उल्लापनगीतम्
मदालसोपाख्यान - बालोल्लापनगीतम्
Queen Madalasa's lullaby to her 1st born, Vikranta;
Markandeya Purana, Ch. 25
सा वै मदालसा पुत्रं बालमुत्तनशायिनम् ।
उल्लापनच्छलेनाह रुदमनमविस्वरम् ॥ १०॥
शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैत-
न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥ ११॥
न वा भवान्रोदिति वै स्वजन्मा
शब्दोऽयमासाद्य महीशसूनुम् ।
विकल्प्यमाना विविधा गुणास्ते
ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥ १२॥
भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुदानादिभिरेव कस्य
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ १३॥
त्वं कञ्चुके शीर्यमाणे निजेऽस्मिं-
स्तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्माभिर्देहमेत-
नादादिमूढैः कञ्चुकस्तेपि नद्धः ॥ १४॥
तातेति किञ्चित्तनयेति किञ्चि-
दम्वेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहु मानयेथाः ॥ १५॥
दुःखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानात्यविद्वान् सुविमूढचेताः ॥ १६॥
हासोऽस्थिसन्दर्शनमक्षियुग्म-
मत्युज्ज्वलं तर्जनमङ्गनायाः ।
कुचादि पीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित् ॥ १७॥
यानं क्षितौ यानगतञ्च देहं
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वबुद्धिर्न तथा यथा स्वे
देहेऽतिमात्रं बत मूढतैषा ॥ १८॥
त्यज धर्ममधर्मञ्च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥
इति श्रीमार्कण्डेयपुराणान्तर्गतं मदालसोपाख्याने बालोल्लापनगीतं समाप्ता ॥
Encoded and proofread by Sunder Hattangadi