॥ हंसगीता ॥

युधिष्ठिर उवाच । सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह । विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ १॥ भीष्म उवाच । अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ २॥ हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः । स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ ३॥ साध्या ऊचुः । शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे । पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ ४॥ श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दश्चरते ते पतत्रिन् । किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥ ५॥ तन्नः कार्यं पक्षिवर प्रशाधि यत्कर्मणां मन्यसे श्रेष्ठमेकम् । यत्कृत्वा वै पुरुषः सर्वबन्धैर्- विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ ६॥ हंस उवाच । इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः । ग्रन्थीन् विमुच्य हृदयस्य सर्वान् प्रियाप्रिये स्वं वशमानयीत ॥ ७॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत न तां वदेद्रुषतीं पापलोक्याम् ॥ ८॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि । परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेषु ॥ ९॥ परश्चेदेनमति वादबानैर्- भृशं विध्येच्छम एवेह कार्यः । संरोष्यमाणः प्रतिहृष्यते यः स आदत्ते सुकृतं वै परस्य ॥ १०॥ क्षेपाभिमानादभिषङ्गव्यलीकं var क्षेपायमाणमभिषङ्ग निगृह्णाति ज्वलितं यश्च मन्युम् । अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥ ११॥ आक्रुश्यमानो न वदामि किंचित् क्षमाम्यहं ताड्यमानश्च नित्यम् । श्रेष्ठं ह्येतत् यत् क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥ १२॥ वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः । दमस्योपनिषन्मोक्षं एतत्सर्वानुशासनम् ॥ १३॥ वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम् । एतान् वेगान् यो विषहदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ १४॥ अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषान्मानुषो वै विशिष्टस् तथा ज्ञानाज्ज्ञानवान्वै प्रधानः ॥ १५॥ var ज्ञानविद्वै विशिष्टः आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । var नाक्रुश्येत् मन्युरेनं आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १६॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्- तस्मै देवाः स्पृहयन्ते सदैव ॥ १७॥ var तस्येह देवाः स्पृहयन्ति नित्यम् । पापीयसः क्षमेतैव श्रेयसः सदृशस्य च । विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥ १८॥ सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न चमेऽस्ति रोषः । var विवित्सोत्सहते न रोषः न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषयेण यामि ॥ १९॥ नाहं शप्तः प्रतिशपामि किंचिद् दमं द्वारं ह्यमृतस्येह वेद्मि । गुह्यं ब्रह्म तदिदं वा ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ २०॥ विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः । विरजाः कालमाकाङ्क्षन् धीरो धैर्येण सिध्यति ॥ २१॥ यः सर्वेषां भवति ह्यर्चनीय उत्सेधनस्तम्भ इवाभिजातः । यस्मै वाचं सुप्रशस्तां वदन्ति var तस्मै वाचं सुप्रसन्नां स वै देवान्गच्छति संयतात्मा ॥ २२॥ न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान् । यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ २३॥ यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा । वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ २४॥ आक्रोशनावमानाभ्यां नाबुधान् गर्हयेद् बुधः । var बोधयेद् बुधः तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ २५॥ अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः । var पण्डितः । सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २६॥ यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति । वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥ २७॥ चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः । उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ २८॥ सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः । var तितिक्षां च संसेवमानः स्वाध्यायनित्योऽस्पृहयन्परेषाम् var युक्तोऽस्पृहयन् परेषाम् एकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ २९॥ सर्वानेताननुचरन् वत्सवच्चतुरः स्तनान् । var सर्वांश्चैनाननुचरन् न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥ ३०॥ आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३१॥ यादृशैः संनिवसति यादृशांश्चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ ३२॥ यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव । वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ ३३॥ सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् । नेन्दुः समः स्यादसमो हि वायुर्- उच्चावचं विषयं यः स वेद ॥ ३४॥ अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे । तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ ३५॥ शिश्नोदरे येऽभिरताः सदैव var ये निरताः स्तेना नरा वाक्परुषाश्च नित्यम् । अपेतदोषानिति तान् विदित्वा दूराद्देवाः सम्परिवर्जयन्ति ॥ ३६॥ न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा । सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते ॥ ३७॥ अव्याहृतं व्याकृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियंवदेद्व्याहृतं तच्चतुर्थम् ॥ ३८॥ साध्या ऊचुः । केनायमावृतो लोकः केन वा न प्रकाशते । केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३९॥ हंस उवाच । अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ४०॥ साध्या ऊचुः । कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते । कः स्विदेको बलवान् दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥ ४१॥ हंस उवाच । प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते । प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥ ४२॥ साध्या ऊचुः । किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते । असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥ ४३॥ हंस उवाच । स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते । असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥ ४४॥ भीष्म उवाच । संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः । क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ४५॥ var इत्युक्त्वा परमो देव भगवान् नित्य अव्ययः । साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥ ४५॥ एतद् यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् । दर्शितं देवदेवेन परमेणाव्ययेन च ॥ ४६॥ ॥ इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हंसगीता समाप्ता ॥ mahAbhArata shAntiparva mokShadharmaparva adhyAyaH 288 in critical edition, 289 in Kinjavadekar edition. Proofread by Sunder Hattangadi sunderh@hotmail.com and PSA Easwaran psaeaswaran at gmail.com
% Text title            : hansagItA
% File name             : hansagiitaa.itx
% itxtitle              : ha.nsagItA
% engtitle              : ha.nsagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion  in critical edition, 289 in Kinjawadekar edition.
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com) and PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : mahAbhArata shAntiparva mokShadharmaparva adhyAyaH 288
% Indexextra            : (mahAbhArata shAntiparva (Hindi))
% Latest update         : June 2, 1998 , May 12, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP