हनुमन्मन्त्राः

हनुमन्मन्त्राः

(प्रपञ्चसारसारसङ्ग्रहतः) १. हनुमन्मन्त्रस्य ईश्वरः ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । हां बीजं, नमः शक्तिः , मं कीलकं; मम हनुमत्प्रीत्यर्थे जपे विनियोगः । हृदयादि न्यासः - ॐ नमो भगवते आञ्जनेयाय हृदयाय नमः । रुद्रमूर्तये शिरसे स्वाहा । वायुसुताय शिखायै वषट् । अग्निगर्भाय कवचायहुम् । रामदूताय नेत्रत्रयाय वौषट् । ब्रह्मास्त्रनिवारणाय अस्त्राय फट् । करन्यासः - अङ्गुष्ठाभ्यां नमः । तर्जनीभ्यां नमः । मध्यमाभ्यां नमः । अनामिकाभ्यां नमः । कनिष्ठिकाभ्यां नमः । करतलकरपृष्ठाभ्यां नमः । ध्यानं - स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्भजे ॥ हौ ॐ नमो भगवन् प्रकटपराक्रम आक्रान्तदिङ्मण्डल यशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार लङ्कापुरीदहन उदधिबन्धन /(लङ्घन) दशग्रीवकृतान्तक, सीताश्वासन, अञ्जनागर्भसम्भव, रामलक्ष्मणानन्दकर कपिसैन्यप्राकारक सुग्रीवधारण पर्वतोत्पाटन बालब्रह्मचारिन् गम्भीरशब्द सर्वग्रहविनाशन सर्वज्वरोत्सादन डाकिनीविध्वंसिन् ॐ ह्रीं हा हा हा हंस हंस एहि सर्वविषं हर हर परबलं क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा । २. अस्य श्रीहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः हनुमान् देवता हां बीजं हीं शक्तिः, हनुमत्प्रीत्यर्थे जपे विनियोगः । ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति अङ्गन्यासकरन्यासौ । ध्यानम् - आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ॐ नमो भगवते मम मदनक्षोभं संहर संहर आत्मतत्त्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा । (मन्त्रोऽयं विद्याप्रदः) ३. कशिं कुक्ष वरवर अञ्जनावरपुत्र आवेशि आवेशि (आवेशयावेशय) ॐ ह्रीं हनुमन् फट् । ऋष्यादिन्यासाः पूर्ववत् । पिशाचादि निवृत्तिःफलम् । ४. वसिष्ठऋषिः अनुष्टुप्छन्दः । हनुमान् देवता । ॐ नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा इति अङ्गन्यासकरन्यासौ । ध्यानम् - वामे जानुनि वामबाहुमपरं ज्ञानाख्यमुद्रायुतं हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः ध्यायन्ब्रह्म परं करोतु मनसः सिद्धिं (शुद्धिं) हनूमान्मम ॥ ॐ नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्त्वं प्रकाशय प्रकाशय हुं फट् स्वाहा । (मदनक्षोभशान्तिविद्याप्रधानोऽयं मन्त्रः ।) शीर्षालिकश्रवणनेत्रकपोलनासा दोःपादसन्धिकटिनाभिसपार्श्वहृत्सु । कण्ठांसयुग्ममुखमूर्धसु च क्रमेण मन्त्राक्षरान्न्यसतु शुद्धमतिः स्वदेहे ॥ (इति न्यासक्रमः) लक्षं जपेत् । कदलीफलैर्वा पनसफलैर्वा; स्वादु (मधु) प्लुतैः दशांशं पुरश्चरणहोमः । पूजाक्रमः- नवशक्तिसहिते सामान्यपीठे आवाह्य अङ्गैः प्रथमावृतिः, जाम्बवते -विनताय -नीलाय -पनसाय - गन्धमादनाय-सुषेणाय -मैन्दाय-द्विविदाय -इति द्वितीयावृतिः । लोकेशैः (दिक्पालैः) तृतीया । तदायुधैः चतुर्थी । यन्त्रं तु कर्णिकायां लिखेत्तारं साध्यगर्भं च तद्बहिः । अष्टपत्रे केसरोद्यत्स्वरद्वन्द्वे मनोः क्रमात् ॥ आद्ये सप्त द्वितीये च चतुरोऽर्णास्तृतीयके । सप्त तुर्ये पञ्चमे च त्रीणि त्रीण्यक्षराण्यपि ॥ षट्सप्तमाष्टपत्रेषु चतुरश्चतुरोऽक्षरान् । वृत्तोल्लसत्कादिवर्णं भूपुराश्रस्थतारकम् ॥ हनूमतो यन्त्रमेतत् वाञ्छितार्थप्रदं परम् । इदमेव विलिख्य साधु यन्त्रं नवनीते प्रतिजप्य मन्त्रमेनम् । परिभक्षयतामनङ्गपीडा प्रशमं गच्छति शुद्धिमेति चेतः ॥ द्वितीयः प्रयोगः - आदाय दोष्णा सलिलं प्रसन्नं प्रजप्य मन्त्रं प्रपिबेत् त्रिवारम् । रागादिदोषप्रशमाय बुद्धेर्ज्ञानोदयाय प्रशमाय वृत्तेः ॥ पुरश्चर्यार्णवतो हनुमन्मन्त्राः १. अष्टादशाक्षरो मन्त्रः अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् । नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ॥ १॥ महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः । (नमो भगवते आञ्जनेयाय महाबलाय स्वाहा) छन्दोऽनुष्टुप् देवता तु हनुमान् हँ च बीजकम् ॥ २॥ स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्तिर्मरुत्सुतः । अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः । एतैर्ङेऽन्तैः षडङ्गानि तथाङ्गुष्ठादिषु न्यसेत् ॥ ३॥ तप्तकाञ्चनसङ्काशं हृदये निहिताञ्जलिम् । किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ॥ ४॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः । विप्रसन्तर्पणाद्यं तु प्राग्वत् सिद्धौ भवेन्मनुः ॥ ५॥ जितेन्द्रियो नक्तभोजी प्रत्येकं साष्टकं शतम् । जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् । भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ॥ ६॥ महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् । यताशनोऽयुतं नित्यं जपेद्ध्यायन् कपीश्वरम् । राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ॥ ७॥ सुग्रीवेण समं रामं सन्दधानं स्मरन् कपिम् । प्रजप्यायुतमात्रं तु सन्धिं कुर्याद्विरुद्धयोः ॥ ८॥ लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ ९॥ प्रयाणसमये ध्यायन् हनुमन्तं मनुं जपेत् । यो याति सोऽचिरात् स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ १०॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ ११॥ शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्थानकाले चौरेभ्यो दुष्टसर्पादपि ध्रुवम् ॥ १२॥ पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया । अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १३॥ तन्मध्येऽष्टादशार्णं तु शत्रूणामयुतं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबन्धेन भूमिपः । जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ॥ १४॥ २. अष्टाक्षरो मन्त्रः अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् । षड्दीर्घयुक्ता हृल्लेखा प्रणवेन च सम्पुटा ॥ अष्टार्णोऽयं हनुमतो मन्त्रराजः प्रकीर्तितः । षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ १६॥ ॐ ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ॐ बालार्काभं त्रिभुवनं क्षोभकान् सर्वराक्षसान् । नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् । सुन्दरं रामचरणध्यानं ध्यायेत्समीरजम् ॥ १७॥ ३. द्वादशाक्षरो मन्त्रः अथास्यायं प्रवक्ष्यामि द्वादशार्णं महामनुम् । हौं बीजं सम्यगुच्चार्य पूर्वोक्तं कूटपञ्चकम् ॥ १८॥ हनुमते नमो मन्त्रो रामचन्द्रो मुनिर्मतः । जगतीछन्द उद्दिष्टं हनुमान्देवता मतः ॥ १९॥ बीजं तु पञ्चमं कूटं शक्तिराद्यं च कूटकम् । षड्बीजैः प्रथमैर्न्यासः षडङ्गोऽस्य प्रकीर्तितः ॥ २०॥ आद्यन्ताकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः । हनूमतस्त्वाद्यकूटमेतत्साधक उच्चरेत् ॥ २१॥ प्रकृत्याकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः । द्वितीयं कूटमेतत्स्यादाद्यन्ताकृतिवर्णकाः ॥ २२॥ विसर्गेन्दुस्वरोपेतास्तृतीयं कूटमुच्यते । आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः ॥ २३॥ सानुस्वारैस्तुर्यकूटं साद्यः सौः पञ्चमं मतम् । (हौं ह्फ्रें ख्फ्रें ह्स्रों ह्स्ख्फ्रें सः ह्सौं हनुमते नमः) ध्यानं पूर्वोक्तमेवास्य जपेदर्कसहस्रकम् । दशांशं जुहुयाद्व्रीहीन् पयोदध्याज्यसंयुतान् ॥ २४॥ ४. मालामन्त्रः अथातः सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् । वज्रकाय वज्रतुण्ड वदेत् कपिलपिङ्गल ॥ २५॥ ऊर्ध्वकेश महाबल रक्तमुखेति कीर्तयेत् । तडिज्जिह्व महारौद्र दंष्ट्रोत्कटकहद्वयम् ॥ २६॥ करालिने महा प्रोच्य दृढप्रति च हा वदेत् । हि लङ्केश्वर वेत्युक्त्वा धाय महा वदेत्परम् ॥ २७॥ सेतुबन्ध महाशैलप्रवाह गगनेचर । एह्येहि भगवन् प्रोच्य महाबलपराक्रम ॥ २८॥ भैरवाज्ञापय प्रोच्य एह्येहीति पदं वदेत् । महारौद्रपदं प्रोच्य दीर्घपुच्छेन वेष्टय ॥ २९॥ वैरिणं भञ्जय द्वन्द्वं हूँ फड्बाणार्कवर्णवान् । मुन्याद्यर्चाप्रयोगादिसर्वं सूर्यार्णवन्मतम् ॥ ३०॥ ५. अन्यो मन्त्रः नमः सबिन्दुमृद्धत्य हनुमन्तं च ङेऽन्तकम् । रुद्रात्मकाय कवचमस्त्रं चेत्येकवर्णकः ॥ ३१॥ मन्त्रोऽयं हरिणा पूर्वं दत्तो गाण्डीवधन्विने । एतस्य साधनं कृत्वा रणे विजयमाप्तवान् ॥ ६. अन्यो मन्त्रः स्वबीजं पूर्वमुच्चार्य ङेऽन्तं पवननन्दनम् । वह्निजायावधि प्रोक्तो मन्त्रोऽयं सुरपादपः ॥ ३३॥ षड्दीर्घभाजा बीजेन मन्त्रार्णैरङ्गकल्पना । स्वरैः काद्यैश्च क्षान्तैश्च प्राणायामत्रयं चरेत् ॥ ३४॥ ॐ हं पवननन्दनाय स्वाहा । ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ३५॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुक्रोधं समुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ ३६॥ हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् । आब्रह्म च समाव्याप्य कृत्वा भीमकलेवरम् ॥ ३७॥ पूजा तु वैष्णवे पीठे लक्षमेकं जपं चरेत् । ततः सिद्धमनुर्मन्त्री साधयेत्सिद्धिमुत्तमाम् ॥ ३८॥ ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियो द्विजः । गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ॥ ३९॥ सम्पूज्य हनूमन्तं षट्सहस्रं जपमाचरेत् ॥ ४०॥ एवं सप्तदिनान्ते च समायाति कपीश्वरः । रात्रौ त्रिभागशेषायां ददाति वरमीप्सितम् ॥ ४१॥ विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । ददाति साधकेन्द्राय सत्यं सत्यं सुनिश्चयम् ॥ ४२॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumanmantrAH
% File name             : hanumanmantrAH.itx
% itxtitle              : hanumanmantrAH
% engtitle              : hanumanmantrAH
% Category              : hanumaana, mantra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org