रासगीता
नारद उवाच --
श्रीराधा माधवस्यापि राधायाश्चापि माधवः ।
करोति परमानन्दं प्रेमालिङ्गनपूर्वकम् ॥ १॥
राधासुखसुधासिन्धुः कृष्णश्चुम्बति राधिकाम् ।
श्यामप्रेममयी राधा सदा चुम्बति माधवम् ॥ २॥
त्रिभङ्गललितः कृष्णो मुरलीं पूरयेन्मुदा ।
चालयेद्रेणुरन्ध्रेषु राधिका च कराङ्गुलीः ॥ ३॥
श्रीनामाकर्षणं कृष्णं राधा गायति सुन्दरम् ।
शब्दब्रह्मध्वनिं राधां कृष्णो धारयति ध्रुवम् ॥ ४॥
मुरलीकलसङ्गीतं श्रुत्वा मुग्द्धा व्रजस्त्रियः ।
कदम्बमूलमायाता यत्रास्ति मुरलीधरः ॥ ५॥
राधाकान्तो व्रजस्त्रीभिर्वेष्टितो व्रजमोहनः ।
शोभते तारकामध्ये तारकानायको यथा ॥ ६॥
किशोरी सुन्दरी राधा किशोरः श्यामसुन्दरः ।
किशोर्यो व्रजसुन्दर्यो विहरन्ति निरन्तरम् ॥ ७॥
नित्यवृन्दावने राध्या राधाकृष्णश्च गोपिकाः ।
मण्डलं पूर्णरासस्य लीलया संवितथ्यते ॥ ८॥
राधया सह कृष्णेन क्रियते रासमण्डलम् ।
कल्पितानेकरूपेण मायया परमात्मना ॥ ९॥
माधवराधयोर्मध्ये राधामाधवयोरपि ।
माधवो राधया सार्द्धं राजते रासमण्डले ॥ १०॥
गोपालवल्लभा गोप्यो राधिकायाः कलात्मिकाः ।
क्रीडन्ति सह कृष्णेन रासमण्डलमण्डिताः ॥ ११॥
कृत्वा चानेकरूपाणि गोपीमण्डलसंश्रयः ।
गोविन्दो रमते तत्र तासां मध्ये द्वयोर्द्वयोः ॥ १२॥
प्रेमस्पर्शमणिं कृष्णं श्लिष्यन्तो व्रजयोषितः ।
भवन्ति सर्वकालाढ्या गोविन्दहृदयङ्गमाः ॥ १३॥
एकैकगोपिकापार्श्वे हरेरेकैकविग्रहः ।
सुवर्णगुटिकायोगे मध्ये मारकतो यथा ॥ १४॥
हेमकल्पलतागोपीबाहुभिः कण्ठमालया ।
तमालश्यामलः कृष्णो घूर्ण्यते रासलीलया ॥ १५॥
किङ्किणीनूपुरादीनां भूषणानां च भूषणम् ।
कैशोरं सफलं कुर्वन् गोपीभिः सह मोदते ॥ १६॥
राधाकृष्णेति सङ्गीतं गोप्यो गायन्ति सुस्वरम् ।
राधाकृष्णरीनात्तहस्तकानुपदक्रमैः ॥ १७॥
जय कृष्ण मनोहर योगधरे यदुनन्दन नन्दकिशोर हरे ।
जय रासरसेश्वरि पूर्णतमे वरदे वृषभानुकिशोरि यमे ॥ १८॥
जयतीह कदम्बतले मिलितः कलवेणुसमीरितगानरतः ।
सह राधिकया हरिरेकमहः सततं तरुणीगणमध्यगतः ॥ १९॥
वृषभानुसुता परमा प्रकृतिः पुरुषो व्रजराजसुतप्रकृतिः ।
मुहुर्नृत्यति गायति वादयते सह गोपिकया विपिने रमते ॥ २०॥
यमुनापुलिने वृषभानुसुता नवका-ललितादि सखीसहिता ।
रमते विधुना सह नृत्यवता गतिचञ्चलकुण्डलहारवता ॥ २१॥
स्फुटपद्ममुखी वृषभानुसुता नवनीतसुकोमलबाहुयुता ।
परिरभ्य हरिं प्रियमात्मसुखं परिचुम्बति शारदचन्द्रमुखम् ॥ २२॥
रसिको व्रजराजसुतः सुरते रसिकां वृषभानुसुतां भजते ।
नवपल्लवकल्पिततल्पगतां सुकुमारमनोभवभाववशाम् ॥ २३॥
वसुदेवसुतोरसि हेमलता स्फुटपीनपयोधरभारवता ।
शयनं कुरुते वृषभानुसुता प्रणमामि सदा वृषभानुसुताम् ।
नवनीरदसुन्दरनीलतनुं तडिदुज्ज्वलकुण्डलिनीं सुतनुम् ॥ २५॥
शिथिकण्ठशिखण्डलसन्मुकुटं कबरीपरिबद्धकिरीटघटाम्(?) ।
कमलाश्रितखञ्जननेत्रयुगं मकराकृतिकुण्डलगण्डयुगम् ॥ २६॥
परिपूर्णमृगाङ्कसुचारुमुखं मणिकुण्डलमण्डितगण्डयुगम् ।
कनकाङ्गदशोभितबाहुधरं मणिकङ्कणशोभितशङ्खकराम् ॥ २७॥
मणिकौस्तुभभूषितहारयुतं कुचकुम्भविराजितहारलताम् ।
तुलसीदलदामसुगन्धितनुं हरिचन्दनचर्चितगौरतनुम् ॥ २८॥
तनुभूषितपीतपटीजडितं रशनान्वितनीलनिचोलयुताम् ।
तरसाञ्जनदिग्गजराजगतिं कलनूपुरहंसविलासगतिम् ॥ २९॥
रतिनाथमनोहरवेशधरं निजनाथमनोहरवेशधराम् ।
मणिनिर्मितपङ्कजमध्यगतं रसरासमनोहरमध्यरताम् ॥ ३०॥
मुरलीमधुरश्रुतिरागपरं स्वरसप्तसमन्वितगानपराम् ।
नवनायकवेशकिशोरवयो व्रजराजसुतः सह राधिकया ॥ ३१॥
इतरेतरबद्धकरभ्रमणं कुरुते कुसुमायुधकेलिवनम् ।
अधिकेहितमाधवराधिकयोः वृतरासपरस्परमण्डलयोः॥ ३२॥
मणिकङ्कणशिञ्चिततालवनं हरते सनकादिमुनेर्मननम् ।
वृषभानुसुता व्रजराजसुतः कनकप्रतिमा मणिमारकतः ॥ ३३॥
भ्रमतीह यथाविथि यन्त्रगतः सहयोगगतो यमितान्तरितः ।
उभयोरुभयोराधयोर्दयिते पृथगन्तरिते वृषभानुसुते ॥ ३४॥
वृषभानुसुताभुजबद्धगलः कुशली व्रजराजसुतः सकलः ।
यदुनन्दनयोर्भुजबद्धगला वृषभानुसुता रुचिरा सकला ॥ ३५॥
वृषभानुसुता व्रजराजसुतः व्रजराजसुतो वृषभानुसुता ।
केलिकदम्बतले वनमाली नृत्यति चञ्चलचन्द्रकमौली ॥ ३६॥
राधिकया सह रासविलासी गोपवधूप्रियगोकुलवासी ।
क्रीडति राधिकया सह कृष्णः श्रीमुखचन्द्रसुधारसतृष्णः ॥ ३७॥
नर्तकखञ्जनलोचनलोलः कुण्डलमण्डितचारुकपोलः ।
कुञ्जगृहे कुसुमोत्तमतल्पे सूर्यसुताजलवायुसुकल्पे ॥ ३८॥
केशव आदिरसं प्रतिशेते राधिकया सह चन्द्रसुशीते ।
रासरसे सुविराजितराधा चन्दनचर्चितपङ्कजगन्धा ॥ ३९॥
माधवसङ्गमवर्धितरङ्गा पूर्णमनोरथमन्मथसङ्गा ।
शोभनकोमलदिव्यशरीरा कृष्णवपुःपरिमाणकिशोरा ॥ ४०॥
भावमयी वृषभानुकिशोरी काञ्चनचम्पककुङ्कुमगौरी ।
राधयोराधयोर्मध्यतो मध्यतो माधवो माधवो मण्डले शोभते ॥ ४१॥
राधिका राधिका माधवं चुम्बति माधवो माधवो राधिकां श्लिष्यति ।
राधिका राधिका माधवं गायति माधतो राधिकां वेणुना गायति ॥ ४२॥
कल्पिते मण्डले राजते राधिका माधवप्रेमसन्दोहसंराधिका ।
राधिकां राधिकां चान्तरेणान्तरः माधवं माधवं चान्तरेणान्तरा ।
माधवो माधवो राधिका राधिका राधिका राधिका माधवो माधवः ॥ ४३॥
वासावतारविस्तारं वंशीवादनसुन्दरम् ।
रतिकाममदाक्रान्तं राधाकृष्णं भजाम्यहम् ॥ ४४॥
भ्रमन्तं रासचक्रेण नृत्यन्तं तालशिञ्जितैः ।
गोपीभिः सह गायन्तं राधाकृष्णं भजाम्यहम् ॥ ४५॥
रासमण्डलमध्यस्थं प्रफुल्लवदनाम्बुजम् ।
अनन्यहृदयासक्तं राधाकृष्णं भजाम्यहम् ॥ ४६॥
विद्युद्गौरं घनश्यामं प्रेमालिङ्गनतत्परम् ।
परस्परकमर्द्धाङ्गं राधाकृष्णं भजाम्यहम् ॥ ४७॥
राधिकारूपिणं कृष्णं राधिकां कृष्णरूपिणीम् ।
रासयोगानुसारेण राधाकृष्णं भजाम्यहम् ॥ ४८॥
पुष्पिते माधवीकुञ्जे पुष्पतल्पोपरिस्थितम् ।
विपरीतरतासक्तं राधाकृष्णं भजाम्यहम् ॥ ४९॥
रासक्रिडापरिश्रान्तं मधुपानपरायणम् ।
ताम्बूलपूर्णवक्त्रेन्दुं राधाकृष्णं भजाम्यहम् ॥ ५०॥
रासोल्लासकलापूर्णं गोपीमण्डलमण्डितम् ।
श्रीमाधवं राधिकाख्यं पूर्णचन्द्रमुपास्महे ॥ ५१॥
चतुर्वर्गफलं त्यक्त्वा श्रीवृन्दावनमध्यतः ।
श्रीराधा-श्रीपादपद्मं प्रार्थये जन्मजन्मनि ॥ ५२॥
राधाकृष्णसुधासिन्धुरासगङ्गाङ्गसङ्गमे ।
अवगाह्य मनोहंसो विहरेच्च याथासुखम् ॥ ५३॥
रासगीतां पठेद्यस्तु शृणुयद्वापि यो नरः ।
वाञ्चासिद्धिर्भवेत्तस्य भक्तिः स्यात् प्रेमलक्षणा ॥ ५४॥
लक्ष्मीस्तस्य वसेद्गेहे मुखे भाति सरस्वती ।
धर्मार्थकामकैवल्यं लभते सत्यमेव सः ॥ ५५॥
समाप्तेयं रासगीता ।
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com