पितृगीतम्

पितृगीतम्

मार्कण्डेय उवाच अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्वन् वित्तशाढ्यं यः पिण्डान्नो निर्वपिष्यति ॥ १॥ ५० रत्नवस्त्रमहायानं सर्वतोयादिकं वसु । विभवे सति विप्रेभ्यः अस्मानुद्दिश्य दास्यति ॥ २॥ ५१ अन्नेन वान्यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ ३॥ ५२ असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः । प्रदास्यति द्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ॥ ४॥ ५३ तत्राप्यसामर्थ्ययुतः करैर्गृह्यासितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिदपि दास्यति ॥ ५॥ ५४ तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् । भक्तिनम्रः समुद्दिश्य योऽस्माकं सम्प्रदास्यति ॥ ६॥ ५५ यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयेत्तस्माद्भक्त्या युक्तः प्रदास्यति ॥ ७॥ ५६ सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ॥ ८॥ ५७ न मेऽस्ति वित्तं न धनं न चान्यच्छ्राद्धस्य योग्यं स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरौ मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ॥ ९॥ ५८ इत्येवं पितृभिर्गीतं भावाभावप्रयोजनम् । कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विजः ॥ १०॥ ५९ इति वराहपुराणे आदिकृतवृत्तन्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः पितृगीतं समाप्तम् । Shlokas 50 to 59 from https://archive.org/details/VarahaPurana PDF page 56 Encoded and proofread by PSA Easwaran
% Text title            : pitRigItam
% File name             : pitRigItam.itx
% itxtitle              : pitRigItam
% engtitle              : Pitrugitam
% Category              : gItam, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Varaha Purana, Chapter 13, Slokas 49-59 Bengali)
% Latest update         : May 18, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org