॥ सूतगीता ॥

श्रीमत्सूतसंहितायां । चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीताप्रारम्भः । प्रथमोऽध्यायः । १. सूतगीतिः । १-२८ द्वितीयोऽध्यायः । २. आत्मना सृष्टिकथनम् । १-८० तृतीयोऽध्यायः । ३. सामान्यसृष्टिकथनम् । १-६५ चतुर्थोऽध्यायः । ४. विशेषसृष्टिकथनम् । १-४९ पञ्चमोऽध्यायः । ५. आत्मस्वरूपकथनम् । १-७४ षष्ठोऽध्यायः । ६. सर्वशास्त्रार्थसङ्ग्रहवर्णनम् । १-३७ सप्तमोऽध्यायः । ७. रहस्यविचारः । १-३४ अष्टमोऽध्यायः । ८. सर्ववेदान्तसङ्ग्रहः ॥ १-९१ Total chapters 8 versess 458
अथ प्रथमोऽध्यायः । १. सूतगीतिः । ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् । आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ॥ १॥ निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् । भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥ २॥ प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले । कृतञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥ ३॥ नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन । नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥ ४॥ नमस्ते शम्भुभक्तानामग्रगण्य समाहित । नमस्ते शम्भुभक्तानामतीव हितबोधक ॥ ५॥ नमस्ते वेदवेदान्तपद्मखण्डदिवाकर । व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥ ६॥ पुराणमुक्तामालायाः सूत्रभूताय ते नमः । अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते ॥ ७॥ कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते । नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥ ८॥ मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः । धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥ ९॥ समाय सर्वजन्तूनां सारभूताय ते नमः । साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥ १०॥ नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः । अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥ ११॥ एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् । प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥ १२॥ सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् । उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥ १३॥ अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः । भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १४॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः । रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥ १५॥ तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् । सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥ १६॥ प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः । यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम् ॥ १७॥ भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाऽऽस्तिक । तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ ॥ १९॥ एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः । उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ॥ २०॥ सूत उवाच - इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः । मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥ २१॥ भवत्प्रसादे सत्येव शक्यते सा विभाषितुम् । यदि प्रसन्नो भगवन् वदेत्याज्ञापयाद्य माम् ॥ २२॥ इति सूतवचः श्रुत्वा भगवान् करुणानिधिः । त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम् ॥ २३॥ इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन् । साम्बं सर्वेश्वरं ध्यात्वा निरीक्ष्यैनं कृपाबलात् ॥ २४॥ स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम् । तस्य मूर्धानमाघ्राय भगवानगमद्गुरुः ॥ २५॥ सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्र्यम्बकम् । प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम् ॥ २६॥ कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम् । जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवन् ॥ २७॥ कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम् । वक्तुमारभते सूत सर्वलोकहिते रतः ॥ २८॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ॥ २. आत्मना सृष्टिकथनम् । सूत उवाच - श्रुणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः । वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम् ॥ १॥ अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः । विश्वस्य जगतः कर्ता पशुपाशविलक्षणः ॥ २॥ आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः । गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च ॥ ३॥ ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः । मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥ ४॥ तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः । विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः ॥ ५॥ आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा । अज्ञानमात्मनामेषामनाद्येव स्वभावतः ॥ ६॥ संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः । ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ७॥ अज्ञानाकारभेदेनाविद्याख्येनैव केवलम् । पशूनामात्मनां भेदः कल्पितो न स्वभावतः ॥ ८॥ अज्ञानाकारभेदेन मायाख्येनैव केवलम् । विभागः कल्पितो विप्राः परमातत्वलक्षणः ॥ ९॥ घटाकाशमहाकाशविभागः कल्पितो यथा । तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ॥ १०॥ यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः । तथा परबहुत्वं च कल्पितं न स्वभावतः ॥ १०॥ यथोच्चावचभावस्तु जीवभेदे तु कल्पितः । तथोच्चावचभावश्च परभेदे च कल्पितः ॥ १२॥ देहेन्द्रियादिसङ्घातवासनाभेदभेदिता । अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १३॥ गुणानां वासनाभेदभेदिता या द्विजर्षभाः । माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १४॥ यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः । संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥ १५॥ तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः । पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ १६॥ रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च । त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः ॥ १७॥ रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् । ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥ १८॥ शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् । कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः ॥ १९॥ परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम् । परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च ॥ २०॥ पुराणानि समस्तानि भारतप्रमुखान्यपि । परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च ॥ २१॥ ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः । ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः ॥ २२॥ तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः । स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम् ॥ २३॥ रजसस्तमसः सत्त्वमुत्कृष्टं हि द्विजोत्तमाः । सत्त्वात्सुखं च ज्ञानं च यत्किञ्चिदपरं परम् ॥ २४॥ परतत्त्वप्रकाशस्तु रुद्र्स्यैव महत्तरः । ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः ॥ २५॥ परतत्त्वतया रुद्रः स्वात्मानं मनुते भृशम् । परतत्त्वप्रकाशेन न तथा देवतान्तरम् ॥ २६॥ हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम् । हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः ॥ २७॥ रुद्रः कथंचित्कार्यार्थं मनुते रुद्ररूपतः । न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात् ॥ २८॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ २९॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ ३०॥ तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः । हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता ॥ ३१॥ हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम् । अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि ॥ ३२॥ रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम् । तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु ॥ ३३॥ रुद्राकारतया रुद्रो वरिष्ठो देवतान्तरात् । इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी ॥ ३४॥ गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः । वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम् ॥ ३५॥ परतत्त्वादपि श्रेष्ठो रुद्रो विष्णुः पितामहः । इति निश्चयबुद्धिस्तु सत्यं संसारकारणम् ॥ ३६॥ रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरन्दरः । परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम् ॥ ३७॥ अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि । तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः ॥ ३८॥ तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम् । वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात् ॥ ३९॥ अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः । विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ ४०॥ अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः । अतोऽपेक्ष्य गुणं सत्त्वं मनुष्या विवदन्ति च ॥ ४१॥ हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम् । सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते ॥ ४२॥ अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् । हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥ ४३॥ महापापवतां नॄणां हरिः श्रेष्ठो हरादिति । बुद्धिर्विजायते तेषां सदा संसार एव हि ॥ ४४॥ निर्विकल्पे परे तत्त्वे श्रद्धा येषां विजायते । अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥ ४५॥ निर्विकल्पं परं तत्त्वं नाम साक्षाच्छिवः परः । सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः ॥ ४६॥ स्वात्मतत्त्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः । रुद्रविष्णुप्रजानाथैरुपास्यो गुणमूर्तिभिः ॥ ४७॥ ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा । तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम् ॥ ४८॥ विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम् । न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम् ॥ ४९॥ तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत् । स शिवः सच्चिदानन्दः साक्षात्तत्त्वं न चापरः ॥ ५०॥ ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ ५१॥ अविद्योपाधिको जीवो न मायोपाधिकः खलु । मायोपाधिकचैतन्यं परमात्मा हि नापरम् ॥ ५२॥ मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः । मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः ॥ ५३॥ परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः । समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥ ५४॥ ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः । स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम् ॥ ५५॥ रुद्र स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा । सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि ॥ ५६॥ केवलं कृपया रुद्रो लोकानां हितकाम्यया । स्वविभूत्यात्मना विष्णोर्ब्रह्मणश्चापरस्य च ॥ ५७॥ करोति सेवां हे विप्राः कदाचित्सत्यमीरितम् । न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न पुरन्दरः ॥ ५८॥ एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम् । मन्वते हि समं मर्त्या मायया परिमोहिताः ॥ ५९॥ केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः । हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन ॥ ६०॥ रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः । ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम् ॥ ६१॥ रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति मोहिताः । पच्यन्ते नरके तीव्रे सदा ते न हि संशयः ॥ ६२॥ केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः । साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः ॥ ६३॥ देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः । शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः ॥ ६४॥ यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते । तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते ॥ ६५॥ विष्णुप्रजापतीन्द्राणामुत्कर्षं शङ्करादपि । प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्ति च ॥ ६६॥ पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च । तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि ॥ ६७॥ विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः । वदन्ति यानि वाक्यानि तानि सर्वाणि हे द्विजाः ॥ ६८॥ प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च । नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः ॥ ६९॥ बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः । वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः ॥ ७०॥ तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः । मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥ ७१॥ वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥ ७२॥ शिवस्वरूपमालोड्य प्रवदामि समासतः । शिवादन्यतया भातं शिव एव न संशयः ॥ ७३॥ शिवादन्यतया भातं शिवं यो वेद वेदतः । स वेद परमं तत्त्वं नास्ति संशयकारणम् ॥ ७४॥ यः शिवः सकलं साक्षाद्वेद वेदान्तवाक्यतः । स मुक्तो नात्र सन्देहः सत्यमेव मयोदितम् ॥ ७५॥ भासमानमिदं सर्वं भानमेवेति वेद यः । स भानरूपं देवेशं याति नात्र विचारणा ॥ ७६॥ प्रतीतमखिलं शम्भुं तर्कतश्च प्रमाणतः । स्वानुभूत्या च यो वेद स एव परमार्थवित् ॥ ७७॥ जगद्रूपतया पश्यन्नपि नैव प्रपश्यति । प्रतीतमखिलं ब्रह्म सम्पश्यन्न हि संशयः ॥ ७८॥ प्रतीतमप्रतीतं च सदसच्च परः शिवः । इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा ॥ ७९॥ इति सकलं कृपया मयोदितं वः श्रुतिवचस कथितं यथा तथैव । यदि हृदये निहितं समस्तमेत- त्परमगतिर्भवतामिहैव सिद्धा ॥ ८०॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः । ३. सामान्यसृष्टिकथनम् । सूत उवाच - शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् । आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् ॥ १॥ अद्वितीयोऽविकारी च निर्मलः स शिवः परः । तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम् ॥ २॥ मणिमन्रौषधादीनां स्वभावोऽपि न शक्यते । किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः ॥ ३॥ श्रुतिः सनातनी साध्वी सर्वमानोत्तमोत्तमा । प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः ॥ ४॥ सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च । अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥ ५॥ श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति । मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन ॥ ६॥ श्रुतिः सनातनी शम्भोरभिव्यक्ता न संशयः । शङ्करेण प्रणीतेति प्रवदन्त्यपरे जनाः ॥ ७॥ यदा साऽनादिभूतैव तदा मानमतीव सा । स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः ॥ ८॥ स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने । अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते ॥ ९॥ परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः । स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसङ्गमात् ॥ १०॥ इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने । स्वतो दुष्टः कथं मानं भवत्यन्यस्य सङ्गमात् ॥ ११॥ यत्सम्बन्धेन यो भावो यस्य प्राज्ञाः प्रसिद्ध्यति । स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन ॥ १२॥ जपाकुसुमलौहित्यं विभाति स्फटिके भृशम् । तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम् ॥ १३॥ वह्निपाकजलौहित्यमिष्टकायां न वास्तवम् । लौहित्यं तैजसांशस्तु नेष्टकाया निरूपणे ॥ १४॥ अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः । आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा ॥ १५॥ अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः । स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम् ॥ १६॥ यदा सा शङ्कएरेणोक्ता तदाऽपि श्रुतिरास्तिकाः । प्रमाणं सुतरामाप्ततम एव महेश्वरः ॥ १७॥ सर्वदोषविहीनस्य महाकारुणिकस्य च । सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकल्प्यते ॥ १८॥ सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः । अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः ॥ १९॥ यस्य स्मरणमात्रेण समलो निर्मलो भवेत् । ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत् ॥ २०॥ अतः पक्षद्वयेनापि वेदो मानं न संशयः । वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः ॥ २१॥ अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः । तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः ॥ २२॥ इह तावन्मया प्रोक्तमद्वितीयः परः शिवः । तथाऽपि तेन सकलं निर्मितं तत्स एव हि ॥ २३॥ चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम् । तथा सति विरुद्धं तज्जगच्छम्भुः कथं भवेत् ॥ २४॥ इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति सम्भवः । यत्र वेदविरोधः स्यात्तत्र चोद्यस्य सम्भवः ॥ २५॥ चोदनालक्षणे धर्मे न यथा चोद्यसम्भवः । तथा न चोदनागम्ये शिवे चोद्यस्य सम्भवः ॥ २६॥ बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा । शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः ॥ २७॥ ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः । अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि ॥ २८॥ अथवा देवदेवस्य सर्वदुर्घटकारिणी । शक्तिरस्ति तया सर्वं घटते माययाऽनघाः ॥ २९॥ प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः । तया दुर्घटकारिण्या सर्वं तस्योपपद्यते ॥ ३०॥ सा तिष्ठतु महामाया सर्वदुर्घटकारिणी । वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि ॥ ३१॥ चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन् पतत्यधः । अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत् ॥ ३२॥ रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत् । तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः ॥ ३३॥ रूपावलोकनस्येदं यथा घ्राणं न कारणम् । तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम् ॥ ३४॥ तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः । अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥ ३५॥ आविर्भूतं तिरोभूतं स एव सकलं जगत् । वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया ॥ ३६॥ स एव साहसी साक्षात्सर्वरूपतया स्थितः । परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान् ॥ ३७॥ यथाऽयः पावकेनेद्धं भातीव दहतीव च । तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते ॥ ३८॥ अयोऽवयवसङ्क्रान्तो यथा दहति पावकः । तथा वेदेषु सङ्क्रान्तः शिवः सर्वार्थसाधकः ॥ ३९॥ तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि । न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवाः ॥ ४० ॥ तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि । अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः ॥ ४१॥ मेरुपार्श्वे तपस्तप्त्वा दृष्ट्वा शम्भुं जगद्गुरुम् । अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः ॥ ४२॥ तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता । अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः ॥ ४३॥ अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित् । शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च ॥ ४४॥ ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि । खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन् ॥ ४५॥ तस्माद् गुरुत्वं मे विप्रा युज्यते न हि संशयः । शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शङ्करः ॥ ४६॥ महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः । स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः ॥ ४७॥ स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम् । ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च ॥ ४८॥ स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः । तत्प्रसादान्मया सर्वं विदितं करबिल्ववत् ॥ ४९॥ प्रसादबलतः साक्षात्सत्यार्थः कथितो मया । प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः ॥ ५०॥ तस्मात्सर्वं परित्यज्य श्रद्धया परया सह । मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः ॥ ५१॥ विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः । अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः ॥ ५२॥ परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च । श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः ॥ ५३॥ परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम् । नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम् ॥ ५४॥ विनैव परमाद्वैतं भेदं केचन मोहिताः । कल्पयन्ति तदा शम्भुः सद्वितीयो भविष्यति ॥ ५५॥ आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः । वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति ॥ ५६॥ भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम् । कल्पयन्ति महामोहात्केचित्तच्च न सङ्गतम् ॥ ५७॥ भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः । भेदानिरूपणादेव धर्म्यादेरनिरूपणात् ॥ ५८॥ तस्मान्नास्तीश्वरादन्यत्किञ्चिदप्यास्तिकोत्तमाः । द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः ॥ ५९॥ को मोहस्तत्र कः शोक एकत्वमनुपश्यतः । इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः ॥ ६०॥ एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः । स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥ ६१॥ अतीव शुद्धचित्तानां केवलं करुणाबलात् । परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह ॥ ६२॥ शिवभट्टारकस्यैव प्रसादे पुष्कले सति । परमाद्वैतमाभाति यथावन्नान्यहेतुना ॥ ६३॥ न भाति परमाद्वैतं प्रसादरहितस्य तु । दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः ॥ ६४॥ अतश्च वेदोदितवर्त्मनैव विहाय वादान्तरजन्मबुद्धिम् । विमुक्तिकामः परमाद्वितीयं समाश्रयेदेव शिवस्वरूपम् ॥ ६५॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः । ४. विशेषसृष्टिकथनम् । सूत उवाच - ईश्वरो जगतः कर्ता मायया स्वीयया पुरा । अभेदेन स्थितः पूर्वकल्पवासनयान्वितः ॥ १॥ कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया । अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥ २॥ कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा । कल्पितानामवस्तुत्वादविरोधश्च सिध्यते ॥ ३॥ पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः । ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः ॥ ४॥ मायाया गुणभेदेन रुद्रं विष्णुं पितामहम् । सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः ॥ ५॥ तेषां रुद्रः पराभेदात्परतत्त्ववदेव तु । करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः ॥ ६॥ संहरत्यविशेषेण जगत्सर्वं चराचरम् । विष्णुरप्यास्तिकाः साक्षात्परभेदेन केवलम् ॥ ७॥ करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः । पालयत्यविशेषेण जगत्सर्वं चराचरम् ॥ ८॥ ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम् । करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः । करोति विविधं सर्वं जगत्पूर्वं यथा तथा ॥ ९॥ शब्दादिभूतसृष्टिस्तुपरस्यैव शिवस्य तु ॥ १०॥ सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ ११॥ प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः । अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः ॥ १२॥ सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १३॥ सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १४॥ तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम् । ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च ॥ १५॥ उपचारतया तेऽपि स्रष्टार इति शब्दिताः । तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः ॥ १६॥ व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः । समष्टिषु विजायन्ते देवताः पूर्वकल्पवत् ॥ १७॥ समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः । रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च ॥ १८॥ या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत् । विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः ॥ १९॥ जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः । दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः । जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु ॥ २०॥ पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रिय समष्टिषु । त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात् ॥ २१॥ समष्टिषु विजाता या देवतास्ता यथाक्रमम् । व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः ॥ २२॥ मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता ॥ २३॥ नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा । घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता ॥ २४॥ पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः । इन्द्रो हस्तनियन्ता स्याच्छिवः सर्वनियामकः ॥ २५॥ मनो बुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् । स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः ॥ २६॥ चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः । शिवश्चेति मया प्रोक्ताः साक्षावेदान्तपारगाः ॥ २७॥ आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः । जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा ॥ २८॥ अण्डभेदस्तथा लोकभेदास्तेषु च चेतनाः । अचेतनानि चान्यानि भौतिकानि च पूर्ववत् ॥ २९॥ विजायन्ते च भोगार्थं चेतनानां शरीरिणाम् । भोक्तारः पशवः सर्वे शिवो भोजयिता परः ॥ ३०॥ सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः । स्वप्नवद्देवदेवस्य माययैव विनिर्मितम् ॥ ३१॥ मायया निर्मितं सर्वं मायैव हि निरूपणे । कारणव्यतिरेकेण कार्यं नेति हि दर्शितम् ॥ ३२॥ मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः । अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे ॥ ३३॥ व्यवहारदृशा मायाकल्पना नैव वस्तुतः । वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत् ॥ ३४॥ मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते । जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम् ॥ ३५॥ स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन । तथाऽपि स्वातिरेकेण भाति हा दैववैभवम् ॥ ३६॥ जगदात्मतया पश्यन्बध्यते न विमुच्यते ॥ ३७॥ सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु । मुच्यते घोरसंसारात्सद्य एव न संशयः ॥ ३८॥ सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः । मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः । ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु ॥ ३९॥ स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात् । य एवं वेद वेदार्थं मुच्यते स तु बन्धनात् ॥ ४०॥ सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम् । सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥ ४१॥ भासमानमिदं सर्वं भानरूपं परं पदम् । पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥ ४२॥ एवमात्मानमद्वैतमपश्यन्नेव पश्यतः । जगदात्मतया भानमपि स्वात्मैव केवलम् ॥ ४३॥ विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः । यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना ॥ ४४॥ निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम् । तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न ॥ ४५॥ प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम् । विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा ॥ ४६॥ प्रकाशात्मतया साक्षात्स्थितिरत्यपि भाषणम् । अहं वदामि मोहेन तच्च तस्मिन्न विद्यते ॥ ४७॥ तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते । श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा ॥ ४८॥ इति गुह्यमिदं कथितं मया निखिलोपनिषद्धृदयङ्गमम् । हरपङ्कजलोचनपालितं विदिअतं यदि वेदविदेव सः ॥ ४९॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभाभागे सूतगीतायां विशेषसृष्टिकथनंनाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः । ५. आत्मस्वरूपकथनम् । सूत उवाच - वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः । विज्ञानं वेदसम्भूतं भक्तानामुत्तमोत्तमम् ॥ १॥ रुद्र विष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । स्वरसेनाहमित्याहुरिदमित्यपि च स्वतः ॥ २॥ इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि । प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन ॥ ३॥ इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम् । अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥ ४॥ एवं समस्तजन्तूनामनुभूतिर्व्यवस्थिता । भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः ॥ ५॥ एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः । संसारविषवृक्षस्य मूलच्छेदनकाङ्क्षिभिः ॥ ६॥ यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः ॥ ७॥ यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः ॥ ८॥ शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च । अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे ॥ ९॥ शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः । चिदात्मलम्बना साक्षादहंबुद्धिर्न संशयः ॥ १०॥ इदमर्थे शरीरे तु याऽहमित्युदिता मतिः । सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः ॥ ११॥ अचिद्रूपमहंबुद्धीः पिण्डं नाऽलम्बनं भवेत् । मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः ॥ १२॥ अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा । आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति ॥ १३॥ बुद्धेरचित्त्वं सङ्ग्राह्यं दृष्टत्वाज्जन्मनाशयोः । अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम् ॥ १४॥ अहङ्कारस्य चाचित्त्वाच्चित्तस्य च तथैव च । आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति ॥ १५॥ सर्वप्रत्ययरूपेण सदाऽहङ्कार एव हि । निवर्ततेऽतोहङ्कारस्त्वनात्मैव शरीरवत् ॥ १६॥ परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः । अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु सन्ततम् ॥ १७॥ तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः । अचिद्रूपमिदंबुद्धेरनात्मैवार्तह् ईरुतः ॥ १८॥ सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः । वृत्त्यधीनतया नैव विभाति घटकुड्यवत् ॥ १९॥ स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः । वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा ॥ २०॥ अनुप्रविष्टचैतन्यसम्बन्धात् वृत्तिरास्तिकाः । जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत् ॥ २१॥ अतोऽहंप्रत्ययार्थेऽपि नाअनात्मा स्याद्घटादिवत् । स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम् ॥ २२॥ यत्सम्बन्धादहंवृत्तिः प्रत्ययत्वेन भासते । स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः ॥ २३॥ अहंवृत्तिः स्वतःसिद्धचैतन्येद्भाऽवभासते । तत्सम्बन्धादहङ्कारः प्रत्ययीव प्रकाशते ॥ २४॥ आत्माऽहंप्रत्ययाकारसम्बन्धभ्रान्तिमात्रतः । कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥ २५॥ वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः । चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते ॥ २६॥ सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते । तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः ॥ २७॥ गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम् । तथाऽहंप्रत्ययस्यार्थश्चिद्रूपाअत्मैव केवलम् ॥ २८॥ व्यक्तिसम्बन्धरूपेण गोत्वं भिन्नं प्रतीयते । चिदहङ्कारसम्बन्धाद्भेदेन प्रतिभाति च ॥ २९॥ यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः । तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः ॥ ३०॥ यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः । तत्त्वतो गोत्वमेवार्थः साक्षाद्वेदविदां वराः ॥ ३१॥ तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः । तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः ॥ ३२॥ एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते । अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः ॥ ३३॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः ॥ ३४॥ सुषुप्तोऽस्मीति सर्वोऽयं सुषुप्तादुत्थितो जनः । सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥ ३५॥ प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम् । न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः ॥ ३६॥ प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि । अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि ॥ ३७॥ यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम् । नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः ॥ ३८॥ प्रतीत्या वह्निसम्बन्धाद्यथाऽयो दाहकं तथा । चित्सम्बन्धादहङ्कारोऽहंशब्दार्थः प्रकीर्तितः ॥ ३९॥ चैतन्येद्धाहम स्पर्शाद्देहादौ भ्रान्तचेतसाम् । अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च ॥ ४०॥ इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम् । अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक् ॥ ४१॥ सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम् । सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत् ॥ ४२॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि ॥ ४३॥ ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम् । अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः ॥ ४४॥ चिन्मात्रं सर्वगं सत्यं सम्पूर्णसुखमद्वयम् । साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः ॥ ४५॥ शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम् । शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः ॥ ४६॥ प्रत्यगात्माऽयमद्वन्द्वः साक्षी सर्वस्य सर्वदा । सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः ॥ ४७॥ अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः । शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः ॥ ४८॥ एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः । अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात् ॥ ४९॥ शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः । सर्वसाक्षितयाऽऽत्मानं सम्यङ् निश्चित्य सुस्थिरः ॥ ५०॥ स्वात्मनोऽन्यतया भातं समस्तमविशेषतः । स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥ ५१॥ शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च । निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥ ५२॥ विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः । स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥ ५३॥ ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका । देशिकालोकनेनैव केवलेन हि सिध्यति ॥ ५४॥ देशिकालोकनं चापि प्रसादात्पारमेश्वरात् । सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम् ॥ ५५॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥ ५६॥ प्रसादे शाम्भवे सिद्धे सर्वं शम्भुतया स्वतः । विभाति नान्यथा विप्राः सत्यमेव मयोदितम् ॥ ५७॥ यदा शम्भुतया सर्वं विभाति स्वत एव तु । तदा हि शाम्भवः साक्षात्प्रसादः सत्यमीरितम् ॥ ५८॥ शिवादन्यतया किंचिदपि भाति यदा द्विजाः । तदा न शाङ्करो बोधः संजात इति मे मतिः ॥ ५९॥ शिवादन्यतया सर्वं प्रतीतमपि पण्डितः । तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति ॥ ६०॥ शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा । जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत् ॥ ६१॥ शम्भुरेव सदा भाति सर्वाकारेण नापरः । इति विज्ञानसम्पन्नः शाङ्करज्ञानिनां वरः ॥ ६२॥ शम्भुरूपतया सर्वं यस्य भाति स्वभावतः । न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम् ॥ ६३॥ यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन् । योगी चरति लोकानामुपकाराय नान्यथा ॥ ६४॥ स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा । न पश्यति महायोगी भाति स्वात्मतयाऽखिलम् ॥ ६५॥ चण्डालगेहे विप्राणां गृहे वा परमार्थवित् । भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥ ६६॥ यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन् । तादृशो हि महायोगी को वा तस्य निवारकः ॥ ६७॥ बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात् । प्रसादादेव रुद्रस्य परशक्तेस्तथैव च ॥ ६८॥ श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि । शिवरूपतया सर्वं स्वभावादेव पश्यति ॥ ६९॥ शिवः सर्वमिति ज्ञानं शाङ्करं शोकमोहनुत् । अयमेव हि वेदार्थो नापरः सत्यमीरितम् ॥ ७०॥ श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम् । साधनं सत्यविद्यायाः सत्यमेव मयोदितम् ॥ ७१॥ सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम् । तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम् ॥ ७२॥ नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु । तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥ ७३॥ ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः । महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत् ॥ ७४॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः । ६. सर्वशास्त्रार्थसंग्रहवर्णनम् । सूत उवाच - वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसङ्ग्रहम् । यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि ॥ १॥ साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम् । सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः ॥ २॥ दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि । रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति ॥ ३॥ विष्णुः कदाचित्तत्त्वं कथंचित्परिपश्यति । तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति ॥ ४॥ त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम् । तस्यापि साधकं तत्त्वं साक्षित्वान्नैव गोचरम् ॥ ५॥ प्रसादादेव तस्यैव परतत्त्वस्य केवलम् । देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम् ॥ ६॥ अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह । ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम् ॥ ७॥ त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ८॥ त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ९॥ त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ १०॥ ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः । विभूतिरूपा देवाश्च ध्यायन्ति प्रीतिसंयुताः ॥ ११॥ घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा । शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा ॥ १२॥ ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १३॥ ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १४॥ परतत्त्व परं ब्रह्म जीवात्मपरमात्मनोः । औपाधिकेन भेदेन द्विधाभूतमिव स्थितम् ॥ १५॥ पुण्यपापावृता जीवा रागद्वेषमलावृताः । जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः ॥ १६॥ ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः । आविर्भावविशेषाणां पुण्यपापादयो न हि ॥ १७॥ आज्ञया परतत्त्वस्य जीवानां हितकाम्यया । आविर्भावतिरोभावौ तेषां केवलमास्तिकाः ॥ १८॥ हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः । सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये ॥ १९॥ उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात् । न समो न विहीनश्च नास्ति सन्देहकारणम् ॥ २०॥ विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम् । ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले ॥ २१॥ हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम् । ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः ॥ २२॥ प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः । ध्येयं मुमुक्षिभिर्नित्यं हृदयाम्भोजमध्यमे ॥ २३॥ कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः । अप्रधानतया ध्येया न प्रधानतया सदा ॥ २४॥ सर्वैश्वर्येण सम्पन्नः सर्वेशः सर्वकारणम् । शम्भुरेव सदा साम्बो न विष्णुर्न प्रजापतिः ॥ २५॥ तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः । न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः ॥ २६॥ शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः । स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा ॥ २७॥ शिवंकरत्वं सम्पूर्णं शिवस्यैव परात्मनः । साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥ २८॥ अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात् ॥ २९॥ साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः । देवताः सकला ध्येया न प्राधान्येन सर्वदा ॥ ३०॥ शिखाऽप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा । अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि ॥ ३१॥ यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च । तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः ॥ ३२॥ कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः । स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु ॥ ३३॥ तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः । स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः ॥ ३४॥ अङ्गानि शाखावरणं तर्कास्तस्यैवरक्षकाः । पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥ ३५॥ बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये ॥ ३६॥ सर्वमुक्तं समासेन सारात्सारतरं बुधाः । शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा ॥ ३७॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्वशास्त्रार्थसङ्ग्रहो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः । ७. रहस्यविचारः । सूत उवाच - रहस्यं सम्प्रवक्ष्यामि समासेन न विस्तरात् । श्रुणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम् ॥ १॥ देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः । सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम् ॥ २॥ पञ्चभूतात्मके देहे स्थूले षाट्कौशिके सदा । पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः ॥ ३॥ कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके । कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः । आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः ॥ ४॥ शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा ॥ ५॥ अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे । ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात् ॥ ६॥ दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः । कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात् ॥ ७॥ त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः । मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः ॥ ८॥ हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते । तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः ॥ ९॥ बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः । अहङ्कारे शिवश्चित्ते रोमसु क्षुद्रदेवताः ॥ १०॥ भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः । पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः ॥ ११॥ मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च । वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥ १२॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः । दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः ॥ १३॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः । वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः ॥ १४॥ त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १५॥ त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १६॥ सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम् । ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः ॥ १७॥ चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता । मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः ॥ १८॥ नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे । भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ॥ १९॥ बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते । हृदये स्थूलरूपेण मध्यमेन तु मध्यमे ॥ २०॥ देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी । जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी ॥ २१॥ विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा । रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते ॥ २२॥ सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः । सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः ॥ २३॥ सम्यग्ज्ञानवतां देहे देवताः सकला अमूः । प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ २४॥ वेद मार्गैकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना ॥ २५॥ तान्त्रिकाणां शरीरे तु देवताः सकला अमूः । वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः ॥ २६॥ यथाजातजनानां तु शरीरे सर्वदेवताः । तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः ॥ २७॥ अतश्च भोगमोक्षार्थी शरीरं देवतामयम् । स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥ २८॥ नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः । यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ ॥ २९॥ दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना । देवतारूपतः पश्यन्मुच्यते भवबन्धनात् ॥ ३०॥ मोहेनापि सदा नैव कुर्यादप्रियभाषणम् । यदि कुर्यात्प्रमादेन हन्ति तं देवता परा ॥ ३१॥ न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः । तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः ॥ ३२॥ स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः । यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ॥ ३३॥ रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः । शरीरं देवतारूपं भजध्वं यूयमास्तिकः ॥ ३४॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः । ८. सर्ववेदान्तसङ्ग्रहः । सूत उवाच - अथ वक्ष्ये समासेन सर्ववेदान्तसङ्ग्रहम् । यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति ॥ १॥ परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः । तस्यासाधारणी मूर्तिरम्बिकासहिता सदा ॥ २॥ स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया । शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः ॥ ३॥ ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः । त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः ॥ ४॥ संसारकारणं माया सा सदा सद्विलक्षणा । प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः ॥ ५॥ साऽपि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते । तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा ॥ ६॥ ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम् । तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात् । जायते शक्तिपातेन वाक्यादेवाधिकारिणाम् ॥ ७॥ ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि । तपांसि सर्ववेदानां वेदान्तानां तथैव च ॥ ८॥ पुराणानां समस्तानां स्मृतीनां भारतस्य च । वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥ ९॥ अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता । उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि ॥ १०॥ शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः ॥ ११॥ ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम् । प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम् ॥ १२॥ शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च । रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥ १३॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम् । त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च ॥ १४॥ वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च । गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम् ॥ १५॥ चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः । षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः ॥ १६॥ अविमुख्यसमाख्यं च स्थानं व्याघ्रपुराभिधम् । श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम् ॥ १७॥ मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः । स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते ॥ १८॥ अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे । श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥ १९॥ आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम् । प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम् ॥ २०॥ शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम् । तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते ॥ २१॥ वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह । अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः ॥ २२॥ इत्युक्त्वा भगवान्सूतो मुनीनां भावितात्मनाम् । साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत् ॥ २३॥ अथ परशिवभक्त्या सच्चिदानन्दपूर्णं परशिवमनुभूय त्वात्मरूपेण सूतः । मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि- र्जनपदहितरूपं वेदितव्यं तु किंचित् ॥ २४॥ श्रुतिपथगलितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित्प्राह शम्भुः । श्रुतिपथनिरतानां तत्र नैवास्ति किंचि- द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥ २५॥ श्रुतिरपि मनुजानां वर्णधर्मं बभाषे परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत् । श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः श्रुतिपथनिरतानां नैव तत्सेवनीयम् ॥ २६॥ श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च । श्रुतिपथगलितानां मानुषाणां तु तन्त्रं हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥ २७॥ विधिरपि मनुजानामाह वर्णाश्रमांश्च श्रुतिपथगलितानामेव तन्त्रे स्वकीये । श्रुतिपथनिरतानां ते न संसेवनीयाः । श्रुतिपथसममार्गौ नैव सत्यं मयोतम् ॥ २८॥ हरहरिविधिपूजा कीर्तिता सर्वतन्त्र श्रुतिपथनिरतानं यद्वदुक्तातु पूजा । श्रुतिपथगलितानांयद्वदुक्ता तु पूजा । श्रुतिपथगलितानामेव तन्त्रोक्तपूजा श्रुतिपथनिरतानां सर्ववेदोदितैव ॥ २९॥ श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं कथितमखिलदुःखध्वंसध्वंसकं तत्र तत्र । श्रुतिपथनिरतानां तत्सदा नैव धार्यं श्रुतिरपिमनुजानामाह लिङ्गं विशुद्धम् ॥ ३०॥ शिवागमोक्ताश्रमनिष्ठमानव- स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत् । तदुक्ततन्त्रेण ललाटमध्यमे महादरेणैव सितेन भस्मना ॥ ३१॥ विष्ण्वागमोक्ताश्रमनिष्ठमानव- स्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम् । त्रिशूलरूपं चतुरश्रमेव वा मृदा ललाटे तु सदैव धारयेत् ॥ ३२॥ ब्रह्मागमोक्ताश्रमनिष्ठमानवो ललाटमध्येऽपि च वर्तुलाकृतिम् । तदुक्तमन्त्रेण सितेन भस्मना मृदाऽथवा चन्दनस्तु धारयेत् ॥ ३३॥ अश्वत्थपत्रसदृशं हरिचन्दनेन मध्येललाटमतिशोभनमादरेण । बुद्धागमे मुनिवरा यदि संस्कृतश्चे- न्मृद्वारिणा सततमेव तु धारयेच्च ॥ ३४॥ ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा । ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः ॥ ३५॥ सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम् ॥ ३६॥ शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रिपुण्ड्रकम् । एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः ॥ ३७॥ वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना । ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ॥ ३८॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः ॥ ३९॥ विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ ४०॥ दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४१॥ पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४२॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ ४३॥ नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः । पुण्ड्रान्तरं भ्रमाद्वापि ललाटे न धारयेत् ॥ ४४॥ तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता । साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः ॥ ४५॥ शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः । तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम् ॥ ४६॥ तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा । वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥ ४७॥ राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि । असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः ॥ ४८॥ अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत् । वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः ॥ ४९॥ महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५०॥ शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५१॥ यथा वाराणसी तुल्या पुरी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५२॥ षडक्षरोसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५३॥ यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५४॥ ओदनेन समं भोज्यं यथा लोके न विद्यते । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५५॥ देवदेवो महादेवो यथा सर्वैः प्रपूज्यते । तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि ॥ ५६॥ आदित्येन विहीनं तु जगदन्धं यथा भवेत् । तथा वैदिकहीनं तु जगदन्धं न संशयः ॥ ५७॥ प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा । तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः ॥ ५८॥ अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते । वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा ॥ ५९॥ स्मृतयश्च पुराणानि भारतादीनि सुव्रताः । वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥ ६०॥ वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः । नोपजीवन्ति तन्त्रोक्तं वेद साक्षात्सनातनः ॥ ६१॥ इत्युक्त्वा भगवान्सूतः स्वगुरुं व्याससंज्ञितम् । स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत् ॥ ६२॥ अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः । शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम् ॥ ६३॥ तं दृष्ट्वा मुनयः सर्वे सन्तोषाद्गद्गदस्वराः । निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम् ॥ ६४॥ स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम् । पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः ॥ ६५॥ भगवानपि सर्वज्ञः करुणासागरः प्रभुः । उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान् ॥ ६६॥ व्यास उवाच - शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन । अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते ॥ ६७॥ श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः । प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥ ६८॥ पुराणानां समस्तानामहं कर्ता पुराऽभवम् । मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः ॥ ६९॥ रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च । पुराणसंहितकर्ता देशिकश्चाभवद्भृशम् ॥ ७०॥ पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया । सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम् ॥ ७१॥ कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति । आज्ञया केवलं शम्भोरहं वेदार्थवेदने ॥ ७२॥ सम्पूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये । समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च ॥ ७३॥ आज्ञया देवदेवस्य भवतामपि योगिनाम् । ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः ॥ ७४॥ भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः । भक्त्या परमया युक्ता निष्ठा भवत सर्वदा ॥ ७५॥ इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम् । उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥ ७६॥ पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च । प्राह गम्भीरया वाचा भवतां शिवमस्त्विति ॥ ७७॥ मयोक्ता परमा गीता पठिता येन तस्य तु । आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति ॥ ७८॥ शिवप्रसादः सुलभो भविष्यति न संशयः । गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥ ७९॥ विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा । तस्या वाचः सर्वलोकैक मातु- र्भक्त्या नित्यं चम्बिकायाः प्रसादात् ॥ ८०॥ गुरुप्रसादादपि सुव्रता मया शिवप्रसादादपि चोत्तमोत्तमात् । विनायकस्यापि महाप्रसादात् षडाननस्यापि महाप्रसादात् ॥ ८१॥ यज्ञवैभवसमाह्वयः कृतः सर्ववेदमथनेन सत्तमाः । अत्र मुक्तिरपि शोभना परा सुस्थितैव न हि तत्र संशयः ॥ ८२॥ यज्ञवैभवसमाह्वयं परं खण्डमत्र विमलं पठेन्नरः । सत्यबोधसुखलक्षणं सत्यमेव झटिति प्रयाति हि ॥ ८३॥ मदुक्तसंहिता परा समस्तदुःखहारिणी नरस्य मुक्तिदायिनी शिवप्रसादकारिणी । समस्तवेदसारतः सुनिर्मिताऽतिशोभना महत्तरानुभूतिमद्भिरादृता न चापरैः ॥ ८४॥ मदुक्तसंहिता तु या तया विरुद्धमस्ति चे- दनर्थकं हि तद्बुधा वचः प्रयोजनाय न । श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता श्रुतिप्रमाणमेव सा महाजनस्य सन्ततम् ॥ ८५॥ मदुक्तसंहितामिमामतिप्रियेण मानवः पठन्न याति संसृतिं प्रयाति शङ्करं परम् । अतश्च शोभनामिमामहर्निशं समाहितः श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये ॥ ८६॥ पुराणसंहितामिमामतिप्रियेण यः पुमान् श्रुणोति संसृतिं पुनर्न याति याति शङ्करम् । परानुभूतिरद्वया विजायते च तस्य सा शिवा च वाचि नृत्यति प्रियेण शङ्करोऽपि च ॥ ८७॥ सत्यपूर्णसुखबोधलक्षणं तत्त्वमर्थविभवं सनातनम् । सत्स्वरूपमशुभापहं शिवं भक्तिगम्यममलं सदा नुमः ॥ ८८॥ याऽनुभूतिरमला सदोदिता वेदमाननिरता शुभावहा । तामतीव सुखदामहं शिवां केशवादिजनसेवितां नुमः ॥ ८९॥ वेदपद्मनिकरस्य भास्करं देवदेवसदृशं घृणानिधिम् । व्यासमिष्टफलदं गुरुं नुमः शोकमोहविषरोगभेषजम् ॥ ९०॥ ये वेदवेदान्तधना महाजनाः शिवाभिमानैकनिरस्तकिल्बिषाः । नमामि वाचा शिरसा हृदा च तान् भवाहिवेगस्य निवारकानहम् ॥ ९१॥ ॥ इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्ववेदान्तसङ्ग्रहो नामाष्टमोऽध्यायः ॥ ८॥ सूतगीता समाप्ता । ॐ तत्सत् Encoded and proofread by Sunder Hattangadi
% Text title            : sUtagItA
% File name             : sUtagItA.itx
% itxtitle              : sUtagItA
% engtitle              : sUtagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunder at hotmail.com
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Description-comments  : From Skanda Purana, Yajnavaibhava Khanda
% Indexextra            : (sUta saMhitA skandapurANa (scanned))
% Latest update         : Feb. 28, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP