॥ ऋभुगीता गुरुज्ञानवासिष्ठे ॥

प्रथमोऽध्यायः । श्री गुरुमूर्तिः । पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव । येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥ विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् । ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥ १.०२॥ निदाघः । आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो । येन संसारपादोधिं तरिष्यामि सुखेन वै ॥ १.०३॥ ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् । सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥ १.०४॥ ऋभुः । सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १.०५॥ सर्वसंकल्परहितस्सर्वनादमयश्शिवः । सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥ १.०६॥ सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ १.०७॥ सर्वनादकलातीत एष आत्माऽहमव्ययः । आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥ १.०८॥ शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥ १.०९॥ तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ १.१०॥ अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ १.११॥ आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥ ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्नच ॥ १.१३॥ यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १.१४॥ नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा । सद्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥ १.१५॥ गुणं वा विगुणं वाऽपि सम आसीन् न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥ गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥ १.१७॥ यत्र कालमकालं वा निश्चयं संशयं नहि । यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥ १.१८॥ द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् । अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा ॥ १.१९॥ अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु । सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १.२०॥ केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १.२१॥ लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् । चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च ॥ १.२२॥ पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च । मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् ॥ १.२३॥ धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि ॥ १.२४॥ एकाभावे द्वितीयं न न द्वितीये नचैकता । सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् ॥ १.२५॥ असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति । शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते ॥ १.२६॥ भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता ॥ १.२७॥ मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच । त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥ इदं यदि तदेवास्ति तदभावादिदं न च । अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किञ्चन ॥ १.२९॥ कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् । द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥ दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न । अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच ॥ १.३१॥ पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते । तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ॥ १.३२॥ नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे । परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि ॥ १.३३॥ ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् । चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ॥ १.३४॥ इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् । चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा ॥ १.३५॥ न प्रपंचं न चित्तदि नाहंकारो न जीवकः । मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥ १.३६॥ कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि । समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥ १.३७॥ अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न । अनुबन्धचतुष्कं न संबन्धत्रयमेव न ॥ १.३८॥ न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि । न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥ १.३९॥ न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् । न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् ॥ १.४०॥ नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न । बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥ १.४१॥ जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् । सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥ १.४२॥ चिदित्येवेति नास्त्येव चिदहं भाषणं नहि । अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् ॥ १.४३॥ वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् । बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥ १.४४॥ योगियोगादिकं नास्ति सदा सर्वं सदा न च । अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥ १.४५॥ भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु । वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥ १.४६॥ लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः । वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् ॥ १.४७॥ मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः । बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् ॥ १.४८॥ शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते । श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥ त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ १.५०॥ इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते । यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः ॥ १.५१॥ सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् । सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥ १.५२॥ मदीयं च त्वदीयं च ममेति च तवेति च । मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥ १.५३॥ रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् । संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥ १.५४॥ स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् । मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् ॥ १.५५॥ अन्तःकरण सद्भावोऽविद्यायाश्च संभवः । अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.५६॥ सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता । दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥ १.५७॥ वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु । येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥ १.५८॥ येनेकेनापि गदितं येनेकेनापि मोदितम् । येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥ १.५९॥ यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् । यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु ॥ १.६०॥ इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ १.६१॥ श्री गुरुमूर्तिः । एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः । ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥ १.६२॥ निदाघः । स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना । प्रपंचितेन न फलं भवेदिति मे मतिः ॥ १.६३॥ यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् । अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥ ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा । तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥ फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः । त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते ॥ १.६६॥ यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता । हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति ॥ १.६७॥ शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् । अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥ १.६८॥ अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो । यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥ १.६९॥ एवम् उक्तो निदाघेन कुशाग्रमतिना परम् । ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥ १.७०॥ ऋभुः । निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् । तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः ॥ १.७१॥ सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् । ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् ॥ १.७२॥ तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः । तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ॥ १.७३॥ जीवेश्वरविभागेन सगुणं द्विविधं भवेत् । जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा ॥ १.७४॥ उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः । तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥ १.७५॥ हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः । मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः ॥ १.७६॥ इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता । तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ॥ १.७७॥ मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति । तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ॥ १.७८॥ अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि । शशशृंगसमानत्वं निदाघाशक्यमीरितुम् ॥ १.७९॥ विशेषसत्ताऽभावेपि सत्तासामान्यता यतः । निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ॥ १.८०॥ अथवा शशशृंगादि सादृश्यं भवतु स्वतः । सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ॥ १.८१॥ न तावता विरोधोस्ति कश्चिदप्यधुना तव । संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया ॥ १.८२॥ ॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥
द्वितीयोऽध्यायः । अथातस्सम्प्रवक्ष्यामि निदाघ शृणु सादरम् । संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम् ॥ २.०१ ॥ तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् । नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् ॥ २.०२ ॥ यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता । जीवस्य यच्च सम्पूर्णं तत्त्वमेवासि निर्मलम् ॥ २.०३ ॥ त्वमेव परमात्मासि त्वमेव परमोगुरुः । त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा ॥ २.०४ ॥ त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः । कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः ॥ २.०५ ॥ सर्वतस्सर्वरूपोसि चैतन्यघनवानसि । सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः ॥ २.०६ ॥ सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि । देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि ॥ २.०७ ॥ समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि । सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि ॥ २.०८ ॥ सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि । सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि ॥ २.०९ ॥ सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि । सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् ॥ २.१० ॥ चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः । आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः ॥ २.११ ॥ आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः । चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः ॥ २.१२ ॥ सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि । सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः ॥ २.१३ ॥ अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि । सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः ॥ २.१४ ॥ सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि । नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः ॥ २.१५ ॥ ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः । अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः ॥ २.१६ ॥ लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः । सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः ॥ २.१७ ॥ ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि ॥ २.१८ ॥ स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः । शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि ॥ २.१९ ॥ स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि । स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु ॥ २.२० ॥ इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ २.२१ ॥ लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् । न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ॥ २.२२ ॥ निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् । शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥ आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् । ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ॥ २.२४ ॥ देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् । देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥ देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते । देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते ॥ २.२६ ॥ देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् । देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ॥ २.२७ ॥ देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः । देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच ॥ २.२८ ॥ देहोऽहमिति यद्बुद्धिः सा चाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ २.२९ ॥ देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च । देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ २.३० ॥ देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् । देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल ॥ २.३१ ॥ यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् । तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ॥ २.३२ ॥ कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् । यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि ॥ २.३३ ॥ मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥ मन एव महद्दुःखं मन एव जरादिकम् । मन एव हि कालश्च मन एव मलं तथा ॥ २.३५ ॥ मन एव हि सङ्कल्पो मन एव च जीवकः । मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ २.३६ ॥ मन एव महान् बन्धो मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हि तज्जलम् ॥ २.३७ ॥ मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चकाशो मन एव हि शब्दकः ॥ २.३८ ॥ स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः । जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥ २.३९ ॥ दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥ सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि ॥ २.४१ ॥ व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् । परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति ॥ २.४२ ॥ मुक्त्यतीत दशायां च प्रोच्यते परमार्थता । तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः ॥ २.४३ ॥ मनसा कल्पितं सर्वं मनसा परिपालितम् । मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् ॥ २.४४ ॥ मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् । मनसा भावितं सर्वं मनसैव ह्यभावितं ॥ २.४५ ॥ मनसा दूषितं सर्वं मनसैव च भूषितम् । मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः ॥ २.४६ ॥ तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि । त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया ॥ २.४७ ॥ त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः । त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ॥ २.४८ ॥ तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः । मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ॥ २.४९ ॥ नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः । त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ॥ २.५० ॥ ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि । तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ॥ २.५१ ॥ मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः । सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः ॥ २.५२ ॥ चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः । अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ॥ २.५३ ॥ विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः । विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ॥ २.५४ ॥ बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः । यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ॥ २.५५ ॥ शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् । शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता ॥ २.५६ ॥ शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता । इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ॥ २.५७ ॥ स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः । सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः ॥ २.५८ ॥ व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु । व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ॥ २.५९ ॥ व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा । व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ॥ २.६० ॥ विकारालंबनाभावात्स्वालंबनतयापि च । सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः ॥ २.६१ ॥ सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः । स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ॥ २.६२ ॥ सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते । तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते ॥ २.६३ ॥ आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः । अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः ॥ २.६४ ॥ आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता । इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ॥ २.६५ ॥ यथा भवति देहस्य प्राण एवाश्रयः पुनः । प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि ॥ २.६६ ॥ अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि । इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ॥ २.६७ ॥ आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते । परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ॥ २.६८ ॥ आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते । स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥ लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः । तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः ॥ २.७० ॥ पश्चदनित्यतायाश्च तव प्रष्टुरभावतः । स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ॥ २.७१ ॥ आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् । द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ॥ २.७२ ॥ दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता । दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥ असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा । चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ॥ २.७४ ॥ द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः । दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ॥ २.७५ ॥ दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै । संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥ असंसारिणमात्मानं संसार्यात्मा यदि स्वयं । पश्येत्तदाक्षिरोगी सम्प्रपश्येच्च निरङ्कुशम् ॥ २.७७ ॥ असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः । सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् ॥ २.७८ ॥ इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः । विशुद्धसत्वसम्पन्नस्संसारी निर्मलो हि सः ॥ २.७९ ॥ यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः । उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते ॥ २.८० ॥ जीवस्य यदि संसारो ब्रह्मणस्तदभावतः । ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ॥ २.८१ ॥ उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् । ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता ॥ २.८२ ॥ तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् । ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् ॥ २.८३ ॥ मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् । नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ॥ २.८४ ॥ ॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ॥
तृतीयोऽध्यायः । पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् । ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् ॥ ३.०१ ॥ सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् ॥ ३.०२ ॥ सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ ३.०३ ॥ सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३.०४ ॥ न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ३.०५ ॥ न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ३.०६ ॥ न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ३.०७ ॥ न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं नाहं नोदरं न किरीटकम् ॥ ३.०८ ॥ न हस्तपादचलनं न शास्त्रं न च शासनम् । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ३.०९ ॥ तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ३.१० ॥ न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः । न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् ॥ ३.११ ॥ त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ३.१२ ॥ न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् ॥ ३.१३ ॥ न पक्षी न मृगो नागी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ ३.१४ ॥ न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि ॥ ३.१५ ॥ न लौकिको न लोकोवा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ॥ ३.१६॥ न शत्रुमित्रपुत्रादि न माता न पिता स्वसा। न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ ३.१७ ॥ न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः । न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः ॥ ३.१८ ॥ न वारपक्षमासादि वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ॥ ३.१९ ॥ न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः । न यमो न यमलोको वा न लोका लोकपालकाः ॥ ३.२० ॥ न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं । नाविद्या न च विद्या च न माया प्रकृतिर्न च ॥ ३.२१ ॥ न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् । न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् ॥ ३.२२ ॥ न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ ३.२३ ॥ न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् ॥ ३.२४ ॥ न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ ३.२५ ॥ न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः । न दुस्सहं दुरालापं न किरातो न कैतवम् ॥ ३.२६ ॥ न पक्षपातं पक्षं वा न विभूषणतस्करौ । न च डंभो डांभिको वा न हीनो नाधिको नरः ॥ ३.२७ ॥ नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ ३.२८ ॥ न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका ॥ ३.२९ ॥ न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ ३.३० ॥ एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै । निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ॥ ३.३१ ॥ ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं । असन्निषेधरूपं सद्विधिरूपं च तत्र तु ॥ ३.३२ ॥ आत्मा निषेधरूपेण तुभ्यं सम्प्रतिपादितः । अथाद्य विधिरूपेण शृणु सम्प्रतिपाद्यते ॥ ३.३३ ॥ सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ॥ ३.३४ ॥ ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥ ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३.३६ ॥ ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥ ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥ इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥ एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ॥ ३.४० ॥ लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥ जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३.४२ ॥ स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ॥ ३.४३ ॥ नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन । अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ३.४४ ॥ अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः ॥ ३.४५ ॥ अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् । अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् ॥ ३.४६ ॥ ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन ॥ ३.४७ ॥ चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् । अहमेव जगत्सर्वमहमेव परंपदम् ॥ ३.४८ ॥ अहमेव गुणातीतोस्म्यहमेव परात्परः । अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः ॥ ३.४९ ॥ अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् । आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च ॥ ३.५० ॥ आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि ॥ ३.५१ ॥ आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ३.५२ ॥ ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ३.५३ ॥ ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् । ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन ॥ ३.५४ ॥ ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि । ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि ॥ ३.५५ ॥ ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः । ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् ॥ ३.५६ ॥ स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ३.५७ ॥ यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः । यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ ३.५८ ॥ कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् । लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ॥ ३.५९ ॥ कालभेदं देशभेदं वस्तुभेदं जयाजयम् । यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् ॥ ३.६० ॥ असदन्तःकरणमसदेवेन्द्रियादिकम् । असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ॥ ३.६१ ॥ असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः । असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ॥३.६२ ॥ असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा । सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः ॥ ३.६३ ॥ सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् । आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः ॥ ३.६४ ॥ सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः । अहमेव परानन्दोऽस्म्यहमेव परात्परः ॥ ३.६५ ॥ ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः । ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः ॥ ३.६६ ॥ येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः । ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ॥३.६७ ॥ ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि । अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् ॥ ३.६८ ॥ यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति । तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति ॥ ३.६९ ॥ ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि । सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् ॥ ३.७० ॥ ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा । दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः ॥ ३.७१ ॥ ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् । प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् ॥ ३.७२ ॥ प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः । प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते ॥ ३.७३ ॥ बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः । कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ३.७४ ॥ प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् । अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥ प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् । प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥ प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु । प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥ न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना । विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥ सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् । ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ॥ ३.७९ ॥ जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् । आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ॥ ३.८० ॥ ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता । विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ॥ ३.८१ ॥ ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् । ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ॥ ३.८२ ॥ ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् । ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः ॥ ३.८३ ॥ तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज । अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ॥ ३.८४ ॥ अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः । हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ॥ ३.८५ ॥ अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः । अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः ॥ ३.८६ ॥ यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः । त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥ अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् । कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ॥ ३.८८ ॥ जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः । साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः ॥ ३.८९ ॥ दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः । विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् ॥ ३.९० ॥ ॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ॥
चतुर्थोऽध्यायः । पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् । तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४.०१ ॥ ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ४.०२ ॥ नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ ४.०३ ॥ यतो वचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ॥ ४.०४ ॥ सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् । आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं ॥ ४.०५ ॥ श्री गुरुमूर्तिः । ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः । पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा ॥ ४.०६ ॥ निदाघः । भगवन् भवता पूर्वं यतोवाच इति श्रुतेः । आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ॥ ४.०७ ॥ आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि । श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः ॥ ४.०८ ॥ नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते । नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् ॥ ४.०९ ॥ एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना । ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् ॥ ४.१० ॥ ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् । मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ॥ ४.११ ॥ पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् । श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु ॥ ४.१२ ॥ उपसंक्रमितव्यो यदानन्दमय उच्यते । वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः ॥ ४.१३ ॥ तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः । आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः ॥ ४.१४ ॥ भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ । पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु ॥ ४.१५ ॥ मयट्प्रयोगाभावेन हेतुना निर्विकारता । न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् ॥ ४.१६ ॥ अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् । निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय ॥ ४.१७ ॥ प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः । सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ॥ ४.१८ ॥ शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु । विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च ॥ ४.१९ ॥ नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते । उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् ॥ ४.२० ॥ उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् । आनन्दस्य ततोन्यस्य न परात्मतया खलु ॥ ४.२१ ॥ ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् । यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु ॥ ४.२२ ॥ आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने । प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते ॥ ४.२३ ॥ प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च । शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् ॥ ४.२४ ॥ तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः । आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते ॥ ४.२५ ॥ मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् । इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः ॥ ४.२६ ॥ ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः । उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते ॥ ४.२७ ॥ स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः । तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि ॥ ४.२८ ॥ न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् । स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् ॥ ४.२९ ॥ सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते । अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु ॥ ४.३० ॥ एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः । जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम् ॥ ४.३१ ॥ आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका । तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका ॥ ४.३२ ॥ आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः । तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ॥ ४.३३ ॥ बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः ॥ ४.३४ ॥ दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः ॥ ४.३५ ॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च ॥ ४.३६ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च ॥ ४.३७ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ४.३८ ॥ प्रभवस्सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ४.३९ ॥ विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ४.४० ॥ इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ४.४१ ॥ भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे । देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा ॥ ४.४२ ॥ आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत । स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः ॥ ४.४३ ॥ नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं । न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥ इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् । अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया ॥ ४.४५ ॥ एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं । शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ॥ ४.४६ ॥ स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः । तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन ॥ ४.४७ ॥ निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ॥ ४.४८ ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः ॥ ४.४९ ॥ नात्मानं न परं चैव न सत्यं नापिचनृतं । प्राज्ञः किंच न संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ ४.५० ॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ॥ ४.५१ ॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ४.५२ ॥ अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ॥ ४.५४ ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ४.५५ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ ४.५६ ॥ निदाघः । भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः । भवतोभिमतं तत्र संशयो मे भवत्यलम् ॥ ४.५७ ॥ ऋभुः । द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने । ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा ॥ ४.५८ ॥ अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः । ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः ॥ ४.५९ ॥ द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे । नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् ॥ ४.६० ॥ द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् । निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः ॥ ४.६१ ॥ अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम । अरूपागोचरब्रह्मवादिनां तादृशे मते ॥ ४.६२ ॥ चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् । नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् ॥ ४.६३ ॥ यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति । तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः ॥ ४.६४ ॥ वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते । कथमद्वैतशब्दोयं सावकाशो भवेन्मुने ॥ ४.६५ ॥ निदाघः । देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते । तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः ॥ ४.६६ ॥ ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् । वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ॥ ४.६७ ॥ ऋभुः । अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि । तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति ॥ ४.६८ ॥ तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति । रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः ॥ ४.६९ ॥ योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा । शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः ॥ ४.७० ॥ अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः । याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि ॥ ४.७१ ॥ तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः । सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये ॥ ४.७२ ॥ जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै । स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ॥ ४.७३ ॥ सुषुप्तौ कारणं देहमानन्दमयकोशकम् । तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् ॥ ४.७४ ॥ स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ॥ ४.७५ ॥ स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति ॥ ४.७६ ॥ पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः । पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् ॥ ४.७७ ॥ आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च । यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं ॥ ४.७८ ॥ एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी ॥ ४.७९ ॥ यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ४.८० ॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४.८१ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः ॥ ४.८२ ॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् ॥ ४.८३ ॥ अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ४.८४ ॥ अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः । अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं ॥ ४.८५ ॥ वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् । न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ ४.८६ ॥ न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च । एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् ॥ ४.८७ ॥ अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् । समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् ॥ ४.८८ ॥ श्री गुरुमूर्तिः । एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः । ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे ॥ ४.८९ ॥ यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् । त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् ॥ ४.९० ॥ ॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ॥ ॥ ॐ तत्सत् ॥ Encoded and proofread by D.V.N.Sarma dvnsarma at gmail.com From a book in Telugu Script published by V.Ramaswami Sastrulu and Sons, Madras.
% Text title            : ribhugItA
% File name             : ribhugita.itx
% itxtitle              : RibhugItA
% engtitle              : RibhugItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : D.V.N.Sarma dvnsarma at gmail.com
% Proofread by          : D.V.N.Sarma dvnsarma at gmail.com
% Description-comments  : a book in Telugu Script published by V.Ramaswami Sastrulu : Sons, Madras.
% Indexextra            : (From tattvanArAyaNa Tamil audio))
% Latest update         : 30th Sept 1998, June 16, 2007, February 10, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP