॥ मङ्किगीता ॥

अध्यायः १७१ युधिस्थिर ईहमानः समारम्भान्यदि नासादयेद्धनम् । धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ १॥ भीष्म सर्वसाम्यमनायासः सत्यवाक्यं च भारत । निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥ २॥ एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये । एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥ ३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ ४॥ ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः । केन चिद्धनशेषेण क्रीतवान्दम्य गोयुगम् ॥ ५॥ सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ । आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ ६॥ तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः । उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥ ७॥ ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना । म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥ ८॥ न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् । युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ ९॥ कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः । इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ॥ १०॥ उद्यम्योद्यम्य मे दम्यौ विषमेनेव गच्छति । उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥ ११॥ मनी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥ १२॥ यदि वाप्युपपद्येत पौरुषं नाम कर्हि चित् । अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ १३॥ तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता । सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ १४॥ अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता । प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ १५॥ यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् । प्रापनात्सर्वकामानां परित्यागो विशिष्यते ॥ १६॥ नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश् चन । शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥ १७॥ निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक । असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥ १८॥ यदि नाहं विनाश्यस्ते यद्येवं रमसे मया । मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥ १९॥ सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः । कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ॥ २०॥ अहो नु मम बालिश्यं योऽहं क्रीदनकस्तव । किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥ २१॥ न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् । त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥ २२॥ नूनं ते हृदयं कामवज्र सारमयं दृधम् । यदनर्थशताविष्टं शतधा न विदीर्यते ॥ २३॥ त्यजामि कामत्वां चैव यच्च किं चित्प्रियं तव । तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ॥ २४॥ कामजानामि ते मूलं सङ्कल्पात्किल जायसे । न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यति ॥ २५॥ ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी । लब्धानाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ २६॥ परेत्य यो न लभते ततो दुःखतरं नु किम् । न च तुष्यति लब्धेन भूय एव च मार्गति ॥ २७॥ अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् । मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ॥ २८॥ य इमं मामकं देहं भूतग्रामः समाश्रितः । स यात्वितो यथाकामं वसतां वा यथासुखम् ॥ २९॥ न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु । तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥ ३०॥ सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः । योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ॥ ३१॥ विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः । यथा मा त्वं पुनर्नैवं दुःखेषु प्रनिधास्यसि ॥ ३२॥ त्वया हि मे प्रनुन्नस्य गतिरन्या न विद्यते । तृष्णा शोकश्रमाणां हि त्वं कामप्रभवः सदा ॥ ३३॥ धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥ ३४॥ अवज्ञान सहस्रैस्तु दोषाः कस्ततराधने । धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३५॥ धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः । क्लिश्यन्ति विविधैर्दन्दैर्नित्यमुद्वेजयन्ति च ॥ ३६॥ मन्दलोलुपता दुःखमिति बुद्धिं चिरान्मया । यद्यदालम्बसे कामतत्तदेवानुरुध्यसे ॥ ३७॥ अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः । नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ३८॥ पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि । नाहमद्य समावेष्टुं शक्यः कामपुनस्त्वया ॥ ३९॥ निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया । निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ ४०॥ अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् । निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ ४१॥ परित्यजामि कामत्वां हित्वा सर्वमनोगतीः । न त्वं मया पुनः कामनस्योतेनेव रंस्यसे ॥ ४२॥ क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः । द्वेष्य मुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ ४३॥ तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन् । न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ ४४॥ निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् । सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ ४५॥ तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च । त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ॥ ४६॥ प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च । नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ ४७॥ यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते । कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ ४८॥ कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः । कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ ४९॥ एष ब्रह्म प्रविष्टोऽहं ग्रीस्मे शीतमिव ह्रदम् । शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ ५०॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् ॥ ५१॥ आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् । प्राप्यावध्यं ब्रह्म पुरं राजेव स्यामहं सुखी ॥ ५२॥ एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः । सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ ५३॥ दम्य नाश कृते मङ्किरमरत्वं किलागमत् । अछिनत्काममूलं स तेन प्राप महत्सुखम् ॥ ५४॥ ॥ इति मङ्किगीता समाप्ता ॥ Adhyaya number 177 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 171. Sunder Hattangadi (sunderh at hotmail.com)
% Text title            : mankigItA
% File name             : mankigiitaa.itx
% itxtitle              : maNkigItA
% engtitle              : maNkigItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Indexextra            : (mahAbhArata shAntiparva)
% Latest update         : June 2, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP