अध्यात्मरामायणे युद्धकाण्डम्

अध्यात्मरामायणे युद्धकाण्डम्

॥ प्रथमः सर्गः ॥

श्रीमहादेव उवाच । यथावद्भाषितं वाक्यं श्रुत्वा रामो हनूमतः । उवाचानन्तरं वाक्यं हर्षेण महतावृतः ॥ १॥ कार्यं कृतं हनुमता देवैरपि सुदुष्करम् । मनसापि यदन्येन स्मर्तुं शक्यं न भूतले ॥ २॥ शतयोजनविस्तीर्णं लङ्घयेत्कः पयोनिधिम् । लङ्कां च राक्षसैर्गुप्तां को वा धर्षयितुं क्षमः ॥ ३॥ भृत्यकार्यं हनुमता कृतं सर्वमशेषतः । सुग्रीवस्येदृशो लोके न भूतो न भविष्यति ॥ ४॥ अहं च रघुवंशश्च लक्ष्मणश्च कपीश्वरः । जानक्या दर्शनेनाद्य रक्षिताः स्मो हनूमता ॥ ५॥ सर्वथा सुकृतं कार्यं जानक्याः परिमार्गणम् । समुद्रं मनसा स्मृत्वा सीदतीव मनो मम ॥ ६॥ कथं नक्रझषाकीर्णं समुद्रं शतयोजनम् । लङ्घयित्वा रिपुं हन्यां कथं द्रक्ष्यामि जानकीम् ॥ ७॥ श्रुत्वा तु रामवचनं सुग्रीवः प्राह राघवम् । समुद्रं लङ्घयिष्यामो महानक्रझषाकुलम् ॥ ८॥ लङ्कां च विधमिष्यामो हनिष्यामोऽद्य रावणम् । चिन्तां त्यज रघुश्रेष्ठ चिन्ता कार्यविनाशिनी ॥ ९॥ एतान् पश्य महासत्त्वान् शूरान् वानरपुङ्गवान् । त्वत्प्रियार्थं समुद्युक्तान् प्रवेष्टुमपि पावकम् ॥ १०॥ समुद्रतरणे बुद्धिं कुरुष्व प्रथमं ततः । दृष्ट्वा लङ्कां दशग्रीवो हत इत्येव मन्महे ॥ ११॥ नहि पश्याम्यहं कञ्चित्त्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ १२॥ सर्वथा नो जयो राम भविष्यति न संशयः । निमित्तानि च पश्यामि तथा भूतानि सर्वशः ॥ १३॥ सुग्रीववचनं श्रुत्वा भक्तिवीर्यसमन्वितम् । अङ्गीकृत्याब्रवीद्रामो हनूमन्तं पुरःस्थितम् ॥ १४॥ येन केन प्रकारेण लङ्घयामो महार्णवम् । लङ्कास्वरूपं मे ब्रूहि दुःसाध्यं देवदानवैः ॥ १५॥ ज्ञात्वा तस्य प्रतीकारं करिष्यामि कपीश्वर । श्रुत्वा रामस्य वचनं हनूमान् विनयान्वितः ॥ १६॥ उवाच प्राञ्जलिर्देव यथा दृष्टं ब्रवीमि ते । लङ्का दिव्या पुरी देव त्रिकूटशिखरे स्थिता ॥ १७॥ स्वर्णप्राकारसहिता स्वर्णाट्टालकसंयुता । परिखाभिः परिवृता पूर्णाभिर्निर्मलोदकैः ॥ १८॥ नानोपवनशोभाढ्या दिव्यवापीभिरावृता । गृहैर्विचित्रशोभाढ्यैर्मणिस्तम्भमयैः शुभैः ॥ १९॥ पश्चिमद्वारमासाद्य गजवाहाः सहस्रशः । उत्तरे द्वारि तिष्ठन्ति साश्ववाहाः सपत्तयः ॥ २०॥ तिष्ठन्त्यर्बुदसङ्ख्याकाः प्राच्यामपि तथैव च । रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रिताः ॥ २१॥ मध्यकक्षेऽप्यसङ्ख्याता गजाश्वरथपत्तयः । रक्षयन्ति सदा लङ्कां नानास्त्रकुशलाः प्रभो ॥ २२॥ सङ्क्रमैर्विविधैर्लङ्का शतघ्नीभिश्च संयुता । एवं स्थितेऽपि देवेश श‍ृणु मे तत्र चेष्टितम् ॥ २३॥ दशाननबलौघस्य चतुर्थांशो मया हतः । दग्ध्वा लङ्कां पुरीं स्वर्णप्रासादो धर्षितो मया ॥ २४॥ शतघ्न्यः सङ्क्रमाश्चैव नाशिता मे रघूत्तम । देव त्वद्दर्शनादेव लङ्का भस्मीकृता भवेत् ॥ २५॥ प्रस्थानं कुरु देवेश गच्छामो लवणाम्बुधेः । तीरं सह महावीरैर्वानरौघैः समन्ततः ॥ २६॥ श्रुत्वा हनूमतो वाक्यमुवाच रघुनन्दनः । सुग्रीव सैनिकान् सर्वान् प्रस्थानायाभिनोदय ॥ २७॥ इदानीमेव विजयो मुहुर्तः परिवर्तते । अस्मिन्मुहुर्ते गत्वाहं लङ्कां राक्षससङ्कुलाम् ॥ २८॥ सप्राकारां सुदुर्धर्षां नाशयामि सरावणाम् । आनेष्यामि च सीतां मे दक्षिणाक्षि स्फुरत्यधः ॥ २९॥ प्रयातु वाहिनी सर्वा वानराणां तरस्विनाम् । रक्षन्तु यूथपाः सेनामग्रे पृष्ठे च पार्श्वयोः ॥ ३०॥ हनूमन्तमथारुह्य गच्छाम्यग्रेऽङ्गदं ततः । आरुह्य लक्ष्मणो यातु सुग्रीव त्वं मया सह ॥ ३१॥ गजो गवाक्षो गवयो मैन्दो द्विविद एव च । नलो नीलः सुषेणश्च जाम्बवांश्च तथापरे ॥ ३२॥ सर्वे गच्छन्तु सर्वत्र सेनायाः शत्रुघातिनः । इत्याज्ञाप्य हरीन् रामः प्रतस्थे सहलक्ष्मणः ॥ ३३॥ सुग्रीवसहितो हर्षात्सेनामध्यगतो विभुः । वारणेन्द्रनिभाः सर्वे वानराः कामरूपिणः ॥ ३४॥ क्ष्वेलन्तः परिगर्जन्तो जग्मुस्ते दक्षिणां दिशम् । भक्षयन्तो ययुः सर्वे फलानि च मधूनि च ॥ ३५॥ ब्रुवन्तो राघवस्याग्रे हनिष्यामोऽद्य रावणम् । एवं ते वानरश्रेष्ठा गच्छन्त्यतुलविक्रमाः ॥ ३६॥ हरिभ्यामुह्यमानौ तौ शुशुभाते रघूत्तमौ । नक्षत्रैः सेवितौ यद्वच्चन्द्रसूर्याविवाम्बरे ॥ ३७॥ आवृत्य पृथिवीं कृत्स्नां जगाम महती चमूः । प्रस्फोटयन्तः पुच्छाग्रानुद्वहन्तश्च पादपान् ॥ ३८॥ शैलानारोहयन्तश्च जग्मुर्मारुतवेगतः । असङ्ख्याताश्च सर्वत्र वानराः परिपूरिताः ॥ ३९॥ हृष्टास्ते जग्मुरत्यर्थं रामेण परिपालिताः । गता चमूर्दिवारात्रं क्वचिन्नासज्जत क्षणम् ॥ ४०॥ काननानि विचित्राणि पश्यन्मलयसह्ययोः । ते सह्यं समतिक्रम्य मलयं च तथा गिरिम् ॥ ४१॥ आययुश्चानुपूर्व्येण समुद्रं भीमनिःस्वनम् । अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः ॥ ४२॥ सलिलाभ्याशमासाद्य रामो वचनमब्रवीत् । आगताः स्मो वयं सर्वे समुद्रं मकरालयम् ॥ ४३॥ इतो गन्तुमशक्यं नो निरुपायेन वानराः । अत्र सेनानिवेशोऽस्तु मन्त्रयामोऽस्य तारणे ॥ ४४॥ श्रुत्वा रामस्य वचनं सुग्रीवः सागरान्तिके । सेनां न्यवेशयत् क्षिप्रं रक्षितां कपिकुञ्जरैः ॥ ४५॥ ते पश्यन्तो विषेदुस्तं सागरं भीमदर्शनम् । महोन्नततरङ्गाढ्यं भीमनक्रभयङ्करम् ॥ ४६॥ अगाधं गगनाकारं सागरं वीक्ष्य दुःखिताः । तरिष्यामः कथं घोरं सागरं वरुणालयम् ॥ ४७॥ हन्तव्योऽस्माभिरद्यैव रावणो राक्षसाधमः । इति चिन्ताकुलाः सर्वे रामपार्श्वे व्यवस्थिताः ॥ ४८॥ रामः सीतामनुस्मृत्य दुःखेन महतावृतः । विलप्य जानकीं सीतां बहुधा कार्यमानुषः ॥ ४९॥ अद्वितीयश्चिदात्मैकः परमात्मा सनातनः । यस्तु जानाति रामस्य स्वरूपं तत्त्वतो जनः ॥ ५०॥ तं न स्पृशति दुःखादि किमुतानन्दमव्ययम् । दुःखहर्षभयक्रोधलोभमोहमदादयः ॥ ५१॥ अज्ञानलिङ्गान्येतानि कुतः सन्ति चिदात्मनि । देहाभिमानिनो दुःखं न देहस्य चिदात्मनः ॥ ५२॥ सम्प्रसादे द्वयाभावात्सुखमात्रं हि दृश्यते । बुद्ध्याद्यभावात्संशुद्धे दुःखं तत्र न दृश्यते । अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः ॥ ५३॥ रामः परात्मा पुरुषः पुराणो नित्योदितो नित्यसुखो निरीहः । तथापि मायागुणसङ्गतोऽसौ सुखीव दुःखीव विभाव्यतेऽबुधैः ॥ ५४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे प्रथमः सर्गः ॥ १॥

॥द्वितीयः सर्गः ॥

श्रीमहादेव उवाच । लङ्कायां रावणो दृष्ट्वा कृतं कर्म हनूमता । दुष्करं दैवतैर्वाऽपि ह्रिया किञ्चिदवाङ्मुखः ॥ १॥ आहूय मन्त्रिणः सर्वानिदं वचनमब्रवीत् । हनूमता कृतं कर्म भवद्भिर्दृष्टमेव तत् ॥ २॥ प्रविश्य लङ्कां दुर्धर्षां दृष्ट्वा सीतां दुरासदाम् । हत्वा च राक्षसान् वीरानक्षं मन्दोदरीसुतम् ॥ ३॥ दग्ध्वा लङ्कामशेषेण लङ्घयित्वा च सागरम् । युष्मान् सर्वानतिक्रम्य स्वस्थोऽगात्पुनरेव सः ॥ ४॥ किं कर्तव्यमितोऽस्माभिर्यूयं मन्त्रविशारदाः । मन्त्रयध्वं प्रयत्नेन यत्कृतं मे हितं भवेत् ॥ ५॥ रावणस्य वचः श्रुत्वा राक्षसास्तमथाब्रुवन् । देव शङ्का कुतो रामात्तव लोकजितो रणे ॥ ६॥ इन्द्रस्तु बद्ध्वा निक्षिप्तः पुत्रेण तव पत्तने । जित्वा कुबेरमानीय पुष्पकं भुज्यते त्वया ॥ ७॥ यमो जितः कालदण्डाद्भयं नाभूत्तव प्रभो । वरुणो हुङ्कृतेनैव जितः सर्वेऽपि राक्षसाः ॥ ८॥ मयो महासुरो भीत्या कन्यां दत्त्वा स्वयं तव । त्वद्वशे वर्ततेऽद्यापि किमुतान्ये महासुराः ॥ ९॥ हनूमद्धर्षणं यत्तु तदवज्ञाकृतं च नः । वानरोऽयं किमस्माकमस्मिन् पौरुषदर्शने ॥ १०॥ इत्युपेक्षितमस्माभिर्धर्षणं तेन किं भवेत् । वयं प्रमत्ताः किं तेन वञ्चिताः स्मो हनूमता ॥ ११॥ जानीमो यदि तं सर्वे कथं जीवन् गमिष्यति । आज्ञापय जगत्कृत्स्नमवानरममानुषम् ॥ १२॥ कृत्वायास्यामहे सर्वे प्रत्येकं वा नियोजय । कुम्भकर्णस्तदा प्राह रावणं राक्षसेश्वरम् ॥ १३॥ आरब्धं यत्त्वया कर्म स्वात्मनाशाय केवलम् । न दृष्टोऽसि तदा भाग्यात्त्वं रामेण महात्मना ॥ १४॥ यदि पश्यति रामस्त्वां जीवन्नायासि रावण । रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः ॥ १५॥ सीता भगवती लक्ष्मी रामपत्नी यशस्विनी । राक्षसानां विनाशाय त्वयानीता सुमध्यमा ॥ १६॥ विषपिण्डमिवागीर्य महामीनो यथा तथा । आनीता जानकी पश्चात्त्वया किं वा भविष्यति ॥ १७॥ यद्यप्यनुचितं कर्म त्वया कृतमजानता । सर्वं समं करिष्यामि स्वस्थचित्तो भव प्रभो ॥ १८॥ कुम्भकर्णवचः श्रुत्वा वाक्यमिन्द्रजिदब्रवीत् । देहि देव ममानुज्ञां हत्वा रामं सलक्ष्मणम् । सुग्रीवं वानरांश्चैव पुनर्यास्यामि तेऽन्तिकम् ॥ १९॥ तत्रागतो भागवतप्रधानो विभीषणो बुद्धिमतां वरिष्ठः । श्रीरामपादद्वय एकतानः । प्रणम्य देवारिमुपोपविष्टः ॥ २०॥ विलोक्य कुम्भश्रवणादिदैत्यान् मत्तप्रमत्तानतिविस्मयेन । विलोक्य कामातुरमप्रमत्तो दशाननं प्राह विशुद्धबुद्धिः ॥ २१॥ न कुम्भकर्णेन्द्रजितौ च राजन् तथा महापार्श्वमहोदरौ तौ । निकुम्भकुम्भौ च तथातिकायः स्थातुं न शक्ता युधि राघवस्य ॥ २२॥ सीताभिधानेन महाग्रहेण ग्रस्तोऽसि राजन् न च ते विमोक्षः । तामेव सत्कृत्य महाधनेन दत्त्वाभिरामाय सुखी भव त्वम् ॥ २३॥ यावन्न रामस्य शिताः शिलीमुखा लङ्कामभिव्याप्य शिरांसि रक्षसाम् । छिन्दन्ति तावद्रघुनायकस्य भो- स्तां जानकीं त्वं प्रतिदातुमर्हसि ॥ २४॥ यावन्नगाभाः कपयो महाबला हरीन्द्रतुल्या नखदंष्ट्रयोधिनः । लङ्कां समाक्रम्य विनाशयन्ति ते तावद्द्रुतं देहि रघूत्तमाय ताम् ॥ २५॥ जीवन्न रामेण विमोक्ष्यसे त्वं गुप्तः सुरेन्द्रैरपि शङ्करेण । न देवराजाङ्कगतो न मृत्योः पाताललोकानपि सम्प्रविष्टः ॥ २६॥ शुभं हितं पवित्रं च विभीषणवचः खलः । प्रतिजग्राह नैवासौ म्रियमाण इवौषधम् ॥ २७॥ कालेन नोदितो दैत्यो विभीषणमथाब्रवीत् । मद्दत्तभोगैः पुष्टाङ्गो मत्समीपे वसन्नपि ॥ २८॥ प्रतीपमाचरत्येष ममैव हितकारिणः । मित्रभावेन शत्रुर्मे जातो नास्त्यत्र संशयः ॥ २९॥ अनार्येण कृतघ्नेन सङ्गतिर्मे न युज्यते । विनाशमभिकाङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥ ३०॥ योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेकं निशाचरः । हन्मि तस्मिन् क्षणे एव धिक् त्वां रक्षःकुलाधमम् ॥ ३१॥ रावणेनैवमुक्तः सन् परुषं स विभीषणः । उत्पपात सभामध्याद्गदापाणिर्महाबलः ॥ ३२॥ चतुर्भिर्मन्त्रिभिः सार्धं गगनस्थोऽब्रवीद्वचः । क्रोधेन महताविष्टो रावणं दशकन्धरम् । मा विनाशमुपैहि त्वं प्रियवादिनमेव माम् ॥ ३३॥ धिक्करोषि तथापि त्वं ज्येष्ठो भ्राता पितुः समः । कालो राघवरूपेण जातो दशरथालये ॥ ३४॥ काली सीताभिधानेन जाता जनकनन्दिनी । तावुभावागतावत्र भूमेर्भारापनुत्तये ॥ ३५॥ तेनैव प्रेरितस्त्वं तु न श‍ृणोषि हितं मम । श्रीरामः प्रकृतेः साक्षात्परस्तात्सर्वदा स्थितः ॥ ३६॥ बहिरन्तश्च भूतानां समः सर्वत्र संस्थितः । नामरूपादिभेदेन तत्तन्मय इवामलः ॥ ३७॥ यथा नानाप्रकारेषु वृक्षेष्वेको महानलः । तत्तदाकृतिभेदेन भिद्यतेऽज्ञानचक्षुषाम् ॥ ३८॥ पञ्चकोशादिभेदेन तत्तन्मय इवाबभौ । नीलपीतादियोगेन निर्मलः स्फटिको यथा ॥ ३९॥ स एव नित्यमुक्तोऽपि स्वमायागुणबिम्बितः । कालः प्रधानं पुरुषोऽव्यक्तं चेति चतुर्विधः ॥ ४०॥ प्रधानपुरुषाभ्यां स जगत्कृत्स्नं सृजत्यजः । कालरूपेण कलनां जगतः कुरुतेऽव्ययः ॥ ४१॥ कालरूपी स भगवान् रामरूपेण मायया ॥ ४२॥ ब्रह्मणा प्रार्थितो देवस्त्वद्वधार्थमिहागतः । तदन्यथा कथं कुर्यात्सत्यसङ्कल्प ईश्वरः ॥ ४३॥ हनिष्यति त्वां रामस्तु सपुत्रबलवाहनम् । हन्यमानं न शक्नोमि द्रष्टुं रामेण रावण ॥ ४४॥ त्वां राक्षसकुलं कृत्स्नं ततो गच्छामि राघवम् । मयि याते सुखीभूत्वा रमस्व भवने चिरम् ॥ ४५॥ विभीषणो रावणवाक्यतः क्षणा- द्विसृज्य सर्वं सपरिच्छदं गृहम् । जगाम रामस्य पदारविन्दयोः सेवाभिकाङ्क्षी परिपूर्णमानसः ॥ ४६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वितीयः सर्गः ॥ २॥

॥तृतीयः सर्गः ॥

श्रीमहादेव उवाच । विभीषणो महाभागश्चतुर्भिर्मन्त्रिभिः सह । आगत्य गगने रामसम्मुखे समवस्थितः ॥ १॥ उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन । रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः ॥ २॥ नाम्ना भ्रात्रा निरस्तोऽहं त्वामेव शरणं गतः । हितमुक्तं मया देव तस्य चाविदितात्मनः ॥ ३॥ सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः । उक्तोऽपि न श‍ृणोत्येव कालपाशवशं गतः ॥ ४॥ हन्तुं मां खड्गमादाय प्राद्रवद्राक्षसाधमः । ततोऽचिरेण सचिवैश्चतुर्भिः सहितो भयात् ॥ ५॥ त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः । विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत् ॥ ६॥ विश्वासार्हो न ते राम मायावी राक्षसाधमः । सीताहर्तुर्विशेषेण रावणस्यानुजो बली ॥ ७॥ मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति । तदाज्ञापय मे देव वानरैर्हन्यतामयम् ॥ ८॥ ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद । श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत् ॥ ९॥ यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान् । निमिषार्धेन संहन्यां सृजामि निमिषार्धतः ॥ १०॥ अतो मयाऽभयं दत्तं शीघ्रमानय राक्षसम् ॥ ११॥ सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥ १२॥ रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः । विभीषणमथानाय्य दर्शयामास राघवम् ॥ १३॥ विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम् । हर्षगद्गदया वाचा भक्त्या च परयान्वितः ॥ १४॥ रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम् । धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥ १५॥ कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ १६॥ विभीषण उवाच । नमस्ते राम राजेन्द्र नमः सीतामनोरम । नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥ १७॥ नमोऽनन्ताय शान्ताय रामायामिततेजसे । सुग्रीवमित्राय च ते रघूणां पतये नमः ॥ १८॥ जगदुत्पत्तिनाशानां कारणाय महात्मने । त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः ॥ १९॥ त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् । त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥ २०॥ चराचराणां भूतानां बहिरन्तश्च राघव । व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥२१॥ त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः । गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ २२॥ तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ज्ञानं चेतसानन्यगामिना ॥२३॥ त्वदज्ञानात्सदा युक्ताः पुत्रदारगृहादिषु । रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो ॥ २४॥ त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथानिलः । कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम ॥ २५॥ त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो । त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥ २६॥ आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः । त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः ॥ २७॥ श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक । कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥ २८॥ निर्विकल्पो निर्विकारो निराकारो निरीश्वरः । षड्भावरहितोऽनादिः पुरुषः प्रकृतेः परः ॥ २९॥ मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे । ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥ ३०॥ अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव । इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥ ३१॥ नमः सीतापते राम नमः कारुणिकोत्तम । रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३२॥ ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः । वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥ ३३॥ विभीषण उवाच । धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव । त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥ ३४॥ नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः । नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥ ३५॥ कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् । त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥ ३६॥ न याचे राम राजेन्द्र सुखं विषयसम्भवम् । त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ३७॥ ओमित्युक्त्वा पुनः प्रीतो रामः प्रोवाच राक्षसम् । श‍ृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम् ॥ ३८॥ मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणाम् । हृदये सीतया नित्यं वसाम्यत्र न संशयः ॥ ३९॥ तस्मात्त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः । मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात् ॥ ४०॥ स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः श‍ृणुयादपि । मत्प्रीतये ममाभीष्टं सारूप्यं समवाप्नुयात् ॥ ४१॥ इत्युक्त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान् । पश्यत्विदानीमेवैष मम सन्दर्शने फलम् ॥ ४२॥ लङ्काराज्येऽभिषेक्ष्यामि जलमानय सागरात् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ४३॥ यावन्मम कथा लोके तावद्राज्यं करोत्वसौ । इत्युक्त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम् ॥ ४४॥ लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः । कारयामास सचिवैर्लक्ष्मणेन विशेषतः ॥ ४५॥ साधु साध्विति ते सर्वे वानरास्तुष्टुवुर्भृशम् । सुग्रीवोऽपि परिष्वज्य विभीषणमथाब्रवीत् ॥ ४६॥ विभीषण वयं सर्वे रामस्य परमात्मनः । किङ्करास्तत्र मुख्यस्त्वं भक्त्या रामपरिग्रहात् । रावणस्य विनाशे त्वं साहाय्यं कर्तुमर्हसि ॥ ४७॥ विभीषण उवाच । अहं कियान् सहायत्वे रामस्य परमात्मनः । किं तु दास्यं करिष्येऽहं भक्त्या शक्त्या ह्यमायया ॥ ४८॥ दशग्रीवेण सन्दिष्टः शुको नाम महासुरः । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ ४९॥ त्वामाह रावणो राजा भ्रातरं राक्षसाधिपः । महाकुलप्रसूतस्त्वं राजासि वनचारिणाम् ॥ ५०॥ मम भ्रातृसमानस्त्वं तव नास्त्यर्थविप्लवः । अहं यदहरं भार्यां राजपुत्रस्य किं तव ॥ ५१॥ किष्किन्धां याहि हरिभिर्लङ्का शक्या न दैवतैः । प्राप्तुं किं मानवैरल्पसत्त्वैर्वानरयूथपैः ॥ ५२॥ तं प्रापयन्तं वचनं तूर्णमुत्प्लुत्य वानराः । प्रापद्यन्त तदा क्षिप्रं निहन्तुं दृढमुष्टिभिः ॥ ५३॥ वानरैर्हन्यमानस्तु शुको राममथाब्रवीत् । न दूतान् घ्नन्ति राजेन्द्र वानरान् वारय प्रभो ॥ ५४॥ रामः श्रुत्वा तदा वाक्यं शुकस्य परिदेवितम् । मा वधिष्टेति रामस्तान् वारयामास वानरान् ॥ ५५॥ पुनरम्बरमासाद्य शुकः सुग्रीवमब्रवीत् । ब्रूहि राजन् दशग्रीवं किं वक्ष्यामि व्रजाम्यहम् ॥ ५६॥ सुग्रीव उवाच । यथा वाली मम भ्राता तथा त्वं राक्षसाधम । हन्तव्यस्त्वं मया यत्नात्सपुत्रबलवाहनः ॥ ५७॥ ब्रूहि मे रामचन्द्रस्य भार्यां हृत्वा क्व यास्यसि । ततो रामाज्ञया धृत्वा शुकं बध्वान्वरक्षयत् ॥ ५८॥ शार्दूलोऽपि ततः पूर्वं दृष्ट्वा कपिबलं महत् । यथावत्कथयामास रावणाय स राक्षसः ॥ ५९॥ दीर्घचिन्तापरो भूत्वा निःश्वसन्नास मन्दिरे । ततः समुद्रमावेक्ष्य रामो रक्तान्तलोचनः ॥ ६०॥ पश्य लक्ष्मण दुष्टोऽसौ वारिधिर्मामुपागतम् । नाभिनन्दति दुष्टात्मा दर्शनार्थं ममानघ ॥ ६१॥ जानाति मानुषोऽयं मे किं करिष्यति वानरैः । अद्य पश्य महाबाहो शोषयिष्यामि वारिधिम् ॥ ६२॥ पादेनैव गमिष्यन्ति वानरा विगतज्वराः । इत्युक्त्वा क्रोधताम्राक्ष आरोपितधर्नुर्धरः ॥ ६३॥ तूणीराद्बाणमादाय कालाग्निसदृशप्रभम् । सन्धाय चापमाकृष्य रामो वाक्यमथाब्रवीत् ॥ ६४॥ पश्यन्तु सर्वभूतानि रामस्य शरविक्रमम् । इदानीं भस्मसात्कुर्यां समुद्रं सरितां पतिम् ॥ ६५॥ एवं ब्रुवति रामे तु सशैलवनकानना । चचाल वसुधा द्यौश्च दिशश्च तमसावृताः ॥ ६६॥ चुक्षुभे सागरो वेलां भयाद्योजनमत्यगात् । तिमिनक्रझषा मीनाः प्रतप्ताः परितत्रसुः ॥ ६७॥ एतस्मिन्नन्तरे साक्षात्सागरो दिव्यरूपधृक् । दिव्याभरणसम्पन्नः स्वभासा भासयन् दिशः ॥ ६८॥ स्वान्तःस्थदिव्यरत्नानि कराभ्यां परिगृह्य सः । पादयोः पुरतः क्षिप्त्वा रामस्योपायनं बहु ॥ ६९॥ दण्डवत्प्रणित्याह रामं रक्तान्तलोचनम् । त्राहि त्राहि जगन्नाथ राम त्रैलोक्यरक्षक ॥ ७०॥ जडोऽहं राम ते सृष्टः सृजता निखिलं जगत् । स्वभावमन्यथा कर्तुं कः शक्तो देवनिर्मितम् ॥ ७१॥ स्थूलानि पञ्चभूतानि जडान्येव स्वभावतः । सृष्टानि भवतैतानि त्वदाज्ञां लङ्घयन्ति न ॥ ७२॥ तामसादहमो राम भूतानि प्रभवन्ति हि । कारणानुगमात्तेषां जडत्वं तामसं स्वतः ॥ ७३॥ निर्गुणस्त्वं निराकारो यदा मायागुणान् प्रभो । लीलयाङ्गीकरोषि त्वं तदा वैराजनामवान् ॥ ७४॥ गुणात्मनो विराजश्च सत्त्वाद्देवा बभूविरे । रजोगुणात्प्रजेशाद्या मन्योर्भूतपतिस्तव ॥ ७५॥ त्वामहं मायया छन्नं लीलया मानुषाकृतिम् ॥ ७६॥ जडबुद्धिर्जडो मूर्खः कथं जानामि निर्गुणम् । दण्ड एव हि मूर्खाणां सन्मार्गप्रापकः प्रभो ॥ ७७॥ भूतानाममरश्रेष्ठ पशूनां लगुडो यथा । शरणं ते व्रजामीशं शरण्यं भक्तवत्सल । अभयं देहि मे राम लङ्कामार्गं ददामि ते ॥ ७८॥ श्रीराम उवाच । अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम् । लक्ष्यं दर्शय मे शीघ्रं बाणस्यामोघपातिनः ॥ ७९॥ रामस्य वचनं श्रुत्वा करे दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ८०॥ रामोत्तरप्रदेशे तु द्रुमकुल्य इति श्रुतः । प्रदेशस्तत्र बहवः पापात्मानो दिवानिशम् ॥ ८१॥ बाधन्ते मां रघुश्रेष्ठ तत्र ते पात्यतां शरः । रामेण सृष्टो बाणस्तु क्षणादाभीरमण्डलम् ॥ ८२॥ हत्वा पुनः समागत्य तूणीरे पूर्ववत्स्थितः । ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः ॥ ८३॥ नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्मणः । सुतो धीमान् समर्थोऽस्मिन् कार्ये लब्धवरो हरिः ॥ ८४॥ कीर्तिं जानन्तु ते लोकाः सर्वलोकमलापहाम् । इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् ॥ ८५॥ ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥ ८६॥ ततोऽतिहृष्टः प्लवगेन्द्रयूथपै- र्महानगेन्द्रप्रतिमैर्युतो नलः । बबन्ध सेतुं शतयोजनायतं सुविस्तृतं पर्वतपादपैर्दृढम् ॥ ८७॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे तृतीयः सर्गः ॥ ३॥

॥ चतुर्थः सर्गः ॥

श्रीमहादेव उवाच । सेतुमारभमाणस्तु तत्र रामेश्वरं शिवम् । संस्थाप्य पूजयित्वाह रामो लोकहिताय च ॥ १॥ प्रणमेत्सेतुबन्धं यो दृष्ट्वा रामेश्वरं शिवम् । ब्रह्महत्यादिपापेभ्यो मुच्यते मदनुग्रहात् ॥ २॥ सेतुबन्धे नरः स्नात्वा दृष्ट्वा रामेश्वरं हरम् । सङ्कल्पनियतो भूत्वा गत्वा वाराणसीं नरः ॥ ३॥ आनीय गङ्गासलिलं रामेशमभिषिच्य च । समुद्रे क्षिप्ततद्भारो ब्रह्म प्राप्नोत्यसंशयम् ॥ ४॥ कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः ॥ ५॥ तृतीयेन तथा चाह्ना योजनान्येकविंशतिः । चतुर्थेन तथा चाह्ना द्वाविंशतिरिति श्रुतम् ॥ ६॥ पञ्चमेन त्रयोविंशद्योजनानि समन्ततः । बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥ ७॥ तेनैव जग्मुः कपयो योजनानां शतं द्रुतम् । असङ्ख्याताः सुवेलाद्रिं रुरुधुः प्लवगोत्तमाः ॥ ८॥ आरुह्य मारुतिं रामो लक्ष्मणोऽप्यङ्गदं तथा । दिदृक्षू राघवो लङ्कामारुरोहाचलं महत् ॥ ९॥ दृष्ट्वा लङ्कां सुविस्तीर्णां नानाचित्रध्वजाकुलाम् । चित्रप्रासादसम्बाधां स्वर्णप्राकारतोरणाम् ॥ १०॥ परिखाभिः शतघ्नीभिः सङ्क्रमैश्च विराजिताम् । प्रासादोपरि विस्तीर्णप्रदेशे दशकन्धरः ॥११॥ मन्त्रिभिः सहितो वीरैः किरीटदशकोज्ज्वलः । नीलाद्रिशिखराकारः कालमेघसमप्रभः ॥१२॥ रत्नदण्डैः सितच्छत्रैरनेकैः परिशोभितः । एतस्मिन्नन्तरे बद्धो मुक्तो रामेण वै शुकः ॥ १३॥ वानरैस्ताडितः सम्यग् दशाननमुपागतः । प्रहसन् रावणः प्राह पीडितः किं परैः शुक ॥१४॥ रावणस्य वचः श्रुत्वा शुको वचनमब्रवीत् । सागरस्योत्तरे तीरेऽब्रवं ते वचनं यथा । तत उत्प्लुत्य कपयो गृहीत्वा मां क्षणात्ततः ॥ १५॥ मुष्टिभिर्नखदन्तैश्च हन्तुं लोप्तुं प्रचक्रमुः । ततो मां राम रक्षेति क्रोशन्तं रघुपुङ्गवः ॥ १६॥ विसृज्यतामिति प्राह विसृष्टोऽहं कपीश्वरैः । ततोऽहमागतो भीत्या दृष्ट्वा तद्वानरं बलम् ॥ १७॥ राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ १८॥ पुरप्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां वास्मै प्रयच्छाशु युद्धं वा दीयतां प्रभो ॥१९॥ मामाह रामस्त्वं ब्रूहि रावणं मद्वचः शुक । यद्बलं च समाश्रित्य सीतां मे हृतवानसि ॥ २०॥ तद्दर्शय यथाकामं ससैन्यः सहबान्धवः । श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् ॥ २१॥ राक्षसं च बलं पश्य शरैर्विध्वंसितं मया । घोररोषमहं मोक्ष्ये बलं धारय रावण ॥ २२॥ इत्युक्त्वोपररामाथ रामः कमललोचनः । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ २३॥ श्रीरामो लक्ष्मणश्चैव सुग्रीवश्च विभीषणः । एत एव समर्थास्ते लङ्कां नाशयितुं प्रभो ॥ २४॥ उत्पाट्य भस्मीकरणे सर्वे तिष्ठन्तु वानराः । तस्य यादृग् बलं दृष्टं रूपं प्रहरणानि च ॥ २५॥ वधिष्यति पुरं सर्वमेकस्तिष्ठन्तु ते त्रयः । पश्य वानरसेनां तामसङ्ख्यातां प्रपूरिताम् ॥ २६॥ गर्जन्ति वानरास्तत्र पश्य पर्वतसन्निभाः । न शक्यास्ते गणयितुं प्राधान्येन ब्रवीमि ते ॥ २७॥ एष योऽभिमुखो लङ्कां नदंस्तिष्ठति वानरः । यूथपानां सहस्राणां शतेन परिवारितः ॥ २८॥ सुग्रीवसेनाधिपतिर्नीलो नामाग्निनन्दनः । एष पर्वतश‍ृङ्गाभः पद्मकिञ्जल्कसन्निभः ॥ २९॥ स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । युवराजोऽङ्गदो नाम वालिपुत्रोऽतिवीर्यवान् ॥ ३०॥ येन दृष्टा जनकजा रामस्यातीववल्लभा । हनूमानेष विख्यातो हतो येन तवात्मजः ॥ ३१॥ श्वेतो रजतसङ्काशो महाबुद्धिपराक्रमः । तूर्णं सुग्रीवमागत्य पुनर्गच्छति वानरः ॥ ३२॥ यस्त्वेष सिंहसङ्काशः पश्यत्यतुलविक्रमः । रम्भो नाम महासत्त्वो लङ्कां नाशयितुं क्षमः ॥ ३३॥ एष पश्यति वै लङ्कां दिधक्षन्निव वानरः । शरभो नाम राजेन्द्र कोटियूथपनायकः ॥ ३४॥ पनसश्च महावीर्यो मैन्दश्च द्विविदस्तथा । नलश्च सेतुकर्ताऽसौ विश्वकर्मसुतो बली ॥ ३५॥ वानराणां वर्णने वा सङ्ख्याने वा क ईश्वरः । शूराः सर्वे महाकायाः सर्वे युद्धाभिकाङ्क्षिणः ॥ ३६॥ शक्ताः सर्वे चूर्णयितुं लङ्कां रक्षोगणैः सह । एतेषां बलसङ्ख्यानं प्रत्येकं वच्मि ते श‍ृणु ॥३७॥ एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्खसहस्राणि तथार्बुदशतानि च ॥ ३८॥ सुग्रीवसचिवानां ते बलमेतत्प्रकीर्तितम् । अन्येषां तु बलं नाहं वक्तुं शक्तोऽस्मि रावण ॥३९॥ रामो न मानुषः साक्षादादिनारायणः परः । सीता साक्षाज्जगद्धेतुश्चिच्छक्तिर्जगदात्मिका ॥ ४०॥ ताभ्यामेव समुत्पन्नं जगत्स्थावरजङ्गमम् । तस्माद्रामश्च सीताच जगतस्तस्थुषश्च तौ ॥ ४१॥ पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत् । अजानता त्वयानीता जगन्मातैव जानकी ॥ ४२॥ क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे । पञ्चभूतात्मके राजंश्चतुर्विंशतितत्त्वके ॥ ४३॥ मलमांसास्थिदुर्गन्धभूयिष्ठेऽहङ्कृतालये । कैवास्था व्यतिरिक्तस्य काये तव जडात्मके ॥ ४४॥ var कैवास्य यत्कृते ब्रह्महत्यादिपातकानि कृतानि च । भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति ॥ ४५॥ पुण्यपापे समायातो जीवेन सुखदुःखयोः । कारणे देहयोगादिनाऽऽत्मनः कुरुतोऽनिशम् ॥४६॥ यावद्देहोऽस्मि कर्तास्मीत्यात्माहङ्कुरुतेऽवशः । अध्यासात्तावदेव स्याज्जन्मनाशादिसम्भवः ॥ ४७॥ तस्मात्त्वं त्यज देहादावभिमानं महामते । आत्मातिनिर्मलः शुद्धो विज्ञानात्माऽचलोऽव्ययः ॥ ४८॥ स्वाज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति । तस्मात्त्वं शुद्धभावेन ज्ञात्वात्मानं सदा स्मर ॥ ४९॥ विरतिं भज सर्वत्र पुत्रदारगृहादिषु । निरयेष्वपि भोगः स्याच्छ्वशूकरतनावपि ॥ ५०॥ देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः । तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम् ॥ ५१ ॥ को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत् । अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन् ॥ ५२॥ अज्ञानीव सदा भोगाननुधावसि किं मुधा । इतः परं वा त्यक्त्वा त्वं सर्वसङ्गं समाश्रय ॥ ५३॥ राममेव परात्मनं भक्तिभावेन सर्वदा । सीतां समर्प्य रामाय तत्पादानुचरो भव ॥ ५४॥ विमुक्तः सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि । नो चेद्गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः । अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते ॥ ५५॥ सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं श्रीराघवं मरकतोपलकान्तिकान्तम् । सीतासमेतमनिशं धृतचापबाणं सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम् ॥ ५६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्थः सर्गः ॥ ४॥

॥ पञ्चमः सर्गः ॥

श्रीमहादेव उवाच । श्रुत्वा शुकमुखोद्गीतं वाक्यमज्ञाननाशनम् । रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत् ॥ १॥ अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम् । शासिताहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे ॥ २॥ इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव । स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम् ॥ ३॥ इतो गच्छ विमूढ त्वमेवं श्रोतुं न मे क्षमम् । महाप्रसाद इत्युक्त्वा वेपमानो गृहं ययौ ॥ ४॥ शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः । वानप्रस्थविधानेन वने तिष्ठन् स्वकर्मकृत् ॥ ५॥ देवानामभिवृद्ध्यर्थं विनाशाय सुरद्विषाम् । चकार यज्ञविततिमविच्छिन्नां महामतिः ॥ ६॥ राक्षसानां विरोधोऽभूच्छुको देवहितोद्यतः । वज्रदंष्ट्र इति ख्यातस्तत्रैको राक्षसो महान् ॥ ७॥ अन्तरं प्रेप्सुरातिष्ठच्छुकापकरणोद्यतः । कदाचिदागतोऽगस्त्यस्तस्याश्रमपदं मुनेः ॥ ८॥ तेन सम्पूजितोऽगस्त्यो भोजनार्थं निमन्त्रितः । गते स्नातुं मुनौ कुम्भसम्भवे प्राप्य चान्तरम् ॥ ९॥ अगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत् । यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम् ॥ १०॥ बहुकालं न भुक्तं मे मांसं छागाङ्गसम्भवम् । तथेति कारयामास मांसभोज्यं सविस्तरम् ॥ ११॥ उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम् । शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः ॥ १२॥ नरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम् । दत्त्वैवान्तर्दधे रक्षस्ततो दृष्ट्वा चुकोप सः ॥ १३॥ अमेध्यं मानुषं मांसमगस्त्यः शुकमब्रवीत् । अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते ॥ १४॥ मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः । इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया ॥ १५॥ इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम् । तथैव दत्तं भो देव किं मे शापं प्रदास्यसि ॥ १६॥ श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः । ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः ॥ १७॥ तवापकारिणा सर्वं राक्षसेन कृतं त्विदम् । अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम ॥ १८॥ तथापि मे वचोऽमोघमेवमेव भविष्यति । राक्षसं वपुरास्थाय रावणस्य सहायकृत् ॥ १९॥ तिष्ठ तावद्यदा रामो दशाननवधाय हि । आगमिष्यति लङ्कायाः समीपं वानरैः सह ॥ २०॥ प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम् । दृष्ट्वा शापाद्विनिर्मुक्तो बोधयित्वा च रावणम् ॥ २१॥ तत्त्वज्ञानं ततो मुक्तः परं पदमवाप्स्यसि । इत्युक्तोऽगस्त्यमुनिना शुको ब्राह्मणसत्तमः ॥ २२॥ बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः । इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम् ॥ २३॥ रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम् । पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसैः सह ॥ २४॥ ततः समागमद्वृद्धो माल्यवान् राक्षसो महान् । बुद्धिमान्नीतिनिपुणो राज्ञो मातुः प्रियः पिता ॥ २५॥ प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना । श‍ृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् ॥ २६॥ यदा प्रविष्टा नगरीं जानकी रामवल्लभा । तदादि पुर्यां दृश्यन्ते निमित्तानि दशानन ॥ २७॥ घोराणि नाशहेतूनि तानि मे वदतः श‍ृणु । खरस्तनितनिर्घोषा मेघा अतिभयङ्कराः ॥ २८॥ शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वदा । रुदन्ति देवलिङ्गानि स्विद्यन्ति प्रचलन्ति च ॥ २९॥ कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता । खरा गोषु प्रजायन्ते मूषका नकुलैः सह ॥ ३०॥ मार्जारेण तु युद्ध्यन्ति पन्नगा गरुडेन तु । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ ३१॥ कालो गृहाणि सर्वेषां काले काले त्ववेक्षते । एतान्यन्यानि दृश्यन्ते निमित्तान्युद्भवन्ति च ॥ ३२॥ अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन । सीतां सत्कृत्य सधनां रामायाशु प्रयच्छ भोः ॥ ३३॥ रामं नारायणं विद्धि विद्वेषं त्यज राघवे । यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम् ॥ ३४॥ तरन्ति भक्तिपूतान्तास्ततो रामो न मानुषः । भजस्व भक्तिभावेन रामं सर्वहृदालयम् ॥ ३५॥ यद्यपि त्वं दुराचारो भक्त्या पूतो भविष्यसि । मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे ॥ ३६॥ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ ३७॥ मानवं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम् ॥ ३८॥ रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम् । गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम् ॥ ३९॥ इतो मत्कर्णपदवीं दहत्येतद्वचस्तव । इत्युक्त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा ॥ ४०॥ प्रासादाग्रे समासीनः पश्यन् वानरसैनिकान् । युद्धायायोजयत्सर्वराक्षसान् समुपस्थितान् ॥ ४१॥ रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम् । दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः ॥ ४२॥ किरीटिनं समासीनं मन्त्रिभिः परिवेष्टितम् । शशाङ्कार्धनिभेनैव बाणेनैकेन राघवः ॥ ४३॥ श्वेतच्छत्रसहस्राणि किरीटदशकं तथा । चिच्छेद निमिषार्धेन तदद्भुतमिवाभवत् ॥ ४४॥ लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम् । आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः ॥ ४५॥ वानरैः सह युद्धाय नोदयामास सत्वरः । ततो भेरीमृदङ्गाद्यैः पणवानकगोमुखैः ॥ ४६॥ महिषोष्ट्रैः खरैः सिंहैर्द्वीपिभिः कृतवाहनाः । खड्गशूलधनुःपाशयष्टितोमरशक्तिभिः ॥४७॥ लक्षिताः सर्वतो लङ्कां प्रतिद्वारमुपाययुः । तत्पूर्वमेव रामेण नोदिता वानरर्षभाः ॥ ४८॥ उद्यम्य गिरिश‍ृङ्गाणि शिखराणि महान्ति च । तरूंश्चोत्पाट्य विविधान् युद्धाय हरियूथपाः ॥ ४९॥ प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ ५०॥ ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ॥ ५१॥ कोटीशतयुताश्चान्ये रुरुधुर्नगरं भृशम् । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ५२॥ रामो जयत्यतिबलो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणानुपालितः ॥ ५३॥ इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः । हनूमानङ्गदश्चैव कुमुदो नील एव च ॥ ५४॥ नलश्च शरभश्चैव मैन्दो द्विविद एव च । जाम्बवान् दधिवक्त्रश्च केसरी तार एव च ॥ ५५॥ अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्गमाः । द्वाराण्युत्प्लुत्य लङ्कायाः सर्वतो रुरुधुर्भृशम् । तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥ ५६॥ निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः । राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा ॥ ५७॥ निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः । निजघ्नुर्वानरानीकं महाकाया महाबलाः ॥ ५८॥ राक्षसांश्च तथा जघ्नुर्वानरा जितकाशिनः । तदा बभूव समरो मांसशोणितकर्दमः ॥ ५९॥ रक्षसां वानराणां च सम्बभूवाद्भुतोपमः । ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः ॥ ६०॥ रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश । राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः ॥ ६१॥ राक्षसान् वानरा जघ्नुर्वानरांश्चैव राक्षसाः । रामेण विष्णुना दृष्टा हरयो दिविजांशजाः ॥ ६२॥ बभूवुर्बलिनो हृष्टास्तदा पीतामृता इव । सीताभिमर्शपापेन रावणेनाभिपालितान् ॥ ६३॥ हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा । चतुर्थांशावशेषेण निहतं राक्षसं बलम् ॥ ६४॥ स्वसैन्यं निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः । ब्रह्मदत्तवरः श्रीमानन्तर्धानं गतोऽसुरः ॥ ६५॥ सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः । नानाविधानि शस्त्राणि वानरानीकमर्दयन् ॥ ६६॥ ववर्ष शरजालानि तदद्भुतमिवाभवत् । रामोऽपि मानयन् ब्राह्ममस्त्रमस्त्रविदां वरः ॥ ६७॥ क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम् । वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः ॥ ६८॥ चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात् । भस्मीकरोमि मे पश्य बलमद्य रघूत्तम ॥ ६९॥ मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः । तूर्णं जगाम नगरं मायया मायिकोऽसुरः ॥ ७०॥ पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः । उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम् ॥ ७१॥ तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्भवः । तमानय द्रुतं गत्वा सञ्जीवय महामते ॥ ७२॥ वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत् । आज्ञाप्रमाणमित्युक्त्वा जगामानिलनन्दनः ॥ ७३॥ आनीय च गिरिं सर्वान् वानरान् वानरर्षभः । जीवयित्वा पुनस्तत्र स्थापयित्वाऽऽययौ द्रुतम् ॥ ७४॥ पूर्ववद्भैरवं नादं वानराणां बलौघतः । श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत् ॥ ७५॥ राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः । हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः ॥ ७६॥ मन्त्रिणो बान्धवाः शूरा ये च मत्प्रियकाङ्क्षिणः । सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात् ॥ ७७॥ ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात् । तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्मुखान् ॥ ७८॥ तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः । अतिकायः प्रहस्तश्च महानादमहोदरौ ॥ ७९॥ देवशत्रुर्निकुम्भश्च देवान्तकनरान्तकौ । अपरे बलिनः सर्वे ययुर्युद्धाय वानरैः ॥ ८०॥ एते चान्ये च बहवः शूराः शतसहस्रशः । प्रविश्य वानरं सैन्यं ममन्थुर्बलदर्पिताः ॥ ८१॥ भुशुण्डीभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुर्हरियूथपान् ॥ ८२॥ ते पादपैः पर्वताग्रैर्नखदंष्ट्रैश्च मुष्टिभिः । प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान् ॥ ८३॥ रामेण निहताः केचित्सुग्रीवेण तथापरे । हनूमता चाङ्गदेन लक्ष्मणेन महात्मना । यूथपैर्वानराणां ते निहताः सर्वराक्षसाः ॥ ८४॥ रामतेजः समाविश्य वानरा बलिनोऽभवन् । रामशक्तिविहीनानामेवं शक्तिः कुतो भवेत् ॥ ८५॥ सर्वेश्वरः सर्वमयो विधाता मायामनुष्यत्वविडम्बनेन । सदा चिदानन्दमयोऽपि रामो युद्धादिलीलां वितनोति मायाम् ॥ ८६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चमः सर्गः ॥ ५॥

॥षष्ठः सर्गः ॥

श्रीमहादेव उवाच । श्रुत्वा युद्धे बलं नष्टमतिकायमुखं महत् । रावणो दुःखसन्तप्तः क्रोधेन महताऽऽवृतः ॥ १॥ निधायेन्द्रजितं लङ्कारक्षणार्थं महाद्युतिः । स्वयं जगाम युद्धाय रामेण सह राक्षसः ॥ २॥ दिव्यं स्यन्दनमारुह्य सर्वशस्त्रास्त्रसंयुतम् । राममेवाभिदुद्राव राक्षसेन्द्रो महाबलः ॥ ३॥ वानरान् बहुशो हत्वा बाणैराशीविषोपमैः । पातयामास सुग्रीवप्रमुखान् यूथनायकान् ॥ ४॥ गदापाणिं महासत्त्वं तत्र दृष्ट्वा विभीषणम् । उत्ससर्ज महाशक्तिं मयदत्तां विभीषणे ॥ ५॥ तामापतन्तीमालोक्य विभीषणविघातिनीम् । दत्ताभयोऽयं रामेण वधार्हो नायमासुरः ॥ ६॥ इत्युक्त्वा लक्ष्मणो भीमं चापमादाय वीर्यवान् । विभीषणस्य पुरतः स्थितोऽकम्प इवाचलः ॥ ७॥ सा शक्तिर्लक्ष्मणतनुं विवेशामोघशक्तितः । यावन्त्यः शक्तयो लोके मायायाः सम्भवन्ति हि ॥ ८॥ तासामाधारभूतस्य लक्ष्मणस्य महात्मनः । मायाशक्त्या भवेत्किं वा शेषांशस्य हरेस्तनोः ॥ ९॥ तथापि मानुषं भावमापन्नस्तदनुव्रतः । मूर्च्छितः पतितो भूमौ तमादातुं दशाननः ॥ १०॥ हस्तैस्तोलयितुं शक्तो न बभूवातिविस्मितः । सर्वस्य जगतः सारं विराजं परमेश्वरम् ॥ ११॥ कथं लोकाश्रयं विष्णुं तोलयेल्लघुराक्षसः । ग्रहीतुकामं सौमित्रिं रावणं वीक्ष्य मारुतिः ॥ १२॥ आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना । तेन मुष्टिप्रहारेण जानुभ्यामपतद्भुवि ॥ १३॥ आस्यैश्च नेत्रश्रवणैरुद्वमन् रुधिरं बहु । विघूर्णमाननयनो रथोपस्थ उपाविशत् ॥ १४॥ अथ लक्ष्मणमादाय हनूमान् रावणार्दितम् । आनयद्रामसामीप्यं बाहुभ्यां परिगृह्य तम् ॥ १५॥ हनूमतः सुहृत्त्वेन भक्त्या च परमेश्वरः । लघुत्वमगमद्देवो गुरूणां गुरुरप्यजः ॥ १६॥ सा शक्तिरपि तं त्यक्त्वा ज्ञात्वा नारायणांशजम् । रावणस्य रथं प्रागाद्रावणोऽपि शनैस्ततः ॥ १७॥ सन्ज्ञामवाप्य जग्राह बाणासनमथो रुषा । राममेवाभिदुद्राव दृष्ट्वा रामोऽपि तं क्रुधा ॥ १८॥ आरुह्य जगतां नाथो हनूमन्तं महाबलम् । रथस्थं रावणं दृष्ट्वा अभिदुद्राव राघवः ॥ १९॥ ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिष्ठुरम् । रामो गम्भीरया वाचा राक्षसेन्द्रमुवाच ह ॥ २०॥ राक्षसाधम तिष्ठाद्य क्व गमिष्यसि मे पुरः । कृत्वापराधमेवं मे सर्वत्र समदर्शिनः ॥ २१॥ येन बाणेन निहता राक्षसास्ते जनालये । तेनैव त्वां हनिष्यामि तिष्ठाद्य मम गोचरे ॥ २२॥ श्रीरामस्य वचः श्रुत्वा रावणो मारुतात्मजम् । वहन्तं राघवं सङ्ख्ये शरैस्तीक्ष्णैरताडयत् ॥ २३॥ हतस्यापि शरैस्तीक्ष्णैर्वायुसूनोः स्वतेजसा । व्यवर्धत पुनस्तेजो ननर्द च महाकपिः ॥ २४॥ ततो दृष्ट्वा हनूमन्तं सव्रणं रघुसत्तमः । क्रोधमाहारयामास कालरुद्र इवापरः ॥ २५॥ साश्वं रथं ध्वजं सूतं शस्त्रौघं धनुरञ्जसा । छत्रं पताकां तरसा चिच्छेद शितसायकैः ॥ २६॥ ततो महाशरेणाशु रावणं रघुसत्तमः । विव्याध वज्रकल्पेन पाकारिरिव पर्वतम् ॥ २७॥ रामबाणहतो वीरश्चचाल च मुमोह च । हस्तान्निपतितश्चापस्तं समीक्ष्य रघूत्तमः ॥ २८॥ अर्धचन्द्रेण चिच्छेद तत्किरीटं रविप्रभम् । अनुजानामि गच्छ त्वमिदानीं बाणपीडितः ॥ २९॥ प्रविश्य लङ्कामाश्वास्य श्वः पश्यसि बलं मम । रामबाणेन संविद्धो हतदर्पोऽथ रावणः ॥ ३०॥ महत्या लज्जया युक्तो लङ्कां प्राविशदातुरः । रामोऽपि लक्ष्मणं दृष्ट्वा मूर्च्छितं पतितं भुवि ॥ ३१॥ मानुषत्वमुपाश्रित्य लीलयानुशुशोच ह । ततः प्राह हनूमन्तं वत्स जीवय लक्ष्मणम् ॥ ३२॥ महौषधीः समानीय पूर्ववद्वानरानपि । तथेति रघवेणोक्तो जगामाशु महाकपिः ॥ ३३॥ हनूमान् वायुवेगेन क्षणात्तीर्त्वा महोदधिम् । एतस्मिन्नन्तरे चारा रावणाय न्यवेदयन् ॥ ३४॥ रामेण प्रेषितो देव हनूमान् क्षीरसागरम् । गतो नेतुं लक्ष्मणस्य जीवनार्थं महौषधीः ॥ ३५॥ श्रुत्वा तच्चारवचनं राजा चिन्तापरोऽभवत् । जगाम रात्रावेकाकी कालनेमिगृहं क्षणात् ॥ ३६॥ गृहागतं समालोक्य रावणं विस्मयान्वितः । कालनेमिरुवाचेदं प्राञ्जलिर्भयविह्वलः । अर्घ्यादिकं ततः कृत्वा रावणस्याग्रतः स्थितः ॥ ३७॥ किं ते करोमि राजेन्द्र किमागमनकारणम् । कालनेमिमुवाचेदं रावणो दुःखपीडितः ॥ ३८॥ ममापि कालवशतः कष्टमेतदुपस्थितम् । मया शक्त्या हतो वीरो लक्ष्मणः पतितो भुवि ॥ ३९॥ तं जीवयितुमानेतुमोषधीर्हनुमान् गतः । यथा तस्य भवेद्विघ्नस्तथा कुरु महामते ॥ ४०॥ मायया मुनिवेषेण मोहयस्व महाकपिम् । कालात्ययो यथा भूयात्तथा कृत्वैहि मन्दिरे ॥ ४१॥ रावणस्य वचः श्रुत्वा कालनेमिरुवाच तम् । रावणेश वचो मेऽद्य श‍ृणु धारय तत्त्वतः ॥ ४२॥ प्रियं ते करवाण्येव न प्राणान् धारयाम्यहम् । मारीचस्य यथारण्ये पुराभून्मृगरूपिणः ॥ ४३॥ तथैव मे न सन्देहो भविष्यति दशानन । हताः पुत्राश्च पौत्राश्च बान्धवा राक्षसाश्च ते ॥ ४४॥ घातयित्वाऽसुरकुलं जीवितेनापि किं तव । राज्येन वा सीतया वा किं देहेन जडात्मना ॥ ४५॥ सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे । वनं याहि महाबाहो रम्यं मुनिगणाश्रयम् ॥ ४६॥ स्नात्वा प्रातः शुभजले कृत्वा सन्ध्यादिकाः क्रियाः । तत एकान्तमाश्रित्य सुखासनपरिग्रहः ॥ ४७॥ विसृज्य सर्वतः सङ्गमितरान् विषयान् बहिः । बहिःप्रवृत्ताक्षगणं शनैः प्रत्यक् प्रवाहय ॥ ४८॥ प्रकृतेर्भिन्नमात्मानं विचारय सदानघ । चराचरं जगत्कृत्स्नं देहबुद्धीन्द्रियादिकम् ॥ ४९॥ आब्रह्मस्तम्बपर्यन्तं दृश्यते श्रूयते च यत् । सैषा प्रकृतिरित्युक्ता सैव मायेति कीर्तिता ॥ ५०॥ सर्गस्थितिविनाशानां जगद्वृक्षस्य कारणम् । लोहितश्वेतकृष्णादि प्रजाः सृजति सर्वदा ॥ ५१॥ कामक्रोधादिपुत्राद्यान् हिंसातृष्णादिकन्यकाः । मोहयन्त्यनिशं देवमात्मानं स्वैर्गुणैर्विभुम् ॥ ५२॥ कर्तृत्वभोक्तृत्वमुखान् स्वगुणानात्मनीश्वरे । आरोप्य स्ववशं कृत्वा तेन क्रीडति सर्वदा ॥ ५३॥ शुद्धोऽप्यात्मा यया युक्तः पश्यतीव सदा बहिः । विस्मृत्य च स्वमात्मानं मायागुणविमोहितः ॥ ५४॥ यदा सद्गुरुणा युक्तो बोध्यते बोधरूपिणा । निवृत्तदृष्टिरात्मानं पश्यत्येव सदा स्फुटम् ॥ ५५॥ जीवन्मुक्तः सदा देही मुच्यते प्राकृतैर्गुणैः । त्वमप्येवं सदात्मानं विचार्य नियतेन्द्रियः ॥ ५६॥ प्रकृतेरन्यमात्मानं ज्ञात्वा मुक्तो भविष्यसि । ध्यातुं यद्यसमर्थोऽसि सगुणं देवमाश्रय ॥ ५७॥ हृत्पद्मकर्णिके स्वर्णपीठे मणिगणान्विते । मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् ॥ ५८॥ वीरासनं विशालाक्षं विद्युत्पुञ्जनिभाम्बरम् । किरीटहारकेयूरकौस्तुभादिभिरन्वितम् ॥ ५९॥ नूपुरैः कटकैर्भान्तं तथैव वनमालया । लक्ष्मणेन धनुर्द्वन्द्वकरेण परिसेवितम् ॥ ६०॥ एवं ध्यात्वा सदात्मानं रामं सर्वहृदि स्थितम् । भक्त्या परमया युक्तो मुच्यते नात्र संशयः ॥ ६१॥ श‍ृणु वै चरितं तस्य भक्तैर्नित्यमनन्यधीः । एवं चेत्कृतपूर्वाणि पापानि च महान्त्यपि । क्षणादेव विनश्यन्ति यथाग्नेस्तूलराशयः ॥ ६२॥ भजस्व रामं परिपूर्णमेकं विहाय वैरं निजभक्तियुक्तः । हृदा सदा भावितभावरूपं अनामरूपं पुरुषं पुराणम् ॥ ६३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षष्ठः सर्गः ॥ ६॥

॥सप्तमः सर्गः ॥

श्रीमहादेव उवाच । कालनेमिवचः श्रुत्वा रावणोऽमृतसन्निभम् । जज्वाल क्रोधताम्राक्षः सर्पिरद्भिरिवाग्निमत् ॥ १॥ निहन्मि त्वां दुरात्मानं मच्छासनपराङ्मुखम् । परैः किञ्चिद्गृहीत्वा त्वं भाषसे रामकिङ्करः ॥ २॥ कालनेमिरुवाचेदं रावणं देव किं क्रुधा । न रोचते मे वचनं यदि गत्वा करोमि तत् ॥ ३॥ इत्युक्त्वा प्रययौ शीघ्रं कालनेमिर्महासुरः । नोदितो रावणेनैव हनूमद्विघ्नकारणात् ॥ ४॥ स गत्वा हिमवत्पार्श्वं तपोवनमकल्पयत् । तत्र शिष्यैः परिवृतो मुनिवेषधरः खलः ॥ ५॥ गच्छतो मार्गमासाद्य वायुसूनोर्महात्मनः । ततो गत्वा ददर्शाथ हनूमानाश्रमं शुभम् ॥ ६॥ चिन्तयामास मनसा श्रीमान् पवननन्दनः । पुरा न दृष्टमेतन्मे मुनिमण्डलमुत्तमम् ॥ ७॥ मार्गो विभ्रंशितो वा मे भ्रमो वा चित्तसम्भवः । यद्वाऽऽविश्याश्रमपदं दृष्ट्वा मुनिमशेषतः ॥ ८॥ पीत्वा जलं ततो यामि द्रोणाचलमनुत्तमम् । इत्युक्त्वा प्रविवेशाथ सर्वतो योजनायतम् ॥ ९॥ आश्रमं कदलीशालखर्जूरपनसादिभिः । समावृतं पक्वफलैर्नम्रशाखैश्च पादपैः ॥ १०॥ वैरभावविनिर्मुक्तं शुद्धं निर्मललक्षणम् । तस्मिन्महाश्रमे रम्ये कालनेमिः स राक्षसः ॥ ११॥ इन्द्रयोगं समास्थाय चकार शिवपूजनम् । हनूमानभिवाद्याह गौरवेण महासुरम् ॥ १२॥ भगवन् रामदूतोऽहं हनूमान्नाम नामतः । रामकार्येण महता क्षीराब्धिं गन्तुमुद्यतः ॥ १३॥ तृषा मां बाधते ब्रह्मन्नुदकं कुत्र विद्यते । यथेच्छं पातुमिच्छामि कथ्यतां मे मुनीश्वर ॥ १४॥ तच्छ्रुत्वा मारुतेर्वाक्यं कालनेमिस्तमब्रवीत् । कमण्डलुगतं तोयं मम त्वं पातुमर्हसि ॥ १५॥ भुङ्क्ष्व चेमानि पक्वानि फलानि तदनन्तरम् । निवसस्व सुखेनात्र निद्रामेहि त्वरास्तु मा ॥ १६॥ भूतं भव्यं भविष्यं च जानामि तपसा स्वयम् । उत्थितो लक्ष्मणः सर्वे वानरा रामवीक्षिताः ॥ १७॥ तच्छ्रुत्वा हनुमानाह कमण्डलुजलेन मे । न शाम्यत्यधिका तृष्णा ततो दर्शय मे जलम् ॥ १८॥ तथेत्याज्ञापयामास वटुं मायाविकल्पितम् । वटो दर्शय विस्तीर्णं वायुसूनोर्जलाशयम् ॥ १९॥ निमील्य चाक्षिणी तोयं पीत्वागच्छ ममान्तिकम् । उपदेक्ष्यामि ते मन्त्रं येन द्रक्ष्यसि चौषधीः ॥ २०॥ तथेति दर्शितं शीघ्रं वटुना सलिलाशयम् । प्रविश्य हनुमांस्तोयमपिबन्मीलितेक्षणः ॥ २१॥ ततश्चागत्य मकरी महामाया महाकपिम् । अग्रसत्तं महावेगान्मारुतिं घोररूपिणी ॥ २२॥ ततो ददर्श हनुमान् ग्रसन्तीं मकरीं रुषा । दारयामास हस्ताभ्यां वदनं सा ममार ह ॥ २३॥ ततोऽन्तरिक्षे ददृशे दिव्यरूपधराङ्गना । धान्यमालीति विख्याता हनूमन्तमथाब्रवीत् ॥ २४॥ त्वत्प्रसादादहं शापाद्विमुक्तास्मि कपीश्वर । शप्ताहं मुनिना पूर्वमप्सरा कारणान्तरे ॥ २५॥ आश्रमे यस्तु ते दृष्टः कालनेमिर्महासुरः । रावणप्रहितो मार्गे विघ्नं कर्तुं तवानघ ॥ २६॥ मुनिवेषधरो नासौ मुनिर्विप्रविहिंसकः । जहि दुष्टं गच्छ शीघ्रं द्रोणाचलमनुत्तमम् ॥ २७॥ गच्छाम्यहं ब्रह्मलोकं त्वत्स्पर्शाद्धतकल्मषा । इत्युक्त्वा सा ययौ स्वर्गं हनूमानप्यथाश्रमम् ॥ २८॥ आगतं तं समालोक्य कालनेमिरभाषत । किं विलम्बेन महता तव वानरसत्तम ॥ २९॥ गृहाण मत्तो मन्त्रांस्त्वं देहि मे गुरुदक्षिणाम् । इत्युक्तो हनुमान्मुष्टिं दृढं बद्ध्वाह राक्षसम् ॥ ३०॥ गृहाण दक्षिणामेतामित्युक्त्वा निजघान तम् । विसृज्य मुनिवेषं स कालनेमिर्महासुरः ॥ ३१॥ युयुधे वायुपुत्रेण नानामायाविधानतः । महामायिकदूतोऽसौ हनूमान्मायिनां रिपुः ॥ ३२॥ जघान मुष्टिना शीर्ष्णि भग्नमूर्धा ममार सः । ततः क्षीरनिधिं गत्वा दृष्ट्वा द्रोणं महागिरिम् ॥ ३३॥ अदृष्ट्वा चौषधीस्तत्र गिरिमुत्पाट्य सत्वरः । गृहीत्वा वायुवेगेन गत्वा रामस्य सन्निधिम् ॥ ३४॥ उवाच हनुमान् राममानीतोऽयं महागिरिः । यद्युक्तं कुरु देवेश विलम्बो नात्र युज्यते ॥ ३५॥ श्रुत्वा हनूमतो वाक्यं रामः सन्तुष्टमानसः । गृहीत्वा चौषधीः शीघ्रं सुषेणेन महामतिः ॥ ३६॥ चिकित्सां कारयामास लक्ष्मणाय महात्मने । ततः सुप्तोत्थित इव बुद्ध्वा प्रोवाच लक्ष्मणः ॥ ३७॥ तिष्ठ तिष्ठ क्व गन्तासि हन्मीदानीं दशानन । इति ब्रुवन्तमालोक्य मूर्ध्न्यवघ्राय राघवः ॥ ३८॥ मारुतिं प्राह वत्साद्य त्वत्प्रसादान्महाकपे । निरामयं प्रपश्यामि लक्ष्मणं भ्रातरं मम ॥ ३९॥ इत्युक्त्वा वानरैः सार्धं सुग्रीवेण समन्वितः । विभीषणमतेनैव युद्धाय समवस्थितः ॥ ४०॥ पाषाणैः पादपैश्चैव पर्वताग्रैश्च वानराः । युद्धायाभिमुखा भूत्वा ययुः सर्वे युयुत्सवः ॥ ४१॥ रावणो विव्यथे रामबाणैर्विद्धो महासुरः । मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ॥ ४२॥ अभिभूतोऽगमद्राजा राघवेण महात्मना । सिंहासने समाविश्य राक्षसानिदमब्रवीत् ॥ ४३॥ मानुषेणैव मे मृत्युमाह पूर्वं पितामहः । मानुषो हि न मां हन्तुं शक्तोऽस्ति भुवि कश्चन ॥ ४४॥ ततो नारायणः साक्षान्मानुषोऽभून्न संशयः । रामो दाशरथिर्भूत्वा मां हन्तुं समुपस्थितः ॥ ४५॥ अनरण्येन यत्पूर्वं शप्तोऽहं राक्षसेश्वर । उत्पत्स्यते च मद्वंशे परमात्मा सनातनः ॥ ४६॥ तेन त्वं पुत्रपौत्रैश्च बान्धवैश्च समन्वितः । हनिष्यसे न सन्देह इत्युक्त्वा मां दिवं गतः ॥ ४७॥ स एव रामः सञ्जातो मदर्थे मां हनिष्यति । कुम्भकर्णस्तु मूढात्मा सदा निद्रावशं गतः ॥ ४८॥ तं विबोध्य महासत्त्वमानयन्तु ममान्तिकम् । इत्युक्तास्ते महाकायास्तूर्णं गत्वा तु यत्नतः ॥ ४९॥ विबोध्य कुम्भश्रवणं निन्यू रावणसन्निधिम् । नमस्कृत्य स राजानमासनोपरि संस्थितः ॥ ५०॥ तमाह रावणो राजा भ्रातरं दीनया गिरा । कुम्भकर्ण निबोध त्वं महत्कष्टमुपस्थितम् ॥ ५१॥ रामेण निहताः शूराः पुत्राः प्रौत्राश्च बान्धवाः । किं कर्तव्यमिदानीं मे मृत्युकाल उपस्थिते ॥ ५२॥ एष दाशरथी रामः सुग्रीवसहितो बली । समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ ५३॥ ये राक्षसा मुख्यतमास्ते हता वानरैर्युधि । वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ ५४॥ नाशयस्व महाबाहो यदर्थं परिबोधितः । भ्रातुरर्थे महासत्त्व कुरु कर्म सुदुष्करम् ॥ ५५॥ श्रुत्वा तद्रावणेन्द्रस्य वचनं परिदेवितम् । कुम्भकर्णो जहासोच्चैर्वचनं चेदमब्रवीत् ॥ ५६॥ पुरा मन्त्रविचारे ते गदितं यन्मया नृप । तदद्य त्वामुपगतं फलं पापस्य कर्मणः ॥ ५७॥ पूर्वमेव मया प्रोक्तो रामो नारायणः परः । सीता च योगमायेति बोधितोऽपि न बुध्यसे ॥ ५८॥ एकदाहं वने सानौ विशालायां स्थितो निशि । दृष्टो मया मुनिः साक्षान्नारदो दिव्यदर्शनः ॥ ५९॥ तमब्रवं महाभाग कुतो गन्तासि मे वद । इत्युक्तो नारदः प्राह देवानां मन्त्रणे स्थितः ॥ ६०॥ तत्रोत्पन्नमुदन्तं ते वक्ष्यामि श‍ृणु तत्त्वतः । युवाभ्यां पीडिता देवाः सर्वे विष्णुमुपागताः ॥ ६१॥ ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः । जहि रावणमक्षोभ्यं देव त्रैलोक्यकण्टकम् ॥ ६२॥ मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा । अतस्त्वं मानुषो भूत्वा जहि रावणकण्टकम् ॥ ६३॥ तथेत्याह महाविष्णुः सत्यसङ्कल्प ईश्वरः । जातो रघुकुले देवो राम इत्यभिविश्रुतः ॥ ६४॥ स हनिष्यति वः सर्वानित्युक्त्वा प्रययौ मुनिः । अतो जानीहि रामं त्वं परं ब्रह्म सनातनम् ॥ ६५॥ त्यज वैरं भजस्वाद्य मायामानुषविग्रहम् । भजतो भक्तिभावेन प्रसीदति रघूत्तमः ॥ ६६॥ भक्तिर्जनित्री ज्ञानस्य भक्तिर्मोक्षप्रदायिनी । भक्तिहीनेन यत्किञ्चित्कृतं सर्वमसत्समम् ॥ ६७॥ अवताराः सुबहवो विष्णोर्लीलानुकारिणः । तेषां सहस्रसदृशो रामो ज्ञानमयः शिवः ॥ ६८॥ रामं भजन्ति निपुणा मनसा वचसाऽनिशम् । अनायासेन संसारं तीर्त्वा यान्ति हरेः पदम् ॥ ६९॥ ये राममेव सततं भुवि शुद्धसत्त्वा ध्यायन्ति तस्य चरितानि पठन्ति सन्तः । मुक्तास्त एव भवभोगमहाहिपाशैः सीतापतेः पदमनन्तसुखं प्रयान्ति ॥ ७०॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमः सर्गः ॥ ७॥

॥अष्टमः सर्गः ॥

श्रीमहादेव उवाच । कुम्भकर्णवचः श्रुत्वा भ्रुकुटीविकटाननः । दशग्रीवो जगादेदमासनादुत्पतन्निव ॥ १॥ त्वमानीतो न मे ज्ञानबोधनाय सुबुद्धिमान् । मया कृतं समीकृत्य युध्यस्व यदि रोचते ॥ २॥ नो चेद्गच्छ सुषुप्त्यर्थं निद्रा त्वां बाधतेऽधुना । रावणस्य वचः श्रुत्वा कुम्भकर्णो महाबलः ॥ ३॥ रुष्टोऽयमिति विज्ञाय तूर्णं युद्धाय निर्ययौ । स लङ्घयित्वा प्राकारं महापर्वतसन्निभः ॥ ४॥ निर्ययौ नगरात्तूर्णं भीषयन् हरिसैनिकान् । स ननाद महानादं समुद्रमभिनादयन् ॥ ५॥ वानरान् कालयामास बाहुभ्यां भक्षयन् रुषा । कुम्भकर्णं तदा दृष्ट्वा सपक्षमिव पर्वतम् ॥ ६॥ दुद्रुवुर्वानराः सर्वे कालान्तकमिवाखिलाः । भ्रमन्तं हरिवाहिन्यां मुद्गरेण महाबलम् ॥ ७॥ कालयन्तं हरीन् वेगाद्भक्षयन्तं समन्ततः । चूर्णयन्तं मुद्गरेण पाणिपादैरनेकधा ॥ ८॥ कुम्भकर्णं तदा दृष्ट्वा गदापाणिर्विभीषणः । ननाम चरणं तस्य भ्रातुर्ज्येष्ठस्य बुद्धिमान् ॥ ९॥ विभीषणोऽहं भ्रातुर्मे दयां कुरु महामते । रावणस्तु मया भ्रातर्बहुधा परिबोधितः ॥ १०॥ सीतां देहीति रामाय रामः साक्षाज्जनार्दनः । न श‍ृणोति च मां हन्तुं खड्गमुद्यम्य चोक्तवान् ॥ ११॥ धिक् त्वां गच्छेति मां हत्वा पदा पापिभिरावृतः । चतुर्भिर्मन्त्रिभिः सार्धं रामं शरणमागतः ॥ १२॥ तच्छ्रुत्वा कुम्भकर्णोऽपि ज्ञात्वा भ्रातरमागतम् । समालिङ्ग्य च वत्स त्वं जीव रामपदाश्रयात् ॥ १३॥ कुलसंरक्षणार्थाय राक्षसानां हिताय च । महाभागवतोऽसि त्वं पुरा मे नारदाच्छ्रुतम् ॥ १४॥ गच्छ तात ममेदानीं दृश्यते न च किञ्चन । मदीयो वा परो वापि मदमत्तविलोचनः ॥ १५॥ इत्युक्तोऽश्रुमुखो भ्रातुश्चरणावभिवन्द्य सः । रामपार्श्वमुपागत्य चिन्तापर उपस्थितः ॥ १६॥ कुम्भकर्णोऽपि हस्ताभ्यां पादाभ्यां पेषयन् हरीन् । चचार वानरीं सेनां कालयन् गन्धहस्तिवत् ॥ १७॥ दृष्ट्वा तं राघवः क्रुद्धो वायव्यं शस्त्रमादरात् । चिक्षेप कुम्भकर्णाय तेन चिच्छेद रक्षसः ॥ १८॥ समुद्गरं दक्षहस्तं तेन घोरं ननाद सः । स हस्तः पतितो भूमावनेकानर्दयन् कपीन् ॥ १९॥ पर्यन्तमाश्रिताः सर्वे वानरा भयवेपिताः । रामराक्षसयोर्युद्धं पश्यन्तः पर्यवस्थिताः ॥ २०॥ कुम्भकर्णश्छिन्नहस्तः शालमुद्यम्य वेगतः । समरे राघवं हन्तुं दुद्राव तमथोऽच्छिनत् ॥ २१॥ शालेन सहितं वामहस्तमैन्द्रेण राघवः । छिन्नबाहुमथायान्तं नर्दन्तं वीक्ष्य राघवः ॥ २२॥ द्वावर्धचन्द्रौ निशितावादायास्य पदद्वयम् । चिच्छेद पतितौ पादौ लङ्काद्वारि महास्वनौ ॥ २३॥ निकृत्तपाणिपादोऽपि कुम्भकर्णोऽतिभीषणः । वडवामुखवद्वक्त्रं व्यादाय रघुनन्दनम् ॥ २४॥ अभिदुद्राव निनदन् राहुश्चन्द्रमसं यथा । अपूरयच्छिताग्रैश्च सायकैस्तद्रघूत्तमः ॥ २५॥ शरपूरितवक्त्रोऽसौ चुक्रोशातिभयङ्करः । अथ सूर्यप्रतीकाशमैन्द्रं शरमनुत्तमम् ॥ २६॥ वज्राशनिसमं रामश्चिक्षेपासुरमृत्यवे । स तत्पर्वतसङ्काशं स्फुरत्कुण्डलदंष्ट्रकम् ॥ २७॥ चकर्त रक्षोऽधिपतेः शिरो वृत्रमिवाशनिः । तच्छिरः पतितं लङ्काद्वारि कायो महोदधौ ॥ २८॥ शिरोऽस्य रोधयद्द्वारं कायो नक्राद्यचूर्णयत् । ततो देवाः सऋषयो गन्धर्वाः पन्नगाः खगाः ॥ २९॥ सिद्धा यक्षा गुह्यकाश्च अप्सरोभिश्च राघवम् । ईडिरे कुसुमासारैर्वर्षन्तश्चाभिनन्दिताः ॥ ३०॥ आजगाम तदा रामं द्रष्टुं देवमुनीश्वरः । नारदो गगनात्तुर्णं स्वभासा भासयन् दिशः ॥ ३१॥ राममिन्दीवरश्याममुदाराङ्गं धनुर्धरम् । ईषत्ताम्रविशालाक्षमैन्द्रास्त्राञ्चितबाहुकम् ॥ ३२॥ दयार्द्रदृष्ट्या पश्यन्तं वानराञ्छरपीडितान् । दृष्ट्वा गद्गदया वाचा भक्त्या स्तोतुं प्रचक्रमे ॥ ३३॥ नारद उवाच । देवदेव जगन्नाथ परमात्मन् सनातन । नारायणाखिलाधार विश्वसाक्षिन्नमोऽस्तु ते ॥ ३४॥ विशुद्धज्ञानरूपोऽपि त्वं लोकानतिवञ्चयन् । मायया मनुजाकारः सुखदुःखादिमानिव ॥ ३५॥ त्वं मायया गुह्यमानः सर्वेषां हृदि संस्थितः । स्वयञ्ज्योतिः स्वभावस्त्वं व्यक्त एवामलात्मनाम् ॥ ३६॥ उन्मीलयन् सृजस्येतन्नेत्रे राम जगत्त्रयम् । उपसंह्रियते सर्वं त्वया चक्षुर्निमीलनात् ॥ ३७॥ यस्मिन् सर्वमिदं भाति यतश्चैतच्चराचरम् । यस्मान्न किञ्चिल्लोकेऽस्मिंस्तस्मै ते ब्रह्मणे नमः ॥ ३८॥ प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणम् । यं जानन्ति मुनिश्रेष्ठास्तस्मै रामाय ते नमः ॥ ३९॥ विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ । त्वां सर्वजगदाकारमूर्तिं चाप्याह सा श्रुतिः ॥ ४०॥ विरोधो दृश्यते देव वैदिको वेदवादिनाम् । निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः ॥ ४१॥ मायया क्रीडतो देव न विरोधो मनागपि । रश्मिजालं रवेर्यद्वद्दृश्यते जलवद् भ्रमात् ॥ ४२॥ भ्रान्तिज्ञानात्तथा राम त्वयि सर्वं प्रकल्प्यते । मनसोऽविषयो देव रूपं ते निर्गुणं परम् ॥ ४३॥ कथं दृश्यं भवेद्देव दृश्याभावे भजेत्कथम् । अतस्तवावतारेषु रूपाणि निपुणा भुवि ॥ ४४॥ भजन्ति बुद्धिसम्पन्नास्तरन्त्येव भवार्णवम् । कामक्रोधादयस्तत्र बहवः परिपन्थिनः ॥ ४५॥ भीषयन्ति सदा चेतो मार्जारा मूषकं यथा । त्वन्नाम स्मरतां नित्यं त्वद्रूपमपि मानसे ॥ ४६॥ त्वत्पूजानिरतानां ते कथामृतपरात्मनाम् । त्वद्भक्तसङ्गिनां राम संसारो गोष्पदायते ॥ ४७॥ अतस्ते सगुणं रूपं ध्यात्वाहं सर्वदा हृदि । मुक्तश्चरामि लोकेषु पूज्योऽहं सर्वदैवतैः ॥ ४८॥ राम त्वया महत्कार्यं कृतं देवहितेच्छया । कुम्भकर्णवधेनाद्य भूभारोऽयं गतः प्रभो ॥ ४९॥ श्वो हनिष्यति सौमित्रिरिन्द्रजेतारमाहवे । हनिष्यसेऽथ राम त्वं परश्वो दशकन्धरम् ॥ ५०॥ पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः । अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम् ॥ ५१॥ इत्युक्त्वा राममामन्त्र्य नारदो भगवानृषिः । ययौ देवैः पूज्यमानो ब्रह्मलोकमकल्मषम् ॥ ५२॥ भ्रातरं निहतं श्रुत्वा कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो रामेणाक्लिष्टकर्मणा ॥ ५३॥ मूर्च्छितः पतितो भूमावुत्थाय विललाप ह । पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम् ॥ ५४॥ इन्द्रजित्प्राह शोकार्तं त्यज शोकं महामते । व्येतु ते दुःखमखिलं स्वस्थो भव महीपते ॥ ५६॥ सर्वं समीकरिष्यामि हनिष्यामि च वै रिपून् । गत्वा निकुम्भिलां सद्यस्तर्पयित्वा हुताशनम् ॥ ५७॥ लब्ध्वा रथादिकं तस्मादजेयोऽहं भवाम्यरेः । इत्युक्त्वा त्वरितं गत्वा निर्दिष्टं हवनस्थलम् ॥ ५८॥ रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः । निकुम्भिलास्थले मौनी हवनायोपचक्रमे ॥ ५९॥ विभीषणोऽथ तच्छ्रुत्वा मेघनादस्य चेष्टितम् । प्राह रामाय सकलं होमारम्भं दुरात्मनः ॥ ६०॥ समाप्यते चेद्धोमोऽयं मेघनादस्य दुर्मतेः । तदाजेयो भवेद्राम मेघनादः सुरासुरैः ॥ ६१॥ अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम् । आज्ञापय मया सार्धं लक्ष्मणं बलिनां वरम् । हनिष्यति न सन्देहो मेघनादं तवानुजः ॥ ६२॥ श्रीरामचन्द्र उवाच । अहमेवागमिष्यामि हन्तुमिन्द्रजितं रिपुम् । आग्नेयेन महास्त्रेण सर्वराक्षसघातिना ॥ ६३॥ विभीषणोऽपि तं प्राह नासावन्यैर्निहन्यते । यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः ॥ ६४॥ तेनैव मृत्युर्निर्दिष्टो ब्रह्मणास्य दुरात्मनः । लक्ष्मणस्तु अयोध्याया निर्गम्यायात्त्वया सह ॥ ६५॥ तदादि निद्राहारादीन्न जानाति रघूत्तम । सेवार्थं तव राजेन्द्र ज्ञातं सर्वमिदं मया ॥ ६६॥ तदाज्ञापय देवेश लक्ष्मणं त्वरया मया । हनिष्यति न सन्देहः शेषः साक्षाद्धराधरः ॥ ६७॥ त्वमेव साक्षाज्जगतामधीशो नारायणो लक्ष्मण एव शेषः । युवां धराभारनिवारणार्थं जातौ जगन्नाटकसूत्रधारौ ॥ ६८॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे अष्टमः सर्गः ॥ ८॥

॥नवमः सर्गः ॥

श्रीमहादेव उवाच । विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां कृत्स्नां विभीषण ॥ १॥ स हि ब्रह्मास्त्रविच्छूरो मायावी च महाबलः । जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम् ॥ २॥ ज्ञात्वैवासमहं तूष्णीं भविष्यत्कार्यगौरवात् । इत्युक्त्वा लक्ष्मणं प्राह रामो ज्ञानवतां वरः ॥ ३॥ गच्छ लक्ष्मण सैन्येन महता जहि रावणिम् । हनूमत्प्रमुखैः सर्वैर्यूथपैः सह लक्ष्मण ॥ ४॥ जाम्बवानृक्षराजोऽयं सह सैन्येन संवृतः । विभीषणश्च सचिवैः सह त्वामभियास्यति ॥ ५॥ अभिज्ञस्तस्य देशस्य जानाति विवराणि सः । रामस्य वचनं श्रुत्वा लक्ष्मणः सविभीषणः ॥ ६॥ जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः । रामपादाम्बुजं स्पृष्ट्वा हृष्टः सौमित्रिरब्रवीत् ॥ ७॥ अद्य मत्कार्मुकान्मुक्ताः शरा निर्भिद्य रावणिम् । गमिष्यन्ति हि पातालं स्नातुं भोगवतीजले ॥ ८॥ एवमुक्त्वा स सौमित्रिः परिक्रम्य प्रणम्य तम् । इन्द्रजिन्निधनाकाङ्क्षी ययौ त्वरितविक्रमः ॥ ९॥ वानरैर्बहुसाहस्रैर्हनूमान् पृष्ठतोऽन्वगात् । विभीषणश्च सहितो मन्त्रिभिस्त्वरितं ययौ ॥ १०॥ जाम्बवत्प्रमुखा ऋक्षाः सौमित्रिं त्वरयान्वयुः । गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सह ॥ ११॥ अपश्यद्बलसङ्घातं दूराद्राक्षससङ्कुलम् । धनुरायम्य सौमित्रिर्यत्तोऽभूद्भूरिविक्रमः ॥ १२॥ अङ्गदेन च वीरेण जाम्बवान् राक्षसाधिपः । तदा विभीषणः प्राह सौमित्रिं पश्य राक्षसान् ॥ १३॥ यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । अस्यानीकस्य महतो भेदने यत्नवान् भव ॥ १४॥ राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ १५॥ जही वीर दुरात्मानं हिंसापरमधार्मिकम् । विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्ष्मणः ॥ १६॥ ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति । पाषाणैः पर्वताग्रैश्च वृक्षैश्च हरियूथपाः ॥ १७॥ निर्जघ्नुः सर्वतो दैत्यांस्तेऽपि वानरयूथपान् । परश्वधैः शितैर्बाणैरसिभिर्यष्टितोमरैः ॥ १८॥ निर्जघ्नुर्वानरानीकं तदा शब्दो महानभूत् । स सम्प्रहारस्तुमुलः सञ्जज्ञे हरिरक्षसाम् ॥ १९॥ इन्द्रजित्स्वबलं सर्वमर्द्यमानं विलोक्य सः । निकुम्भिलां च होमं च त्यक्त्वा शीघ्रं विनिर्गतः ॥ २०॥ रथमारुह्य सधनुः क्रोधेन महतागमत् । समाह्वयन् स सौमित्रिं युद्धाय रणमूर्धनि ॥ २१॥ सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे । तत्र दृष्ट्वा पितृव्यं स प्राह निष्ठुरभाषणम् ॥ २२॥ इहैव जातः संवृद्धः साक्षाद् भ्राता पितुर्मम । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ २३॥ कथं द्रुह्यसि पुत्राय पापीयानसि दुर्मतिः । इत्युक्त्वा लक्ष्मणं दृष्ट्वा हनूमत्पृष्ठतः स्थितम् ॥ २४॥ उद्यदायुधनिस्त्रिंशे रथे महति संस्थितः । महाप्रमाणमुद्यम्य घोरं विस्फारयन् धनुः ॥ २५॥ अद्य वो मामका बाणाः प्राणान् पास्यन्ति वानराः । ततः शरं दाशरथिः सन्धायामित्रकर्षणः ॥ २६॥ ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् । इन्द्रजिद्रक्तनयनो लक्ष्मणं समुदैक्षत ॥ २७॥ शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः । मुहूर्तमभवन्मूढः पुनः प्रत्याहृतेन्द्रियः ॥ २८॥ ददर्शावस्थितं वीरं वीरो दशरथात्मजम् । सोऽभिचक्राम सौमित्रिं क्रोधसंरक्तलोचनः ॥ २९॥ शरान् धनुषि सन्धाय लक्ष्मणं चेदमब्रवीत् । यदि ते प्रथमे युद्धे न दृष्टो मे पराक्रमः ॥ ३०॥ अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः । इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ॥ ३१॥ दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः । ततः शरशतेनैव सम्प्रयुक्तेन वीर्यवान् ॥ ३२॥ क्रोधद्विगुणसंरब्धो निर्बिभेद विभीषणम् । लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत् ॥ ३३॥ तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभम् । व्यशीर्यत रथोपस्थे तिलशः पतितं भुवि ॥ ३४॥ ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः । बिभेद समरे वीरं लक्ष्मणं भीमविक्रमम् ॥ ३५॥ व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च । कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ ३६॥ अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं पुनः । शरसंवृतसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ ३७॥ सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः । अयुध्येतां महासत्त्वौ जयाजयविवर्जितौ ॥ ३८॥ एतस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः । रावणेः सारथिं साश्वं रथं च समचूर्णयत् ॥ ३९॥ चिच्छेद कार्मुकं तस्य दर्शयन् हस्तलाघवम् । सोऽन्यत्तु कार्मुकं भद्रं सज्यं चक्रे त्वरान्वितः ॥ ४०॥ तच्चापमपि चिच्छेद लक्ष्मणस्त्रिभिराशुगैः । तमेव छिन्नधन्वानं विव्याधानेकसायकैः ॥ ४१॥ पुनरन्यत्समादाय कार्मुकं भीमविक्रमः । इन्द्रजिल्लक्ष्मणं बाणैः शितैरादित्यसन्निभैः ॥ ४२॥ बिभेद वानरान् सर्वान् बाणैरापूरयन् दिशः । तत ऐन्द्रं समादाय लक्ष्मणो रावणिं प्रति ॥ ४३॥ सन्धायाकृष्य कर्णान्तं कार्मुकं दृढनिष्ठुरम् । उवाच लक्ष्मणो वीरः स्मरन् रामपदाम्बुजम् ॥ ४४॥ धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि । त्रिलोक्यामप्रतिद्वन्द्वस्तदेनं जहि रावणिम् ॥ ४५॥ इत्युक्त्वा बाणमाकर्णाद्विकृष्य तमजिम्हगम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ४६॥ स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥ ४७॥ ततः प्रमुदिता देवाः कीर्तयन्तो रघूत्तमम् । ववर्षुः पुष्पवर्षाणि स्तुवन्तश्च मुहुर्मुहुः ॥ ४८॥ जहर्ष शक्रो भगवान् सह देवैर्महर्षिभिः । आकाशेऽपि च देवानां शुश्रुवे दुन्दुभिस्वनः ॥ ४९॥ विमलं गगनं चासीत्स्थिराभूद्विश्वधारिणी । निहतं रावणिं दृष्ट्वा जयजल्पसमन्वितः ॥ ५०॥ गतश्रमः स सौमित्रिः शङ्खमापूरयद्रणे । सिंहनादं ततः कृत्वा ज्याशब्दमकरोद्विभुः ॥ ५१॥ तेन नादेन संहृष्टा वानराश्च गतश्रमाः । वानरेन्द्रैश्च सहितः स्तुवद्भिर्हृष्टमानसैः ॥ ५२॥ लक्ष्मणः परितुष्टात्मा ददर्शाभ्येत्य राघवम् । हनूमद्राक्षसाभ्यां च सहितो विनयान्वितः ॥ ५३॥ ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुम् । त्वत्प्रसादाद्रघुश्रेष्ठ हतो रावणिराहवे ॥ ५४॥ श्रुत्वा तल्लक्ष्मणाद्भक्त्या तमालिङ्ग्य रघूत्तमः । मूर्ध्न्यवघ्राय मुदितः सस्नेहमिदमब्रवीत् ॥ ५५॥ साधु लक्ष्मण तुष्टोऽस्मि कर्म ते दुष्करं कृतम् । मेघनादस्य निधने जितं सर्वमरिन्दम ॥ ५६॥ अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः । निःसपत्नः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥ ५७॥ पुत्रशोकान्मया योद्धुं तं हनिष्यामि रावणम् ॥ ५८॥ मेघनादं हतं श्रुत्वा लक्ष्मणेन महाबलम् । रावणः पतितो भुमौ मूर्च्छितः पुनरुत्थितः । विललापातिदीनात्मा पुत्रशोकेन रावणः ॥ ५९॥ पुत्रस्य गुणकर्माणि संस्मरन् पर्यदेवयत् । अद्य देवगणाः सर्वे लोकपाला महर्षयः ॥ ६०॥ हतमिन्द्रजितं ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः । इत्यादि बहुशः पुत्रलालसो विललाप ह ॥ ६१॥ ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः । उवाच राक्षसान् सर्वान्निनाशयिषुराहवे ॥ ६२॥ स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः । संवीक्ष्य रावणो बुद्ध्या हन्तुं सीतां प्रदुद्रुवे ॥ ६३॥ खड्गपाणिमथायान्तं क्रुद्धं दृष्ट्वा दशाननम् । राक्षसीमध्यगा सीता भयशोकाकुलाभवत् ॥ ६४॥ एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः । सुपार्श्वो नाम मेधावी रावणं वाक्यमब्रवीत् ॥ ६५॥ ननु नाम दशग्रीव साक्षाद्वैश्रवणानुजः । वेदविद्याव्रतस्नातः स्वकर्मपरिनिष्ठितः ॥ ६६॥ अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि । अस्माभिः सहितो युद्धे हत्वा रामं च लक्ष्मणम् । प्राप्स्यसे जानकीं शीघ्रमित्युक्तः स न्यवर्तत ॥ ६७॥ ततो दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः । गृहं जगामाशु शुचा विमूढधीः पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६८॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे नवमः सर्गः ॥ ९॥

॥दशमः सर्गः ॥

श्रीमहादेव उवाच । स विचार्य सभामध्ये राक्षसैः सह मन्त्रिभिः । निर्ययौ येऽवशिष्टास्तै राक्षसैः सह राघवम् ॥ १॥ शलभः शलभैर्युक्तः प्रज्वलन्तमिवानलम् । ततो रामेण निहताः सर्वे ते राक्षसा युधि ॥ २॥ स्वयं रामेण निहतस्तीक्ष्णबाणेन वक्षसि । व्यथितस्त्वरितं लङ्कां प्रविवेश दशाननः ॥ ३॥ दृष्ट्वा रामस्य बहुशः पौरुषं चाप्यमानुषम् । रावणो मारुतेश्चैव शीघ्रं शुक्रान्तिकं ययौ ॥ ४॥ नमस्कृत्य दशग्रीवः शुक्रं प्राञ्जलिरब्रवीत् । भगवन् राघवेणैवं लङ्का राक्षसयुथपैः ॥ ५॥ विनाशिता महादैत्या निहताः पुत्रबान्धवाः । कथं मे दुःखसन्दोहस्त्वयि तिष्ठति सद्गुरौ ॥ ६॥ इति विज्ञापितो दैत्यगुरुः प्राह दशाननम् । होमं कुरु प्रयत्नेन रहसि त्वं दशानन ॥ ७॥ यदि विघ्नो न चेद्धोमे तर्हि होमानलोत्थितः ॥ ८॥ महान् रथश्च वाहाश्च चापतूणीरसायकाः । सम्भविष्यन्ति तैर्युक्तस्त्वमजेयो भविष्यसि ॥ ९॥ गृहाण मन्त्रान् मद्दत्तान् गच्छ होमं कुरु द्रुतम् । इत्युक्तस्त्वरितं गत्वा रावणो राक्षसाधिपः ॥ १०॥ गुहां पातालसदृशीं मन्दिरे स्वे चकार ह । लङ्काद्वारकपाटादि बद्ध्वा सर्वत्र यत्नतः ॥ ११॥ होमद्रव्याणि सम्पाद्य यान्युक्तान्याभिचारिके । गुहां प्रविश्य चैकान्ते मौनी होमं प्रचक्रमे ॥ १२॥ उत्थितं धूममालोक्य महान्तं रावणानुजः । रामाय दर्शयामास होमधूमं भयाकुलः ॥ १३॥ पश्य राम दशग्रीवो होमं कर्तुं समारभत् । यदि होमः समाप्तः स्यात्तदाऽजेयो भविष्यति ॥ १४॥ अतो विघ्नाय होमस्य प्रेषयाशु हरीश्वरान् । तथेति रामः सुग्रीवसम्मतेनाङ्गदं कपिम् ॥ १५॥ हनूमत्प्रमुखान् वीरानादिदेश महाबलान् । प्राकारं लङ्घयित्वा ते गत्वा रावणमन्दिरम् ॥ १६॥ दशकोट्यः प्लवङ्गानां गत्वा मन्दिररक्षकान् । चूर्णयामासुरश्वांश्च गजांश्च न्यहनन् क्षणात् ॥ १७॥ ततश्च सरमा नाम प्रभाते हस्तसन्ज्ञया । विभीषणस्य भार्या सा होमस्थानमसूचयत् ॥ १८॥ गुहापिधानपाषाणमङ्गदः पादघट्टनैः । चूर्णयित्वा महासत्त्वः प्रविवेश महागुहाम् ॥ १९॥ दृष्ट्वा दशाननं तत्र मीलिताक्षं दृढासनम् । ततोऽङ्गदाज्ञया सर्वे वानरा विविशुर्द्रुतम् ॥ २०॥ तत्र कोलाहलं चक्रुस्ताडयन्तश्च सेवकान् । सम्भारांश्चिक्षिपुस्तस्य होमकुण्डे समन्ततः ॥ २१॥ स्रुवमाच्छिद्य हस्ताच्च रावणस्य बलाद्रुषा । तेनैव सञ्जघानाशु हनूमान् प्लवगाग्रणीः ॥ २२॥ घ्नन्ति दन्तैश्च काष्ठैश्च वानरास्तमितस्ततः । न जहौ रावणो ध्यानं हतोऽपि विजिगीषया ॥ २३॥ प्रविश्यान्तःपुरे वेश्मन्यङ्गदो वेगवत्तरः । समानयत्केशबन्धे धृत्वा मन्दोदरीं शुभाम् ॥। २४॥ रावणस्यैव पुरतो विलपन्तीमनाथवत् । विददाराङ्गदस्तस्याः कञ्चुकं रत्नभूषितम् ॥ २५॥ मुक्ता विमुक्ताः पतिताः समन्ताद्रत्नसञ्चयैः । श्रोणिसूत्रं निपतितं त्रुटितं रत्नचित्रितम् ॥ २६॥ कटिप्रदेशाद्विस्रस्ता नीवी तस्यैव पश्यतः । भूषणानि च सर्वाणि पतितानि समन्ततः ॥ २७॥ देवगन्धर्वकन्याश्च नीता हृष्टैः प्लवङ्गमैः । मन्दोदरी रुरोदाथ रावणस्याग्रतो भृशम् ॥ २८॥ क्रोशन्ती करुणं दीना जगाद दशकन्धरम् । निर्लज्जोऽसि परैरेवं केशपाशे विकृष्यते ॥ २९॥ भार्या तवैव पुरतः किं जुहोषि न लज्जसे । हन्यते पश्यतो यस्य भार्या पापैश्च शत्रुभिः ॥ ३०॥ मर्तव्यं तेन तत्रैव जीवितान्मरणं वरम् । हा मेघनाद ते माता क्लिश्यते बत वानरैः ॥ ३१॥ त्वयि जीवति मे दुःखमीदृशं च कथं भवेत् । भार्या लज्जा च सन्त्यक्ता भर्त्रा मे जीविताशया ॥ ३२॥ श्रुत्वा तद्देवितं राजा मन्दोदर्या दशाननः । उत्तस्थौ खड्गमादाय त्यज देवीमिति ब्रुवन् ॥ ३३॥ जघानाङ्गदमव्यग्रः कटिदेशे दशाननः । तदोत्सृज्य ययुः सर्वे विध्वंस्य हवनं महत् ॥ ३४॥ रामपार्श्वमुपागम्य तस्थुः सर्वे प्रहर्षिताः ॥ ३५॥ रावणस्तु ततो भार्यामुवाच परिसान्त्वयन् । दैवाधीनमिदं भद्रे जीवता किं न दृश्यते । त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम् ॥ ३६॥ अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत् । अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु ॥ ३७॥ तन्मूलः पुत्रदारादिसम्बन्धः संसृतिस्ततः । हर्षशोकभयक्रोधलोभमोहस्पृहादयः ॥ ३८॥ अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः । आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः ॥ ३९॥ आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः । न संयोगो वियोगो वा विद्यते केनचित्सतः ॥ ४०॥ एवं ज्ञात्वा स्वमात्मानं त्यज शोकमनिन्दिते । इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम् ॥ ४१॥ आगमिष्यामि नो चेन्मां दारयिष्यति सायकैः । श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम् ॥ ४२॥ तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये । सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम् ॥ ४३॥ एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता । उवाच नाथ मे वाक्यं श‍ृणु सत्यं तथा कुरु ॥ ४४॥ शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन । रामो देववरः साक्षात्प्रधानपुरुषेश्वरः ॥ ४५॥ मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः । ररक्ष सकलापद्भ्यो राघवो भक्तवत्सलः ॥ ४६॥ रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः । समुद्रमथने पृष्ठे दधार कनकाचलम् ॥ ४७॥ हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना । क्रोडरूपेण वपुषा क्षोणीमुद्धरता क्वचित् ॥ ४८॥ त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा । हतवान्नारसिंहेन वपुषा रघुनन्दनः ॥ ४९॥ विक्रमैस्त्रिभिरेवासौ बलिं बद्ध्वा जगत्त्रयम् । आक्रम्यादात्सुरेन्द्राय भृत्याय रघुसत्तमः ॥ ५०॥ राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः । तान् हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः ॥ ५१॥ स एव साम्प्रतं जातो रघुवंशे परात्परः । भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः ॥ ५२॥ तस्य भार्या किमर्थं वा हृता सीता वनाद्बलात् । मम पुत्रविनाशार्थं स्वस्यापि निधनाय च ॥ ५३॥ इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे । विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम् ॥ ५४॥ मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत् । कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम् ॥ ५५॥ घातयित्वा राघवेण जीवामि वनगोचरः । रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः ॥ ५६॥ विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम् । जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम् । ज्ञात्वैव जानकी सीता मयानीता वनाद्बलात् ॥ ५७॥ रामेण निधनं प्राप्य यास्यामीति परं पदम् । विमुच्य त्वां तु संसाराद्गमिष्यामि सह प्रिये ॥ ५८॥ परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः । तां गतिं तु गमिष्यामि हतो रामेण संयुगे ॥ ५९॥ प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम् ॥ ६०॥ क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं दारात्मजाप्तधनबन्धुझषाभियुक्तम् । और्वानलाभनिजरोषमनङ्गजालं संसारसागरमतीत्य हरिं व्रजामि ॥ ६१॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे दशमः सर्गः ॥ १०॥

॥एकादशः सर्गः ॥

श्रीमहादेव उवाच । इत्युक्त्वा वचनं प्रेम्णा राज्ञीं मन्दोदरीं तदा । रावणः प्रययौ योद्धुं रामेण सह संयुगे ॥ १॥ दृढं स्यन्दनमास्थाय वृतो घोरैर्निशाचरैः । चक्रैः षोडशभिर्युक्तं सवरूथं सकूबरम् ॥ २॥ पिशाचवदनैर्घोरैः खरैर्युक्तं भयावहम् । सर्वास्त्रशस्त्रसहितं सर्वोपस्करसंयुतम् ॥ ३॥ निश्चक्रामाथ सहसा रावणो भीषणाकृतिः । आयान्तं रावणं दृष्ट्वा भीषणं रणकर्कशम् ॥ ४॥ सन्त्रस्ताभूत्तदा सेना वानरी रामपालिता ॥ ५॥ हनूमानथ चोत्प्लुत्य रावणं योद्धुमाययौ । आगत्य हनुमान् रक्षोवक्षस्यतुलविक्रमः ॥ ६॥ मुष्टिबन्धं दृढं बद्ध्वा ताडयामास वेगतः । तेन मुष्टिप्रहारेण जानुभ्यामपतद्रथे ॥ ७॥ मूर्च्छितोऽथ मुहूर्तेन रावणः पुनरुत्थितः । उवाच च हनूमन्तं शूरोऽसि मम सम्मतः ॥ ८॥ हनूमानाह तं धिङ्मां यस्त्वं जीवसि रावण । त्वं तावन्मुष्टिना वक्षो मम ताडय रावण ॥ ९॥ पश्चान्मया हतः प्राणान्मोक्ष्यसे नात्र संशयः । तथेति मुष्टिना वक्षो रावणेनापि ताडितः ॥ १०॥ विघूर्णमाननयनः किञ्चित्कश्मलमाययौ । सन्ज्ञामवाप्य कपिराड् रावणं हन्तुमुद्यतः ॥ ११॥ ततोऽन्यत्र गतो भीत्या रावणो राक्षसाधिपः । हनूमानङ्गदश्चैव नलो नीलस्तथैव च ॥ १२॥ चत्वारः समवेत्याग्रे दृष्ट्वा राक्षसपुङ्गवान् । अग्निवर्णं तथा सर्परोमाणं खड्गरोमकम् ॥ १३॥ तथा वृश्चिकरोमाणं निर्जघ्नुः क्रमशोऽसुरान् । चत्वारश्चतुरो हत्वा राक्षसान् भीमविक्रमान् । सिंहनादं पृथक् कृत्वा रामपार्श्वमुपागताः ॥ १४॥ ततः क्रुद्धो दशग्रीवः सन्दश्य दशनच्छदम् ॥ १५॥ विवृत्य नयने क्रूरो राममेवान्वधावत । दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ १६॥ आजघान महाघोरैर्धाराभिरिव तोयदः । रामस्य पुरतः सर्वान् वानरानपि विव्यधे ॥ १७॥ ततः पावकसङ्काशैः शरैः काञ्चनभूषणैः । अभ्यवर्षद्रणे रामो दशग्रीवं समाहितः ॥ १८॥ रथस्थं रावणं दृष्ट्वा भूमिष्ठं रघुनन्दनम् । आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ १९॥ रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् । त्वरितं भूतलं गत्वा कुरु कार्यं ममानघ ॥ २०॥ एवमुक्तोऽथ तं नत्वा मातलिर्देवसारथिः । ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ २१॥ स्वर्गाज्जयार्थं रामस्य ह्युपचक्राम मातलिः । प्राञ्जलिर्देवराजेन प्रेषितोऽस्मि रघूत्तम ॥ २२॥ रथोऽयं देवराजस्य विजयाय तव प्रभो । प्रेषितश्च महाराज धनुरैन्द्रं च भूषितम् ॥ २३॥ अभेद्यं कवचं खड्गं दिव्यतूणीयुगं तथा । आरुह्य च रथं राम रावणं जहि राक्षसम् ॥ २४॥ मया सारथिना देव वृत्रं देवपतिर्यथा । इत्युक्तस्तं परिक्रम्य नमस्कृत्य रथोत्तमम् ॥ २५॥ आरुरोह रथं रामो लोकान्ल्लक्ष्म्या नियोजयन् । ततोऽभवन्महायुद्धं भैरवं रोमहर्षणम् ॥ २६॥ महात्मनो राघवस्य रावणस्य च धीमतः । आग्नेयेन च आग्नेयं दैवं दैवेन राघवः ॥ २७॥ अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् । ततस्तु ससृजे घोरं राक्षसं चास्त्रमस्त्रवित् । क्रोधेन महताविष्टो रामस्योपरि रावणः ॥ २८॥ रावणस्य धनुर्मुक्ताः सर्पा भूत्वा महाविषाः । शराः काञ्चनपुङ्खाभा राघवं परितोऽपतन् ॥ २९॥ तैः शरैः सर्पवदनैर्वमद्भिरनलं मुखैः । दिशश्च विदिशश्चैव व्याप्तास्तत्र तदाभवन् ॥ ३०॥ रामः सर्पांस्ततो दृष्ट्वा समन्तात्परिपूरितान् । सौपर्णमस्त्रं तद्घोरं पुरः प्रावर्तयद्रणे ॥ ३१॥ रामेण मुक्तास्ते बाणा भूत्वा गरुडरूपिणः । चिच्छिदुः सर्पबाणांस्तान् समन्तात् सर्पशत्रवः ॥ ३२॥ अस्त्रे प्रतिहते युद्धे रामेण दशकन्धरः । अभ्यवर्षत्ततो रामं घोराभिः शरवृष्टिभिः ॥ ३३॥ ततः पुनः शरानीकै राममक्लिष्टकारिणम् । अर्दयित्वा तु घोरेण मातलिं प्रत्यविध्यत ॥ ३४॥ पातयित्वा रथोपस्थे रथकेतुं च काञ्चनम् । ऐन्द्रानश्वानभ्यहनद्रावणः क्रोधमूर्च्छितः ॥ ३५॥ विषेदुर्देवगन्धर्वाश्चारणाः पितरस्तथा । आर्त्ताकारं हरिं दृष्ट्वा व्यथिताश्च महर्षयः ॥ ३६॥ व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः । दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥ ३७॥ ददृशे रावणस्तत्र मैनाक इव पर्वतः । रामस्तु भ्रुकुटिं बद्ध्वा क्रोधसंरक्तलोचनः ॥ ३८॥ कोपं चकार सदृशं निर्दहन्निव राक्षसम् । धनुरादाय देवेन्द्रधनुराकारमद्भुतम् ॥ ३९॥ गृहीत्वा पाणिना बाणं कालानलसमप्रभम् । निर्दहन्निव चक्षुर्भ्यां ददृशे रिपुमन्तिके ॥ ४०॥ पराक्रमं दर्शयितुं तेजसा प्रज्वलन्निव । प्रचक्रमे कालरूपी सर्वलोकस्य पश्यतः ॥ ४१॥ विकृष्य चापं रामस्तु रावणं प्रतिविध्य च । हर्षयन् वानरानीकं कालान्तक इवाबभौ ॥ ४३॥ क्रुद्धं रामस्य वदनं दृष्ट्वा शत्रुं प्रधावतः । तत्रसुः सर्वभूतानि चचाल च वसुन्धरा ॥ ४३॥ रामं दृष्ट्वा महारौद्रमुत्पातांश्च सुदारुणान् । त्रस्तानि सर्वभूतानि रावणं चाविशद्भयम् ॥ ४४॥ विमानस्था सुरगणाः सिद्धगन्धर्वकिन्नराः । ददृशुः सुमहायुद्धं लोकसंवर्तकोपमम् । ऐन्द्रमस्त्रं समादाय रावणस्य शिरोऽच्छिनत् ॥ ४५॥ मूर्धानो रावणस्याथ बहवो रुधिरोक्षिताः । गगनात्प्रपतन्ति स्म तालादिव फलानि हि ॥ ४६॥ न दिनं न च वै रात्रिर्न सन्ध्यां न दिशोऽपि वा । प्रकाशन्ते न तद्रूपं दृश्यते तत्र सङ्गरे ॥ ४७॥ ततो रामो बभूवाथ विस्मयाविष्टमानसः । शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम् ॥ ४८॥ न चैव रावणः शान्तो दृश्यते जीवितक्षयात् । ततः सर्वास्त्रविद्धीरः कौसल्यानन्दवर्धनः ॥ ४९॥ अस्त्रैश्च बहुभिर्युक्तश्चिन्तयामास राघवः । यैर्यैर्बाणैर्हता दैत्या महासत्त्वपराक्रमाः ॥ ५०॥ त एते निष्फलं याता रावणस्य निपातने । इति चिन्ताकुले रामे समीपस्थो विभीषणः ॥ ५१॥ उवाच राघवं वाक्यं ब्रह्मदत्तवरो ह्यसौ । विच्छिन्ना बाहवोऽप्यस्य विच्छिन्नानि शिरांसि च ॥ ५२॥ उत्पत्स्यन्ति पुनः शीघ्रमित्याह भगवानजः । नाभिदेशेऽमृतं तस्य कुण्डलाकारसंस्थितम् ॥ ५३॥ तच्छोषयानलास्त्रेण तस्य मृत्युस्ततो भवेत् । विभीषणवचः श्रुत्वा रामः शीघ्रपराक्रमः ॥ ५४॥ पावकास्त्रेण संयोज्य नाभिं विव्याध रक्षसः । अनन्तरं च चिच्छेद शिरांसि च महाबलः ॥ ५५॥ बाहूनपि च संरब्धो रावणस्य रघूत्तमः । ततो घोरां महाशक्तिमादाय दशकन्धरः ॥ ५६॥ विभीषणवधार्थाय चिक्षेप क्रोधविह्वलः । चिच्छेद राघवो बाणैस्तां शितैर्हेमभूषितैः ॥ ५७॥ दशग्रीवशिरश्छेदात्तदा तेजो विनिर्गतम् । म्लानरूपो बभूवाथ छिन्नैः शीर्षैर्भयङ्करैः ॥ ५८॥ एकेन मुख्यशिरसा बाहुभ्यां रावणो बभौ । रावणस्तु पुनः क्रुद्धो नानाशस्त्रास्त्रवृष्टिभिः ॥ ५९॥ ववर्ष रामं तं रामस्तथा बाणैर्ववर्ष च । ततो युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ॥ ६०॥ अथ संस्मारयामास मातली राघवं तदा । विसृजास्त्रं वधायास्य ब्राह्मं शीघ्रं रघूत्तम ॥ ६१॥ विनाशकालः प्रथितो यः सुरैः सोऽद्य वर्तते । उत्तमाङ्गं न चैतस्य छेत्तव्यं राघव त्वया ॥ ६२॥ नैव शीर्ष्णि प्रभो वध्यो वध्य एव हि मर्मणि । ततः संस्मारितो रामस्तेन वाक्येन मातलेः ॥ ६३॥ जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् । यस्य पार्श्वे तु पवनः फले भास्करपावकौ ॥ ६४॥ शरीरमाकाशमयं गौरवे मेरुमन्दरौ । पर्वस्वपि च विन्यस्ता लोकपाला महौजसः ॥ ६५॥ जाज्वल्यमानं वपुषा भातं भास्करवर्चसा । तमुग्रमस्त्रं लोकानां भयनाशनमद्भुतम् ॥ ६६॥ अभिमन्त्र्य ततो रामस्तं महेषुं महाभुजः । वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ ६७॥ तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ॥ ६८॥ स रावणाय सङ्क्रुद्धो भृशमानम्य कार्मुकम् । चिक्षेप परमायत्तस्तमस्त्रं मर्मघातिनम् ॥ ६९॥ स वज्र इव दुर्धर्षो वज्रपाणिविसर्जितः । कृतान्त इव घोरास्यो न्यपतद्रावणोरसि ॥ ७०॥ स निमग्नो महाघोरः शरीरान्तकरः परः । बिभेद हृदयं तूर्णं रावणस्य महात्मनः ॥ ७१॥ रावणस्याहरत्प्राणान् विवेश धरणितले । स शरो रावणं हत्वा रामतूणीरमाविशत् ॥ ७२॥ तस्य हस्तात्पपाताशु सशरं कार्मुकं महत् । गतासुर्भ्रमिवेगेन राक्षसेन्द्रोऽपतद्भुवि ॥ ७३॥ तं दृष्ट्वा पतितं भूमौ हतशेषाश्च राक्षसाः । हतनाथा भयत्रस्ता दुद्रुवुः सर्वतोदिशम् ॥ ७४॥ दशग्रीवस्य निधनं विजयं राघवस्य च । ततो विनेदुः संहृष्टा वानरा जितकाशिनः ॥ ७५॥ वदन्तो रामविजयं रावणस्य च तद्वधम् । अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ॥ ७६॥ पपात पुष्पवृष्टिश्च समन्ताद्राघवोपरि । तुष्टुवुर्मुनयः सिद्धाश्चारणाश्च दिवौकसः ॥ ७७॥ अथान्तरिक्षे ननृतुः सर्वतोऽप्सरसो मुदा । रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत् ॥ ७८॥ प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम् । देवा ऊचुरहो भाग्यं रावणस्य महात्मनः ॥ ७९॥ वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः । भयदुःखादिभिर्व्याप्ताः संसारे परिवर्तिनः ॥ ८०॥ अयं तु राक्षसः क्रूरो ब्रह्महाऽतीव तामसः । परदाररतो विष्णुद्वेषी तापसहिंसकः ॥ ८१॥ पश्यत्सु सर्वभूतेषु राममेव प्रविष्टवान् । एवं ब्रुवत्सु देवेषु नारदः प्राह सुस्मितः ॥ ८२॥ श‍ृणुतात्र सुरा यूयं धर्मतत्त्वविचक्षणाः । रावणो राघवद्वेषादनिशं हृदि भावयन् ॥ ८३॥ भृत्यैः सह सदा रामचरितं द्वेषसंयुतः । श्रुत्वा रामात्स्वनिधनं भयात्सर्वत्र राघवम् ॥ ८४॥ पश्यन्ननुदिनं स्वप्ने राममेवानुपश्यति । क्रोधोऽपि रावणस्याशु गुरुबोधाधिकोऽभवत् ॥ ८५॥ रामेण निहतश्चान्ते निर्धूताशेषकल्मषः । रामसायुज्यमेवाप रावणो मुक्तबन्धनः ॥ ८६॥ पापिष्ठो वा दुरात्मा परधनपरदारेषु सक्तो यदि स्या- न्नित्यं स्नेहाद्भयाद्वा रघुकुलतिलकं भावयन् सम्परेतः । भूत्वा शुद्धान्तरङ्गो भवशतजनितानेकदोषैर्विमुक्तः सद्यो रामस्य विष्णोः सुरवरविनुतं याति वैकुण्ठमाद्यम् ॥ ८७॥ हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं भुमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन् बाणमेकम् । आरक्तोपान्तनेत्रः शरदलितवपुः सूर्यकोटिप्रकाशो वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८८॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे एकादशः सर्गः ॥ ११॥

॥द्वादशः सर्गः ॥

श्रीमहादेव उवाच । रामो विभीषणं दृष्ट्वा हनूमन्तं तथाङ्गदम् । लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परान् ॥ १॥ परितुष्टेन मनसा सर्वानेवाब्रवीद्वचः । भवतां बाहुवीर्येण निहतो रावणो मया ॥ २॥ कीर्तिः स्थास्यति वः पुण्या यावच्चन्द्रदिवाकरौ कीर्तयिष्यन्ति भवतां कथां त्रैलोक्यपावनीम् ॥ ३॥ मयोपेतां कलिहरां यास्यन्ति परमां गतिम् । एतस्मिन्नन्तरे दृष्ट्वा रावणं पतितं भुवि ॥ ४॥ मन्दोदरीमुखाः सर्वाः स्त्रियो रावणपालिताः । पतिता रावणस्याग्रे शोचन्त्यः पर्यदेवयन् ॥ ५॥ विभीषणः शुशोचार्तः शोकेन महतावृतः । पतितो रावणस्याग्रे बहुधा पर्यदेवयत् ॥ ६॥ रामस्तु लक्ष्मणं प्राह बोधयस्व विभीषणम् । करोतु भ्रातृसंस्कारं किं विलम्बेन मानद ॥ ७॥ स्त्रियो मन्दोदरीमुख्याः पतिता विलपन्ति च । निवारयतु ताः सर्वा राक्षसी रावणप्रियाः ॥ ८॥ एवमुक्तोऽथ रामेण लक्ष्मणोऽगाद्विभीषणम् । उवाच मृतकोपान्ते पतितं मृतकोपमम् ॥ ९॥ शोकेन महताविष्टं सौमित्रिरिदमब्रवीत् । यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण ॥ १०॥ त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम् । यद्वत्तोयौघपतिताः सिकता यान्ति तद्वशाः ॥ ११॥ संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः । यथा धानासु वै धाना भवन्ति न भवन्ति च ॥ १२॥ एवं भूतेषु भूतानि प्रेरितानीशमायया । त्वं चेमे वयमन्ये च तुल्याः कालवशोद्भवाः ॥ १३॥ जन्ममृत्यू यदा यस्मात्तदा तस्माद्भविष्यतः । ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः ॥ १४॥ आत्मसृष्टैरस्वतन्त्रैर्निरपेक्षोऽपि बालवत् । देहेन देहिनो जीवा देहाद्देहोऽभिजायते ॥ १५॥ बीजादेव यथा बीजं देहान्य इव शाश्वतः । देहिदेहविभागोऽयमविवेककृतः पुरा ॥ १६॥ नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रियाफलम् । द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः ॥ १७॥ त इमे देहसंयोगादात्मना भान्त्यसद्ग्रहात् । यथा यथा तथा चान्यद्ध्यायतोऽसत्सदाग्रहात् ॥ १८॥ प्रसुप्तस्यानहम्भावात्तदा भाति न संसृतिः । जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः ॥ १९॥ तस्मान्मायामनोधर्मं जह्यहम्ममताभ्रमम् । रामभद्रे भगवति मनो धेह्यात्मनीश्वरे ॥ २०॥ सर्वभूतात्मनि परे मायामानुषरूपिणि । बाह्येन्द्रियार्थसम्बन्धात्त्याजयित्वा मनः शनैः ॥ २१॥ तत्र दोषान् दर्शयित्वा रामानन्दे नियोजय । देहबुद्ध्या भवेद्भ्राता पिता माता सुहृत्प्रियः ॥ २२॥ विलक्षणं यदा देहाज्जानात्यात्मानमात्मना । तदा कः कस्य वा बन्धुर्भ्राता माता पिता सुहृत् ॥ २३॥ मिथ्याज्ञानवशाज्जाता दारागारादयः सदा । शब्दादयश्च विषया विविधाश्चैव सम्पदः ॥ २४॥ बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः । अज्ञानजत्वात्सर्वे ते क्षणसङ्गमभङ्गुराः ॥ २५॥ अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम् । अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम् ॥ २६॥ भूतं भविष्यदभजन् वर्तमानमथाचरन् । विहरस्व यथान्यायं भवदोषैर्न लिप्यसे ॥ २७॥ आज्ञापयति रामस्त्वां यद्भ्रातुः साम्परायिकम् । तत्कुरुष्व यथाशास्त्रं रुदतीश्चापि योषितः ॥ २८॥ निवारय महाबुद्धे लङ्कां गच्छन्तु मा चिरम् । श्रुत्वा यथावद्वचनं लक्ष्मणस्य विभीषणः ॥ २९॥ त्यक्त्वा शोकं च मोहं च रामपार्श्वमुपागमत् । विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ ३०॥ रामस्यैवानुवृत्त्यर्थमुत्तरं पर्यभाषत । नृशंसमनृतं क्रूरं त्यक्तधर्मव्रतं प्रभो ॥ ३१॥ नार्होऽस्मि देव संस्कर्तुं परदाराभिमर्शिनम् । श्रुत्वा तद्वचनं प्रीतो रामो वचनमब्रवीत् ॥ ३२॥ मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ ३३॥ रामाज्ञां शिरसा धृत्वा शीघ्रमेव विभीषणः । सान्त्ववाक्यैर्महाबुद्धिं राज्ञीं मन्दोदरीं तदा ॥ ३४॥ सान्त्वयामास धर्मात्मा धर्मबुद्धिर्विभीषणः । त्वरयामास धर्मज्ञः संस्कारार्थं स्वबान्धवान् ॥ ३५॥ चित्यां निवेश्य विधिवत्पितृमेधविधानतः । आहिताग्नेर्यथा कार्यं रावणस्य विभीषणः ॥ ३६॥ तथैव सर्वमकरोद्बन्धुभिः सह मन्त्रिभिः । ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ३७॥ स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भाभिमिश्रितान् । उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ॥ ३८॥ प्रदाय चोदकं तस्मै मुर्ध्ना चैनं प्रणम्य च । ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः ॥ ३९॥ गम्यतामिति ताः सर्वा विविशुर्नगरं तदा । प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ॥ ४०॥ रामपार्श्वमुपागत्य तदातिष्ठद्विनीतवत् । रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ॥ ४१॥ हर्षं लेभे रिपून् हत्वा यथा वृत्रं शतक्रतुः । मातलिश्च तदा रामं परिक्रम्याभिवन्द्य च ॥ ४२॥ अनुज्ञातश्च रामेण ययौ स्वर्गं विहायसा । ततो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत् ॥ ४३॥ विभीषणाय मे लङ्काराज्यं दत्तं पुरैव हि । इदानीमपि गत्वा त्वं लङ्कामध्ये विभीषणम् ॥ ४४॥ अभिषेचय विप्रैश्च मन्त्रवद्विधिपूर्वकम् । इत्युक्तो लक्ष्मणस्तूर्णं जगाम सह वानरैः ॥ ४५॥ लङ्कां सुवर्णकलशैः समुद्रजलसंयुतैः । अभिषेकं शुभं चक्रे राक्षसेन्द्रस्य धीमतः ॥ ४६॥ ततः पौरजनैः सार्धं नानोपायनपाणिभिः । विभीषणः ससौमित्रिरुपायनपुरस्कृतः ॥ ४७॥ दण्डप्रणाममकरोद्रामस्याक्लिष्टकर्मणः । रामो विभीषणं दृष्ट्वा प्राप्तराज्यं मुदान्वितः ॥ ४८॥ कृतकृत्यमिवात्मानममन्यत सहानुजः । सुग्रीवं च समालिङ्ग्य रामो वाक्यमथाब्रवीत् ॥ ४९॥ सहायेन त्वया वीर जितो मे रावणो महान् । विभीषणोऽपि लङ्कायामभिषिक्तो मयानघ ॥ ५०॥ ततः प्राह हनूमन्तं पार्श्वस्थं विनयान्वितम् । विभीषणस्यानुमतेर्गच्छ त्वं रावणालयम् ॥ ५१॥ जानक्यै सर्वमाख्याहि रावणस्य वधादिकम् । जानक्याः प्रतिवाक्यं मे शीघ्रमेव निवेदय ॥ ५२॥ एवमाज्ञापितो धीमान् रामेण पवनात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ५३॥ प्रविश्य रावणगृहं शिंशपामूलमाश्रिताम् । ददर्श जानकीं तत्र कृशां दीनामनिन्दिताम् ॥ ५४॥ राक्षसीभिः परिवृतां ध्यायन्तीं राममेव हि । विनयावनतो भूत्वा प्रणम्य पवनात्मजः ॥ ५५॥ कृताञ्जलिपुटो भूत्वा प्रह्वो भक्त्याऽग्रतः स्थितः । तं दृष्ट्वा जानकी तूष्णीं स्थित्वा पूर्वस्मृतिं ययौ ॥ ५६॥ ज्ञात्वा तं रामदूतं सा हर्षात्सौम्यमुखी बभौ । स तां सौम्यमुखीं दृष्ट्वा तस्यै पवननन्दनः । रामस्य भाषितं सर्वमाख्यातुमुपचक्रमे ॥ ५७॥ देवि रामः ससुग्रीवो विभीषणसहायवान् । कुशली वानराणां च सैन्यैश्च सहलक्ष्मणः ॥ ५८॥ रावणं ससुतं हत्वा सबलं सह मन्त्रिभिः । त्वामाह कुशलं रामो राज्ये कृत्वा विभीषणम् ॥ ५९॥ श्रुत्वा भर्तुः प्रियं वाक्यं हर्षगद्गदया गिरा । किं ते प्रियं करोम्यद्य न पश्यामि जगत्त्रये ॥ ६०॥ समं ते प्रियवाक्यस्य रत्नान्याभरणानि च । एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ॥ ६१॥ रत्नौघाद्विविधाद्वापि देवराज्याद्विशिष्यते । हतशत्रुं विजयिनं रामं पश्यामि सुस्थिरम् ॥ ६२॥ तस्य तद्वचनं श्रुत्वा मैथिली प्राह मारुतिम् । सर्वे सौम्या गुणा सौम्य त्वय्येव परिनिष्ठिताः ॥ ६३॥ रामं द्रक्ष्यामि शीघ्रं मामाज्ञापयतु राघवः । तथेति तां नमस्कृत्य ययौ द्रष्टुं रघूत्तमम् ॥ ६४॥ जानक्या भाषितं सर्वं रामस्याग्रे न्यवेदयत् । यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ॥ ६५॥ तां देवीं शोकसन्तप्तां द्रष्टुमर्हसि मैथिलीम् । एवमुक्तो हनुमता रामो ज्ञानवतां वरः ॥ ६६॥ मायासीतां परित्यक्तुं जानकीमनले स्थिताम् । आदातुं मनसा ध्यात्वा रामः प्राह विभीषणम् ॥ ६७॥ गच्छ राजन् जनकजामानयाशु ममान्तिकम् । स्नातां विरजवस्त्राढ्यां सर्वाभरणभूषिताम् ॥ ६८॥ विभीषणोऽपि तच्छ्रुत्वा जगाम सहमारुतिः । राक्षसीभिः सुवृद्धाभिः स्नापयित्वा तु मैथिलीम् ॥ ६९॥ सर्वाभरणसम्पन्नामारोप्य शिबिकोत्तमे । याष्टीकैर्बहुभिर्गुप्तां कञ्चुकोष्णीषिभिः शुभाम् ॥ ७०॥ तां द्रष्टुमागताः सर्वे वानरा जनकात्मजाम् । तान् वारयन्तो बहवः सर्वतो वेत्रपाणयः ॥ ७१॥ कोलाहलं प्रकुर्वन्तो रामपार्श्वमुपाययुः । दृष्ट्वा तां शिबिकारूढां दूरादथ रघूत्तमः ॥ ७२॥ विभीषण किमर्थं ते वानरान् वारयन्ति हि । पश्यन्तु वानराः सर्वे मैथिलीं मातरं यथा ॥ ७३॥ पादचारेण साऽऽयातु जानकी मम सन्निधिम् । श्रुत्वा तद्रामवचनं शिबिकादवरुह्य सा ॥ ७४॥ पादचारेण शनकैरागता रामसन्निधिम् । रामोऽपि दृष्ट्वा तां मायासीतां कार्यार्थनिर्मिताम् ॥ ७५॥ अवाच्यवादान् बहुशः प्राह तां रघुनन्दनः । अमृष्यमाणा सा सीता वचनं राघवोदितम् ॥ ७६॥ लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम् । विश्वासार्थं हि रामस्य लोकानां प्रत्ययाय च ॥ ७७॥ राघवस्य मतं ज्ञात्वा लक्ष्मणोऽपि तदैव हि । महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम् ॥ ७८॥ रामपार्श्वमुपागम्य तस्थौ तूष्णीमरिन्दमः । ततः सीता परिक्रम्य राघवं भक्तिसंयुता ॥ ७९॥ पश्यतां सर्वलोकानां देवराक्षसयोषिताम् । प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ॥ ८०॥ बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपगा । यथा मे हृदयं नित्यं नापसर्पति राघवात् ॥ ८१॥ तथा लोकस्य साक्षी मां सर्वतः पातु पावकः । एवमुक्त्वा तदा सीता परिक्रम्य हुताशनम् ॥ ८२॥ विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती ॥ ८३॥ दृष्ट्वा ततो भूतगणाः ससिद्धाः सीतां महावह्निगतां भृशार्ताः । परस्परं प्राहुरहो स सीतां रामः श्रियं स्वां कथमत्यजज्ज्ञः ॥ ८४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादशः सर्गः ॥ १२॥

॥त्रयोदशः सर्गः ॥

श्रीमहादेव उवाच । ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा । कुबेरश्च महातेजाः पिनाकी वृषवाहनः ॥ १॥ ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः । ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः ॥ २॥ एते चान्ये विमानाग्र्यैराजग्मुर्यत्र राघवः । अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते ॥ ३॥ कर्ता त्वं सर्वलोकानां साक्षी विज्ञानविग्रहः । वसूनामष्टमोऽसि त्वं रुद्राणां शङ्करो भवान् ॥ ४॥ आदिकर्तासि लोकानां ब्रह्मा त्वं चतुराननः । अश्विनौ घ्राणभूतौ ते चक्षुषी चन्द्रभास्करौ ॥ ५॥ लोकानामादिरन्तोऽसि नित्य एकः सदोदितः । सदा शुद्धः सदा बुद्धः सदा मुक्तोऽगुणोऽद्वयः ॥ ६॥ त्वन्मायासंवृतानां त्वं भासि मानुषविग्रहः । त्वन्नाम स्मरतां राम सदा भासि चिदात्मकः ॥ ७॥ रावणेन हृतं स्थानमस्माकं तेजसा सह । त्वयाद्य निहतो दुष्टः पुनः प्राप्तं पदं स्वकम् ॥ ८॥ एवं स्तुवत्सु देवेषु ब्रह्मा साक्षात्पितामहः । अब्रवीत्प्रणतो भूत्वा रामं सत्यपथे स्थितम् ॥ ९॥ ब्रह्मोवाच वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् । हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १०॥ प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्वा सर्वं संशयबन्धं विषयौघान् । पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥ ११॥ मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् । योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥ १२॥ भावाभावप्रत्ययहीनं भवमुख्यैः योगासक्तैरर्चितपादाम्बुजयुग्मम् । नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥ १३॥ त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी । भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ १४॥ त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् । भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ १५॥ को वा ज्ञातुं त्वामतिमानं गतमानं मायासक्तो माधव शक्तो मुनिमान्यम् । वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ १६॥ नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् । मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥ १७॥ श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः । रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ १८॥ श्रुत्वा स्तुतिं लोकगुरोर्विभावसुः स्वाङ्के समादाय विदेहपुत्रिकाम् । विभ्राजमानां विमलारुणद्युतिं रक्ताम्बरां दिव्यविभूषणान्विताम् ॥ १९॥ प्रोवाच साक्षी जगतां रघूत्तमं प्रपन्नसर्वार्तिहरं हुताशनः । गृहाण देवीं रघुनाथ जानकीं पुरा त्वया मय्यवरोपितां वने ॥ २०॥ विधाय मायाजनकात्मजां हरे दशाननप्राणविनाशनाय च । हतो दशास्यः सह पुत्रबान्धवै- र्निराकृतोऽनेन भरो भुवः प्रभो ॥ २१॥ तिरोहिता सा प्रतिबिम्बरूपिणी कृता यदर्थं कृतकृत्यतां गता । ततोऽतिहृष्टां परिगृह्य जानकीं रामः प्रहृष्टः प्रतिपूज्य पावकम् ॥ २२॥ स्वाङ्के समावेश्य सदाऽनपायिनीं श्रियं त्रिलोकीजननीं श्रियः पतिः । दृष्ट्वाथ रामं जनकात्मजायुतं श्रिया स्फुरन्तं सुरनायको मुदा । भक्त्या गिरा गद्गदया समेत्य कृताञ्जलिः स्तोतुमथोपचक्रमे ॥ २३॥ इन्द्र उवाच । भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ २४॥ सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २५॥ प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ २६॥ सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् । चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥ २७॥ महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपा भवन्तीह लोके ॥ २८॥ अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः । इदानीं भवत्पादपद्मप्रसादात् त्रिलोकाधिपत्याभिमानो विनष्टः ॥ २९॥ स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥ ३०॥ सुराधीशनीलाभ्रनीलाङ्गकान्तिं विराधादिरक्षोवधाल्लोकशान्तिम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥ ३१॥ लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् । स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥ ३२॥ ततः प्रोवाच भगवान् भवान्या सहितो भवः । रामं कमलपत्राक्षं विमानस्थो नभःस्थले ॥ ३३॥ आगमिष्याम्ययोध्यायां द्रष्टुं त्वां राज्यसत्कृतम् । इदानीं पश्य पितरमस्य देहस्य राघव ॥ ३४॥ ततोऽपश्यद्विमानस्थं रामो दशरथं पुरः । ननाम शिरसा पादौ मुदा भक्त्या सहानुजः ॥ ३५॥ आलिङ्ग्य मूर्ध्न्यवघ्राय रामं दशरथोऽब्रवीत् । तारितोऽस्मि त्वया वत्स संसाराद्दुःखसागरात् ॥ ३६॥ इत्युक्त्वा पुनरालिङ्ग्य ययौ रामेण पूजितः । रामोऽपि देवराजं तं दृष्ट्वा प्राह कृताञ्जलिम् ॥ ३७॥ मत्कृते निहतान् सङ्ख्ये वानरान् पतितान् भुवि । जीवयाशु सुधावृष्ट्या सहस्राक्ष ममाज्ञया ॥ ३८॥ तथेत्यमृतवृष्ट्या तान् जीवयामास वानरान् । ये ये मृता मृधे पूर्वं ते ते सुप्तोत्थिता इव । पूर्ववद्बलिनो हृष्टा रामपार्श्वमुपाययुः ॥ ३९॥ नोत्थिता राक्षसास्तत्र पीयूषस्पर्शनादपि । विभीषणस्तु साष्टाङ्गं प्रणिपत्याब्रवीद्वचः ॥ ४०॥ देव मामनुगृह्णीष्व मयि भक्तिर्यदा तव । मङ्गलस्नानमद्य त्वं कुरु सीतासमन्वितः ॥ ४१॥ अलङ्कृत्य सह भ्रात्रा श्वो गमिष्यामहे वयम् । विभीषणवचः श्रुत्वा प्रत्युवाच रघूत्तमः ॥ ४२॥ सुकुमारोऽतिभक्तो मे भरतो मामवेक्षते । जटावल्कलधारी स शब्दब्रह्मसमाहितः ॥ ४३॥ कथं तेन विना स्नानमलङ्कारादिकं मम । अतः सुग्रीवमुख्यांस्त्वं पूजयाशु विशेषतः ॥ ४४॥ पूजितेषु कपीन्द्रेषु पूजितोऽहं न संशयः । इत्युक्तो राघवेणाशु स्वर्णरत्नाम्बराणि च ॥ ४५॥ ववर्ष राक्षसश्रेष्ठो यथाकामं यथारुचि । ततस्तान् पूजितान् दृष्ट्वा रामो रत्नैश्च यूथपान् ॥ ४६॥ अभिनन्द्य यथान्यायं विससर्ज हरीश्वरान् । विभीषणसमानीतं पुष्पकं सूर्यवर्चसम् ॥ ४७॥ आरुरोह ततो रामस्तद्विमानमनुत्तमम् । अङ्के निधाय वैदेहीं लज्जमानां यशस्विनीम् ॥ ४८॥ लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता । अब्रवीच्च विमानस्थः श्रीरामः सर्ववानरान् ॥ ४९॥ सुग्रीवं हरिराजं च अङ्गदं च विभीषणम् । मित्रकार्यं कृतं सर्वं भवद्भिः सह वानरैः ॥ ५०॥ अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । सुग्रीव प्रतियाह्याशु किष्किन्धां सर्वसैनिकैः ॥ ५१॥ स्वराज्ये वस लङ्कायां मम भक्तो विभीषण । न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ ५२॥ अयोध्यां गन्तुमिच्छामि राजधानीं पितुर्मम । एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ ५३॥ ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः । अयोध्यां गन्तुमिच्छामस्त्वया सह रघूत्तम ॥ ५४॥ दृष्ट्वा त्वामभिषिक्तं तु कौसल्यामभिवाद्य च । पश्चाद्वृणीमहे राज्यमनुज्ञां देहि नः प्रभो ॥ ५५॥ रामस्तथेति सुग्रीव वानरैः सविभीषणः । पुष्पकं सहनूमांश्च शीघ्रमारोह साम्प्रतम् ॥ ५६॥ ततस्तु पुष्पकं दिव्यं सुग्रीवः सह सेनया । विभीषणश्च सामात्यः सर्वे चारुरुहुर्द्रुतम् ॥ ५७॥ तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् । राघवेणाभ्यनुज्ञातमुत्पपात विहायसा ॥ ५८॥ बभौ तेन विमानेन हंसयुक्तेन भास्वता । प्रहृष्टश्च तदा रामश्चतुर्मुख इवापरः ॥ ५९॥ ततो बभौ भास्करबिम्बतुल्यं कुबेरयानं तपसानुलब्धम् । रामेण शोभां नितरां प्रपेदे सीतासमेतेन सहानुजेन ॥ ६०॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे त्रयोदशः सर्गः ॥ १३॥

॥चतुर्दशः सर्गः ॥

श्रीमहादेव उवाच । पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ १॥ त्रिकूटशिखराग्रस्थां पश्य लङ्कां महाप्रभाम् । एतां रणभुवं पश्य मांसकर्दमपङ्किलाम् ॥ २॥ असुराणां प्लवङ्गानामत्र वैशसनं महत् । अत्र मे निहतः शेते रावणो राक्षसेश्वरः ॥ ३॥ कुम्भकर्णेन्द्रजिन्मुख्याः सर्वे चात्र निपातिताः । एष सेतुर्मया बद्धः सागरे सलिलाशये ॥ ४॥ एतच्च दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्धमिति ख्यातं त्रैलोक्येन च पूजितम् ॥ ५॥ एतत्पवित्रं परमं दर्शनात्पातकापहम् । अत्र रामेश्वरो देवो मया शम्भुः प्रतिष्ठितः ॥ ६॥ अत्र मां शरणं प्राप्तो मन्त्रिभिश्च विभीषणः । एषा सुग्रीवनगरी किष्किन्धा चित्रकानना ॥ ७॥ तत्र रामाज्ञया ताराप्रमुखा हरियोषितः । आनयामास सुग्रीवः सीतायाः प्रियकाम्यया ॥ ८॥ ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः । प्राह चाद्रिमृष्यमूकं पश्य वाल्यत्र मे हतः ॥ ९॥ एषा पञ्चवटी नाम राक्षसा यत्र मे हताः । अगस्त्यस्य सुतीक्ष्णस्य पश्याश्रमपदे शुभे ॥ १०॥ एते ते तापसाः सर्वे दृश्यन्ते वरवर्णिनि । असौ शैलवरो देवि चित्रकूटः प्रकाशते ॥ ११॥ अत्र मां कैकयीपुत्रः प्रसादयितुमागतः । भरद्वाजाश्रमं पश्य दृश्यते यमुनातटे ॥ १२॥ एषा भागीरथी गङ्गा दृश्यते लोकपावनी । एषा सा दृश्यते सीते सरयूयूपमालिनी ॥ १३॥ एषा सा दृश्यतेऽयोध्या प्रणामं कुरु भामिनि । एवं क्रमेण सम्प्राप्तो भरद्वाजाश्रमं हरिः ॥ १४॥ पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनः । भरद्वाजं मुनिं दृष्ट्वा ववन्दे सानुजः प्रभुः ॥ १५॥ पप्रच्छ मुनिमासीनं विनयेन रघूत्तमः । श‍ृणोषि कच्चिद्भरतः कुशल्यास्ते सहानुजः ॥ १६॥ सुभिक्षा वर्ततेऽयोध्या जीवन्ति च हि मातरः । श्रुत्वा रामस्य वचनं भरद्वाजः प्रहृष्टधीः ॥ १७॥ प्राह सर्वे कुशलिनो भरतस्तु महामनाः । फलमूलकृताहारो जटावल्कलधारकः ॥ १८॥ पादुके सकलं न्यस्य राज्यं त्वां सुप्रतीक्षते । यद्यत्कृतं त्वया कर्म दण्डके रघुनन्दन ॥ १९॥ राक्षसानां विनाशं च सीताहरणपूर्वकम् । सर्वं ज्ञातं मया राम तपसा ते प्रसादतः ॥ २०॥ त्वं ब्रह्म परमं साक्षादादिमध्यान्तवर्जितः । त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत् ॥ २१॥ नारायणोऽसि विश्वात्मन्नराणामन्तरात्मकः । त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः ॥ २२॥ अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः । त्वं विष्णुर्जानकी लक्ष्मीः शेषोऽयं लक्ष्मणाभिधः ॥ २३॥ आत्मना सृजसीदं त्वमात्मन्येवात्ममायया । न सज्जसे नभोवत्त्वं चिच्छक्त्या सर्वसाक्षिकः ॥ २४॥ बहिरन्तश्च भूतानां त्वमेव रघुनन्दन । पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे ॥ २५॥ जगत्त्वं जगदाधारस्त्वमेव परिपालकः । त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते ॥ २६॥ दृश्यते श्रूयते यद्यत्स्मर्यते वा रघूत्तम । त्वमेव सर्वमखिलं त्वद्विनान्यन्न किञ्चन ॥ २७॥ माया सृजति लोकांश्च स्वगुणैरहमादिभिः । त्वच्छक्तिप्रेरिता राम तस्मात्त्वय्युपचर्यते ॥ २८॥ यथा चुम्बकसान्निध्याच्चलन्त्येवायसादयः । जडास्तथा त्वया दृष्टा माया सृजति वै जगत् ॥ २९॥ देहद्वयमदेहस्य तव विश्वं रिरक्षिषोः । विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्ममुदाहृतम् ॥ ३०॥ विराजः सम्भवन्त्येते अवताराः सहस्रशः । कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन ॥ ३१॥ अवतारकथां लोके ये गायन्ति गृणन्ति च । अनन्यमनसो मुक्तिस्तेषामेव रघूत्तम ॥ ३२॥ त्वं ब्रह्मणा पुरा भूमेर्भारहाराय राघव । प्रार्थितस्तपसा तुष्टस्त्वं जातोऽसि रघोः कुले ॥ ३३॥ देवकार्यमशेषेण कृतं ते राम दुष्करम् । बहुवर्षसहस्राणि मानुषं देहमाश्रितः ॥ ३४॥ कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च । पापहारीणि भुवनं यशसा पूरयिष्यसि ॥ ३५॥ प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम् । स्थित्वाद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम् ॥ ३६॥ तथेति राघवोऽतिष्ठत्तस्मिन्नाश्रम उत्तमे । ससैन्यः पूजितस्तेन सीतया लक्ष्मणेन च ॥ ३७॥ ततो रामश्चिन्तयित्वा मुहूर्तं प्राह मारुतिम् । इतो गच्छ हनूमंस्त्वमयोध्यां प्रति सत्वरः ॥ ३८॥ जानीहि कुशली कच्चिज्जनो नृपतिमन्दिरे । श‍ृङ्गवेरपुरं गत्वा ब्रूहि मित्रं गुहं मम ॥ ३९॥ जानकीलक्ष्मणोपेतमागतं मां निवेदय । नन्दिग्रामं ततो गत्वा भ्रातरं भरतं मम ॥ ४०॥ दृष्ट्वा ब्रूहि सभार्यस्य सभ्रातुः कुशलं मम । सीतापहरणादीनि रावणस्य वधादिकम् ॥ ४१॥ ब्रूहि क्रमेण मे भ्रातुः सर्वं तत्र विचेष्टितम् । हत्वा शत्रुगणान् सर्वान् सभार्यः सहलक्ष्मणः ॥ ४२॥ उपयाति समृद्धार्थः सह ऋक्षहरीश्वरैः । इत्युक्त्वा तत्र वृत्तान्तं भरतस्य विचेष्टितम् ॥ ४३॥ सर्वं ज्ञात्वा पुनः शीघ्रमागच्छ मम सन्निधिम् । तथेति हनुमांस्तत्र मानुषं वपुरास्थितः ॥ ४४॥ नन्दिग्रामं ययौ तूर्णं वायुवेगेन मारुतिः । गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ ४५॥ श‍ृङ्गवेरपुरं प्राप्य गुहमासाद्य मारुतिः । उवाचा मधुरं वाक्यं प्रहृष्टेनान्तरात्मना ॥ ४६॥ रामो दाशरथिः श्रीमान् सखा ते सह सीतया । सलक्ष्मणस्त्वां धर्मात्मा क्षेमी कुशलमब्रवीत् ॥ ४७॥ अनुज्ञातोऽद्य मुनिना भरद्वाजेन राघवः । आगमिष्यति तं देवं द्रक्ष्यसि त्वं रघूत्तमम् ॥ ४८॥ एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहम् । उत्पपात महावेगो वायुवेगेन मारुतिः ॥ ४९॥ सोऽपश्यद्रामतीर्थं च सरयूं च महानदीम् । तामतिक्रम्य हनुमान्नन्दिग्रामं ययौ मुदा ॥ ५०॥ क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ ५१॥ मलपङ्कविदिग्धाङ्गं जटिलं वल्कलाम्बरम् । फलमूलकृताहारं रामचिन्तापरायणम् ॥ ५२॥ पादुके ते पुरस्कृत्य शासयन्तं वसुन्धराम् । मन्त्रिभिः पौरमुख्यैश्च काषायाम्बरधारिभिः ॥ ५३॥ वृतदेहं मूर्तिमन्तं साक्षाद्धर्ममिव स्थितम् । उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः ॥ ५४॥ यं त्वं चिन्तयसे रामं तापसं दण्डके स्थितम् । अनुशोचसि काकुत्स्थः स त्वां कुशलमब्रवीत् ॥ ५५॥ प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ५६॥ समरे रावणं हत्वा रामः सीतामवाप्य च । उपयाति समृद्धार्थः ससीतः सहलक्ष्मणः ॥ ५७॥ एवमुक्तो महातेजा भरतो हर्षमूर्च्छितः । पपात भुवि चास्वस्थः कैकयीप्रियनन्दनः ॥ ५८॥ आलिङ्ग्य भरतः शीघ्रं मारुतिं प्रियवादिनम् । आनन्दजैरश्रुजलैः सिषेच भरतः कपिम् ॥ ५९॥ देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ६०॥ गवां शतसहस्रं च ग्रामाणां च शतं वरम् । सर्वाभरणसम्पन्ना मुग्धाः कन्यास्तु षोडश ॥ ६१॥ एवमुक्त्वा पुनः प्राह भरतो मारुतात्मजम् । बहूनीमानि वर्षाणि गतस्य सुमहद्वनम् ॥ ६२॥ श‍ृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् । कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ॥ ६३॥ एति जीवन्तमानन्दो नरं वर्षशतादपि । राघवस्य हरीणां च कथमासीत्समागमः ॥ ६४॥ तत्त्वमाख्याहि भद्रं ते विश्वसेयं वचस्तव । एवमुक्तोऽथ हनुमान् भरतेन महात्मना ॥ ६५॥ आचचक्षेऽथ रामस्य चरितं कृत्स्नशः क्रमात् । श्रुत्वा तु परमानन्दं भरतो मारुतात्मजात् ॥ ६६॥ आज्ञापयच्छत्रुहणं मुदा युक्तं मुदान्वितः । दैवतानि च यावन्ति नगरे रघुनन्दन ॥ ६७॥ नानोपहारबलिभिः पूजयन्तु महाधियः । सूता वैतालिकाश्चैव वन्दिनः स्तुतिपाठकाः ॥ ६८॥ वारमुख्याश्च शतशो निर्यान्त्वद्यैव सङ्घशः । राजदारास्तथामात्याः सेना हस्त्यश्वपत्तयः ॥ ६९॥ ब्राह्मणाश्च तथा पौरा राजानो ये समागताः । निर्यान्तु राघवस्याद्य द्रष्टुं शशिनिभाननम् ॥ ७०॥ भरतस्य वचः श्रुत्वा शत्रुघ्नपरिचोदिताः । अलञ्चक्रुश्च नगरीं मुक्तारत्नमयोज्ज्वलैः ॥ ७१॥ तोरणैश्च पताकाभिर्विचित्राभिरनेकधा । अलङ्कुर्वन्ति वेश्मानि नानाबलिविचक्षणाः ॥ ७२॥ निर्यान्ति वृन्दशः सर्वे रामदर्शनलालसाः । हयानां शतसाहस्रं गजानामयुतं तथा ॥ ७३॥ रथानां दशसाहस्रं स्वर्णसूत्रविभूषितम् । पारमेष्ठीन्युपादाय द्रव्याण्युच्चावचानि च ॥ ७४॥ ततस्तु शिबिकारूढा निर्ययू राजयोषितः । भरतः पादुके न्यस्य शिरस्येव कृताञ्जलिः ॥ ७५॥ शत्रुघ्नसहितो रामं पादचारेण निर्ययौ । तदैव दृश्यते दूराद्विमानं चन्द्रसन्निभम् ॥ ७६॥ पुष्पकं सूर्यसङ्काशं मनसा ब्रह्मनिर्मितम् । एतस्मिन् भ्रातरौ वीरौ वैदेह्या रामलक्ष्मणौ ॥ ७७॥ सुग्रीवश्च कपिश्रेष्ठो मन्त्रिभिश्च विभीषणः । दृश्यते पश्यत जना इत्याह पवनात्मजः ॥ ७८॥ ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत् । स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तनात् ॥ ७९॥ रथकुञ्जरवाजिस्था अवतीर्य महीं गताः । ददृशुस्ते विमानस्थं जनाः सोममिवाम्बरे ॥ ८०॥ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः । ततो विमानाग्रगतं भरतो राघवं मुदा ॥ ८१॥ ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् । ततो रामाभ्यनुज्ञातं विमानमपतद्भुवि ॥ ८२॥ आरोपितो विमानं तद्भरतः सानुजस्तदा । राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ८३॥ समुत्थाय चिराद्दृष्टं भरतं रघुनन्दनः । भ्रातरं स्वाङ्कमारोप्य मुदा तं परिषस्वजे ॥ ८४॥ ततो लक्ष्मणमासाद्य वैदेहीं नाम कीर्तयन् । अभ्यवादयत प्रीतो भरतः प्रेमविह्वलः ॥ ८५॥ सुग्रीवं जाम्बवन्तं च युवराजं तथाङ्गदम् । मैन्दद्विविदनीलांश्च ऋषभं चैव सस्वजे ॥ ८६॥ सुषेणं च नलं चैव गवाक्षं गन्धमादनम् । शरभं पनसं चैव भरतः परिषस्वजे ॥ ८७॥ सर्वे ते मानुषं रूपं कृत्वा भरतमादृताः । पप्रच्छुः कुशलं सौम्याः प्रहृष्टाश्च प्लवङ्गमाः ॥ ८८॥ ततः सुग्रीवमालिङ्ग्य भरतः प्राह भक्तितः । त्वत्सहायेन रामस्य जयोऽभूद्रावणो हतः ॥ ८९॥ त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः । शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥ ९०॥ सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः । रामो मातरमासाद्य विवर्णां शोकविह्वलाम् ॥ ९१॥ जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् । कैकेयीं च सुमित्रां च ननामेतरमातरौ ॥ ९२॥ भरतः पादुके ते तु राघवस्य सुपूजिते । योजयामास रामस्य पादयोर्भक्तिसंयुतः ॥ ९३॥ राज्यमेतन्न्यासभूतं मया निर्यातितं तव । अद्य मे सफलं जन्म फलितो मे मनोरथः ॥ ९४॥ यत्पश्यामि समायातमयोध्यां त्वामहं प्रभो । कोष्ठागारं बलं कोशं कृतं दशगुणं मया ॥ ९५॥ त्वत्तेजसा जगन्नाथ पालयस्व पुरं स्वकम् । इति ब्रुवाणं भरतं दृष्ट्वा सर्वे कपीश्वराः ॥ ९६॥ मुमुचुर्नेत्रजं तोयं प्रशशंसुर्मुदान्विताः । ततो रामः प्रहृष्टात्मा भरतं स्वाङ्कगं मुदा ॥ ९७॥ ययौ तेन विमानेन भरतस्याश्रमं तदा । अवरुह्य तदा रामो विमानाग्र्यान्महीतलम् ॥ ९८॥ अब्रवीत्पुष्पकं देवो गच्छ वैश्रवणं वह । अनुगच्छानुजानामि कुबेरं धनपालकम् ॥ ९९॥ रामो वसिष्ठस्य गुरोः पदाम्बुजं नत्वा यथा देवगुरोः शतक्रतुः । दत्त्वा महार्हासनमुत्तमं गुरो- रुपाविवेशाथ गुरोः समीपतः ॥ १००॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्दशः सर्गः ॥ १४॥

॥पञ्चदशः सर्गः ॥

श्रीमहादेव उवाच । ततस्तु कैकयीपुत्रो भरतो भक्तिसंयुतः । शिरस्यञ्जलिमाधाय ज्येष्ठं भ्रातरमब्रवीत् ॥ १॥ माता मे सत्कृता राम दत्तं राज्यं त्वया मम । ददामि तत्ते च पुनर्यथा त्वमददा मम ॥ २॥ इत्युक्त्वा पादयोर्भक्त्या साष्टाङ्गं प्रणिपत्य च । बहुधा प्रार्थयामास कैकेय्या गुरुणा सह ॥ ३॥ तथेति प्रतिजग्राह भरताद्राज्यमीश्वरः । मायामाश्रित्य सकलां नरचेष्टामुपागतः ॥ ४॥ स्वाराज्यानुभवो यस्य सुखज्ञानैकरूपिणः । निरस्तातिशयानन्दरूपिणः परमात्मनः ॥ ५॥ मानुषेण तु राज्येन किं तस्य जगदीशितुः । यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात् ॥ ६॥ यस्यानुग्रहमात्रेण भवन्त्याखण्डलश्रियः । लीलासृष्टमहासृष्टेः कियदेतद्रमापतेः ॥ ७॥ तथापि भजतां नित्यं कामपूरविधित्सया । लीलामानुषदेहेन सर्वमप्यनुवर्तते ॥ ८॥ ततः शत्रुघ्नवचनान्निपुणः श्मश्रुकृन्तकः सम्भाराश्चाभिषेकार्थमानीता राघवस्य हि ॥ ९॥ पूर्वं तु भरते स्नाते लक्ष्मणे च महात्मनि । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १०॥ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ ११॥ प्रतिकर्म च रामस्य लक्ष्मणश्च महामतिः । कारयामास भरतः सीताया राजयोषितः ॥ १२॥ महार्हवस्त्राभरणैरलञ्चक्रुः सुमध्यमाम् । ततो वानरपत्नीनां सर्वासामेव शोभना ॥ १३॥ अकारयत कौसल्या प्रहृष्टा पुत्रवत्सला । ततः स्यन्दनमादाय शत्रुघ्नवचनात्सुधीः ॥ १४॥ सुमन्त्रः सूर्यसङ्काशं योजयित्वाग्रतः स्थितः । आरुरोह रथं रामः सत्यधर्मपरायणः ॥ १५॥ सुग्रीवो युवराजश्च हनुमांश्च विभीषणः । स्नात्वा दिव्याम्बरधरा दिव्याभरणभूषिताः ॥ १६॥ राममन्वीयुरग्रे च रथाश्वगजवाहनाः । सुग्रीवपत्न्यः सीता च ययुर्यानैः पुरं महत् ॥ १७॥ वज्रपाणिर्यथा देवैर्हरिताश्वरथे स्थितः । प्रययौ रथमास्थाय तथा रामो महत्पुरम् ॥ १८॥ सारथ्यं भरतश्चक्रे रत्नदण्डं महाद्युतिः । श्वेतातपत्रं शत्रुघ्नो लक्ष्मणो व्यजनं दधे ॥ १९॥ चामरं च समीपस्थो न्यवीजयदरिन्दमः । शशिप्रकाशं त्वपरं जग्राहासुरनायकः ॥ २०॥ दिविजैः सिद्धसङ्घैश्च ऋषिभिर्दिव्यदर्शनैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ २१॥ मानुषं रूपमास्थाय वानरा गजवाहनाः । भेरीशङ्खनिनादैश्च मृदङ्गपणवानकैः ॥ २२॥ प्रययौ राघवश्रेष्ठस्तां पुरीं समलङ्कृताम् । ददृशुस्ते समायान्तं राघवं पुरवासिनः ॥ २३॥ दूर्वादलश्यामतनुं महार्ह- किरीटरत्नाभरणाञ्चिताङ्गम् । आरक्तकञ्जायतलोचनान्तं दृष्ट्वा ययुर्मोदमतीव पुण्याः ॥ २४॥ विचित्ररत्नाञ्चितसूत्रनद्ध- पीताम्बरं पीनभुजान्तरालम् । अनर्घ्यमुक्ताफलदिव्यहारैः विरोचमानं रघुनन्दनं प्रजाः ॥ २५॥ सुग्रीवमुख्यैर्हरिभिः प्रशान्तैः निषेव्यमाणं रवितुल्यभासम् । कस्तूरिकाचन्दनलिप्तगात्रं निवीतकल्पद्रुमपुष्पमालम् ॥ २६॥ श्रुत्वा स्त्रियो राममुपागतं मुदा प्रहर्षवेगोत्कलिताननश्रियः । अपास्य सर्वं गृहकार्यमाहितं हर्म्याणि चैवारुरुहुः स्वलङ्कृताः ॥ २७॥ दृष्ट्वा हरिं सर्वदृगुत्सवाकृतिं पुष्पैः किरन्त्यः स्मितशोभिताननाः । दृग्भिः पुनर्नेत्रमनोरसायनं स्वानन्दमूर्तिं मनसाभिरेभिरे ॥ २८॥ रामः स्मितस्निग्धदृशा प्रजास्तथा पश्यन् प्रजानाथ इवापरः प्रभुः । शनैर्जगामाथ पितुः स्वलङ्कृतं गृहं महेन्द्रालयसन्निभं हरिः ॥ २९॥ प्रविश्य वेश्मान्तरसंस्थितो मुदा रामो ववन्दे चरणौ स्वमातुः । क्रमेण सर्वाः पितृयोषितः प्रभुः ननाम भक्त्या रघुवंशकेतुः ॥ ३०॥ ततो भरतमाहेदं रामः सत्यपराक्रमः । सर्वसम्पत्समायुक्तं मम मन्दिरमुत्तमम् ॥ ३१॥ मित्राय वानरेन्द्राय सुग्रीवाय प्रदीयताम् । सर्वेभ्यः सुखवासार्थं मन्दिराणि प्रकल्पय ॥ ३२॥ रामेणैवं समादिष्टो भरतश्च तथाकरोत् । उवाच च महातेजाः सुग्रीवं राघवानुजः ॥ ३३॥ राघवस्याभिषेकार्थं चतुःसिन्धुजलं शुभम् । आनेतुं प्रेषयस्वाशु दूतांस्त्वरितविक्रमान् ॥ ३४॥ प्रेषयामास सुग्रीवो जाम्बवन्तं मरुत्सुतम् । अङ्गदं च सुषेणं च ते गत्वा वायुवेगतः ॥ ३५॥ जलपूर्णान् शातकुम्भकलशांश्च समानयन् । आनीतं तीर्थसलिलं शत्रुघ्नो मन्त्रिभिः सह ॥ ३६॥ राघवस्याभिषेकार्थं वसिष्ठाय न्यवेदयत् । ततस्तु प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ॥ ३७॥ रामं रत्नमये पीठे ससीतं संन्यवेशयत् । वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा ॥ ३८॥ वाल्मीकिश्च तथा चक्रुः सर्वे रामाभिषेचनम् । कुशाग्रतुलसीयुक्तपुण्यगन्धजलैर्मुदा ॥ ३९॥ अभ्यषिञ्चन् रघुश्रेष्ठं वासवं वसवो यथा । ऋत्विग्भिर्ब्राह्मणैः श्रेष्ठैः कन्याभिः सह मन्त्रिभिः ॥ ४०॥ सर्वौषधिरसैश्चैव दैवतैर्नभसि स्थितैः । चतुर्भिर्लोकपालैश्च स्तुवद्भिः सगणैस्तथा ॥ ४१॥ छत्रं च तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् । सुग्रीवराक्षसेन्द्रौ तौ दधतुः श्वेतचामरे ॥ ४२॥ मालां च काञ्चनीं वायुर्ददौ वासवचोदितः । सर्वरत्नसमायुक्तं मणिकाञ्चनभूषितम् ॥ ४३॥ ददौ हारं नरेन्द्राय स्वयं शक्रस्तु भक्तितः । प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ४४॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात् । नवदूर्वादलश्यामं पद्मपत्रायतेक्षणम् ॥ ४५॥ रविकोटिप्रभायुक्तकिरीटेन विराजितम् । कोटिकन्दर्पलावण्यं पीताम्बरसमावृतम् ॥ ४६॥ दिव्याभरणसम्पन्नं दिव्यचन्दनलेपनम् । अयुतादित्यसङ्काशं द्विभुजं रघुनन्दनम् ॥ ४७॥ वामभागे समासीनां सीतां काञ्चनसन्निभाम् । सर्वाभरणसम्पन्नां वामाङ्के समुपस्थिताम् ॥ ४८॥ रक्तोत्पलकराम्भोजां वामेनालिङ्ग्य संस्थितम् । सर्वातिशयशोभाढ्यं दृष्ट्वा भक्तिसमन्वितः ॥ ४९॥ उमया सहितो देवः शङ्करो रघुनन्दनम् । सर्वदेवगणैर्युक्तः स्तोतुं समुपचक्रमे ॥ ५०॥ श्रीमहादेव उवाच । नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ ५१॥ त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥ ५२॥ लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः । नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ५३॥ स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः । उपर्यधो भान्वनिलोडुपौषधि- प्रवर्षरूपोऽवसि नैकधा जगत् ॥ ५४॥ त्वमिह देहभृतां शिखिरूपः पचसि भुक्तमशेषमजस्रम् । पवनपञ्चकरूपसहायो जगदखण्डमनेन बिभर्षि ॥ ५५॥ चन्द्रसूर्यशिखिमध्यगतं यत् तेज ईश चिदशेषतनूनाम् । प्राभवत्तनुभृतामिव धैर्यं शौर्यमायुरखिलं तव सत्त्वम् ॥ ५६॥ त्वं विरिञ्चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात् । वादिनां पृथगिवेश विभासि ब्रह्म निश्चितमनन्यदिहैकम् ॥ ५७॥ मत्स्यादिरूपेण यथा त्वमेकः श्रुतौ पुराणेषु च लोकसिद्धः । तथैव सर्वं सदसद्विभाग- स्त्वमेव नान्यद्भवतो विभाति ॥ ५८॥ यद्यत्समुत्पन्नमनन्तसृष्टा- वुत्पत्स्यते यच्च भवच्च यच्च । न दृश्यते स्थावरजङ्गमादौ त्वया विनातःपरतः परस्त्वम् ॥ ५९॥ तत्त्वं न जानन्ति परात्मनस्ते जनाः समस्तास्तव माययातः । त्वद्भक्तसेवाऽमलमानसानां विभाति तत्त्वं परमेकमैशम् ॥ ६०॥ ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्त्वं बहिरर्थभावाः । ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ६१॥ अहं भवन्नाम गृणन् कृतार्थो वसामि काश्यामनिशं भवान्या । मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव राम नाम ॥ ६२॥ इमं स्तवं नित्यमनन्यभक्त्या श‍ृण्वन्ति गायन्ति लिखन्ति ये वै । ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात् ॥ ६३॥ इन्द्र उवाच । रक्षोऽधिपेनाखिलदेव सौख्यं हृतं च मे ब्रह्मवरेण देव । पुनश्च सर्वं भवतः प्रसादात् प्राप्तं हतो राक्षसदुष्टशत्रुः ॥ ६४॥ देवा ऊचुः हृता यज्ञभागा धरादेवदत्ता मुरारे खलेनादिदैत्येन विष्णो । हतोऽद्य त्वया नो वितानेषु भागाः पुरावद्भविष्यन्ति युष्मत्प्रसादात् ॥ ६५॥ पितर ऊचुः हतोऽद्य त्वया दुष्टदैत्यो महात्मन् गयादौ नरैर्दत्तपिण्डादिकान्नः । बलादत्ति हत्वा गृहीत्वा समस्ता- निदानीं पुनर्लब्धसत्त्वा भवामः ॥ ६६॥ यक्षा ऊचुः सदा विष्टिकर्मण्यनेनाभियुक्ता वहामो दशास्यं बलाद्दुःखयुक्ताः । दुरात्मा हतो रावणो राघवेश त्वया ते वयं दुःखजाताद्विमुक्ताः ॥ ६७॥ गन्धर्वा ऊचुः वयं सङ्गीतनिपुणा गायन्तस्ते कथामृतम् । आनन्दामृतसन्दोहयुक्ताः पूर्णाः स्थिताः पुरा ॥ ६८॥ पश्चाद्दुरात्मना राम रावणेनाभिविद्रुताः । तमेव गायमानाश्च तदाराधनतत्पराः ॥ ६९॥ स्थितास्त्वया परित्राता हतोऽयं दुष्टराक्षसः । एवं महोरगाः सिद्धाः किन्नरा मरुतस्तथा ॥ ७०॥ वसवो मुनयो गावो गुह्यकाश्च पतत्त्रिणः । सप्रजापतयश्चैते तथा चाप्सरसां गणाः ॥ ७१॥ सर्वे रामं समासाद्य दृष्ट्वा नेत्रमहोत्सवम् । स्तुत्वा पृथक् पृथक् सर्वे राघवेणाभिवन्दिताः ॥ ७२॥ ययुः स्वं स्वं पदं सर्वे ब्रह्मरुद्रादयस्तथा । प्रशंसन्तो मुदा रामं गायन्तस्तस्य चेष्टितम् ॥ ७३॥ ध्यायन्तस्त्वभिषेकार्द्रं सीतालक्ष्मणसंयुतम् । सिंहासनस्थं राजेन्द्रं ययुः सर्वे हृदि स्थितम् ॥ ७४॥ खे वाद्येषु ध्वनत्सु प्रमुदितहृदयैर्देववृन्दैः स्तुवद्भिः वर्षद्भिःपुष्पवृष्टिं दिवि मुनिनिकरैरीड्यमानः समन्तात् । रामः श्यामः प्रसन्नस्मितरुचिरमुखः सूर्यकोटिप्रकाशः सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानो विभाति ॥ ७५॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चदशः सर्गः ॥ १५॥

॥षोडशः सर्गः ॥

श्रीमहादेव उवाच । रामेऽभिषिक्ते राजेन्द्रे सर्वलोकसुखावहे । वसुधा सस्यसम्पन्ना फलवन्तो महीरुहाः ॥ १॥ गन्धहीनानि पुष्पाणि गन्धवन्ति चकाशिरे । सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ २॥ ददौ शतवृषान् पूर्वं द्विजेभ्यो रघुनन्दनः । त्रिंशत्कोटिं सुवर्णस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ३॥ वस्त्राभरणरत्नानि ब्राह्मणेभ्यो मुदा तथा । सूर्यकान्तिसमप्रख्यां सर्वरत्नमयीं स्रजम् ॥ ४॥ सुग्रीवाय ददौ प्रीत्या राघवो भक्तवत्सलः । अङ्गदाय ददौ दिव्ये ह्यङ्गदे रघुनन्दनः ॥ ५॥ चन्द्रकोटिप्रतीकाशं मणिरत्नविभूषितम् । सीतायै प्रददौ हारं प्रीत्या रघुकुलोत्तमः ॥ ६॥ अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥ ७॥ रामस्तामाह वैदेहीमिङ्गितज्ञो विलोकयन् । वैदेहि यस्य तुष्टासि देहि तस्मै वरानने ॥ ८॥ हनूमते ददौ हारं पश्यतो राघवस्य च । तेन हारेण शुशुभे मारुतिर्गौरवेण च ॥ ९॥ रामोऽपि मारुतिं दृष्ट्वा कृताञ्जलिमुपस्थितम् । भक्त्या परमया तुष्ट इदं वचनमब्रवीत् ॥ १०॥ हनूमंस्ते प्रसन्नोऽस्मि वरं वरय काङ्क्षितम् । दास्यामि देवैरपि यद्दुर्लभं भुवनत्रये ॥ ११॥ हनूमानपि तं प्राह नत्वा रामं प्रहृष्टधीः । त्वन्नाम स्मरतो राम न तृप्यति मनो मम ॥ १२॥ अतस्त्वन्नाम सततं स्मरन् स्थास्यामि भूतले । यावत्स्थास्यति ते नाम लोके तावत्कलेवरम् ॥ १३॥ मम तिष्ठतु राजेन्द्र वरोऽयं मेऽभिकाङ्क्षितः । रामस्तथेति तं प्राह मुक्तस्तिष्ठ यथासुखम् ॥ १४॥ कल्पान्ते मम सायूज्यं प्राप्स्यसे नात्र संशयः । तमाह जानकी प्रीता यत्र कुत्रापि मारुते ॥ १५॥ स्थितं त्वामनुयास्यन्ति भोगाः सर्वे ममाज्ञया । इत्युक्तो मारुतिस्ताभ्यामीश्वराभ्यां प्रहृष्टधीः ॥ १६॥ आनन्दाश्रुपरीताक्षो भूयो भूयः प्रणम्य तौ । कृच्छ्राद्ययौ तपस्तप्तुं हिमवन्तं महामतिः ॥ १७॥ ततो गुहं समासाद्य रामः प्राञ्जलिमब्रवीत् । सखे गच्छ पुरं रम्यं श‍ृङ्गवेरमनुत्तमम् ॥ १८॥ मामेव चिन्तयन्नित्यं भुङ्क्ष्व भोगान्निजार्जितान् । अन्ते ममैव सारूप्यं प्राप्स्यसे त्वं न संशयः ॥ १९॥ इत्युक्त्वा प्रददौ तस्मै दिव्यान्याभरणानि च । राज्यं च विपुलं दत्त्वा विज्ञानं च ददौ विभुः ॥ २०॥ रामेणालिङ्गितो हृष्टो ययौ स्वभवनं गुहः । ये चान्ये वानराः श्रेष्ठा अयोध्यां समुपागताः ॥ २१॥ अमूल्याभरणैर्वस्त्रैः पूजयामास राघवः । सुग्रीवप्रमुखाः सर्वे वानराः सविभीषणाः ॥ २२॥ यथार्हं पूजितास्तेन रामेण परमात्मना । प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ २३॥ सुग्रीवप्रमुखाः सर्वे किष्किन्धां प्रययुर्मुदा । विभीषणस्तु सम्प्राप्य राज्यं निहतकण्टकम् ॥ २४॥ रामेणः पूजितः प्रीत्या ययौ लङ्कामनिन्दितः । राघवो राज्यमखिलं शशासाखिलवत्सलः ॥ २५॥ अनिच्छन्नपि रामेण यौवराज्येऽभिषेचितः । लक्ष्मणः परया भक्त्या रामसेवापरोऽभवत् ॥ २६॥ रामस्तु परमात्मापि कर्माध्यक्षोऽपि निर्मलः । कर्तृत्वादि विहीनोऽपि निर्विकारोऽपि सर्वदा ॥ २७॥ स्वानन्देनापि तुष्टः सन् लोकानामुपदेशकृत् । अश्वमेधादियज्ञैश्च सर्वैर्विपुलदक्षिणैः ॥ २८॥ अयजत्परमानन्दो मानुषं वपुराश्रितः । न पर्यदेवन् विधवा न च व्यालकृतं भयम् ॥ २९॥ न व्याधिजं भयं चासीद्रामे राज्यं प्रशासति । लोके दस्युभयं नासीदनर्थो नास्ति कश्चन ॥ ३०॥ वृद्धेषु सत्सु बालानां नासीन्मृत्युभयं तथा । रामपूजापराः सर्वे सर्वे राघवचिन्तकाः ॥ ३१॥ ववर्षुर्जलदास्तोयं यथाकालं यथारुचि । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ॥ ३२॥ औरसानिव रामोऽपि जुगोप पितृवत्प्रजाः । सर्वलक्षणसंयुक्तः सर्वधर्मपरायणः ॥ ३३॥ दशवर्षसहस्राणि रामो राज्यमुपास्त सः ॥ ३४॥ इदं रहस्यं धनधान्यऋद्धिम- द्दीर्घायुरारोग्यकरं सुपुण्यदम् । पवित्रमाध्यात्मिकसन्ज्ञितं पुरा रामायणं भाषितमादिशम्भुना ॥ ३५॥ श‍ृणोति भक्त्या मनुजः समाहितो भक्त्या पठेद्वा परितुष्टमानसः । सर्वाः समाप्नोति मनोगताशिषो विमुच्यते पातककोटिभिः क्षणात् ॥ ३६॥ रामाभिषेकं प्रयतः श‍ृणोति यो धनाभिलाषी लभते महद्धनम् । पुत्राभिलाषी सुतमार्यसम्मतं प्राप्नोति रामायणमादितः पठन् ॥ ३७॥ श‍ृणोति योऽध्यात्मिकरामसंहितां प्राप्नोति राजा भुवमृद्धसम्पदम् । शत्रून् विजित्यारिभिरप्रधर्षितो व्यपेतदुःखो विजयी भवेन्नृपः ॥ ३८॥ स्त्रियोऽपि श‍ृण्वन्त्यधिरामसंहितां भवन्ति ता जीविसुताश्च पूजिताः । वन्ध्यापि पुत्रं लभते सुरूपिणं कथामिमां भक्तियुता श‍ृणोति या ॥ ३९॥ श्रद्धान्वितो यः श‍ृणुयात्पठेन्नरो विजित्य कोपं च तथा विमत्सरः । दुर्गाणि सर्वाणि विजित्य निर्भयो भवेत्सुखी राघवभक्तिसंयुतः ॥ ४०॥ सुराः समस्ता अपि यान्ति तुष्टतां विघ्नाः समस्ता अपयान्ति श‍ृण्वताम् । अध्यात्मरामायणमादितो नृणां भवन्ति सर्वा अपि सम्पदः पराः ॥ ४१॥ रजस्वला वा यदि रामतत्परा श‍ृणोति रामायणमेतदादितः । पुत्रं प्रसूते ऋषभं चिरायुषं पतिव्रता लोकसुपूजिता भवेत् ॥ ४२॥ पूजयित्वा तु ये भक्त्या नमस्कुर्वन्ति नित्यशः । सर्वैः पापैर्विनिर्मुक्ता विष्णोर्यान्ति परं पदम् ॥ ४३॥ अध्यात्मरामचरितं कृत्स्नं श‍ृण्वन्ति भक्तितः । पठन्ति वा स्वयं वक्त्रात्तेषां रामः प्रसीदति ॥ ४४॥ राम एव परं ब्रह्म तस्मिंस्तुष्टेऽखिलात्मनि । धर्मार्थकाममोक्षाणां यद्यदिच्छति तद्भवेत् ॥ ४५॥ श्रोतव्यं नियमेनैतद्रामायणमखण्डितम् । आयुष्यमारोग्यकरं कल्पकोट्यघनाशनम् ॥ ४६॥ देवाश्च सर्वे तुष्यन्ति ग्रहाः सर्वे महर्षयः । रामायणस्य श्रवणे तृप्यन्ति पितरस्तथा ॥ ४७॥ अध्यात्मरामायणमेतदद्भुतं वैराग्यविज्ञानयुतं पुरातनम् । पठन्ति श‍ृण्वन्ति लिखन्ति ये नराः तेषां भवेऽस्मिन्न पुनर्भवो भवेत् ॥ ४८॥ आलोड्याखिलवेदराशिमसकृद्यत्तारकं ब्रह्म तद्- रामो विष्णुरहस्यमूर्तिरिति यो विज्ञाय भूतेश्वरः । उद्धृत्याखिलसारसङ्ग्रहमिदं सङ्क्षेपतः प्रस्फुटं श्रीरामस्य निगूढतत्त्वमखिलं प्राह प्रियायै भवः ॥ ४९॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षोडशः सर्गः ॥ १६॥ ॥ समाप्तमिदं युद्धकाण्डम् ॥
Encoded and proofread by Vishwas Bhide vishwas underscore bhide at yahoo.com Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com
% Text title            : adhyAtma rAmAyaNa yuddha kANDa
% File name             : adhyaatmaRamyuddha.itx
% itxtitle              : adhyAtmarAmAyaNe 6 yuddhakANDam
% engtitle              : adhyAtmarAmAyaNa yuddhakANDa
% Category              : adhyAtmarAmAyaNa, raama, vyAsa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Shri Veda Vyas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vishwas underscore bhide at yahoo.com
% Proofread by          : Vishwas Bhide, PSA EASWARAN
% Indexextra            : (Hindi)
% Latest update         : July 22, 2006, April 4, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org