायेण विषयान्पदमापदाम् । तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ १३.८॥ श्रीभगवानुवाच । अहमित्यन्यथाबुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ १३.९॥ रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥ १३.१०॥ करोति कामवशगः कर्माण्यविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ १३.११॥ रजस्तमोभ्यां यदपि विद्वान्विक्षिप्तधीः पुनः । अतन्द्रितो मनो युञ्जन्दोषदृष्टिर्न सज्जते ॥ १३.१२॥ अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः । अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३.१३॥ एतावान्योग आदिष्टो मच्छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १३.१४॥ उद्धव उवाच । यदा त्वं सनकादिभ्यो येन रूपेण केशव । योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥ १३.१५॥ श्रीभगवानुवाच । पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः । पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १३.१६॥ सनकादय ऊचुः । गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो । कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥ १३.१७॥ श्रीभगवानुवाच । एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १३.१८॥ स मामचिन्तयद्देवः प्रश्नपारतितीर्षया । तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १३.१९॥ दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् । ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ १३.२०॥ इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा । यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ १३.२१॥ वस्तुनो यद्यनानात्व आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ १३.२२॥ पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ १३.२३॥ मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः । अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ १३.२४॥ गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ १३.२५॥ गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया । गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ १३.२६॥ जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ १३.२७॥ यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः । मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥ १३.२८॥ अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् । विद्वान्निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ १३.२९॥ यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ १३.३०॥ असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा । गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ १३.३१॥ यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् । स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ १३.३२॥ एवं विमृश्य गुणतो मनसस्त्र्यवस्था मन्मायया मयि कृता इति निश्चितार्थाः । सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण- ज्ञानासिना भजत माखिलसंशयाधिम् ॥ १३.३३॥ ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकमुरुधेव विभाति माया स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥ १३.३४॥ दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः । सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥ १३.३५॥ देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् । दैवादपेतमथ दैववशादुपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ १३.३६॥ देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ १३.३७॥ मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः । जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ १३.३८॥ अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर्दमस्य च ॥ १३.३९॥ मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ १३.४०॥ इति मे छिन्नसन्देहा मुनयः सनकादयः । सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ १३.४१॥ तैरहं पूजितः सम्यक्संस्तुतः परमर्षिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ १३.४२॥ ॥ इति भागवतपुराणे एकादशस्कन्धान्तर्त्गता हंसगीता समाप्ता ॥ Skandha 11 Adhyaya 13 Bhagavata Purana. Proofread by Sunder Hattangadi sunderh at hotmail.com PSA Easwaran psaeaswaran at gmail.com

% Text title            : haMsagItA bhAgavatAntargataM
% File name             : hamsagiitaabhAgavata.itx
% itxtitle              : haMsagItA (bhAgavatapurANAntargatA)
% engtitle              : Hamsagita from Shrimad Bhagavata Purana Skandha 11
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com, PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Skandha 11 Adhyaya 13 Bhagavata Purana
% Indexextra            : bhAgavatapurANa skandha 11 adhyAya 13
% Latest update         : June 9, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP