नीलमेघस्तुतिः
सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तकारिणे ।
चराचरस्वरूपाय पुराणपुरुषाय च ॥ १॥
नमो लोकशरण्याय दीनसंरक्षणाय च ।
भक्तपालनरूपाय आपन्नार्तिहराय च ॥ २॥
त्वत्पाददर्शनाद्दुःखमशेषं नः प्रणश्यतु ।
अनेकजन्मसाहस्त्रैः सम्भृतं पुण्यमस्ति मे ॥ ३॥
नचेत्कथं त्वदीयाङ्घ्रिदर्शनं स्यादहैतुकम् ।
आगामि श्रेयसो हेतुर्वर्तमानाघशोधकम् ।
पूर्वपुण्यार्जितं कस्य नाशास्यं तव दर्शनम् ॥ ४॥
अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।
कृतार्थाः पितरस्सर्वे मम वंशसमुद्भवाः ॥ ५॥
फलिताः क्त्रतवो नूनं विप्राः सत्याशिषोऽभवन् ।
यथार्थो जनवादश्च चिराय भविता मम ॥ ६॥
अपि जन्तुर्महद्दुःखी जीवन्भद्राणि पश्यति ॥ ७॥
मैरावणोऽपि दुष्टात्मा मातुलो मम निर्दयः ।
सद्गतिं प्राप्नुयात्सत्यमिति मे निश्चिता मतिः ॥ ८॥
आश्लिष्टसर्वगात्रोऽयं साक्षात्कृतपदद्वयः ।
त्वत्पादघातसम्मृष्टः हृतप्राणसमीरणः ॥ ९॥
एवं विधः कथं स्वामिन् न मुच्येत भवाम्बुधेः ।
अन्यथा कथमन्येषां मुक्त्याशा भजतामपि ॥ १०॥
अद्य प्रभृति नः स्वामिन् भूयाद्भक्तिः पदाब्जयोः ।
धर्मार्थकाममोक्षाणां इयमेव प्रसूर्मम ॥ ११॥
इति नीलमेघस्तुतिः समाप्ता ।
Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com
Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com