श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् १

श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् १

अथ ध्यानम् ।

मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शरणं प्रपद्ये ॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥ ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥ ॐ फ्रौम् । ॐ नमो हनुमते आवेषे आवेषे स्वाहा । ॐ हूं हनुमते रुद्रात्मकाये हूं फट् स्वाहा । ॐ ऐं भ्रीं हनुमते श्रीरामदूताय नमः । ॐ ह्रीं हरि मर्कट मर्कटाय स्वाहा ।

अथ स्तोत्रम् ।

प्रपन्नानुरागं प्रभाकाञ्चनाभं (प्रभाकाञ्चनाङ्गं) जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥ (पवित्रात्पवित्रम्) भजे पावनं भावनानित्यवासं (भजे हेमरम्भावनेनित्यवासं) भजे बालभानुप्रभाचारुभासम् । भजे चन्द्रिकाकुन्दमन्दारहासं भजे सन्ततं रामभूपालदासम् ॥ २॥ भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेक गीर्वाणपक्षम् । भजे घोरसङ्ग्रामसीमा हताक्षं भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥ कृताभीलनादं क्षितिक्षिप्तपादं घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् । वियद्व्याप्तकेशं भुजाश्लेषिताश्मं जयश्री समेतं भजे रामदूतम् ॥ ४॥ चलद्वालघातं भ्रमच्चक्रवालं कठोराट्टहासं प्रभिन्नाब्जजाण्डम् । महासिंहनादा द्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥ रणे भीषणे मेघनादे सनादे सरोषे समारोपिते मित्रमुख्ये । (सरोषं) खगानां घनानां सुराणां च मार्गे नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥ कनद्रत्न जम्भारि दम्भोलिधारं कनद्दन्त निर्धूतकालोग्र दन्तम् । पदाघातभीताब्धि भूतादिवासं रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥ महागर्भपीडां महोत्पातपीडां (महाग्राहपीडां) महारोगपीडां महातीव्रपीडाम् । (महाव्याधिपीडाम्) हरत्याशु ते पादपद्मानुरक्तो नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥ सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः (सांद्रे निशीधे) सुधाचौषदीस्ताः प्रगुप्तप्रभावम् । क्षणद्रोणशैलस्य सारेण सेतुं (पृष्ठे प्ररूढाः) विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥ निरातङ्कमाविश्य लङ्कां विशङ्को भवानेन सीतातिशोकापहारी । समुद्रान्तरङ्गादि रौद्रं विनिद्रं विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥ (विलद्ध्योरु) रमानाथ रामः क्षमानाथ रामः अशोकेन शोकं विहाय प्रहर्षम् । वनान्तर्घनं जीवनं दानवानां विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥ जराभारतो भूरिपीडां शरीरे निराधारणारूढ गाढ प्रतापे । भवत्पादभक्तिं भवद्भक्तिरक्तिं कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥ महायोगिनो ब्रह्मरुद्रादयो वा न जानन्ति तत्त्वं निजं राघवस्य । कथं ज्ञायते मादृशे नित्यमेव प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥ वानरश्रेष्ठ शम्भो! नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्र देहाय तुभ्यम् । नमस्ते परीभूत सूर्याय तुभ्यं नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥ नमस्ते सदा ब्रह्मचर्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् । नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥

॥ फलश्रुतिः ॥

हनुमद्भुजङ्गप्रयातं प्रभाते प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः । पठन्नश्नतोऽपि प्रमुक्ताघजालं सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥ इति श्रीमदादिशङ्कराचार्यविरचितं श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णं श्रीहनुमद् भुजङ्गप्रयातस्तोत्रम् Proofread by Kiran Kumar, Sunder Hattangadi
% Text title            : Anjaneya evam hanUmatbhuja.ngaprayAtastotram
% File name             : hanUmatbhujangaprayAtastotra.itx
% itxtitle              : AnjaneyabhujaNgaprayAtastotram 1 (shaNkarAchAryavirachitaM)
% engtitle              : shrImadAnjaneya bhujangaprayAta stotram  Version 1
% Category              : hanumaana, bhujanga, shankarAchArya
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Subcategory           : bhujanga
% Author                : Adi Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kiran Kumar, Sunder Hattangadi, NA
% Latest update         : May 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org