॥ शान्तिगीता ॥

मङ्गलाचरणम् शान्तायाव्यक्तरूपाय मायाधाराय विष्णवे । स्वप्रकाशाय सत्याय नमोऽस्तु विश्वसाक्षिणे ॥ १॥ वाणी यस्य प्रकटति परं ब्रह्मतत्त्वं सुगूढं मुक्तीच्छूनां गमयति पदं पूर्णमानन्दरूपम् । विभ्रान्तानां शमयति मतिं व्याकुलां भ्रान्तिमूलां ब्रह्मा ह्येकां विदिशति परं श्रीगुरुं तं नमामि ॥ २॥
अथ प्रथमोऽध्यायः । विख्यातः पाण्डवे वंशे नृपेशो जनमेजयः । तस्य पुत्रो महाराजः शतानीको महामतिः ॥ १॥ एकदा सचिवैर्मित्रैर्वेष्टितो राजमन्दिरे । उपविष्टः स्तूयमाने मागधैः सूतवन्दिभिः ॥ २॥ सिंहासनसमारूढो महेन्द्रसदृशप्रभः । नानाकाव्यरसालापैः पण्डितैः सह मोदितः ॥ ३॥ एतस्मिन् समये श्रीमान् शान्तव्रतो महातपाः । समागतः प्रसन्नात्मा तेजोराशिस्तपोनिधिः ॥ ४॥ राजा दर्शनमात्रेण सामात्यमित्रबान्धवैः । प्रोत्थितो भक्तिभावेन हर्षेणोत्फुल्लमानसः ॥ ५॥ प्रणम्य विनयापन्नः प्रह्वीभावेन श्रद्धया । ददौ सिंहासनं तस्मै चोपवेशनकाङ्क्षया ॥ ६॥ पाद्यमर्घ्यं यथायोग्यं भक्तियुक्तेन चेतसा । दिव्यासने समासीनं मुनिं शान्तव्रतं नृपः ॥ ७॥ पप्रच्छ विनतः स्वास्थ्यं कुशलं तपसस्ततः । मुनिः प्रोवाच सर्वत्र सुखं सर्वसुखान्वयात् ॥ ८॥ अस्माकं कुशलं राजन् राज्ञः कुशलतः सदा । स्वाच्छन्द्यं राजदेहस्य राज्यस्य कुशलं वद ॥ ९॥ राजोवाच यत्र ब्रह्मन्नीदृशस्तापसोऽनिशम् । तिष्ठन् विराजते तत्र कुशलं कुशलेप्सया ॥ १०॥ क्षेमयुक्तो प्रसादेन भवतः शुभदृष्टितः । देहे गेहे शुभं राज्ये शान्तिर्मे वर्तते सदा ॥ ११॥ प्रणिपत्य ततो राजा विनयावनतः पुनः । कृताञ्जलिपुटः प्रह्वः प्राह तं मुनिसत्तमम् ॥ १२॥ श्रुता भवत्प्रसादेन तत्त्ववार्ता सुधा पुरा । इदानीं श्रोतुमिच्छामि यच्च सारतरं प्रभो । श्रुत्वा तत् कृतकृत्यः स्यां कृपया वद मे मुने ॥ १३॥ शान्तव्रत उवाच । शृणु राजन् प्रवक्ष्यामि सारं गुह्यतमं परम् । यदुक्तं वासुदेवेन पार्थाय शोकशान्तये ॥ १४॥ शान्तिगीतेति विख्याता सदा शान्तिप्रदायिनी । पुरा श्रीगुरुणा दत्ता कृपया परया मुदा ॥ १५॥ तं ते वक्ष्यामि राजेन्द्र रक्षिता यत्नतो मया । भवद्बुभुत्सया राजन् शृणुष्वावहितः स्थिरः ॥ १६॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे प्रथमोऽध्यायः ॥१॥
अथ द्वितीयोऽध्यायः । युद्धे विनिहते पुत्रे शोकविह्वलमर्जुनम् । दृष्ट्वा तं बोधयामास भगवान् मधसूदनः ॥ १॥ श्रीभगवानुवाच । किं शोचसि सखे पार्थ विस्मृतोऽसि पुरोदितम् । मूढप्रायो विमुग्धोऽसि मग्नोऽसि शोकसागरे ॥ २॥ मायिके सत्यवज्ज्ञानं शोकमोहस्य कारणम् । त्वं बुद्धोऽसि च धीरोऽसि शोकं त्यक्त्वा सुखी भव ॥ ३॥ संसारे मायिके घोरे सत्यभावेन मोहितः । ममताबद्धचित्तोऽसि देहाभिमानयोगतः ॥ ४॥ को वासि त्वं कथं जातः कः सुतो वा कलत्रकम् । कथं वा स्नेहबद्धोऽसि क्षणमात्रं विचारय ॥ ५॥ अज्ञानप्रभवं सर्वं जीवा मायावशंगताः । देहाभिमानयोगेन नानादुःखादि भुञ्जते ॥ ६॥ मनःकल्पितसंसारं सत्यं मत्वा मृषात्मकम् । दुःखं सुखं च मन्यन्ते प्रातिकूल्यानुकूल्ययोः ॥ ७॥ ममतापाशसंबद्धः संसारे भ्रमप्रत्यये । अनादिकालतो जीवः सत्यबुद्ध्या विमोहितः ॥ ८॥ त्यक्त्वा गृहं याति नवं पुराणमालम्बते दिव्यगृहं यथान्यत् । जीवस्तथा जीर्णवपुर्विहाय गृह्णाति देहान्तरमाशु दिव्यम् ॥ ९॥ अभावः प्रागभावस्य चावस्थापरिवर्तनात् । परिणामान्विते देहे पूर्वभावो न विद्यते ॥ १०॥ न दृश्यते बाल्यभावो देहस्य यौवनोदये । अवस्थान्तरसम्प्राप्तौ देहः परिणमेद्यतः ॥ ११॥ अतीते बहुले काले दृष्ट्वा न ज्ञायते हि सः । बुद्धेः प्रत्ययमात्रं तत् स एवेति विनिश्चयः ॥ १२॥ न पश्यन्ति बाल्यभावं देहस्य यौवनागमे । सुतस्य जनकस्तेन न शोचति न रोदिति । तथा देहान्तरप्राप्तिर्मत्वा शोकं सखे जहि ॥ १३॥ यत्पश्यसि महाबाहो जगत्तत्प्रातिभासिकम् । संस्कारवशतो बुद्धेर्दृष्टपूर्वेति प्रत्ययः ॥ १४॥ दृष्ट्वा तु शुक्तिरजतं लोभाद्ग्रहीतुमुद्यतः । प्राक् च बोधोदयात् द्रष्टा स्थानान्तरगतस्ततः ॥ १५॥ पुनरागत्य तत्रैव रजतं स प्रपश्यति । पूर्वदृष्टं मन्यमानो रजतं हर्षमोदितः । बुद्धेः प्रत्ययसङ्कल्पात् नास्ति रूपं त्रिकालके ॥ १६॥ देहो भार्या धनं पुत्रस्तरुराजिनिकेतनम् । शुक्तिरजतवत् सर्वं न किञ्चित् सत्यमस्ति तत् ॥ १७॥ सुषुप्तिकाले न हि दृश्यमानं मनःस्थितं सर्वमनन्तविश्वम् । समुत्थिते तन्मनसि प्रभाति चराचरं विश्वमिदं न सत्यम् ॥ १८॥ सदेवासीत्पुरा सृष्टेर्नान्यत् किञ्चिन्मिषत्ततः । न देशो नापि वा कालो नो भूतं नापि भौतिकम् ॥ १९॥ मायाविजृम्भिते तस्मिन् स्रक्फणीवोत्थितं जगत् । तत्सत् मायाप्रभावेन विश्वाकारेण भासते ॥ २०॥ भोक्ता भोगस्तथा भोग्यं कर्ता च करणं क्रिया । ज्ञाता ज्ञानं तथा ज्ञेयं स्वप्नवद्भाति सर्वशः ॥ २१॥ मायानिद्रावशात् स्वप्नः संसारो जीवगः खलु । कारणं ह्यात्मनोऽज्ञानं संसारस्य धनञ्जय ॥ २२॥ अज्ञानं गुणभेदेन शक्तिभेदेन न वै पुनः । मायाऽविद्या भवेदेका चिदाभासेन दीपिता ॥ २३॥ मायाभासेन जीवेशो करोति च पृथग्विधौ । मायाभासो भवेदीशोऽविद्योपाधिश्च जीवकः ॥ २४॥ चिदध्यासाच्चिदाभासो भासितौ चेतनाकृती । मायावच्छिन्नचैतन्यञ्चाभासाध्यासयोगतः ॥ २५॥ ईशः कर्ता ब्रह्म साक्षी मायोपहितसत्तया । अखण्डं सच्चिदानन्दं पूर्वाधिष्ठानमव्ययम् ॥ २६॥ न जायते म्रियाते वा न दह्यते न शोष्यते । अधिकारः सदासङ्गो नित्यमुक्तो निरञ्जनः । इत्युक्तं ते मया पूर्वं स्मृत्वात्मन्यवधारय ॥ २७॥ शुक्रशोणितयोगेन देहोऽयं भौतिकः स्मृतः । बाल्ये बालकरूपोऽसौ यौवने युवकः पुनः ॥ २८॥ गृहीतान्यस्य कन्यां हि पत्नीभावेन मोहितः । पुरा यया न सम्बन्धः सार्द्धाङ्गी सहधर्मिणी ॥ २९॥ तद्गर्भे रेतसा जातः पुत्रश्च स्नेहभाजनः । देहमलोद्भवः पुत्रः कीटवन्मलनिर्मितः । पितरौ ममतापाशं गले बद्ध्वा विमोहितौ ॥ ३०॥ न देहे तव सम्बन्धो न दारेषु सुते न च । पाशबद्धः स्वयं भूत्वा मुग्धोऽसि ममतागुणैः ॥ ३१॥ दुर्जयो ममतापाशश्चाच्छेद्यः सुरमानवैः । मम भार्या ममापत्यः मत्वा मुग्धोऽसि मूढवत् ॥ ३२॥ न त्वं देहो महाबाहो तव पुत्रः कथं वद । सर्वं त्यक्त्वा विचारेण स्वरूपमवधारय ॥ ३३॥ अर्जुन उवाच । किं करोमि जगन्नाथ शोकेन दह्यते मनः । पुत्रस्य गुणकर्माणि रूपं च स्मरतो मम ॥ ३४॥ चिन्तापरं मनो नित्यं धैर्यं न लभते क्षणम् । उपायं वद मे कृष्ण येन शोकः प्रशाम्यति ॥ ३५॥ श्रीभगवानुवाच । मनसि शोकसन्तापौ दह्यमानस्ततो मनः । त्वं पश्यसि महाबाहो द्रष्टासि त्वं मनो न हि ॥ ३६॥ द्रष्टा दृश्यात् पृथक् न्यासात् त्वं पृथक् च विलक्षणः । अविवेकात् मनो भूत्वा दग्धोऽहमिति मन्यसे ॥ ३७॥ अन्तःकरणमेकं तच्चतुर्वृत्तिसमन्वितम् । मनः सङ्कल्परूपं वै बुद्धिश्च निश्चयात्मिका ॥ ३८॥ अनुसन्धानवच्चित्तमहङ्कारोऽभिमानकः । पञ्चभूतांशसंभूता विकारी दृश्यचञ्चलः ॥ ३९॥ यदङ्गमग्निना दग्धं जानाति पुरुषो यथा । तथा मनः शुचा तप्तं त्वं जानासि धनञ्जय ॥ ४०॥ दग्धहस्तो यथा लोको दग्धोऽहमिति मन्यते । अविवेकात्तथा शोकतप्तोऽहमिति मन्यते ॥ ४१॥ जाग्रति जायमानं तत् सुषुप्तौ लीयते पुनः । त्वं च पश्यसि बोधस्त्वं न मनोऽसि शुचालयः ॥ ४२॥ सुषुप्तो मानसे लीने न शोकोऽप्यणुमात्रकः । जाग्रति शोकदुःखादि भवेन्मनसि चोत्थिते ॥ ४३॥ सर्वं पश्यसि साक्षी त्वं तव शोकः कथं वद । शोको मनोमये कोषे दुःखोद्वेगभयादिकम् ॥ ४४॥ स्वरूपोऽनबोधेन तादात्म्याध्यासयोगतः । अविवेकान्मनोधर्मं मत्वा चात्मनि शोचसि ॥ ४५॥ शोकं तरति चात्मज्ञः श्रुतिवाक्यं विनिश्चिनु । अतः प्रयत्नतो विद्वान्नात्मानं विद्धि फाल्गुन ॥ ४६॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे द्वितीयोऽध्यायः ॥२॥
अथ तृतीयोऽध्यायः । अर्जुन उवाच । मनोबुद्धीन्द्रियादीनां य आत्मा न हि गोचरः । स कथं लभ्यते कृष्ण तद्ब्रूहि यदुनन्दन ॥ १॥ श्रीभगवानुवाच । आत्मातिसूक्ष्मरूपत्वात् बुद्ध्यादीनामगोचरः । लभ्यते वेदवाक्येन चाचार्यानुग्रहेण च ॥ २॥ महावाक्यविचारेण गुरूपदिष्टमार्गतः । शिष्यो गुणाभिसम्पन्नो लभेत शुद्धमानसः ॥ ३॥ एकार्थबोधकं वेदे महावाक्यचतुष्टयम् । तत्त्वमसि गुरोर्वक्त्रात् श्रुत्वा सिद्धिमवाप्नुयात् ॥ ४॥ गुरुसेवां प्रकुर्वाणो गुरुभक्तिपरायणः । गुरोः कृपावशात् पार्थ लभ्य आत्मा न संशयः ॥ ५॥ आत्मवासनया युक्तो जिज्ञासुः शुद्धमानसः । विषयासक्तिसंत्यक्तः स्वात्मानं वेत्ति श्रद्धया ॥ ६॥ वैराग्यं कारणं चादौ यद्भवेद्बुधिशुद्धितः । कर्मणा चित्तशुद्धिः स्याद्विशेषं शृणु काथ्यते ॥ ७॥ स्ववर्णाश्रमधर्मेण वेदोक्तेन च कर्मणा । निष्कामेन सदाचार ईश्वरं परितोषयेत् ॥ ८॥ कामसङ्कल्पसंत्यागादीश्वरप्रीतिमानसात् । स्वधर्मपालनाच्चैव श्रद्धाभक्तिसमन्वयात् ॥ ९॥ नित्यनैमित्तिकाचारात् ब्रह्मणि कर्मणोऽर्पणात् । देवायतनतीर्थानां दर्शनात् परिसेवनात् । यथाविधि क्रमेणैव बुद्धिशुद्धिः प्रजायते ॥ १०॥ पापेन मलिना बुद्धिः कर्मणा शोधिता यदा । तदा शुद्धा भवेत् सैव मलदोषविवर्जनात् ॥ ११॥ निर्मलायां तत्र पार्थ विवेक उपजायते । किं सत्यं किमसत्यं वेत्यद्यालोचनतत्परः ॥ १२॥ ब्रह्म सत्यं जगन्मिथ्या विवेकाद्दृढनिश्चयः । ततो वैराग्यमासक्तेस्त्यागो मिथ्यात्मकेषु च ॥ १३॥ भोग्यं वै भोगिभोगं विषमयविषयं प्लोषिणी चापि पत्नी वित्तं चित्तप्रमाथं निधनकरधनं शत्रुवत् पुत्रकन्ये । मित्रं मित्रोपतापं वनमिव भवनं चान्धवद्बन्धुवर्गाः सर्वं त्यक्त्वा विरागी निजहितनिरतः सौख्यलाभे प्रसक्तः ॥ १४॥ भोगासक्ताः प्रमुग्धाः सततधनपरा भ्राम्यमाणा यथेच्छं दारापत्यादिरक्ता निजजनभरणे व्यग्रचित्ता विषण्णाः । लप्स्येऽहं कुत्र दर्भं स्मरणमनुदिनं चिन्तया व्याकुलात्मा हा हा लोका विमूढाः सुखरसविमुखाः केवला दुःखभाराः ॥ १५॥ ब्रह्मादि स्तम्बपर्यन्तं वस्तु सर्वं जुगुप्सितम् । शुनो विष्ठासमं त्याज्यं भोगवासनया सह ॥ १६॥ नोदेति वासना भोगे घृणा वान्ताशने यथा । ततः शमदमौ चैव मन इन्द्रियनिग्रहः ॥ १७॥ तितिक्षोपरतिश्चैव समाधानं ततः परम् । श्रद्धा श्रुति-गुरोर्वाक्ये विश्वासः सत्यनिश्चयात् ॥ १८॥ संसारग्रन्धिभेदेन मोक्तुमिच्छा मुमुक्षुता । एतत्साधनसम्पन्नो जिज्ञासुर्गुरुमाश्रयेत् ॥ १९॥ ज्ञानदाता गुरुः साक्षात् संसारार्णवतारकः । श्रीगुरुकृपया शिष्यस्तरेत् संसारवारिधिम् ॥ २०॥ विनाचार्यं न हि ज्ञानं न मुक्तिर्नापि सद्गतिः । अतः प्रयत्नतो विद्वान् सेवया तोषयेद्गुरुम् ॥ २१॥ सेवया सम्प्रसन्नात्मा गुरुः शिष्यं प्रबोधयेत् । न त्वं देहो नेन्द्रियाणि न प्राणो न मनोधियः ॥ २२॥ एषां द्रष्टा च साक्षी त्वं सच्चिदानन्दविग्रहः । प्रतिबन्धकशून्यस्य ज्ञानं स्यात् श्रुतिमात्रतः ॥ २३॥ न चेन्मननयोगेन निदिध्यासनतः पुनः । प्रतिबन्धक्षये ज्ञानं स्वयमेवोपजायते ॥ २४॥ विस्मृतं स्वरूपं तत्र लब्ध्वा चामीकरं यथा । कृतार्थः परमानन्दो मुक्तो भवति तत्क्षणम् ॥ २५॥ अर्जुन उवाच । जीवः कर्ता सदा भोक्ता निष्क्रियं ब्रह्म यादव । ऐक्यज्ञानं तयोः कृष्ण विरुद्धत्वात् कथं भवेत् ॥ २६॥ एतन्मे संशयं छिन्धि प्रपन्नोऽहं जनार्दन । त्वां विना संशयच्छेत्ता नास्ति कश्चिद्विनिश्चयः ॥ २७॥ श्रीवासुदेव उवाच । संशोध्य त्वं पदं पूर्वं स्वरूपमवधारयेत् । प्रकारं शृणु वक्ष्यामि वेदवाक्यानुसारतः ॥ २८॥ देहत्रयं जडत्वेन नाश्यत्वेन निरासय । स्थूलं सूक्ष्मं कारणं च पुनः पुनर्विचारय ॥ २९॥ काष्ठादि लोष्टवत् सर्वमनात्मजडनश्वरम् । कदलीदलवत् सर्वं क्रमेणैव परित्यज ॥ ३०॥ तद्बाधस्य हि सीमानं त्यागयोग्यं स्वयम्प्रभम् । त्वमात्मत्वेन संविद्धि चेति त्वं-पद-शोधनम् ॥ ३१॥ तत्पदस्य च पारोक्ष्यं मायोपाधिं परित्यज । तदधिष्ठानचैतन्यं पूर्णमेकं सदव्ययम् ॥ ३२॥ तयोरैक्यं महाबाहो नित्याखण्डावधारणम् । घटाकाशो महाकाश इवात्मानं परात्मनि । ऐक्यमखण्डभावं त्वं ज्ञात्वा तूष्णीं भवार्जुन ॥ ३३॥ ज्ञात्वैवं योगयुक्तात्मा स्थिरप्रज्ञः सदा सुखी । प्रारब्धवेगपर्यन्तं जीवन्मुक्तो विहारवान् ॥ ३४॥ न तस्य पुण्यं न हि तस्य पापं निषेधनं नैव पुनर्न वैधम् । सदा स मग्नः सुखवारिराशौ वपुश्चरेत् प्राक्कृतकर्मयोगात् ॥ ३५॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे तृतीयोऽध्यायः ॥३॥
अथ चतुर्थोऽध्यायः । अर्जुन उवाच । योगयुक्तः कथं कृष्ण व्यवहारे चरेद्वद । विना कस्याप्यहङ्कारं व्यवहारो न सम्भवेत् ॥ १॥ श्रीभगवानुवाच । शृणु तत्त्वं महाबाहो गुह्यात् गुह्यतरं परम् । यच्छ्रुत्वा संशयच्छेदात् कृतकृत्यो भविष्यसि ॥ २॥ व्यावहारिकदेहेऽस्मिन्नात्मबुद्ध्या विमोहितः । करोति विविधं कर्म जीवोऽहङ्कारयोगतः ॥ ३॥ न जानाति स्वमात्मानमहं कर्तेति मोहितः । अहङ्कारस्य सद्धर्मं संघातं न विचालयेत् ॥ ४॥ आत्मा शुद्धः सदा मुक्तः सङ्गहीनश्चिदक्रियः । न हि सम्बन्धगन्धं तत् संघातैर्मायिकैः क्वचित् ॥ ५॥ सच्चिदानन्दमात्मानं यदा जानाति निष्क्रियम् । तदा तेभ्यः समुत्तीर्णः स्वस्वरूपे व्यवस्थितम् ॥ ६॥ प्रारब्धात् विचरेद्देहो व्यवहारं करोति च । स्वयं स सच्चिदानन्दो नित्यः सङ्गविवर्जितः ॥ ७॥ अखण्डमद्वयं पूर्णं सदा सच्चित्सुखात्मकम् । देशकालजगज्जीवा न हि तत्र मनागपि ॥ ८॥ मायाकार्यमिदं सर्वं व्यवहारिकमेव तु । इन्द्रजालमयं मिथ्या मायामात्रविजृम्भितम् ॥ ९॥ जाग्रदादि विमोक्षान्तं मायिकं जीवकल्पितम् । जीवस्यानुभवः सर्वः स्वप्नवद्भरतर्षभ ॥ १०॥ न त्वं नाहं न वा पृथ्वी न दारा न सुतादिकम् । भ्रान्तोऽसि शोकसन्तापैः सत्यं मत्वा मृषात्मकम् ॥ ११॥ शोकं जहि महाबाहो ज्ञात्वा मायाविलासकम् । त्वं सदाद्वयरूपोऽसि द्वैतलेशविवर्जितः । द्वैतं मायामयं सर्वं त्वयि न स्पृश्यते क्वचित् ॥ १२॥ एकं न सङ्ख्याबद्धत्वात् न द्वयं तत्र शोभते । एकं स्वजातिहीनत्वाद्विजातिशून्यमद्वयम् ॥ १३॥ केवलं सर्वशून्यत्वादक्षयाच्च सदव्ययम् । तुरीयं त्रितयापेक्षं प्रत्यक् प्रकाशकत्वतः ॥ १४॥ साक्षि-साक्ष्यमपेक्ष्यैव द्रष्टृदृश्यव्यपेक्षया । अलक्ष्यं लक्षणाभावात् ज्ञानं वृत्यधिरूढतः ॥ १५॥ अर्जुन उवाच । का माया वाऽद्भुता कृष्ण काऽविद्या जीवसूतिका । नित्या वाप्यपराऽनित्या कः स्वभावस्तयोर्हरे ॥ १६॥ श्रीभगवानुवाच । शृणु महाद्भुता माया सत्त्वादि त्रिगुणान्विता । उत्पत्तिरहिताऽनादिर्नैसर्गिक्यपि कथ्यते ॥ १७॥ अवस्तु वस्तुवद्भाति वस्तुसत्तासमाश्रिता । सदसद्भ्यामनिर्वाच्या सान्ता च भावरूपिणी ॥ १८॥ ब्रह्माश्रया चिद्विषया ब्रह्मशक्तिर्महाबला । दुर्घटोद्घटनाशीला ज्ञाननाश्या विमोहिनी ॥ १९॥ शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । तमोऽधिकावृतिः शक्तिविक्षेपाख्या तु राजसी ॥ २०॥ विद्यारूपा शुद्धसत्त्वा मोहिनी मोहनाशिनी । तमःप्राधान्यतोऽविद्या सावृतिशक्तिमत्त्वतः ॥ २१॥ मायाऽविद्या न वै भिन्ना समष्टि-व्यष्टिरूपतः । मायाविद्या-समष्टिः सा चैकैव बहुधा मता ॥ २२॥ चिदाश्रया चितिभास्या विषयं तां करोति हि । आवृत्य चित्स्वभावं सद्विक्षेपं जनयेत्ततः ॥ २३॥ अर्जुन उवाच । यद्ब्रह्मशक्तिर्या माया सापि नाश्या भवेत् कथम् । यदि मिथ्या हि सा माया नाशस्तस्याः कथं वद ॥ २४॥ श्रीभगवानुवाच । मायाख्यां भावसंयुक्तां कथयामि शृणुष्व मे । प्रकृतिं गुणसाम्यात्तां मायां चाद्भुतकारिणीम् ॥ २५॥ प्रधानमात्मसात्कृत्वा सर्वं तिष्ठेदुदासिनी । विद्या नाश्या तथाऽविद्या शक्तिर्ब्रह्माश्रयत्वतः ॥ २६॥ विना चैतन्यमन्यत्र नोदेति न च तिष्ठति । अत,एव ब्रह्मशक्तिरित्याहुर्ब्रह्मवादिनः ॥ २७॥ शक्तितत्त्वं प्रवक्ष्यामि शृणुष्व तत्समाहितः । ब्रह्मणश्चिज्जडैर्भेदात् द्वे शक्ती परिकीर्तिते ॥ २८॥ चिच्छक्तिः स्वरूपं ज्ञेया माया जडा विकारिणी । कार्यप्रसाधिनी माया निर्विकारा चितिः परा ॥ २९॥ अग्नेर्यथा द्वयी शक्तिर्दाहिका च प्रकाशिका । न हि भिन्नाथवाऽभिन्ना दाहशक्तिश्च पावकात् ॥ ३०॥ न ज्ञायते कथं कुत्र विद्यते दाहतः पुरा । कार्यानुमेया सा ज्ञेया दाहेनानुमितिर्यतः ॥ ३१॥ मणिमन्त्रादियोगेन रुध्यते न प्रकाशते । सा शक्तिरनलाद्भिन्ना रोधनान्न हि तिष्ठति ॥ ३२॥ नोदेति पावकाद्भिन्ना ततोऽभिन्नेति मन्यते । नानले वर्तते सा च न कार्ये स्फोटके तथा ॥ ३३॥ अनिर्वाच्याद्दता चैव मायाशक्तिस्तथेष्यताम् । dda?dhR^i या शक्तिर्नानलाद्भिन्ना तां विनाग्निर्न किञ्चन ॥ ३४॥ अनलस्वरूपा ज्ञेया शक्तिः प्रकाशरूपिणी । चिच्छक्तिर्ब्रह्मणस्तद्वत् स्वरूपं ब्रह्मणः स्मृतम् ॥ ३५॥ दाहिकासदृशी माया जडा नाश्या विकारिणी । मृषात्मिका तु याऽवस्तु तन्नाशस्तत्त्वदृष्टितः ॥ ३६॥ मिथ्येति निश्चयात् पार्थ मिथ्यावस्तु विनश्यति । आश्चर्यरूपिणी माया स्वनाशेन हि हर्षदा ॥ ३७॥ अज्ञानात् मोहिनी माया प्रेक्षणेन विनश्यति । मायास्वभावविज्ञानं सान्निध्यं न हि वाञ्छति ॥ ३८॥ महामाया घोरा जनयति महामोहमतुलं ततो लोकाः स्वार्थे विवशपतिताः शोकविकलाः । सहन्ते दुःसह्यं जनिमृतिजराक्लेशबहुलं सुभुञ्जाना दुःखं न हि गतिपरां जन्मबहुभिः ॥ ३९॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां चतुर्थोऽध्यायः ॥४॥
अथ पञ्चमोऽध्यायः । अर्जुन उवाच । मायाऽवस्तु मृषारूपा कार्यं तस्या न सम्भवेत् । वन्ध्यापुत्रो रणे दक्षो जयी युद्धे तथा न किम् ॥ १॥ व्योमारविन्दवासेन यथा वासः सुवासितम् । मायायाः कार्यविस्तारस्तथा यादव मे मतिः ॥ २॥ श्रीभगवानुवाच । दृश्यते कार्यबाहुल्यं मिथ्यारूपस्य भारत । असत्यो भुजगो रज्ज्वां जनयेद्वेपथुं भयम् ॥ ३॥ उत्पादयेद्रूप्यखण्डं शुक्तौ च लोभमोहनम् । सूयते हि मृषामाया व्यवहारास्पदं जगत् ॥ ४॥ तत्त्वज्ञस्य मृषामाया पुरा प्रोक्ता मयानघ । मृषामाया च तत्कार्यं मृषाजीवः प्रपश्यति । सर्वं तत्स्वप्नवद्भानं चैतन्येन विभास्यते ॥ ५॥ अज्ञः सत्यं विजानाति तत्कार्येण विमोहितः ॥ ६॥ प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः । तमन्तमःकार्यमसत्यसर्वं न दृश्यते भानुमहाप्रकाशे ॥ ७॥ अर्जुन उवाच । अकर्मकर्मणोर्भेदं पुरोक्तं यत्त्वया हरे । तत्तात्पर्यं सुगूढं यद्विशेषं कथयाधुना ॥ ८॥ श्रीवासुदेव उवाच । कर्मण्यकर्म यः पश्येद्यदुक्तं कुरुनन्दन । शृणुष्वावहितो विद्वन् तत्तात्पर्यं वदामि ते ॥ ९॥ भवति स्वप्ने यत्कर्म शयानस्य न कर्तृता । पश्यत्यकर्म बुद्धः सन्नसङ्गं न फलं यतः ॥ १०॥ स्वप्नव्यापारमिथ्यात्वात् न सत्यं कर्म तत्फलम् । अतोऽकर्मैव तत्कर्म दार्ष्टान्तिकमतः शृणु ॥ ११॥ सङ्घात्यैर्मायिकैः कर्म व्यवहारश्च लौकिकः । मायानिद्रावशात्स्वप्नमनृतं सर्वमेव हि ॥ १२॥ साभासाहङ्कृतिर्जीवः कर्ता भोक्ता च तत्र वै । ज्ञानी प्रबुद्धो निद्रायाः सर्वं मिथ्येति निश्चयी ॥ १३॥ कर्मण्यकर्म पश्येत् स स्वयं साक्षिस्वरूपतः । ज्ञानाभिमानिनस्त्वज्ञास्त्यक्त्वा कर्माण्यवस्थिताः ॥ १४॥ प्रत्यवायाद्भवेद्भोगः ज्ञानी कर्म तमिच्छति । उद्देश्यं सर्ववेदानां सफलं कृत्स्नकर्मणाम् ॥ १५॥ तत्तत्त्वज्ञो यतो विद्वानतः स कृत्स्नकर्मकृत् । सर्वे वेदा यत्र चैकीभवन्तीति प्रमाणतः । उद्देश्यं सर्ववेदानां फलं तत्कृत्स्नकर्मणाम् ॥ १६॥ अज्ञानिनां जगत् सत्यं तत्तुच्छं हि विचारिणाम् । विज्ञानां मायिकं मिथ्या त्रिविधो भावनिर्णयः ॥ १७॥ अर्जुन उवाच । ज्ञात्वा तत्त्वमिदं सत्यं कृतार्थोऽहं न संशयः । अन्यत् पृच्छामि तत्तथ्यं कथयस्व सविस्तरम् ॥ १८॥ सर्वकर्म परित्यज्य मामेकं शरणं व्रज । पुरा प्रोक्तस्य तात्पर्यं श्रोतुमिच्छामि तद्वद ॥ १९॥ श्रीभगवानुवाच । नित्यं नैमित्तिकं कार्यं स्वाभाव्यं च निषेधितम् । एतत् पञ्चविधं कर्म विशेषं शृणु कथ्यते ॥ २०॥ कर्तुं विधानं यद्वेदे नित्यादि विहितं मतम् । निवारयति यद्वेदस्तन्निषिद्धं परन्तप । वेदः स्वाभाविके सर्वं औदसीन्यावलम्बितः ॥ २१॥ प्रत्यवायो भवेद्यस्याऽकरणे नित्यमेव तत् । फलं नास्तीति नित्यस्य केचिद्वदन्ति पण्डिताः ॥ २२॥ न सत् तद्युक्तितः पार्थ कर्तव्यं निष्फलं कथम् । न प्रवृत्तिः फलाभावे तां विनाचरणं न हि ॥ २३॥ नित्येनैव देवलोकं तथैव बुद्धिशोधनम् । फलमकरणे पापं प्रत्यवायाच्च दृश्यते ॥ २४॥ प्रत्यवायः फलं पापं फलाभावे न सम्भवेत् । नाभावाज्जायते भावो फलाभावो न सम्मतः ॥ २५॥ नैमित्तिकं निमित्तेन कर्तव्यं विहितं सदा । चन्द्रसूर्यग्रहे दानं श्राद्धादि तर्पणं यथा ॥ २६॥ काम्यं तत् कामनायुक्तं स्वर्गादिसुखसाधनम् । धनागमश्च कुशलं समृद्धिर्जय ऐहिके ॥ २७॥ तद्बन्धदृढताहेतुः सत्यबुद्धेस्तु संसृतौ । अतः प्रयत्नतस्त्याज्यः काम्यञ्चैव निषेधितम् ॥ २८॥ अधिकारिविशेषे तु काम्यस्याप्युपयोगिता । कामनासिद्धिरुक्तत्वात् काम्ये लोभप्रदर्शनात् ॥ २९॥ प्रवृत्तिजननाच्चैव लोभवाक्यं प्रलोभनात् । बहिर्मुखानां दुर्वृत्तिनिवृत्तिः काम्यकर्मभिः ॥ ३०॥ सत्प्रवृत्तिविवृद्ध्यर्थं विधानं काम्यकर्मणाम् । काम्योऽवान्तरभोगश्च तदन्ते बुद्धिशोधनम् ॥ ३१॥ ईश्वराराधनादुग्धं कामनाजलमिश्रितम् । वैराग्यानलतापेन तज्जलं परिशोष्यते ॥ ३२॥ ईश्वराराधना तत्र दुग्धवदवशिष्यते । तेन शुद्धं भवेच्चित्तं तात्पर्यं कामकर्मणः ॥ ३३॥ कर्मबीजादिहैकस्माज्जायते चाङ्कुरद्वयम् । अपूर्वमेकमपरा वासना परिकीर्तिता ॥ ३४॥ भवत्यपूर्वतो भोगो दत्वा भोगं स नश्यति । वासना सूयते कर्म शुभाशुभविभेदतः ॥ ३५॥ वासनया भवेत् कर्म कर्मणा वासना पुनः । एताभ्यां भ्रमितो जीवः संसृतेर्न निवर्तते ॥ ३६॥ दुःखहेतुस्ततः कर्म जीवानां पदशृङ्खलम् । चिन्ता वैषम्यचित्तस्य अशेषदुःखकारणम् ॥ ३७॥ सर्वं कर्म परित्यज्य एकं मां शरणं व्रजेत् । मांशब्दस्तत्त्वदृष्ट्या तु न हि सङ्घातदृष्टितः ॥ ३८॥ एकोऽहं सच्चिदानन्दस्तात्पर्येण तमाश्रय । सदेकासीदिति श्रौतं प्रमाणमेकशब्दके । एकं मां सर्वभूतेषु यः पश्यति स पश्यति ॥ ३९॥ सर्वकर्म महाबाहो त्यजेत् सन्न्यासपूर्वकम् । सर्वकर्म तथा चिन्तां त्यक्त्वा सन्न्यासयोगतः । जानीयादेकमात्मानं सदा तच्चित्तसंयतः ॥ ४०॥ विधिना कर्मसंत्यागः सन्न्यासेन विवेकतः । अवैधं स्वेच्छया कर्म त्यक्त्वा पापेन लिप्यते ॥ ४१॥ आत्मज्ञानं विना न्यासं पातित्यायैव कल्प्यते । कर्म ब्रह्मोभयभ्रष्टो नद्यां द्विकूलवर्जितः । अहङ्कारमहाग्राहग्रस्यमानो विनश्यति ॥ ४२॥ जाठरे भरणे रक्तः संसक्तः सञ्चये तथा । पराङ्मुखः स्वात्मतत्त्वे स सन्न्यासी विडम्बितः ॥ ४३॥ सर्वकर्मविरागेण सन्न्यसेद्विधिपूर्वकम् । अथवा सन्न्यसेत् कर्म जन्महेतुं हि सर्वतः ॥ ४४॥ एकं मां संश्रयेत् पार्थ सच्चिदानन्दमव्ययम् । अहंपदस्य लक्ष्यं तदहमः साक्षि निष्कलम् ॥ ४५॥ आत्मानं ब्रह्मरूपेण ज्ञात्वा मुक्तो भवार्जुन ॥ ४६॥ देहात्ममानिनां दृष्टिर्देहेऽहंममशब्दतः । कुबुद्धयो न जानन्ति मम भावमनामयम् ॥ ४७॥ चैतन्यं त्वमहं सर्वं स्वरूपमवलोकय । इति ते कथितं तत्त्वं सर्वसारमनुत्तमम् ॥ ४८॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां पञ्चमोऽध्यायः ॥५॥
अथ षष्ठोऽध्यायः । अर्जुन उवाच । किं कर्तव्यं विदां कृष्ण किं निरुद्धं वदस्व मे । विशेषलक्षणं तेषां विस्तरेण प्रकाशय ॥ १॥ श्रीकृष्ण उवाच । कर्तव्यं वाप्यकर्तव्यं नास्ति तत्त्वविदां सखे । तेऽकर्तारो ब्रह्मरूपा निषेधविधिवर्जिताः ॥ २॥ वेदः प्रभुर्न वै तेषां नियोजननिषेधने । स्वयं ब्रह्म सदानन्दा विश्रान्ताः परमात्मनि ॥ ३॥ न प्रवृत्तिर्निवृत्तिर्वा शुभे वाप्यशुभे तथा । फलं भोगस्तथा कर्म नादेहस्य भवेत्क्वचित् ॥ ४॥ देहः प्राणो मनो बुद्धिश्चित्ताहङ्कारमिन्द्रियम् । दैवं च वासना चेष्टा तद्योगात् कर्म सम्भवेत् ॥ ५॥ ज्ञानी सर्वं विचारेण निरस्य जडबोधतः । स्वरूपे सच्चिदानन्दे विश्रान्तश्चाद्वयत्वतः ॥ ६॥ कर्मलेशो भवेन्नास्य निष्क्रियात्मतया यतेः । तस्यैव फलभोगः स्याद्येन कर्म कृतं भवेत् ॥ ७॥ शरीरे सति यत्कर्म भवतीति प्रपश्यसि । अहङ्कारश्च साभासः कर्ता भोक्तात्र कर्मणः ॥ ८॥ साक्षिणा भास्यते सर्वं ज्ञानी साक्षी स्वयंप्रभः । सङ्गस्पर्शौ ततो न स्तो भानुवल्लोककर्मभिः ॥ ९॥ विचरति गृहकार्ये त्यक्तदेहाभिमानो विहरति जनसङ्गे लोकयात्रानुरूपम् । पवनसमविहारी रागसङ्गादिमुक्तो विलसति निजरूपे तत्त्वविद्व्यक्तलिङ्गः ॥ १०॥ लक्षणं किं ते वक्ष्यामि स्वभावतो विलक्षणः । भावातीतस्य को भावः किमलक्ष्यस्य लक्षणम् ॥ ११॥ विहरेद्विविधैर्भावैर्भावाभावविवर्जितः । सर्वाचारानतीतः स नानाचारैश्चरेद्यतिः ॥ १२॥ प्रारब्धैर्नीयते देहः कञ्चुकं पवनैर्यथा । भोगे नियोज्यते काले यथायोग्यं शरीरकम् ॥ १३॥ नानावेशधरो योगी विमुक्तः सर्ववेशतः । क्वचिद्भिक्षुः क्वचिन्नग्नो भोगे मग्नमनाः क्वचित् ॥ १४॥ शैलूषसदृशो वेशैर्नानारूपधरः सदा । भिक्षाचाररतः कश्चित् कश्चित्तु राजवैभवः ॥ १५॥ कश्चिद्भोगरतः कामी कश्चिद्वैराग्यमाश्रितः । दिव्यवासाश्चीराच्छन्नो दिग्वासा बद्धमेखलः ॥ १६॥ कश्चित् सुगन्धलिप्ताङ्गः कश्चिद्भस्मानुलेपितः । कश्चिद्भोगविहारी च युवती-यान-ताम्बूलैः ॥ १७॥ कश्चिदुन्मत्तवद्वेशः पिशाच इव वा वने । कश्चिन्मौनी भवेत् पार्थ कश्चिद्वक्तातितार्किकः ॥ १८॥ कश्चिच्छुभाशीः सत्पात्रः कश्चित्तद्भाववर्जितः । कश्चिद्गृही वनस्थोऽन्यः कश्चिन्मूढोऽपरः सुखी ॥ १९॥ इत्यादि विविधैर्भावैश्चरन्ति ज्ञानिनो भुवि । अव्यक्ता व्यक्तलिङ्गश्च भ्रमन्ति भ्रमवर्जिताः ॥ २०॥ नानाभावेन वेशेन चरन्ति गतसंशयाः । न ज्ञायते तु तान् दृष्ट्वा किञ्चिच्चिह्नञ्च बाह्यतः ॥ २१॥ देहात्मबुद्धितो लोके बाह्यलक्षणमीक्षते । अन्तर्भावे न वै वेद्यो बहिर्लक्षणतः क्वचित् ॥ २२॥ यो जानाति स जानाति नान्ये वादरता जनाः । शास्त्रारण्ये भ्रमन्ते ते न तेषां निष्कृतिः क्वचित् ॥ २३॥ दुष्प्राप्यतत्त्वं बहुना धनेन लभ्यं परं जन्मशतेन चैव । भाग्यं यदि स्याच्छुभसञ्चयेन पुण्येन चाचार्यकृपावशेन ॥ २४॥ यदि सर्वं परित्यज्य मयि भक्तिपरायणः । साधयेदेकचित्तेन साधनानि पुनः पुनः ॥ २५॥ विधाय कर्म निष्कामं सत्प्रीति-लाभ-मानसः । मयि कृत्वार्पणं सर्वं चित्तशुद्धिरवाप्यते ॥ २६॥ ततो विवेकसम्प्राप्तः साधनानि समाचरेत् । आत्मवासनया युक्तो बुभुत्सुर्व्यग्रमानसः ॥ २७॥ संश्रयेत् सद्गुरुं प्राज्ञं दम्भादिदोषवर्जितः । गुरुसेवारतो नित्यं तोषयेद्गुरुमीश्वरम् । तत्त्वातीतो भवेत्तत्त्वं लब्ध्वा गुरुप्रसादतः ॥ २८॥ गुरौ प्रसन्ने परतत्त्वलाभस्ततः क्व तापो भवबन्धमुक्तः । विमुक्तसङ्गः परमात्मरूपो न संसरेत् सोऽपि पुनर्भवाब्धौ ॥ २९॥ ज्ञानी कश्चिद्विरक्तः प्रविरतविषयस्त्यक्तभोगो निराशः कश्चिद्भोगी प्रसिद्धो विचरति विषये भोगरागप्रसक्तः । प्रारब्धस्तत्र हेतुर्जनयति विविधा वासनाः कर्मयोगात् प्रारब्धे यस्य भोगः स यतति विभवे भोगहीनो विरक्तः ॥ ३०॥ प्रारब्धाद्वासना चेच्छा प्रवृत्तिर्जायते नृणाम् । प्रवृत्तो वा निवृत्तो वा प्रभुत्वं तस्य सर्वतः ॥ ३१॥ भोगो ज्ञानं भवेद्देहे एकेनारब्धकर्मणा । प्रारब्धं भोगदं लोके दत्वा भोगं विनश्यति ॥ ३२॥ प्रारब्धं लक्ष्यसम्पन्ने घटवज्ज्ञानजन्मतः । शेषस्तिष्ठेत्समुत्पन्ने घटे चक्रस्य वेगवत् ॥ ३३॥ प्रारब्धं विदुषाः पार्थ ज्ञानोत्तरमृषात्मकम् । कर्तुं नातिशयं किञ्चित् प्रारब्धं ज्ञानिनां क्षमम् ॥ ३४॥ तद्देहारम्भिका शक्तिर्भोगदानाय देहिनाम् । दद्याज्ज्ञानोत्तरं भोगं देहाभासं विधाय तत् ॥ ३५॥ आभासशरीरे भोगो भवेत् प्रारब्धकल्पिते । मुक्तो ज्ञानदशायान्तु तत्त्वज्ञो भोगवर्जितः ॥ ३६॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां षष्ठोऽध्यायः ॥६॥
अथ सप्तमोऽध्यायः । श्रीभगवनुवाच । सारं तत्त्वं प्रवक्ष्यामि तच्छृणुष्व सखेऽर्जुन । अतिगुह्यं महत्पूर्णं यच्छ्रुत्वा मुच्यते नरः ॥ १॥ पूर्णं चैतन्यमेकं सत्ततोऽन्यन्न हि किञ्चन । न माया नेश्वरो जीवो देशः कालश्चराचरम् ॥ २॥ न त्वं नाहं न वा पृथ्वी नेमे लोका भुवादयः । किञ्चिन्नास्त्यपि लेशेन नास्ति नास्तीति निश्चिनु ॥ ३॥ केवलं ब्रह्ममात्रं सन्नान्यदस्तीति भावय । पश्यसि स्वप्नवत्सर्वं विवर्तं चेतने खलु ॥ ४॥ विषयं देशकालादिं भोक्तृज्ञातृक्रियादिकम् । मिथ्या तत्स्वप्नवद्भानं न किञ्चिन्नापि किञ्चन ॥ ५॥ यत्सत्त्वं सततं प्रकाशममलं संसारधारावहं नान्यत् किञ्च तरङ्गफेनसलिलं सत्तैव विश्वं तथा । दृश्यं स्वप्नमयं न चास्ति विततं मायामयं दृश्यते चैतन्यं विषयो विभाति बहुधा ब्रह्मादिकं मायया ॥ ६॥ विश्वं दृश्यमसत्यमेतदखिलं मायाविलासास्पदं आत्माऽज्ञाननिदानभानमनृतं सद्वच्च मोहालयम् । बाध्यं नाश्यमचिन्त्यचित्ररचितं स्वप्नोपमं तद्ध्रुवम् आस्थां तत्र जहि स्वदुःखनिलये रज्ज्वां भुजङ्गोपमे ॥ ७॥ अर्जुन उवाच । निर्गुणं परमं ब्रह्म निर्विकारं विनिष्क्रियम् । जगत्सृष्टिः कथं तस्माद्भवति तद्वदस्व मे ॥ ८॥ श्रीभगवानुवाच । सृष्टिर्नास्ति जगन्नास्ति जीवो नास्ति तथेश्वरः । मायया दृश्यते सर्वं भास्यते ब्रह्मसत्तया ॥ ९॥ यथा स्तिमितगम्भीरे जलराशौ महार्णवे । समीरणवशाद्वीचिर्न वस्तु सलिलेतरत् ॥ १०॥ तथा हि पूर्णचैतन्ये मायया दृश्यते जगत् । न तरङ्गो जलाद्भिन्नो ब्रह्मणोऽन्यज्जगन्न हि ॥ ११॥ चैतन्यं विश्वरूपेण भासते मायया तथा । किञ्चिद्भवति नो सत्यं स्वप्नकर्मेव निद्रया ॥ १२॥ यावन्निद्रा ऋतं तावत् तथाऽज्ञानादिदं जगत् । न माया कुरुते किञ्चिन्मायावी न करोत्यणु । इन्द्रजालसमं सर्वं बद्धदृष्टिः प्रपश्यति ॥ १३॥ अज्ञानजनबोधार्थं बाह्यदृष्ट्या श्रुतीरितम् । बालानां प्रीतये यद्वद्धात्री जल्पति कल्पितम् । तत्प्रकारं प्रवक्ष्यामि शृणुष्व कुन्तिनन्दन ॥ १४॥ चैतन्ये विमले पूर्णे कस्मिन् देशेऽणुमात्रकम् । अज्ञानमुदितं सत्तां चैतन्यस्फूर्तिमाश्रितम् ॥ १५॥ तदज्ञानं परिणतं स्वस्यैव शक्तिभेदतः । मायारूपा भवेदेका चाविद्यारूपिणीतरा ॥ १६॥ सत्त्वप्रधानमायायां चिदाभासो विभासितः । चिदध्यासाच्चिदाभास ईश्वरोऽभूत्स्वमायया ॥ १७॥ मायावृत्या भवेदीशः सर्वज्ञः सर्वशक्तिमान् । इच्छादि सर्वकर्तृत्वं मायावृत्या तथेश्वरे ॥ १८॥ ततः सङ्कल्पवानीशस्तद्वृत्या स्वेच्छया स्वतः । बहुः स्यामहमेवैकः सङ्कल्पोऽस्य समुत्थितः ॥ १९॥ मायाया उद्गतः कालो महाकाल इति स्मृतः । कालशक्तिर्महाकाली चाद्या सद्यसमुद्भवात् ॥ २०॥ कालेन जायते सर्वं काले च परितिष्ठति । काले विलयमाप्नोति सर्वे कालवशानुगाः ॥ २१॥ सर्वव्यापी महाकालो निराकारो निरामयः । उपाधियोगतः कालो नानाभावेन भासते ॥ २२॥ निमेषादिर्युगः कल्पः सर्वं तस्मिन् प्रकाशितम् । कालतोऽभून्महत्तत्त्वं महत्तत्त्वादहङ्कृतिः ॥ २३॥ त्रिविधः सोऽप्यहङ्कारः सत्त्वादिगुणभेदतः । अहङ्काराद्भवेत् सूक्ष्मतन्मात्राण्यपि पञ्च वै ॥ २४॥ सूक्ष्माणि पञ्चभूतानि स्थूलानि व्याकृतानि तु । सत्त्वांशात् सूक्ष्मभूतानां क्रमाद्धीन्द्रियपञ्चकम् । अन्तःकरणमेकं तत् समष्टिगुणतत्त्वतः ॥ २५॥ कर्मेन्द्रियाणि रजसः प्रत्येकं भूतपञ्चकात् । पञ्चवृत्तिमयः प्राणः समष्टिः पञ्चराजसैः ॥ २६॥ पञ्चीकृतं तामसांशं तत्पञ्चस्थूलतां गतम् । स्थूलभूतात् स्थूलसृष्टिर्ब्रह्माण्डशरीरादिकम् ॥ २७॥ मायोपाधिर्भवेदीशश्चाविद्या जीवकारणम् । शुद्धसत्त्वाधिका माया चाविद्या सा तमोमयी ॥ २८॥ मलिनसत्त्वप्रधाना ह्यविद्याऽऽवरणात्मिका । चिदाभासस्तत्र जीवः स्वल्पज्ञश्चापि तद्वशः । चैतन्ये कल्पितं सर्वं बुद्बुदा इव वारिणि ॥ २९॥ तैलबिन्दुर्यथा क्षिप्तः पतितः सरसीजले । नानारूपेण विस्तीर्णो भवेत्तन्न जलं तथा ॥ ३०॥ अनन्तपूर्णचैतन्ये महामाया विजृम्भिता । कस्मिन् देशे चाणुमात्रं बिभृता नामरूपतः ॥ ३१॥ न मायातिशयं कर्तुं ब्रह्मणि कश्चिदर्हति । चैतन्यं स्वबलेनैव नानाकारं प्रदर्शयेत् ॥ ३२॥ विवर्तं स्वप्नवत्सर्वमधिष्ठाने तु निर्मले । आकाशे धूमवन्माया तत्कार्यमपि विस्तृतम् । सङ्गः स्पर्शस्ततो नास्ति नाम्बरं मलिनं ततः ॥ ३३॥ कार्यानुमेया सा माया दाहकानलशक्तिवत् । अधिज्ञैरनुमीयेत जगद्दृष्ट्यास्य कारणम् ॥ ३४॥ न माया चैतन्ये न हि दिनमणावन्धकारप्रवेशः दिवान्धाः कल्पन्ते दिनकरकरे शार्वरं घोरदृष्ट्या । न सत्यं तद्भावः स्वमतिविषयं नास्ति तल्लेशमात्रः तथा मूढाः सर्वे मनसि सततं कल्पयन्त्येव माया ॥ ३५॥ स्वसत्ताहीनरूपत्वादवस्तुत्वात्तथैव च । अनात्मत्वाज्जडत्वाच्च नास्ति मायेति निश्चिनु ॥ ३६॥ माया नास्ति जगन्नास्ति नास्ति जीवस्तथेश्वरः । केवलं ब्रह्ममात्रत्वात् स्वप्नकल्पेव कल्पना ॥ ३७॥ एकं वक्त्रं न योग्यं तद्द्वितीयं कुत इष्यते । संख्याबद्धं भवेदेकं ब्रह्मणि तन्न शोभते ॥ ३८॥ लेशमात्रं न हि द्वैतं द्वैतं न सहते श्रुतिः । शब्दातीतं मनोऽतीतं वाक्यातीतं सदामलम् । उपमाभावहीनत्वादीदृशस्तादृशो न हि ॥ ३९॥ न हि तत् श्रूयते श्रोत्रैर्न स्पृश्यते त्वचा तथा । न हि पश्यति चक्षुस्तद्रसनास्वादयेन्न हि । न च जिघ्रति तद्घ्राणं न वाक्यं व्याकरोति च ॥ ४०॥ सद्रूपो ह्यविनाशित्वात् प्रकाशत्वाच्चिदात्मकः । आनन्दः प्रियरूपत्वान्नात्मन्यप्रियता क्वचित् ॥ ४१॥ व्यापकत्वादधिष्ठानाद्देहस्यात्मेति कथ्यते । बृंहणत्वाद्बृहत्वाच्च ब्रह्मेति गीयते श्रुतौ ॥ ४२॥ यदा ज्ञात्वा स्वरूपं स्वं विश्रान्तिं लभसे सखे । तदा धन्यः कृतार्थः सन् जीवन्मुक्तो भविष्यसि ॥ ४३॥ मोक्षरूपं तमेवाहुर्योगिनस्तत्त्वदर्शिनः । स्वरूपज्ञानमात्रेण लाभस्तत्कण्ठहारवत् ॥ ४४॥ प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः । तमस्तमःकार्यमसत्यसर्वं न दृश्यते भानोर्महाप्रकाशे ॥ ४५॥ अतस्ततो नास्ति जगत्प्रसिद्धं शुद्धे परे ब्रह्मणि लेशमात्रम् । मृषामयं कल्पितनामरूपं रज्ज्वां भुजङ्गो मृदि कुम्भभाण्डम् ॥ ४६॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां सप्तमोऽध्यायः ॥७॥
अथाष्टमोऽध्यायः । अर्जुन उवाच । किं लक्ष्यं स्वात्मरूपेण यद्ब्रह्म कथ्यते विदा । यज्ज्ञात्वा ब्रह्मरूपेण स्वात्मानं वेद्मि तद्वद ॥ १॥ श्रीभगवनुवाच । अङ्गुष्ठमात्रः पुरुषो हृत्पद्मे यो व्यवस्थितः । तमात्मानञ्च वेत्तारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २॥ हृदयकमलं पार्थ अङ्गुष्ठपरिमाणतः । तत्र तिष्ठति यो भाति वंशपर्वणीवाम्बरम् । अङ्गुष्ठमात्रं पुरुषं तेनैव वदति श्रुतिः ॥ ३॥ महाकाशे घटे जातेऽवकाशो घटमध्यगः । घटावच्छिन्न आकाशः कथ्यते लोकपण्डितैः ॥ ४॥ कूटस्थोऽपि तथा बुद्धिः कल्पिता तु यदा भवेत् । तदा कूटस्थचैतन्यः बुद्ध्यन्तस्थं विभासते । बुद्ध्यवच्छिन्नचैतन्यं जीवलक्ष्यं त्वमेव हि ॥ ५॥ प्रज्ञानं तच्च गायन्ति वेदशास्त्रविशारदाः । आनन्दं ब्रह्मशब्दाभ्यां विशेषणविशेषितम् ॥ ६॥ शृणोति येन जानाति पश्यति च विजिघ्रति । स्वादास्वादं विजानाति शीतञ्चोष्णादिकं तथा ॥ ७॥ चैतन्यं वेदनारूपं तत्सर्ववेदनाश्रयम् । अलक्ष्यं शुद्धचैतन्यं कूटस्थं लक्षयेत् श्रुतिः ॥ ८॥ बुद्ध्यावच्छिन्नचैतन्यं वृत्यारूढं यदा भवेत् । ज्ञानशब्दाभिधं तर्हि तेन चैतन्यबोधनम् ॥ ९॥ यदा वृत्तिः प्रमाणेन विषयेणैकतां व्रजेत् । वृत्तविषयचैतन्ये एकत्वेन फलोदयः ॥ १०॥ तदा वृत्तिलये प्राप्ते ज्ञानं चैतन्यमेव तत् । प्रबोधनाय चैतन्यं ज्ञानशब्देन कथ्यते ॥ ११॥ शृणोषि वीक्षसे यद्यत्तत्र संविदनुत्तमा । अनुस्यूततया भाति तत्तत्सर्वप्रकाशिका ॥ १२॥ संविदं तां विचारेण चैतन्यमवधारय । तत्र पश्यसि यद्वस्तु जानामीति विभासते । तद्धि संवित्प्रभावेन विज्ञेयं स्वरूपं ततः ॥ १३॥ सर्वं निरस्य दृश्यत्वादनात्मत्वाज्जडत्वतः । तमविच्छिन्नमात्मानं विद्धि सुसूक्ष्मया धिया ॥ १४॥ या संवित् सैव हि त्वात्मा चैतन्यं ब्रह्म निश्चिनु । त्वंपदस्य च लक्ष्यं तज्ज्ञातव्यं गुरुवाक्यतः ॥ १५॥ घटाकाशो महाकाश इव जानीहि चैकताम् । अखण्डत्वं भवेदैक्यं ज्ञात्वा ब्रह्ममयो भव ॥ १६॥ कुम्भाकाशमहाकाशो यथाऽभिन्नो स्वरूपतः । तथात्मब्रह्मणोऽभेदं ज्ञात्वा पूर्णो भवार्जुन ॥ १७॥ नानाधारे यथाकाशः पूर्ण एको हि भासते । तथोपाधिषु सर्वत्र चैकात्मा पूर्णनिरद्वयः ॥ १८॥ यथा दीपसहस्रेषु वह्निरेको हि भास्वरः । तथा सर्वशरीरेषु ह्येकात्मा चित्सदव्ययः ॥ १९॥ सहस्रधेनुषु क्षीरं सर्पिरेकं न भिद्यते । नानारणिप्रस्तरेषु कृशानुर्भेदवर्जितः ॥ २०॥ नानाजलाशयेष्वेवं जलमेकं स्फुरत्यलम् । नानावर्णेषु पुष्पेषु ह्येकं तन्मधुरं मधु ॥ २१॥ इक्षुदण्डेष्वसंख्येषु चैकं हि रसमैक्षवम् । तथा हि सर्वभावेषु चैतन्यं पूर्णमद्वयम् ॥ २२॥ अद्वये पूर्णचैतन्ये कल्पितं माययाखिलम् । मृषा सर्वमधिष्ठानं नानारूपेण भासते ॥ २३॥ अखण्डे विमले पूर्णे द्वैतगन्धविवर्जिते । नान्यत्किञ्चित्केवलं सन्नानाभावेन राजते ॥ २४॥ स्वप्नवद्दृश्यते सर्वं चिद्विवर्तं चिदेव हि । केवलं ब्रह्ममात्रन्तु सच्चिदानन्दमव्ययम् ॥ २५॥ सच्चिदानन्दशब्देन तल्लक्ष्यं लक्षयेत् श्रुतिः । अक्षरमक्षरातीतं शब्दातीतं निरञ्जनम् । तत्स्वरूपं स्वयं ज्ञात्वा ब्रह्मवित्त्वं परित्यज ॥ २६॥ अभिमानावृतिर्मुख्या तेनैव स्वरूपावृतिः । पञ्चकोशेष्वहङ्कारः कर्तृभावेन राजते ॥ २७॥ ब्रह्मवित्त्वाभिमानं यद्भवेद्विज्ञानसंज्ञिते । अहङ्कारस्य तद्धर्म पिहिते स्वरूपेऽमले ॥ २८॥ अतः संत्यज्य तद्भावं केवलं स्वरूपे स्थितम् । तत्त्वज्ञानमिति प्राहुर्योगिनस्तत्त्वदर्शिनः ॥ २९॥ अन्धकारगृहे शायी शरीरं तूलिकावृतम् । देहादिकं च नास्तीति निश्चयेन विभावय ॥ ३०॥ न पश्यसि तदा किञ्चिद्विभाति साक्षि सत्स्वयम् । अहमस्मीति भावेन चान्तः स्फुरति केवलम् ॥ ३१॥ निःशेषत्यक्तसंघातः केवलः पुरुषः स्वयम् । अस्ति नास्ति बुद्धिधर्मे सर्वात्मना परित्यजेत् ॥ ३२॥ अहं सर्वात्मना त्यक्त्वा सर्वभावेन सर्वदा । अहमस्मीत्यहं भामि विसृज्य केवलो भव ॥ ३३॥ जाग्रदपि सुषुप्तिस्थो जाग्रद्धर्मविवर्जितः । सौषुप्ते क्षयिते धर्मे त्वज्ञाने चेतनः स्वयम् ॥ ३४॥ हित्वा सुषुप्तावज्ञानं यद्भावो भाववर्जितः । प्रज्ञया स्वरूपं ज्ञात्वा प्रज्ञाहीनस्तथा भव ॥ ३५॥ न शब्दः श्रवणं नापि न रूपं दर्शनं तथा । भावाभावौ न वै किञ्चित् सदेवास्ति न किञ्चन ॥ ३६॥ सुसूक्ष्मया धिया बुद्ध्वा स्वरूपं स्वस्थचेतनम् । बुद्धौ ज्ञानेने लीनायां यत्तच्छुद्धस्वरूपकम् ॥ ३७॥ इति ते कथितं तत्त्वं सारभूतं शुभाशय । शोको मोहस्त्वयि नास्ति शुद्धरूपोऽसि निष्कलः ॥ ३८॥ शान्तव्रत उवाच । श्रुत्वा प्रोक्तं वासुदेवेन पार्थो हित्वाऽऽसक्तिं मायिकेऽसत्यरूपे । त्यक्त्वा सर्वं शोकसन्तापजालं ज्ञात्वा तत्त्वं सारभूतं कृतार्थः ॥ ३९॥ कृष्णं प्रणम्याथ विनीतभावैर्ध्यात्वा हृदिस्थं विमलं प्रपन्नम् । प्रोवाच भक्त्या वचनेन पार्थः कृताञ्जलिर्भावभरेण नम्रः ॥ ४०॥ अर्जुन उवाच । त्वमाद्यरूपः पुरुषः पुराणो न वेद वेदस्तव सारतत्त्वम् । अहं न जाने किमु वच्मि कृष्ण नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४१॥ त्वमेव विश्वोद्भवकारणं सत् समाश्रयस्त्वं जगतः प्रसिद्धः । अनन्तमूर्तिर्वरदः कृपालुर्नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४२॥ वदामि किं ते परिशेषतत्त्वं न जाने किञ्चित्तव मर्म गूढम् । त्वमेव सृष्टिस्थितिनाशकर्ता नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४३॥ विश्वरूपं पुरा दृष्टं त्वमेव स्वयमीश्वरः । मोहयित्वा सर्वलोकान् रूपमेतत् प्रकाशितम् ॥ ४४॥ सर्वे जानन्ति त्वं वृष्णिः पाण्डवानां सखा हरिः । किं ते वक्ष्यामि तत्तत्त्वं न जानन्ति दिवौकसः ॥ ४५॥ श्रीभगवानुवाच । तत्त्वज्ञोऽसि यदा पार्थ तूष्णीं भव तदा सखे । यद्दृष्टं विश्वरूपं मे मायामात्रं तदेव हि ॥ ४६॥ तेन भ्रान्तोऽसि कौन्तेय स्वस्वरूपं विचिन्तय । मुह्यन्ति मायया मूढास्तत्त्वज्ञा मोहवर्जिताः ॥ ४७॥ शान्तिगीतामिमां पार्थ मयोक्तां शान्तिदायिनीम् । यः शृणुयात् पठेद्वापि मुक्तः स्याद्भवबन्धनात् ॥ ४८॥ न कदाचिद्भवेत् सोऽपि मोहितो मम मायया । आत्मज्ञानाच्छोकशान्तिर्भवेद्गीताप्रसादतः ॥ ४९॥ शान्तव्रत उवाच । इत्युक्त्वा भगवान् कृष्णः प्रफुल्लवदनः स्वयम् । अर्जुनस्य करं धृत्वा युधिष्ठिरान्तिकं ययौ ॥ ५०॥ इयं गीता तु शान्त्याख्या गुह्याद्गुह्यतरा परा । तव स्नेहान्मया प्रोक्ता यद्दत्ता गुरुणा मयि ॥ ५१॥ न दातव्या क्वचिन्मोहाच्छठाय नास्तिकाय च । कुतर्काय च मूर्खाय निर्देयोन्मार्गवर्तिने ॥ ५२॥ प्रदातव्या विरक्ताय प्रपन्नाय मुमुक्षवे । गुरुदैवतभक्ताय शान्ताय ऋजवे तथा ॥ ५३॥ सश्रद्धाय विनीताय दयाशीलाय साधवे । विद्वेषक्रोधहीनाय देया गीता प्रयत्नतः ॥ ५४॥ इति ते कथिता राजन् शान्तिगीता सुगोपिता । शोकशान्तिकरी दिव्या ज्ञानदीपप्रदीपनी ॥ ५५॥ गीतेयं शान्तिनाम्नी मधुरिपुगदिता पार्थशोकप्रशान्त्यै पापौघं तापसंघं प्रहरति पठनात् सारभूतातिगुह्या । आविर्भूता स्वयं सा स्वगुरुकरुणया शान्तिदा शान्तभावा काशीसत्त्वे सभासा तिमिरचयहरा नर्तयन् पद्यबन्धैः ॥ ५६॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायामष्टमोऽध्यायः ॥८॥ इति शान्तिगीता समाप्ता ॥ From Gita Granthabali in Bengali by Upendranath Mukhopadhyay 1911 Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : shAntigItA
% File name             : shAntigItA.itx
% itxtitle              : shAntigItA
% engtitle              : Shanti Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : From Gita Granthabali in Bengali by Upendranath Mukhopadhyay 1911
% Indexextra            : (scanned)
% Latest update         : August 13, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP