पृथिवीगीता

पृथिवीगीता

मैत्रेय पृथिवीगीता श्लोकाश्चात्र निबोध तान् । यानाह धर्मध्वजिने जनकायासितो मुनिः ॥ १॥ पृथिव्युवाच -- कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि । येन केन सधर्माणोऽप्यभिविश्वस्तचेतसः ॥ २॥ पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ ३॥ क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरकम् ॥ ४॥ समुद्रावरणं याति मन्मण्डलमथो वशम् । कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥ ५॥ उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां ममेति विमूढत्वात् जेतुमिच्छन्ति पार्थिवाः ॥ ६॥ मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः । जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ॥ ७॥ पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् । यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥ ८॥ दृष्ट्वा ममत्वायतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् । तस्यान्वयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवः करोति ॥ ९॥ पृथ्वी ममैषाशु परित्यजैनं वदन्ति ये दूतमुखैः स्वशत्रुम् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ १०॥ पराशर उवाच इत्येते धरणीगीताश्लोका मैत्रेय यैः श्रुतैः । ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥ ११॥ इति पृथिवीगीता समाप्ता । Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : pRithivIgItA
% File name             : pRithivIgItA.itx
% itxtitle              : pRithivIgItA
% engtitle              : pRithivIgItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Bengali)
% Latest update         : May 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org